06A---sArvadhAtukaprakaraNaM-kRutsu/07---shatrantAnAM-subantanirmANam: Difference between revisions
06A---sArvadhAtukaprakaraNaM-kRutsu/07---shatrantAnAM-subantanirmANam (view source)
Revision as of 03:05, 21 September 2022
, 1 year agono edit summary
VNatarajan (talk | contribs) (Incorporated reviewer comments) |
No edit summary |
||
(5 intermediate revisions by 3 users not shown) | |||
Line 1:
{{DISPLAYTITLE: 07 - शत्रन्तानां सुबन्तनिर्माणम्}}
{| class="wikitable mw-collapsible mw-collapsed"
!<big>'''ध्वनिमुद्रणानि'''</big>
Line 98 ⟶ 99:
<big>शत्रन्तानां कृते षट् नुम्-विधायक-सूत्राणि—</big>
<big>'''उगिदचां सर्वनामस्थानेऽधातोः''' (७.१.७०) = सर्वनामस्थानसंज्ञक-प्रत्यये परे धातुभिन्न-उगितः नुमागमो भवति | अनुवृत्ति-सहितसूत्रम्— '''सर्वनामस्थाने अधातोः उगिदचां अङ्गानां नुम्''' |</big>
Line 261 ⟶ 264:
<big>'''स्वादिष्वसर्वनामस्थाने''' (१.४.१७) = सर्वनामस्थानसंज्ञक-प्रत्ययान् अतिरिच्य सु-प्रत्ययात् आरभ्य कप्-प्रत्ययपर्यन्तम्, एषु कश्चन परे अस्ति चेत् पूर्वतन-शब्दस्वरूपस्य पद-संज्ञा भवति | '''यचि भम्''' (१.४.१८) इत्यनेन यस्मात् प्रकृतिरूपात् अजादि-प्रत्ययो वा यकारादि-प्रत्ययो वा विहितः सः भसंज्ञकः, अतः फलितार्थे यस्मात् यादि-भिन्न-हलादि-प्रत्ययः विहितः सः पद-संज्ञकः | इयं पदसंज्ञा केवलं व्याकरणक्षेत्रे न तु लोके | '''स्वौजसमौट्''' (४.१.२) इत्यस्मात् आरभ्य '''उरः प्रभृतिभ्यः कप्''' (५.४.१५१) पर्यन्तम् इमे सर्वे प्रत्ययाः 'स्वादयः' इत्युच्यन्ते | न सर्वनामस्थानम्, असर्वनामस्थानम्, नञ्तत्पुरुषः, तस्मिन् असर्वनामस्थाने | स्वादिषु सप्तम्यन्तम्, असर्वनामस्थाने सप्तम्यन्तम्, द्विपदमिदं सूत्रम् | '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यस्मात् '''पदम्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''स्वादिषु असर्वनामस्थाने''' '''पदम्'''
Line 383 ⟶ 387:
<big>'''शप्श्यनोर्नित्यम्''' (७.१.८१) = शी-प्रत्ययः वा नदी-प्रत्ययः परे अस्ति चेत्, शप्श्यन्-प्रत्यययोः अवर्णात् अङ्गात् शत्रन्ताङ्गस्य नित्यं नुम् आगमः भवति | श्यप् च श्यन् च तयोरितरेतरद्वन्द्वः शप्श्यनौ, तयोः शप्शनोः | शप्श्यनोः षष्ठ्यन्तं, नित्यं क्रियाविशेषणं द्वितीयान्तम् | '''आच्छीनद्योर्नुम्''' (७.१.८०) इत्यस्मात् '''आत्''', '''शीनद्योः''', '''नुम्;''' '''नाभ्यस्ताच्छतुः''' (७.१.७८) इत्यस्मात् '''शतुः''' इत्येषाम् अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रम्— '''शप्श्यनोः आत् शतुः अङ्गस्य नित्यं नुम् शीनद्योः''' | नदी-संज्ञा नाम ङीप्, ङीष्, ङीन् एते स्त्री-प्रत्ययाः |</big>
<big>'''जश्शसोः शिः''' (७.१.२०) = नपुंसकात् अङ्गात् जस्, शस् इत्यनयोः स्थाने शि-आदेशो भवति | जश्च शश्च तयोरितरेतरद्वन्द्वः जश्श्सौ, तयोः जश्शसोः | जश्शसोः षष्ठ्यन्तम्, शिः प्रथमान्तम्, द्विपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रम्— '''नपुंसकात् अङ्गात् जश्शसोः शिः''' |</big>
<big>'''शि सर्वनामस्थानम्''' (१.१.४२) = शि इति आदेशस्य सर्वनामस्थानसंज्ञा भवति | शि लुप्तप्रथमान्तम्, सर्वनामस्थानम् प्रथमान्तम्, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूरणम्— '''शि सर्वनामस्थानम्''' |</big>
|