06A---sArvadhAtukaprakaraNaM-kRutsu/07---shatrantAnAM-subantanirmANam: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(One intermediate revision by one other user not shown)
Line 264:
 
 
<big>'''स्वादिष्वसर्वनामस्थाने''' (१.४.१७) = सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तम्‌, एषु कश्चन परे अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य पद-संज्ञा भवति | '''यचि भम्‌''' (१.४.१८) इत्यनेन यस्मात्‌ प्रकृतिरूपात्‌ अजादि-प्रत्ययो वा यकारादि-प्रत्ययो वा विहितः सः भसंज्ञकः, अतः फलितार्थे यस्मात्‌ यादि-भिन्न-हलादि-प्रत्ययः विहितः सः पद-संज्ञकः | इयं पदसंज्ञा केवलं व्याकरणक्षेत्रे न तु लोके | '''स्वौजसमौट्''' (४.१.२) इत्यस्मात्‌ आरभ्य '''उरः प्रभृतिभ्यः कप्‌''' (५.४.१५१) पर्यन्तम्‌ इमे सर्वे प्रत्ययाः 'स्वादयः' इत्युच्यन्ते | न सर्वनामस्थानम्‌, असर्वनामस्थानम्, नञ्तत्पुरुषः, तस्मिन्‌ असर्वनामस्थाने | स्वादिषु सप्तम्यन्तम्‌, असर्वनामस्थाने सप्तम्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इत्यस्मात्‌ '''पदम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''स्वादिषु असर्वनामस्थाने''' '''पदम्‌''' | '''यचि भम्‌''' (१.४.१८) इत्यनेन अजादि-प्रत्ययाः यकारादि-प्रत्ययाः भसंज्ञकाः, अतः फलितार्थे यादि-भिन्न-हलादि-प्रत्ययाः पद-संज्ञकाः | इयं पदसंज्ञा केवलं व्याकरणक्षेत्रे न तु लोके |</big>