06A---sArvadhAtukaprakaraNaM-kRutsu/06---tudAdigaNe-shatrantaprAtipadikanirmANam: Difference between revisions

no edit summary
m (Protected "06 - तुदादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
 
Line 51:
<big>१) अङ्गान्ते उपधायां च इकः गुणः निषिद्धः | तुदादौ तुद्‌ + श + ति → तुदति | तुद्‌ + श + शतृ → तुदत्‌ | '''क्क्ङिति च''' (१.१.५) |</big>
 
<big>२) अनिदित्‌-धातूनाम्‌ उपधायां न्‌-लोपः | येषां हलन्तधातूनाम्‌ इत्‌-संज्ञकः ह्रस्वः इकारः नास्ति, तेषां धातूनाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य लोपो भवति | तृम्फ्‌ + श + ति‌ → न्‌-लोपः | तृम्फ्‌ + श + शतृ → न्‌-लोपः | '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) | परन्तु तुदादितणे विशिष्ट-वार्तिकेन एषां पुनः नुमागमः आनीयते | '''शे तृम्फादीनां नुम्वाच्यः''' | तृम्फ्‌ + श + ति‌ → न्‌-लोपः → तृफ्‌ + अ + ति → नुम्‌-आगमः → तृम्फ्‌ + अ + ति‌ → तृम्फति |</big>
 
<big>३) सम्प्रसारणिनां धातूनाम्‌ सम्प्रसारणम्‌ | यण्‌-स्थाने इक्‌-आदेशः (यण्‌-सन्धौ यथा भवति, तस्य विपरीतक्रमः), किति ङिति प्रत्यये परे | व्रश्च्‌ + श + ति → वृश्चति | व्रश्च्‌ + श + शतृ → वृश्चत्‌ | '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (३.१.१३) |</big>
page_and_link_managers, Administrators
5,094

edits