06A---sArvadhAtukaprakaraNaM-kRutsu/07---shatrantAnAM-subantanirmANam: Difference between revisions

no edit summary
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती)
 
No edit summary
 
(10 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE: 07 - शत्रन्तानां सुबन्तनिर्माणम्‌}}
<please replace this with content from corresponding Google Sites page>
{| class="wikitable mw-collapsible mw-collapsed"
!<big>'''ध्वनिमुद्रणानि'''</big>
|-
|<big>'''2020 वर्गः'''</big>
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/188_shatrantAnAM_prAtipadikanirmANam_abhyAsaH%2BsubantanirmANam_2020-01-14.mp3 shatrantAnAM_prAtipadikanirmANam_abhyAsaH+subantanirmANam_2020-01-14]</big>
|-
|<big>२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/189_shatranatAnaM%20-numvyavasthA_sUtrANi_2020-01-22.mp3 shatranatAnaM -numvyavasthA_sUtrANi_2020-01-22]</big>
|-
|<big>३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/190_shatranatAnaM-%20numvyavasthA-pumlingE_%202020-01-29.mp3 shatranatAnaM- numvyavasthA-pumlingE_ 2020-01-29]</big>
|-
|<big>४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/191_shatranatAnaM-%20numvyavasthA--pumlingE%2Bpada%2BbHa%20sangnYA_%202020-02-04.mp3 shatranatAnaM- numvyavasthA--pumlingE+pada+bHa sangnYA_ 2020-02-04]</big>
|-
|<big>५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/192_shatrantAnaM-numvyavasthA--pumlingE-juhOtyAdigaNe%2BjakshityAdya%20ShaT_2020-02-12.mp3 shatrantAnaM-numvyavasthA--pumlingE-juhOtyAdigaNe+jakshityAdya ShaT_2020-02-12]</big>
|-
|<big>६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/193_%20shatrantAnaM-numvyavasthA--napumsakalingE_2020-02-18.mp3 shatrantAnaM-numvyavasthA--napumsakalingE_2020-02-18]</big>
|-
|७) <big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/194_shatrantAnaM-numvyavasthA--nampumsakalingE%2B%20shAnajantAnAM-prakriyAcintanam_2020-02-25.mp3 shatrantAnaM-numvyavasthA--nampumsakalingE-abhyasthasangnyakAH_2020-02-25]</big>
|-
|<big>'''2014 वर्गः'''</big>
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/29_shatrantAnAM_subantanirmANam_2014-12-17.mp3 shatrantAnAM_subantanirmANam_2014-12-17]</big>
|-
|<big>२) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/30_shatrantAnAM_num-vyavasthA_2014-12-24.mp3 shatrantAnAM_num-vyavasthA_2014-12-24]</big>
|}
 
 
 
<big>एतावता शत्रन्तप्रातिपदिकं कथं निष्पद्यते इत्यस्माभिः परिशीलितम्‌ | अस्य विषयस्य प्रथमपाठे दृष्टं यत्‌ पुंसि नपुंसके च शत्रन्तप्रातिपदिकं समानम्‌ | यथा वदत्‌ इति प्रातिपदिकं पुंसि नपुंसकेऽपि | अग्रिमेषु पाठेषु अवलोकितं यत्‌ शतृ-प्रत्ययस्य कर्त्रर्थकत्वे सार्वधातुकत्वे च सति विकरणप्रत्ययाः विहिताः; अनेन कारणेन धातुगणम्‌ अनुसृत्य शत्रन्तप्रातिपदिकानि भिध्यन्ते | तत्र गभीरत्वेन परिशीलितं भ्वादिगणे, दिवादिगणे, तुदादिगणे च | अपरेषां गणानां रूपाणि यथा लट्‌-लकारस्य प्रथमपुरुषबहुवचनान्तरूपम्‌, तथैव भवन्ति | यतोहि 'अन्ति' (झि) अजादिः अपित्‌ सार्वधातुकप्रत्ययः, 'अत्‌' (शतृ) अपि तथा | अतः कस्मिन्‌ अपि गणे 'अन्ति' इति भागं निष्कास्य 'अत्‌' इति भागं संयोजयामश्चेत्‌, पुंसि नपुंसके च शत्रन्तप्रातिपदिकं सिद्धम्‌ |</big>
 
<big>वृत्तान्ते—</big>
 
 
<big>भ्वादौ          वदन्ति → वद्‌ → वदत्‌</big>
 
<big>दिवादौ         नृत्यन्ति → नृत्य्‌ → नृत्यत्‌</big>
 
<big>तुदादौ         लिखन्ति → लिख्‌ → लिखत्‌</big>
 
<big>चुरादौ         चोरय‌न्ति → चोरय्‌ → चोरयत्‌</big>
 
<big>अदादौ        सन्ति → स्‌ → सत्‌</big>
 
<big>जुहोत्यादौ     ददति → दद्‌ → ददत्‌</big>
 
<big>स्वादौ         चिन्वन्ति → चिन्व्‌ → चिन्वत्‌</big>
 
<big>रुधादौ         रुन्धन्ति → रुन्ध्‌ → रुन्धत्‌</big>
 
<big>तनादौ         तन्वन्ति → तन्व्‌ → तन्वत्‌</big>
 
<big>क्र्यादौ         क्रीणन्ति → क्रीण्‌ → क्रीणत्‌</big>
 
 
<big>शास्त्रीयप्रक्रिया भ्वादौ, दिवादौ, तुदादौ च साक्षात्‌ प्रदर्शितम्‌; अपरेषां गणानां शास्त्रीयप्रक्रिया यथा लट्‌-लकारस्य प्रथमपुरुषबहुवचनान्तरूपं निष्पद्यते तथैव अस्ति | तत्‌ सर्वं विस्तरेण प्रदर्शितं सार्वधातुकप्रकरणम्‌ (अनदन्तम्‌ अङ्गम्‌) इति पाठे | समयस्य अभावे पुनः अत्र नोपस्थापितम्‌ |</big>
 
 
<big>अस्माकं शत्रन्तरूपाणां प्रथमपाठे इदमपि दृष्टं यत्‌ पुंसि नपुंसके च यत्‌ प्रातिपदिकं निष्पन्नम्‌, तस्य प्रातिपदिकस्य आधारेण अग्रे स्त्रीत्वविवक्षायां ङीप्‌-प्रत्ययः संयुज्यते प्रातिपदिक-स्तरे एव | येषु गणेषु अङ्गम्‌ अदन्तम्‌, तेषु स्त्रीलिङ्गस्य प्रातिपदिके नुम्‌-आगमः भवति | भ्वादौ, दिवादौ, चुरादौ च नुम्‌-आगमः नित्यः; तुदादौ, अदादौ (चतुर्दशानां आकारान्तधातूनां कृते) च नुम्‌-आगमः वैकल्पिकः; अवशिष्टेषु षट्सु गणेषु अङ्गम्‌ अनदन्तम्‌ इति कारणेन नुम्‌-आगमः न भवति |</big>
 
 
<big><u>नुम्‌-आगमः नित्यः</u></big>
 
<big>भ्वादौ भू-धातुः— भवन्ती, भवन्त्यौ, भवन्त्यः</big>
 
<big>दिवादौ दिव्‌-धातुः— दीव्यन्ती, दीव्यन्त्यौ, दीव्यन्त्यः</big>
 
<big>चुरादिगणे चोरि-धातुः— चोरयन्ती, चोरयन्त्यौ, चोरयन्त्यः</big>
 
 
<big><u>नुम्‌-आगमः वैकल्पिकः</u></big>
 
<big>तुदादौ तुद्‌-धातुः— तुदती, तुदत्यौ, तुदत्यः</big>
 
<big>तुदन्ती, तुदन्त्यौ, तुदन्त्यः</big>
 
<big>अदादौ या‍-धातुः— याती, यात्यौ, यात्यः</big>
 
<big>यान्ती, यान्त्यौ, यान्त्यः</big>
 
 
<big><u>नुम्‌-आगमः न भवति</u></big>
 
<big>अदादौ अस्‌-धातुः— सती, सत्यौ, सत्यः</big>
 
<big>जुहोत्यादौ दा-धातुः— ददती, ददत्यौ, ददत्यः</big>
 
<big>स्वादौ चि-धातुः— चिन्वती, चिन्वत्यौ, चिन्वत्यः</big>
 
<big>तनादौ तन्‌-धातुः— तन्वती, तन्वत्यौ, तन्वत्यः</big>
 
<big>क्र्यादौ क्री-धातुः— क्रीणती, क्रीणत्यौ, क्रीणत्यः</big>
 
<big>रुधादौ रुध्‌-धातुः— रुन्धती, रुन्धत्यौ, रुन्धत्यः</big>
 
 
<big><u>शत्रन्तानां नुम्‌-आगम-व्यवस्था</u></big>
 
 
<big>शत्रन्तानां कृते षट्‌ नुम्‌-विधायक-सूत्राणि—</big>
 
 
<big>'''उगिदचां सर्वनामस्थानेऽधातोः''' (७.१.७०) = सर्वनामस्थानसंज्ञक-प्रत्यये परे धातुभिन्न-उगितः नुमागमो भवति | अनुवृत्ति-सहितसूत्रम्‌— '''सर्वनामस्थाने अधातोः उगिदचां अङ्गानां नुम्‌''' |</big>
 
 
 
<big>'''नपुंसकस्य झलचः''' (७.१.७२) = नपुंसकलिङ्गे, सर्वनामस्थाने परे झलन्ताङ्गस्य अजन्ताङ्गस्य च नुम्‌-आगमो भवति | अनुवृत्ति-सहितं सूत्रम्‌— '''नपुंसकस्य झलचः अङ्गस्य नुम्‌ सर्वनामस्थाने''' |</big>
 
 
<big>'''नाभ्यस्ताच्छतुः''' (७.१.७८) = अभ्यस्तसंज्ञकात्‌ शतृ-प्रत्ययस्य नुम्‌-आगमो न भवति | अनुवृत्ति-सहितसूत्रम्‌— '''न अभ्यस्तात्‌ अङ्गात्‌ शतुः नुम्‌''' |</big>
 
 
<big>'''वा नपुंसकस्य''' (७.१.७९) = नपुंसकलिङ्गे सर्वनामस्थानसंज्ञकप्रत्यये परे, अभ्यस्तसंज्ञकात् शत्रन्तस्य विकल्पेन नुम्‌-आगमो भवति | अनुवृत्ति-सहितसूत्रम्‌— '''अभ्यस्तात्‌ शतुः नपुंसकस्य अङ्गस्य वा नुम्‌ सर्वनामस्थाने''' |</big>
 
 
<big>'''आच्छीनद्योर्नुम्‌''' (७.१.८०) = शी-प्रत्ययः वा नदी-प्रत्ययः परे अस्ति चेत्‌, अवर्णात्‌ अङ्गात्‌ शत्रन्ताङ्गस्य विकल्पेन नुम्‌ आगमः भवति | अनुवृत्ति-सहितसूत्रम्‌— '''आत्‌ अङ्गात्‌ शतुः वा नुम्‌ शीनद्योः''' |</big>
 
 
<big>'''शप्‌श्यनोर्नित्यम्‌''' (७.१.८१) = शी-प्रत्ययः वा नदी-प्रत्ययः परे अस्ति चेत्‌, शप्श्यन्‌-प्रत्यययोः अवर्णात्‌ अङ्गात्‌ शत्रन्ताङ्गस्य नित्यं नुम्‌ आगमः भवति | अनुवृत्ति-सहितं सूत्रम्‌— '''शप्श्यनोः आत्‌ शतुः अङ्गस्य नित्यं नुम्‌ शीनद्योः''' |</big>
 
 
<big><u>पुंलिङ्गे</u></big>
 
<big>'''उगिदचां सर्वनामस्थानेऽधातोः''' (७.१.७०) = नवसु गणेषु नुम्‌ भवति</big>
 
<big>'''नाभ्यस्ताच्छतुः''' (७.१.७८) = जुहोत्यादौ न भवति</big>
 
 
<big>'''सुडनपुंसकस्य''' (१.१.४३) = सुट्‌-प्रत्याहारे सु-आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थान-संज्ञा भवति परन्तु नपुंसकलिङ्गे न |</big>
 
 
<big><u>नपुंसकलिङ्गे</u></big>
 
<big>'''शप्‌श्यनोर्नित्यम्‌''' (७.१.८१) = द्विवचने भ्वादौ, दिवादौ, चुरादौ नुम्‌ नित्यम्‌</big>
 
<big>'''आच्छीनद्योर्नुम्‌''' (७.१.८०) = तुदादिगणे द्विवचने नुम्‌ वैकल्पिकम्‌</big>
 
<big>'''नपुंसकस्य झलचः''' (७.१.७२) = बहुवचने नवसु गणेषु नुम्‌ नित्यम्‌</big>
 
 
<big>'''वा नपुंसकस्य''' (७.१.७९) = जुहोत्यादिगणे बहुवचने नुम्‌ वैकल्पिकम्‌</big>
 
<big>'''नपुंसकाच्च''' (७.१.१९) = नपुंसकात्‌ अङ्गात्‌ औ-प्रत्ययस्य स्थाने शी-आदेशो भवति |</big>
 
<big>'''जश्शसोः शिः''' (७.१.२०) = नपुंसकात्‌ अङ्गात्‌ जस्‌, शस्‌ इत्यनयोः स्थाने शि-आदेशो भवति |</big>
 
<big>'''शि सर्वनामस्थानम्‌''' (१.१.४२) = शि इति आदेशस्य सर्वनामस्थानसंज्ञा भवति |</big>
 
 
<big><u>स्त्रीलिङ्गे</u></big>
 
<big>'''शप्‌श्यनोर्नित्यम्‌''' (७.१.८१) = भ्वादौ, दिवादौ, चुरादौ च नुम्‌ नित्यम्‌</big>
 
<big>'''आच्छीनद्योर्नुम्‌''' (७.१.८०) = तुदादौ नुम्‌ वैकल्पिकम्‌</big>
 
<big>अपरेषु गणेषु स्त्रियाम्‌ अवर्णाभावात्‌ नुम्‌ नैव भवति |</big>
 
 
<big><u>पुंलिङ्गे शत्रन्तानां सुबन्तनिर्माणम्‌</u></big>
 
 
<big>सुबन्तानां शब्दानां निष्पादनार्थं सर्वत्र सु, औ, जस्‌ इत्यादीनां सुप्‌-प्रत्ययानां संयोजनम्‌ | अत्र शत्रन्तप्रसङ्गे यथा तकारान्तशब्दानां प्रक्रिया भवति, तत्र साम्यम्‌ अस्ति; किन्तु कश्चन अतिमहत्त्वपूर्ण-भेदः | शत्रन्तप्रसङ्गे विभक्तिक्रमे प्रथमपञ्चसु रूपेषु— द्वितीयविभक्तेः द्विवचनान्तरूपपर्यन्तम्— नवसु गणेषु नुमागमो भवति | अनेन कारणेन शत्रन्तप्रातिपदिकं "तकारान्तशब्दः" इति तु न वदामः; शन्त्रन्तशब्दः इत्येव वदामः | पाणिनेः यथा कार्याणि भवन्ति, तदनुसृत्य नामकरणं भवति; उदा० यदा '''नाभ्यस्ताच्छतुः''' [न अभ्यस्तात्‌ शतुः] इव विशिष्ट-सूत्राणि सन्ति, तदा ज्ञेयं यत्‌ शन्त्रन्तानां पृथक्तया श्रेणी भवेत्‌ | शास्त्रीयकार्यानुसारं श्रेण्यः भवन्ति; कार्यं पृथक्‌ चेत्‌, श्रेणी पृथक्‌ इति बोध्यम्‌ |</big>
 
 
<big><u>सर्वनामस्थान-संज्ञा</u></big>
 
 
<big>'''सुडनपुंसकस्य''' (१.१.४३) = सुट्‌-प्रत्याहारे सु-आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थान-संज्ञा भवति परन्तु नपुंसकलिङ्गे न | सुट्‌-प्रत्याहारे सु, औ, जस्‌, अम्‌, औट्‌ इतीमे प्रत्ययाः अन्तर्भूताः | न नपुंसकम्‌, अनपुंसकम्‌ नञ्तत्पुरुषः, तस्य अनपुंसकस्य | सुट्‌ प्रथमान्तम्‌, अनपुंसकस्य षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | '''शि सर्वनामस्थानम्‌''' (१.१.४२) इत्यस्मात्‌ '''सर्वनामस्थानम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''सुट्''' '''सर्वनामस्थानम्‌ अनपुंसकस्य''' |</big>
 
 
<big>'''उगिदचां सर्वनामस्थानेऽधातोः''' (७.१.७०) = सर्वनामस्थानसंज्ञक-प्रत्यये परे धातुभिन्न-उगितः नुमागमो भवति | यस्मात्‌ अञ्चु-धातोः नकारलोपः जातः तस्य अच्‌-धातोः अपि नुमागमो भवति | उक्‌ इत्‌ येषां ते उगितः, बहुव्रीहिः | उगितश्च अच्‌ च, तेषामितरेतरद्वन्द्वः उगिदचः, तेषां उगिदचाम्‌ | न धातुः अधातुः नञ्ततपुरुषः, तस्य अधातोः | उगिदचां षष्ठ्यन्तम्‌, सर्वनामस्थाने सप्तम्यन्तम्‌, अधातोः षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''इदितो नुम्‌ धातोः''' (७.१.५८) इत्यस्मात्‌ '''नुम्‌''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''सर्वनामस्थाने अधातोः उगिदचां अङ्गानां नुम्‌''' |</big>
 
 
<big>अनेन नवसु गणेषु सर्वनामस्थानसंज्ञकेषु प्रत्ययेषु परेषु पुंलिङ्गे नुमागमः भवति—</big>
 
<big>भ्वादौ—   भवन्‌    भवन्तौ    भवन्तः   भवन्तम्‌    भवन्तौ</big>
 
<big>दिवादौ—  दीव्यन्‌  दीव्यन्तौ  दीव्यन्तः  दीव्यन्तम्‌  दीव्यन्तौ</big>
 
<big>तुदादौ—   तुदन्‌    तुदन्तौ    तुदन्तः   तुदन्तम्‌    तुदन्तौ</big>
 
<big>चुरादौ—  चोरयन्‌  चोरयन्तौ  चोरयन्तः चोरयन्तम्‌  चोरयन्तौ</big>
 
<big>अदादौ—  सन्‌      सन्तौ     सन्तः     सन्तम्‌     सन्तौ</big>
 
<big>स्वादौ—  चिन्वन्‌  चिन्वन्तौ  चिन्वन्तः  चिन्वन्तम्‌  चिन्वन्तौ</big>
 
<big>रुधादौ—  रुन्धन्‌   रुन्धन्तौ  रुन्धन्तः   रुन्धन्तम्‌   रुन्धन्तौ</big>
 
<big>तनादौ—  कुर्वन्‌     कुर्वन्तौ   कुर्वन्तः    कुर्वन्तम्‌    कुर्वन्तौ</big>
 
<big>क्रियादौ— क्रीणन्‌   क्रीणन्तौ  क्रीणन्तः  क्रीणन्तम्‌   क्रीणन्तौ</big>
 
 
<big><u>उदाहरणम्— गम्‌-धातोः सप्तसु विभक्तिषु, त्रिषु वचनेषु शत्रन्तस्य सुबन्तनिर्माणम्‌</u></big>
 
 
<big>यदा प्रातिपदिकं सिद्धम्‌, तदा कार्यं सर्वेषां गणानां कृते समानम्‌ | नवसु गणेषु नुमागमः सर्वनामस्थानसंज्ञकेषु प्रत्ययेषु; जुहोत्यादिगणे नुमागमः न भवति अभ्यस्तसंज्ञकत्वात्‌ | अनन्तरं सुप्‌-प्रत्ययस्य संयोजनम्‌ | अयं सुप्‌-प्रत्ययः अजादिः चेत्, केवलं वर्णमेलनम्‌ | शत्रन्तप्रातिपदिकं हलन्तं (तकारान्तम्‌) अतः सुप्‌-प्रत्ययः हलादिः चेत्‌ हल्‌-सन्धिः करणीयः यथाप्रसक्ति |</big>
 
 
<big>'''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) =</big>
 
'''<big>स्वौ-जसमौट्-छष्टाभ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसि-भ्याम्-भ्यस्-ङसोसाम्-ङ्योस्-सुप्‌</big>'''
 
 
<big>सु         औ       जस्‌</big>
 
<big>अम्‌      औट्‌      शस्‌</big>
 
<big>टा       भ्याम्‌      भिस्‌</big>
 
<big>ङे       भ्याम्‌      भ्यस्‌</big>
 
<big>ङसि    भ्याम्‌      भ्यस्‌</big>
 
<big>ङस्‌     ओस्‌       आम्‌</big>
 
<big>ङि      ओस्‌       सुप्‌</big>
 
 
<big>गच्छत्‌ + सु → '''उपदेशेऽजुनासिक इत्‌''', '''तस्य लोपः''' इत्याभ्याम्‌ उ-लोपः → गच्छत्‌ + स्‌ → '''उगिदचां सर्वनामस्थानेऽधातोः''' इत्यनेन नुम्‌ आगमः, '''मिदचोऽन्त्यात्परः''' इत्यनेन नुम्‌ अन्त्यात्‌ स्वरात्‌ परे → गच्छन्‌त्‌ + स्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' इत्यनेन अपृक्तसंज्ञक-स्‌-लोपः → गच्छन्‌त्‌ → '''संयोगान्तस्य लोपः''' इत्यनेन संयोगान्त-पदस्य अन्तिमवर्णस्य लोपः → गच्छन्‌</big>
 
 
<big>'''अपृक्त एकाल्‌ प्रत्ययः''' (१.२.४१) = यस्य प्रत्यस्य एकैव अल्‌, तस्य अपृक्त-संज्ञा भवति | एकश्चासौ अल्‌ एकाल्‌ कर्मधारयः | अपृक्तः प्रथमान्तम्‌, एकाल्‌ प्रथमान्तंम्‌, प्रत्ययः प्रथमान्तम्‌, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''एकाल्‌ प्रत्ययः''' '''अपृक्तः''' |</big>
 
 
<big>'''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) = हलन्तात्‌, दीर्घङ्यन्तात्‌, दीर्घाबन्तात्‌ च सु-ति-सि इत्येषाम्‌ अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्‌-लोपः, लङि प्रथमपुरुषे त्‌-लोपः, मध्यमपुरुषे स्‌-लोपश्च | हल्‌ च ङी च आप्‌ च तेषाम्‌ इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम्‌ | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात्‌ पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल्‌ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''लोपो व्योर्वलि''' (६.१.६५) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे '''लुप्यते''' इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दीर्घात्‌ हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल्‌ लुप्यते''' |</big>
 
 
<big>'''संयोगान्तस्य लोपः''' (८.२.२३) = यस्य पदस्य अन्ते संयोगोऽस्ति, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति | संयोगः अन्ते अस्ति यस्य तत्‌ संयोगान्तं, बहुव्रीहिः, तस्य संयोगान्तस्य | संयोगान्तस्य षष्ठ्यन्तम्‌, लोपः प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | '''पदस्य''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''संयोगान्तस्य पदस्य लोपः''' |</big>
 
 
<big>गच्छत्‌ + औ → '''उगिदचां सर्वनामस्थानेऽधातोः''' इत्यनेन नुम्‌ आगमः, '''मिदचोऽन्त्यात्परः''' इत्यनेन नुम्‌ अन्त्यात्‌ स्वरात्‌ परे → गच्छन्‌त्‌ + औ → वर्णमेलने → गच्छन्तौ</big>
 
 
<big>गच्छत्‌ + जस्‌ → '''चुटू''', '''तस्य लोपः''' इत्याभ्यां ज्‌-लोपः → गच्छत्‌ + अस्‌ → '''उगिदचां सर्वनामस्थानेऽधातोः''' इत्यनेन नुम्‌ आगमः, '''मिदचोऽन्त्यात्परः''' इत्यनेन नुम्‌ अन्त्यात्‌ स्वरात्‌ परे → गच्छन्‌त्‌ + अस्‌ → वर्णमेलने → गच्छन्‌तस्‌ → '''ससजुषो रुः''' इत्यनेन रुत्वम्‌ → गच्छन्‌तरु → '''उपदेशेऽजुनासिक इत्''' → गच्छन्‌तर्‍ → '''विरामोऽवसानम्‌''', '''खरवसानयोर्विसर्जनीयः''' इत्याभ्यम्‌, अवसानावस्थायां रेफ-स्थाने विसर्गादेशः → गच्छन्तः</big>
 
 
<big>'''ससजुषो रुः''' (८.२.६६) = पदान्ते सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तम्‌, रुः प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ससजुषोः पदस्य रुः''' | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः |</big>
 
 
<big>'''विरामोऽवसानम्‌''' (१.४.११०) = वर्णानाम्‌ अभावः अवसानसंज्ञकः | विरामः प्रथमान्तम्‌, अवसानं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— '''विरामः अवसानम्‌''' |</big>
 
 
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अथवा अवसानावस्थायाम्‌ | खर्‍ च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात् '''रोः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रम्‌— '''खरवासनयोः पदस्य रः विसर्जनीयः संहितायाम्‌''' इति |</big>
 
 
<big>गच्छत्‌ + अम्‌ → '''हलन्त्यम्‌''' इत्यनेन म्‌-लोपस्य प्रसक्तिः, तदा '''न विभक्तौ तुस्माः''' (१.३.४) इत्यनेन लोपो बाधितः → गच्छत्‌ + अम्‌ → '''उगिदचां सर्वनामस्थानेऽधातोः''' इत्यनेन नुम्‌ आगमः, '''मिदचोऽन्त्यात्परः''' इत्यनेन नुम्‌ अन्त्यात्‌ स्वरात्‌ परे → गच्छन्‌त्‌ + अम्‌ → वर्णमेलने → गच्छन्तम्‌</big>
 
 
<big>गच्छत्‌ + औट्‌ → '''हलन्त्यम्‌''', '''तस्य लोपः''' इत्याभ्याम्‌ ट्‌-लोपः → गच्छत्‌ + औ → '''उगिदचां सर्वनामस्थानेऽधातोः''' इत्यनेन नुम्‌ आगमः, '''मिदचोऽन्त्यात्परः''' इत्यनेन नुम्‌ अन्त्यात्‌ स्वरात्‌ परे → गच्छन्‌त्‌ + औ → वर्णमेलने → गच्छन्तौ</big>
 
 
<big>इतः अग्रे नुमागमो न भवति, अतः केवलं सन्धिकार्यं यथासङ्गम्‌ |</big>
 
 
<big>गच्छत्‌ + शस्‌ → '''लशक्वतद्धिते''', '''तस्य लोपः''' इत्याभ्याम्‌ अनुबन्धलोपः → गच्छत्‌ + अस्‌ → वर्णमेलने → गच्छतस्‌ → '''ससजुषो रुः''' इत्यनेन रुत्वम्‌ → गच्छतरु → '''उपदेशेऽजुनासिक इत्''' → गच्छतर्‍ → '''विरामोऽवसानम्‌''', '''खरवसानयोर्विसर्जनीयः''' इत्यनेन रेफ-स्थाने विसर्गादेशः → गच्छतः</big>
 
 
<big>गच्छत्‌ + टा → '''चुटू''', '''तस्य लोपः''' इत्याभ्याम्‌ ट्‌-लोपः → गच्छत्‌ + आ → वर्णमेलने → गच्छता</big>
 
 
<big>गच्छत्‌ + भ्याम्‌ → '''स्वादिष्वसर्वनामस्थाने''' इत्यनेन गच्छत्‌ इत्यस्य पदसंज्ञा → '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन संहितायां तकारस्य जश्त्वम्‌ → गच्छद्भ्याम्‌</big>
 
 
<big>'''स्वादिष्वसर्वनामस्थाने''' (१.४.१७) = सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तम्‌, एषु कश्चन परे अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य पद-संज्ञा भवति | '''यचि भम्‌''' (१.४.१८) इत्यनेन यस्मात्‌ प्रकृतिरूपात्‌ अजादि-प्रत्ययो वा यकारादि-प्रत्ययो वा विहितः सः भसंज्ञकः, अतः फलितार्थे यस्मात्‌ यादि-भिन्न-हलादि-प्रत्ययः विहितः सः पद-संज्ञकः | इयं पदसंज्ञा केवलं व्याकरणक्षेत्रे न तु लोके | '''स्वौजसमौट्''' (४.१.२) इत्यस्मात्‌ आरभ्य '''उरः प्रभृतिभ्यः कप्‌''' (५.४.१५१) पर्यन्तम्‌ इमे सर्वे प्रत्ययाः 'स्वादयः' इत्युच्यन्ते | न सर्वनामस्थानम्‌, असर्वनामस्थानम्, नञ्तत्पुरुषः, तस्मिन्‌ असर्वनामस्थाने | स्वादिषु सप्तम्यन्तम्‌, असर्वनामस्थाने सप्तम्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इत्यस्मात्‌ '''पदम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''स्वादिषु असर्वनामस्थाने''' '''पदम्‌''' |</big>
 
 
<big>'''यचि भम्‌''' (१.४.१८) = सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तम्‌ ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परे अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति | य्‌ च, अच्‌ च यच्‌ समाहारद्वन्द्वः, तस्मिन्‌ यचि | यचि सप्तम्यन्तं, भम्‌ प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | '''स्वादिष्वसर्वनामस्थाने''' (१.४.१७) इत्यस्य पूर्णतया अनुवृतिः | अनुवृत्ति-सहितसूत्रम्‌— '''स्वादिषु असर्वनामस्थाने यचि भम्‌''' |</big>
 
 
<big>'''आ कडारादेका संज्ञा''' (१.४.१) = अस्मात सूत्रात्‌ आरभ्य '''कडारा कर्मधारये''' (२.२.३८) पर्यन्तम्‌ एकस्य रूपस्य एका एव संज्ञा अर्हा | तत्र सर्वत्र परस्य संज्ञासूत्रस्य बलम्‌, '''विप्रतिषेधे परं कार्यम्‌''' (१.४.२) इत्यनेन अथवा अपवादभूतत्वात्‌ |</big>
 
 
<big>गच्छत्‌ + भिस्‌ → '''स्वादिष्वसर्वनामस्थाने''' इत्यनेन गच्छत्‌ इत्यस्य पदसंज्ञा → '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन संहितायां तकारस्य जश्त्वम्‌ → गच्छद्भिस्‌ → रुत्वविसर्गौ → गच्छद्भिः</big>
 
 
<big>गच्छत्‌ + ङे → '''लशक्वतद्धिते''', '''तस्य लोपः''' इत्याभ्याम्‌ अनुबन्धलोपः → गच्छत्‌ + ए → वर्णमेलने → गच्छते</big>
 
 
<big>गच्छत्‌ + भ्यस्‌ → '''स्वादिष्वसर्वनामस्थाने''' इत्यनेन गच्छत्‌ इत्यस्य पदसंज्ञा → '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन संहितायां तकारस्य जश्त्वम्‌ → गच्छद्भ्यस्‌ → रुत्वविसर्गौ → गच्छद्भ्यः</big>
 
 
<big>गच्छत्‌ + ङसि → '''लशक्वतद्धिते''', '''उपदेशेऽजुनासिक इत्‌''', '''तस्य लोपः''' इत्येभिः अनुबन्धलोपः → गच्छत्‌ + अस्‌ → वर्णमेलने → गच्छतस्‌ → रुत्वविसर्गौ → गच्छतः</big>
 
 
<big>गच्छत्‌ + ङस्‌ → '''लशक्वतद्धिते''', '''तस्य लोपः''' इत्याभ्याम्‌ अनुबन्धलोपः → गच्छत्‌ + अस्‌ → वर्णमेलने → गच्छतस्‌ → रुत्वविसर्गौ → गच्छतः</big>
 
 
<big>गच्छत्‌ + ओस्‌ → वर्णमेलने → गच्छतोस्‌ → रुत्वविसर्गौ → गच्छतोः</big>
 
 
<big>गच्छत्‌ + आम्‌ → '''हलन्त्यम्‌''' इत्यनेन म्‌-लोपस्य प्रसक्तिः, तदा '''न विभक्तौ तुस्माः''' (१.३.४) इत्यनेन लोपो बाधितः → वर्णमेलने → गच्छताम्‌</big>
 
 
<big>गच्छत्‌ + ङि → '''हलन्त्यम्‌''', '''तस्य लोपः''' इत्याभ्याम्‌ ङ्‌-लोपः → गच्छत्‌ + इ → वर्णमेलने → गच्छति</big>
 
 
<big>गच्छत्‌ + सुप्‌ → '''हलन्त्यम्‌''', '''तस्य लोपः''' इत्याभ्याम्‌ प्‌-लोपः → गच्छत्‌ + सु → '''खरि च''' (८.४.५५) इत्यनेन चर्त्वम्‌, यथावत्‌ तिष्ठति → वर्णमेलने → गच्छत्सु</big>
 
 
<big><u>अभ्यस्तसंज्ञक-सुबन्तरूपाणि— जुहोत्यादौ अदादौ च</u></big>
 
<big><u>जुहोत्यादिगणः</u></big>
 
 
<big>शतृ-प्रसङ्गे पुंलिङ्गे, जुहोत्यादिगणे नुमागमो न भवति |</big>
 
 
<big>'''नाभ्यस्ताच्छतुः''' (७.१.७८) = अभ्यस्तसंज्ञकात्‌ शतृ-प्रत्ययस्य नुम्‌-आगमो न भवति | '''उगिदचां सर्वनामस्थानेऽधातोः''' (७.१.७०) इत्यस्य निषेधकं सूत्रम्‌ | न अव्ययपदम्‌, अभ्यस्तात्‌ पञ्चम्यन्तम्‌, शतुः षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''इदितो नुम्‌ धातोः''' (७.१.५८) इत्यस्मात्‌ नुम्‌ इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''न अभ्यस्तात्‌ अङात्‌ शतुः नुम्‌''' |</big>
 
 
<big>'''उभे अभ्यस्तम्''' (६.१.५) = द्वित्वस्यानन्तरम्‌, द्वयोः भागयोः समुदायः अभ्यस्तसंज्ञकः भवति | उभे प्रथमान्तम्‌, अभ्यस्तं प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | '''एकाचो द्वे प्रथमस्य''' इत्यस्मात्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''उभे द्वे अभ्यस्तम्''' |</big>
 
 
<big>ददत्‌/ददद्‌*   ददतौ   ददतः  ददतम्‌   ददतौ  ददतः</big>
 
<big>जुह्वत्‌/जुह्वद्‌*  जुह्वतौ  जुह्वतः  जुह्वतम्‌  जुह्वतौ  जुह्वतः</big>
 
 
<big>'''*झलां जशोऽन्ते''' (८.२.३९) इत्यनेन पदान्ते तकारस्य जश्त्वम्‌ |</big>
 
 
<big>*'''वाऽवसाने''' (८.४.५६, लघु० १४६) = अवसाने झलः विकल्पेन चर्‍-आदेशो भवति | अनेन अवसानावस्थायां विकल्पेन जश्त्वं चर्त्वं वा | वा अव्ययपदम्‌, अवसाने सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां''' इत्यस्य अनुवृत्तिः | '''अभ्यासे चर्च''' (८.४.५४) इत्यस्मात्‌ '''चर्‍''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात् '''संहितायाम्‌''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अवसाने झलां चरो वा संहितायाम्‌''' |</big>
 
 
<big><u>अदादिगणस्य सप्त धातवः</u></big>
 
 
<big>अदादौ सप्त अभ्यस्तसंज्ञकधातवः सन्ति, अतः तेषामपि नुमागमः निषिद्धः '''नाभ्यस्ताच्छतुः''' (७.१.७८) इति सूत्रेण |</big>
 
 
<big>'''जक्षित्यादयः षट्‌''' (६.१.६) = जागृ-आदयः षट्‌ धातवः, सप्तमश्च जक्ष्‌ इत्येषाम्‌ अभ्यस्त-संज्ञा भवति | अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन्‌ सप्त धातवः सन्ति— जक्ष्‌, जागृ, दरिद्रा, चकास्‌, शास्‌, दीधीङ्‌, वेवीङ्‌ | अनेन सूत्रेण एषां धातूनाम्‌ अभ्यस्तसंज्ञा भवति | षड्‌धातवोऽन्ये जक्षितिश्च सप्तम एते अभ्यस्तसंज्ञाः स्युः | इति आदिः येषां ते इत्यादयः | इतिशब्देन जक्ष्‌-परामर्शः | जक्ष्‌ प्रथमान्तम्‌, इत्यादयः प्रथमान्तम्‌, षट्‌ प्रथमान्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''उभे अभ्यस्तम्'''‌ (६.१.५) इत्यस्मात्‌ '''अभ्यस्तम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''जक्षित्यादयः षट्‌ अभ्यस्तम्'''‌ |</big>
 
 
<big>जाग्रत्‌/जाग्रद्‌     जाग्रतौ     जाग्रतः     जाग्रतम्‌     जाग्रतौ     जाग्रतः</big>
 
<big>जक्षत्‌/जक्षद्‌     जक्षतौ      जक्षतः     जक्षतम्‌     जक्षतौ      जक्षतः</big>
 
<big>दरिद्रत्‌/दरिद्रद्‌   दरिद्रतौ    दरिद्रतः    दरिद्रतम्‌    दरिद्रतौ    दरिद्रतः</big>
 
 
<big><u>नपुंसकलिङ्गे शत्रन्तानां सुबन्तनिर्माणम्‌</u></big>
 
 
<big>'''a.''' <u>भ्वादिगणः, दिवादिगणः, चुरादिगणः</u></big>
 
 
<big>पचत्‌ + सु → '''स्वमोर्नपुंसकात्‌''' (७.१.२३) इत्यनेन नपुंसकात्‌ अङ्गात्‌ सु-लोपः → पचत्‌ → '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन पदान्ते तकारस्य जश्त्वम्‌ → पचद्‌ → '''वाऽवसाने''' (८.४.५६) इत्यनेन अवसाने झलः विकल्पेन चर्‍-आदेशो भवति → पचद्‌/पचत्‌</big>
 
 
<big>पचत्‌ + औ → '''नपुंसकाच्च''' (७.१.१९) इत्यनेन औ स्थाने शी → पचत्‌ + शी → '''लशक्वतद्धिते''' इत्यनेन अनुबन्धलोपः → पचत्‌ + ई → '''अन्तादिवच्च''' (६.१.८५) इत्यनेन पच अङ्गम्‌ अस्ति → '''शप्‌श्यनोर्नित्यम्‌''' (७.१.८१) इत्यनेन शी-प्रत्ययः परे अस्ति चेत्‌, शप्श्यन्‌-प्रत्यययोः अवर्णात्‌ अङ्गात्‌ शत्रन्ताङ्गस्य नित्यं नुम्‌ आगमः, '''मिदचोऽन्त्यात्परः''' (१.१.४७) इत्यनेन नुम्‌ अन्त्यात्‌ स्वरात्‌ परे → पचन्‌त्‌ + ई → '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशः, '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनेन ययि अनुस्वारस्य स्थाने परसवर्णादेशः → पचन्त्‌ + ई → वर्णमेलने → पचन्ती</big>
 
 
<big>पचत्‌ + जस्‌ → '''जश्शसोः शिः''' (७.१.२०) इत्यनेन नपुंसकात्‌ अङ्गात्‌ जस्‌-स्थाने शि-आदेशः → पचत्‌ + शि → '''लशक्वतद्धिते''' इत्यनेन अनुबन्धलोपः → पचत्‌ + इ → '''शि सर्वनामस्थानम्‌''' (१.१.४२) इत्यनेन शि इति आदेशस्य सर्वनामस्थानसंज्ञा, '''नपुंसकस्य झलचः''' (७.१.७२) इत्यनेन नपुंसकलिङ्गे, सर्वनामस्थाने परे झलन्ताङ्गस्य नुम्‌-आगमः, '''मिदचोऽन्त्यात्परः''' (१.१.४७) इत्यनेन नुम्‌ अन्त्यात्‌ स्वरात्‌ परे → पचन्‌त्‌ + इ → '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशः, '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनेन ययि अनुस्वारस्य स्थाने परसवर्णादेशः → पचन्त्‌ + इ → वर्णमेलने → पचन्ति</big>
 
 
<big>धेयं यत्‌ अत्र '''उगिदचां सर्वनामस्थानेऽधातोः''' (७.१.७०) इति सूत्रस्य प्राप्तिरपि अस्ति परन्तु '''नपुंसकस्य झलचः''' (७.१.७२) इत्यस्य बलं परत्वात्‌ |</big>
 
 
<big>प्रथमा, द्वितीया</big>
 
<big>पचत्‌/पचद्‌ मित्रम्‌     पचन्ती मित्रे     पचन्ति मित्राणि</big>
 
<big>पचत्‌/पचद्‌ मित्रम्‌     पचन्ती मित्रे     पचन्ति मित्राणि</big>
 
 
<big>भ्वादौ      पचत्‌         पचन्ती       पचन्ति       प्रथमा, द्वितीया</big>
 
<big>दिवादौ    दीव्यत्‌        दीव्यन्ती     दीव्यन्ति     प्रथमा, द्वितीया</big>
 
<big>चुरादौ     चोरयत्‌        चोरयन्ती    चोरयन्ति     प्रथमा, द्वितीया</big>
 
 
<big>तृतीयविभक्तिः इत्यस्मात्‌ सप्तमीविभक्ति-पर्यन्तं पुंलिङ्गशब्दवत्‌ |</big>
 
 
<big>'''स्वमोर्नपुंसकात्‌''' (७.१.२३) = नपुंसकात्‌ अङ्गात्‌ सु, अम्‌-इत्यनयोः लुक्‌ (लोपः) | सुश्च अम्‌ तयोरितरेतरद्वन्द्वः स्वमौ, तयोः स्वमोः | स्वमोः षष्ठ्यन्तम्‌, नपुंसकात्‌ पञ्चम्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | '''षड्भ्यो लोउक्‌''' (७,१,२२) इत्यस्मात्‌ लुक्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''नपुंसकात्‌ अङ्गात्‌ स्वमोः लुक्''' |</big>
 
 
<big>'''नपुंसकाच्च''' (७.१.१९) = नपुंसकात्‌ अङ्गात्‌ औ-प्रत्ययस्य स्थाने शी-आदेशो भवति | नपुंसकात्‌ पञ्चम्यन्तम्‌, च अव्ययपदम्‌, द्विपदमिदं सूत्रम्‌ | '''औङ आपः''' (७.१.१८) इत्यस्मात्‌ '''औङः''' इत्यस्य अनुवृत्तिः; '''जशः शी''' (७.१.१७) इत्यस्मात्‌ '''शी''' इत्यस्य अन्वृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रम्‌— '''नपुंसकात्‌ अङ्गात्‌ औङः शी''' |</big>
 
 
<big>'''अन्तादिवच्च''' (६.१.८५) = पूर्वपरयोः यः एकादेशो भवति, सः पूर्ववर्ति-वर्णसमुदायस्य अन्त्यभागः, अपि च परवर्ति-वर्णसमुदायस्य आदिमभागः | अन्तश्च आदिश्च अन्तादी इतरेतरद्वन्द्वः, अन्तादिभ्यां तुल्यम्‌ अन्तादिवत्‌ | अन्तादिवत्‌ अव्ययपदम्‌, च अव्ययपदम्‌, द्विपदमिदं सूत्रम्‌ | '''एकः पूर्वपरयोः''' (६.१.८३) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''एकः पूर्वपरयोः अन्तादिवच्च''' |</big>
 
 
<big>'''शप्‌श्यनोर्नित्यम्‌''' (७.१.८१) = शी-प्रत्ययः वा नदी-प्रत्ययः परे अस्ति चेत्‌, शप्श्यन्‌-प्रत्यययोः अवर्णात्‌ अङ्गात्‌ शत्रन्ताङ्गस्य नित्यं नुम्‌ आगमः भवति | श्यप्‌ च श्यन्‌ च तयोरितरेतरद्वन्द्वः शप्श्यनौ, तयोः शप्शनोः | शप्श्यनोः षष्ठ्यन्तं, नित्यं क्रियाविशेषणं द्वितीयान्तम्‌ | '''आच्छीनद्योर्नुम्‌''' (७.१.८०) इत्यस्मात्‌ '''आत्‌''', '''शीनद्योः''', '''नुम्‌;''' '''नाभ्यस्ताच्छतुः''' (७.१.७८) इत्यस्मात्‌ '''शतुः''' इत्येषाम्‌ अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रम्‌— '''शप्श्यनोः आत्‌ शतुः अङ्गस्य नित्यं नुम्‌ शीनद्योः''' | नदी-संज्ञा नाम ङीप्‌, ङीष्‌, ङीन्‌ एते स्त्री-प्रत्ययाः |</big>
 
 
<big>'''जश्शसोः शिः''' (७.१.२०) = नपुंसकात्‌ अङ्गात्‌ जस्‌, शस्‌ इत्यनयोः स्थाने शि-आदेशो भवति | जश्च शश्च तयोरितरेतरद्वन्द्वः जश्श्सौ, तयोः जश्शसोः | जश्शसोः षष्ठ्यन्तम्‌, शिः प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रम्‌— '''नपुंसकात्‌ अङ्गात्‌ जश्शसोः शिः''' |</big>
 
 
<big>'''शि सर्वनामस्थानम्‌''' (१.१.४२) = शि इति आदेशस्य सर्वनामस्थानसंज्ञा भवति | शि लुप्तप्रथमान्तम्‌, सर्वनामस्थानम्‌ प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूरणम्— '''शि सर्वनामस्थानम्‌''' |</big>
 
 
 
<big>'''नपुंसकस्य झलचः''' (७.१.७२) = नपुंसकलिङ्गे, सर्वनामस्थाने परे झलन्ताङ्गस्य अजन्ताङ्गस्य च नुम्‌-आगमो भवति | झल्‌ च अच्‌ च तयोः समाहारद्वन्द्वः झलच्‌, तस्य झलचः | नपुंसकस्य षष्ठ्यन्तम्‌, झलचः षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | '''इदितो नुम्‌ धातोः''' (७.१.५८) इत्यस्मात्‌ '''नुम्‌''' इत्यस्य अनुवृत्तिः | '''उगिदचां सर्वनामस्थानेऽधातोः''' (७.१.७०) इत्यस्मात्‌ '''सर्वनामस्थाने''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रम्‌— '''नपुंसकस्य झलचः अङ्गस्य नुम्‌ सर्वनामस्थाने''' |</big>
 
 
<big>'''b.''' <u>तुदादिगणः, अदादिगणस्य चतुर्दश आकारान्तधातवः</u></big>
 
 
<big>तुदत्‌ + सु → भ्वादिगणे यथावत्‌ → तुदद्‌/तुदत्‌</big>
 
 
<big>तुदत्‌ + औ → तुदत्‌ + शी → तुदत्‌ + ई → '''आच्छीनद्योर्नुम्‌''' (७.१.८०) इत्यनेन शी-प्रत्ययः परे चेत्‌, अवर्णात्‌ अङ्गात्‌ शत्रन्ताङ्गस्य विकल्पेन नुम्‌ आगमः → नुम्‌-आगमे सति '''मिदचोऽन्त्यात्परः''' (१.१.४७)''', नश्चापदान्तस्य झलि''' (८.३.२४), '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → तुदन्त्‌ + ई → वर्णमेलने → तुदन्ती, नुम्‌-आभावे तुदती</big>
 
 
<big>तुदत्‌ + जस्‌ → भ्वादिगणे यथावत्‌ → तुदन्ति</big>
 
 
<big>प्रथमा     तुदत्‌     तुदती/तुदन्ती     तुदन्ति</big>
 
<big>द्वितीया    तुदत्‌     तुदती/तुदन्ती     तुदन्ति</big>
 
 
<big>तृतीयविभक्तिः इत्यस्मात्‌ सप्तमीविभक्ति-पर्यन्तं पुंलिङ्गशब्दवत्‌ |</big>
 
 
<big>'''आच्छीनद्योर्नुम्‌''' (७.१.८०) = शी-प्रत्ययः वा नदी-प्रत्ययः परे अस्ति चेत्‌, अवर्णात्‌ अङ्गात्‌ शत्रन्ताङ्गस्य विकल्पेन नुम्‌ आगमः भवति | शी च नदी च शीनद्यौ, तयोः शीनद्योः | आत्‌ पञ्चम्यन्तं, शीनद्योः सप्तम्यन्तं, नुम्‌ प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''नाभ्यस्ताच्छतुः''' (७.१.७८) इत्यस्मात्‌ '''शतुः''', अपि च '''वा नपुंसकस्य''' (७.१.७१) इत्यस्मात्‌ '''वा''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''आत्‌ अङ्गात्‌ शतुः वा नुम्‌ शीनद्योः''' |</big>
 
 
<big>धेयं यत्‌ '''आच्छीनद्योर्नुम्‌''' (७.१.८०) इति सामान्यशास्त्रम्‌, '''शप्‌श्यनोर्नित्यम्‌''' (७.१.८१) इति विशेषशास्त्रम्‌ | '''आच्छीनद्योर्नुम्‌''' इत्यनेन शत्रन्ताङ्गस्य अवर्णात्‌ अङ्गात्‌ विकल्पेन नुम्‌ आगमः भवति | भ्वादिगणे, दिवादिगणे, चुरादिगणे च शत्रन्ताङ्गस्य अवर्णान्तम्‌ अङ्गं भवति (भव, दीव्य, चोरय) | अतः '''आच्छीनद्योर्नुम्‌''' इत्यनेन एषु त्रिषु गणेषु अपि नुम्‌ आगमः वैकल्पिकः भवति स्म | नाम एषु त्रिषु गणेष्वपि '''आच्छीनद्योर्नुम्‌''' इत्यस्य प्रसक्तिरस्ति | तदा '''शप्‌श्यनोर्नित्यम्‌''' आगत्य वदति यत्‌ "न— एषु गणेषु शप्‌-श्यन्‌ इति विकरणप्रत्ययौ भवतः, अतः अत्र नुम्‌-आगमः नित्यः न तु वैकल्पिकः |</big>
 
 
<big>अदादिगणे चतुर्दश आकारान्त-धातवः सन्ति | '''आच्छीनद्योर्नुम्‌''' इत्यस्य सूत्रस्य प्रसक्तिः तेषां कृते अपि अस्ति | नाम तत्रापि शत्रन्त-प्रसङ्गे नपंसकलिङ्गे नुम्‌-आगमः विकल्पेन भवति | कारणम्‌ इदं यत्‌ एषां धातूनाम्‌ अवर्णान्तम् अङ्गम्‌ अस्ति, परन्तु इदम्‌ अङ्गं शबन्तम्‌ श्यनन्तं वा नास्ति | धातवः एते— या, वा, भा, ष्णा, श्रा, द्रा, प्सा, पा, रा, ला, दा, ख्या, प्रा, मा |</big>
 
 
<big>अदादौ या‍-धातुः— यात्‌      याती/यान्ती      यान्ति     प्रथमा</big>
 
<big>                      यात्‌       याती/यान्ती      यान्ति    द्वितीया</big>
 
 
<big>'''c.''' <u>अभ्यस्तसंज्ञकाः (जुहोत्यादिगणः)</u></big>
 
 
<big>ददत्‌‍ + सु → '''स्वमोर्नपुंसकात्‌''' (७.१.२३) इत्यनेन नपुंसकात्‌ अङ्गात्‌ सु इत्यस्य लुक्‌ → ददत्‌ → '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन पदान्ते तकारस्य जश्त्वम्‌ → ददद्‌ → '''वाऽवसाने''' (८.४.५६) इत्यनेन अवसाने झलः विकल्पेन चर्‍-आदेशो भवति → ददद्‌/ददत्‌</big>
 
 
<big>ददत्‌ + औ → '''नपुंसकाच्च''' (७.१.१९) इत्यनेन नपुंसकात्‌ अङ्गात्‌ औ-प्रत्ययस्य स्थाने शी-आदेशः → ददत्‌ + शी → लशक्वतद्धिते इत्यनेन श्‌-लोपः → ददत्‌ + ई → वर्णमेलने → ददती</big>
 
 
<big>ददत्‌ + जस्‌ → '''जश्शसोः शिः''' (७.१.२०) इत्यनेन नपुंसकात्‌ अङ्गात्‌ जस्‌ इत्यस्य स्थाने शि-आदेशः → ददत्‌ + शि → '''शि सर्वनामस्थानम्‌''' (१.१.४२) इत्यनेन शि इति आदेशस्य सर्वनामस्थानसंज्ञा → ददत्‌ + इ → '''नपुंसकस्य झलचः''' (७.१.७२) इत्यनेन सर्वनामस्थाने परे नुम्‌-आगमः → '''नाभ्यस्ताच्छतुः''' (७.१.७८) इत्यनेन अभ्यस्तसंज्ञकात्‌ शतृ-प्रत्ययस्य नुम्‌-आगमो न भवति → '''वा नपुंसकस्य''' (७.१.७९) इत्यनेन नपुंसकलिङ्गे सर्वनामस्थानसंज्ञकप्रत्यये परे, अभ्यस्तसंज्ञकात् शत्रन्तस्य विकल्पेन नुम्‌-आगमो भवति → नुम्‌-आगमे सति '''मिदचोऽन्त्यात्परः''' (१.१.४७)''', नश्चापदान्तस्य झलि''' (८.३.२४), '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → ददन्त्‌ + इ → वर्णमेलने → ददन्ति, नुम्‌-आभावे ददति</big>
 
 
<big>'''वा नपुंसकस्य''' (७.१.७९) = नपुंसकलिङ्गे सर्वनामस्थानसंज्ञकप्रत्यये परे, अभ्यस्तसंज्ञकात् शत्रन्तस्य विकल्पेन नुम्‌-आगमो भवति | वा अव्ययपदम्‌, नपुंसकस्य षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | '''नाभ्यस्ताच्छतुः''' (७.१.७८) इत्यस्मात्‌ '''अभ्यस्तात्‌''', '''शतुः''' इत्यनयोः अनुवृत्तिः | '''इदितो नुम्‌ धातोः''' (७.१.५८) इत्यस्मात्‌ '''नुम्‌''' इत्यस्य अनुवृत्तिः | '''उगिदचां सर्वनामस्थानेऽधातोः''' (७.१.७०) इत्यस्मात्‌ '''सर्वनामस्थाने''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अभ्यस्तात्‌ शतुः नपुंसकस्य अङ्गस्य वा नुम्‌ सर्वनामस्थाने''' |</big>
 
 
<big>प्रथमा     ददत्‌     ददती     ददन्ति/ददति</big>
 
<big>द्वितीया    ददत्‌     ददती     ददन्ति/ददति</big>
 
 
<big>'''d.''' <u>अन्ये गणाः</u></big>
 
 
<big>अत्र अवर्णाभावात्‌ प्रथमाद्वितीयाद्विवचने शी-प्रत्यये परे '''आच्छीनद्योर्नुम्‌''' (७.१.८०) इत्यनेन नुम्‌-आगमः न भवति | प्रथमाद्वितीयाबहुवचने शि-प्रत्यये परे '''नपुंसकस्य झलचः''' (७.१.७२) इत्यनेन नित्यः नुम्‌-आगमः |</big>
 
 
<big>अदादौ     सत्‌         सती        सन्ति</big>
 
<big>स्वादौ     चिन्वत्‌      चिन्वती     चिन्वन्ति</big>
 
<big>रुधादौ     रुन्धत्‌      रुन्धती      रुन्धन्ती</big>
 
<big>तनादौ     तन्वत्‌      तन्वती       तन्वन्ति</big>
 
<big>क्र्यादौ     क्रीणत्‌      क्रीणती      क्रीणन्ति</big>
 
 
<big>Swarup – Dec 2014</big>
 
<big>---------------------------------</big>
 
 
 
<big>[https://static.miraheze.org/samskritavyakaranamwiki/d/d6/%E0%A5%A6%E0%A5%AD_-_%E0%A4%B6%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%82_%E0%A4%B8%E0%A5%81%E0%A4%AC%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A8%E0%A4%BF%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D_.pdf ०७ - शत्रन्तानां सुबन्तनिर्माणम्‌.pdf] (96k) Swarup Bhai, Apr 12, 2018, 10:23 PM v.1</big>