11 - उद्देश्यविधेयभावः
ध्वनिमुद्रणानि -
१) visheShaNa-visheShyabhAva-uddeshya-vidheya-bhAvayoH-vailakShaNyam_2017-11-04
२) visheShaNa-visheShyabhAva-uddeshya-vidheya-bhAvayoH-vailakShaNyam--2_2017-11-11
३) visheShaNa-visheShyabhAva-uddeshya-vidheya-bhAvayoH-vailakShaNyam--3_2017-11-18
४) visheShaNa-visheShyabhAva-uddeshya-vidheya-bhAvayoH-vailakShaNyam--4_+_paratvAparatvam_2017-11-25
उद्देश्यविधेयभावः
गते पाठे उक्तं यत् विशेषणविशेष्यभाव-उद्देश्यविधेयभावयोर्च मध्ये सूक्ष्मभेदः विद्यते | कुत्रचित् अस्य भेदः नावगम्यते चेदपि स्वस्य कार्यं प्रवर्तयितुं शक्यते | परन्तु अन्यत्र, द्वयोः मध्ये विद्यमनभेदस्य बोधो न भवति चेत् भाषायां दोषो जायते | अतः अनयोर्मध्ये यत् वैलक्षण्यम् अस्ति, तस्मिन् महत्त्वम् अस्माभिः अवधातव्यम् | सम्प्रति कीदृशं पार्थक्यम् अस्तीति पश्येम |
उद्देश्यविधेयभावस्य बोधनार्थं प्रथमतया अस्माकं ज्ञातवाक्यं परिशीलनीयं—यज्ञदत्तः आसने उपविष्टः इति प्रसङ्गे 'आसननिष्ठ-अधिकरणतानिरूपित-आधेयताश्रयः यज्ञदत्तः' |
'आसननिष्ठा' इत्यनेन आसने विद्यमाना, सप्तमीतत्पुरुषसमासः, आसने निष्ठा | अत्र वक्तव्यं यत् यद्यपि सूत्रविधानेन सप्तमीतत्पुरुषसमासः अल्पस्थानेषु भवति किन्तु प्राचीनसाहित्ये सप्तमीतत्पुरुषसमासः लभ्यते यत्र पाणिनीयसूत्रेण नापि विधीयते | दृष्टान्ते पुरुषोत्तमः इति शब्दः अस्ति, देवः इति तात्पर्यम् | पुरुषेषु उत्तमः, पुरुषोत्तमः | सप्तमी शौण्डैः (२.१.४०) इति सप्तमीतत्पुरुषसमासविधायकं सूत्रम् | अस्मिन् सूत्रे शौण्डादि-गणः पठितः; अस्मिन् गणे षोडश शब्दाः सन्ति— निपुण, कुशल, प्रवीण, पण्डित इत्यादयः | शौण्डादिगणे उत्तम-शब्दः नास्ति | तथापि 'पुरुषोत्तम' इति समासः कीदृशः इति चेत्, सप्तमीतत्पुरुषसमासः इत्येव वक्तव्यं भवति | अत्र प्रसिद्धम् उदाहरणं, किन्तु काव्येषु इतोऽपि तादृशाः यथेष्टं शब्दाः स्वीकृताः सप्तमीतत्पुरुषसमासपरिधौ | अतः सूत्रविधानं नास्ति चेदपि एतादृशेषु स्थलेषु सप्तमीतत्पुरुषसमासः क्रियते | आसननिष्ठा, आसने निष्ठा |
ततः अग्रे आसननिष्ठ-अधिकरणता कर्मधारयसमासः, आसननिष्ठा अधिकरणता | अत्र 'आसननिष्ठा', 'अधिकरणता' इति पदयोः एकार्थबोद्धकत्वं, समानविभक्तिकत्वं च अस्ति | तदर्थं द्वयोः विशेषणविशेष्यभावः सम्भवः, यस्मात् कर्मधारयसमासः | अग्रे अधिकरणतानिरूपिता तृतीयातत्पुरुषसमासः, अधिकरणतया निरूपिता | अत्र एकार्थबोद्धकत्वं नास्ति, समानविभक्तिकत्वम् अपि नास्ति; तदर्थं विशेषणविशेष्यभावः न सम्भवति | अग्रे अधिकरणतानिरूपित-आधेयता कर्मधारयसमासः, अधिकरणतानिरूपिता आधेयता | आधेयताश्रयः षष्ठीतत्पुरुषसमासः, आधेयतायाः आश्रयः |
वस्तुतः 'आसननिष्ठ-अधिकरणतानिरूपित-आधेयताश्रयः' इति सर्वम् एकमेव समस्तपदम् | अपि च यत्र समासः भवति, तत्र सन्धिः अपि नित्यः | अतः 'आसननिष्ठ-अधिकरणतानिरूपित-आधेयताश्रयः' इति पदम् एतादृशम्— आसननिष्ठाधिकरणतानिरूपिताधेयताश्रयः |
आधेयताश्रयः यज्ञदत्तः— अत्र किन्तु नास्ति समासः | समासः किमर्थं न भवति इति चेत्, अत्र विशेषणविशेष्यभावो नास्ति | कर्मधारयसमासः विशेषणविशेष्यभावस्थले एव भवति | यथा कादम्बरी इति ग्रन्थः, कादम्बरीग्रन्थः | अत्र कर्मधारयसमासः, किन्तु विशेषणविशेष्यभावः अस्ति वा ? वस्तुतः कर्मधारयसमासः नवविधः— विशेषणपूर्वपदः, विशेषणोत्तरपदः, विशेषणोभयपदः, उपमानपूर्वपदः, उपमानोत्तरपदः, अवधारणापूर्वपदः, सम्भावनापूर्वपदः, मध्यमपदलोपः, मयूरव्यंसकादिः इति; एतेषु सर्वेषु नवसु अपि प्रकारेषु विशेषणविशेष्यभावः एकरीत्या भवति एव | यथा नरः व्याघ्रः इव, नरव्याघ्रः, उपमानोत्तरपदकर्मधारयः | एतादृशेषु स्थलेषु यद्यपि परम्परागतः विशेषणविशेष्यभावः अस्माभिः न दृश्येत, तथापि तत्र सर्वत्रापि विशेषणविशेष्यभावस्य कश्चन अंशः भवत्येव | तस्य विशेषणविशेष्यभावस्य विभिन्नं स्वरूपं भवतु— उपमान-उपमेयभावः, पुनः सम्भावनापूर्वकर्मधारयः इत्यादिषु सर्वत्रापि स्पष्टतया विशेषणविशेष्यभावः न दृश्यते चेदपि तस्य भावस्य सारः तु बीजरूपेण अस्त्येव |
दृष्टान्ते कादम्बरी इति ग्रन्थः, कादम्बरीग्रन्थः— सम्भावनापूर्वपदकर्मधारयः | अत्र 'ग्रन्थः' इति शब्देन सर्वेऽपि ग्रन्थाः स्वीक्रियन्ते | कादम्बरी इति शब्देन एकः ग्रन्थः विशिष्यते | अत्र 'विशिष्यते', 'विशेषणम्' अनयोः अर्थः कः ? कश्चन महान् समूहः भवति; तस्मात् समूहात् यत्किमपि एकप्रकारकं पदार्थं वयं पृथक् कुर्मः |
इदानीं 'वृक्षः' इति अस्ति | वृक्षः इति कथनेन सर्वेऽपि वृक्षाः अन्तर्भवन्ति | किन्तु 'उन्नतः वृक्षः' इति कोऽपि कथयति चेत्, सर्वेषु वृक्षेषु यस्य वृक्षस्य विषये सः वक्तुम् इच्छति, केवलं स एव वृक्षः स्वीक्रियते | अत्र उन्नत-शब्दः किं करोति इति चेत्, अनेन उन्नतत्वम् इति धर्मः अन्येभ्यः वृक्षेभ्यः एतम् उन्नतं वृक्षं पृथक् करोति |
अत्रापि कादम्बरीग्रन्थः इति स्थितौ एवमेव— ग्रन्थः इत्यनेन सर्वेऽपि ग्रन्थाः अन्तर्भवन्ति | तदा कादम्बरी इति शब्देन कश्चन ग्रन्थविशेषः तस्मात् ग्रन्थसमूहात् पृथक् क्रियते | अतः अत्रापि विशेषणविशेष्यभावः भवति | यद्यपि सामान्यतया स्पष्टतया न ज्ञायते, स्पष्टतया न प्रतिभाति, किन्तु विशेषणविशेष्यभावस्य कश्चन अंशः अत्र अस्ति |
वस्तुतः एकेन एव सूत्रेण कर्मधारयसमाससंज्ञा विधीयते, किन्तु स च नवविधः | तच्च सूत्रम् अस्ति— तत्पुरुषः समानाधिकरणः कर्मधारयः (१.२.४२) | समानाधिकरणः इत्यनेन एकार्थबोधकत्वं, समानविभक्तिकत्वं च सिध्यति | अनेन सूत्रेण उच्यते कयोर्मध्ये कर्मधारयसमासः भवति | यथा सम्भावनापूर्वपदकर्मधारयः वदामः, कादम्बरी इति ग्रन्थः कादम्बरीग्रन्थः, हिमालयः इति पर्वतः हिमालयपर्वतः, गङ्गा इति नदी, गङ्गानदी | एषु स्थलेषु च सम्भावनापूर्वपदकर्मधारयसमासः इति उच्यते |
किन्तु सम्भावनापूर्वपदकर्मधारयस्य व्याप्तिः अत्यन्तं न्यूना | सन्दीपः इति बालकः, सन्दीपबालकः इति न भवति | किमर्थं न लभ्यते इत्युक्तौ, सम्भावनापूर्वपदकर्मधारयः प्रयोगम् अश्रित्य भवति | सर्वत्र कर्तुं न शक्यते | यत्र प्रसिद्धाः प्रयोगाः सन्ति, तत्र एव भवति |
प्रकृतविषये कथनस्य तात्पर्यम् एवं यत् सम्भावनापूर्वपदकर्मधारये कश्चन विशेषणविशेष्यभावः अस्ति | अत एव 'एषः समासः एतेन सूत्रेण भवति, एषः समासः एतेन सूत्रेण भवति' इति सर्वत्र उच्यते व्याकरणाभ्यासे किन्तु सम्भावनापूर्वपदकर्मधारयः अन्येन केनचिदपि सूत्रेण न भवति | यथा उन्नतः वृक्षः उन्नतवृक्षः इत्यत्र विशेषणविशेष्ययोर्मध्ये येन सूत्रेण उच्यते, तेन एव सूत्रेण अत्रापि सम्भावनापूर्वपदकर्मधारयसमासः भवति | कादम्बरी इति ग्रन्थः कादम्बरीग्रन्थः इत्यत्रापि तेन एव सूत्रेण समासः विधीयते— विशेषणविशेष्ययोः येन सूत्रेण स्मासः उच्यते, तेन एव सूत्रेण | सारांशः कः ? अत्रापि सम्भावनापूर्वपदकर्मधस्थलेऽपि कश्चन विशेषणविशेष्यभावः अस्ति | साधारणतया स्पष्टतया यथासामान्यं न भाति चेदपि, स च अंशः अस्ति एव |
अधुना मूलविषये 'आधेयताश्रयः यज्ञदत्तः' इति स्थले उद्देश्यविधेयभावः इति कश्चन सिद्धान्तः प्रवर्तते | विशेषणविशेष्यभावात् अतिरिक्तः कश्चन अंशः, उद्देश्यविधेयभावः | उत् + दिश् + घञ् → उद्देशः इति नित्यपुंलिङ्गशब्दः भावार्थे; उत् + दिश् + ण्यत् → उद्देश्य इति विशेष्यनिघ्न-कर्मण्यर्थकशब्दः, त्रिषु लिङ्गेषु भवति च | लक्ष्यीकृत्य इति अर्थः | ण्यत् प्रत्यययुक्ताः अन्ये शब्दाः— वि + शिष् + ण्यत् → विशेष्य; एवमेव पेयं, खाद्यं, कार्यं, वाक्यं, व्याप्यम् इतीमानि पदानि ण्यत्-प्रत्ययान्तानि |
उद्देश्यविधेयभावः यत्र भवति, तत्र विशेषणविशेष्यभावस्य केचन नियमाः न अनुस्रियन्ते | उदाहरणार्थं विशेषणविशेष्यभावे समानलिङ्गत्वं भवेत् | विशेषस्य यत् लिङ्गं, तदेव भवति विशेषणस्यापि | उद्देश्यविधेयभावस्थले तथा नास्ति |
यथा 'आश्रयः यज्ञदत्तः' इति उच्यते | अत्र यज्ञदत्तः आश्रयः, यज्ञदत्तः च पुंलिङ्गे | यदि किन्तु उत्पीठिकां स्वीकुर्मः, उत्पीठिका इति आश्रयः, तदानीमपि आधेयताश्रयः उत्पीठिका इत्येव वक्तव्यम् अस्माभिः | 'आश्रया' इति किमपि नास्ति; 'आश्रयः' इत्येव शब्दः | अधुना आश्रयः विशेष्यनिघ्नशब्दः नास्ति अपि तु नियतलिङ्गकः; किन्तु अत्र तावान् एव भेदः इति न— अत्र उद्देश्यविधेयभावः न तु विशेषणविशेष्यभावः |
उद्देश्यविधेयभावः नाम कः ? उद्देश्यविधेयभावे यत् किमपि वस्तु उद्दिश्य अन्यत् किमपि विदध्मः | विदध्मः इत्युक्तौ आरोपयामः | दृष्टान्ते 'एषः मम मित्रम्' | अत्र किमर्थम् 'एषः मम मित्रम्' ? 'एतत् मम मित्रं' किमर्थं न भवति ? यद्यपि मित्रं नपुंसके अस्ति; किन्तु अत्र कश्चन पुरुषः अस्ति, अहं तं दर्शयित्वा वदामि, 'एषः मम मित्रम्' इति | अथवा काचित् महिला अस्ति; तां दर्शयित्वा वदामि, 'एषा मम मित्रम्' | मित्रं नपुंसकलिङ्गे, किन्तु किमर्थं समानलिङ्गत्वम् अकृत्वा 'एषा मम मित्रं' न तु 'एतत् मम मित्रम्' ? उत्तरम् अस्ति यत् अत्र उद्देश्यविधेयभावः न तु विशेषणविशेष्यभावः | नाम अस्माकं पुरतः विद्यमानः कश्चन जनः अस्ति | सः जनः अत्र उद्देश्यः | इत्युक्ते तम् उद्दिश्य मित्रत्वं वयं तत्र कल्पयामः, मित्रत्वं तत्र आरोपयामः | 'विधेयः', 'विदधाति' इत्यस्य स एव अर्थः— आरोपणम् |
'आधेयताश्रयः यज्ञदत्तः' इति स्थले यज्ञदत्तः इति उद्देश्यः, आधेयताश्रयः इति विधेयः | यज्ञदत्ते आधेयताश्रत्वं विधीयते | उद्देश्यविधेयभावः विशेषणविशेष्यभावात् भिन्नः | यदि वदामः 'उत्तमः यज्ञदत्तः', यज्ञदत्तः उद्देश्यः, उत्तमः विधेयः इति वक्तुं शक्यते किम् ? आं, शक्यते | दृष्टान्ते उन्नतः वृक्षः अस्ति इति चिन्तयतु | सामान्यतया 'उन्नतः वृक्षः' इति यदा वदामः तदा विशेषणविशेष्यभावः | किन्तु अधुना रामः मार्गे गच्छति | मार्गे एकं वृक्षं पश्यति; वृक्षं दृष्ट्वा वदति, “अहो ! एषः वृक्षः उन्नतः !” | अत्र वृक्षस्य उन्नतस्य च विशेषणविशेष्यभावः नास्ति | अपि तु उद्देश्यविधेयभावः | अतः ययोः द्वयोः पदयोर्मध्ये विशेषणविशेष्यभावः भवति, तयोः कदाचित् उद्देश्यविधेयभावः अपि भवितुम् अर्हति |
तर्हि तयोर्मध्ये कः भेदः ? इति चेत्, विशेषणविशेष्यभावः इत्यस्य अर्थः एवं— कश्चन समुदायः अस्ति; तस्मात् समुदायात् एकः पदार्थः विशिष्यते, भिद्यते, पृथक् क्रियते | शतं वृक्षाः सन्ति; तेषु एकः उन्नतः | अत्र अयम् एकः वृक्षः अन्येभ्यः वृक्षेभ्यः पृथक् क्रियते | रामः वक्तुम् इच्छति, 'एकः वृक्षः श्वः कर्तनीयः' इति | किन्तु वृक्षशब्दस्य कथनेन लोके सर्वे विद्यमानाः वृक्षाः गृह्यन्ते | अतः तस्मात् बृहतः समुदायात् कः वृक्षः इति व्यक्तीकर्तुं रामः यदा वदति, “मया श्वः यः वृक्षः कर्तनीयः, सः उन्नतः' , तदा अनेन अयम् एकः वृक्षः लोके अवशिष्टेभ्यः वृक्षेभ्यः पृथक् क्रियते | वृक्षसमूहात् अयं वृक्षः विशेषणीयः येन पृथक् स्यात् | येन 'सर्वेषु वृक्षेषु अन्यतमः' इति प्रकटीकर्तुं शक्नुयात् | इति विशेषणविशेष्यभावः |
किन्तु वृक्षसमूहात् अन्यतमः वृक्षः पृथक् करणीयः इति नास्ति चेत्, एकस्य परस्परज्ञातवृक्षस्य स्वरूपं रामः वर्णयितुम् इच्छति इति चेत्, तर्हि 'अयं वृक्षः उन्नतः' इति रामः वदति | नाम पुरतः सर्वैः जनैः कश्चन वृक्षः दृश्यते | तं वृक्षं दृष्ट्वा तस्य स्वरूपं वर्णयितुम् इच्छाति रामः | 'अहो, एषः वृक्षः उन्नतः !' इति वदति सः | अत्र तु वृक्षस्य समूहात् एकं वृक्षं पृथक् कर्तुम् इच्छा इति न | अपि तु पुरतः दृश्यमाने वृक्षे उन्नतत्वं विधीयते रामेण | पुरतः दृश्यमानं वृक्षम् उद्दिश्य उन्नत-शब्देन उन्नतत्वं तस्मिन् वृक्षे विधीयते |
आहत्य 'उत्तमः वृक्षः', अपि च 'अयं वृक्षः उत्तमः'— अनयोर्मध्ये भावः भिन्नः | 'अयं वृक्षः उत्तमः' इत्यस्मिन् उद्देश्यविधेयभावः न तु विशेषणविशेष्यभावः | 'उत्तमः वृक्षः' इत्यस्मिन् विशेषणविशेष्यभावः | 'आश्रयः यज्ञदत्तः' इत्यस्मिन् केवलम् उद्देश्यविधेयभावः भवति; अत्र तु विशेषणविशेष्यभावः न सम्भवति यतोहि बहवः यज्ञदत्ताः, तादृशः यज्ञदत्तसमूहः नास्ति | सर्वेषु यज्ञदत्तेषु अयम् अन्यतमः विशिष्टः इति नार्थः | अपि तु केवलम् अत्र एकस्य यज्ञदत्तस्य स्वरूपं कथयामः | यज्ञदत्तः इति अस्माकम् उद्देश्यः; तम् उद्धिश्य विशिष्टधर्मम् आरोपयामः, विधद्मः |
एतादृशेषु स्थलेषु, नाम यत्र उद्देश्यविधेयभावः भवति, तत्र कर्मधारयसमासः न भवति | वाक्यम् एव तत्र व्यस्तप्रयोगः भवति, विशेषणविशेष्यस्याभावात् | 'एषा महिला मम मित्रम्'; अत्र न कोऽपि समासः सम्भवति | अधुना आश्रयः इति शब्दः नियतलिङ्गः इति भिन्नविषयः; स एव विशेषणविशेष्याभावस्य कारणं नास्ति | उत्पीठिका भवतु, यज्ञदत्तः भवतु, आसनं भवतु, अत्र यद्वस्तु वर्णनीयम् अस्ति तदस्माभिः सर्वैः ज्ञातम् इति कारणतः, वस्तुसमूहः नास्ति इति कारणतः, उद्देश्यविधेयभावः एव अस्ति न तु विशेषणविशेष्यभावः | तस्मान्न कर्मधारयः |
- - -
अत्र किञ्चित् तत्सम्बद्धशास्त्रीयचिन्तनम् | केचन प्रश्नाः |
१) तत्पुरुषः समानाधिकरणः कर्मधारयः (१.२.४२) इति एकमेव कर्मधारयसंज्ञाविधायकं सूत्रम् इत्युक्तम् | अनेन एकेन सूत्रेण नवानामपि प्रकाराणां कर्मधारयसमासानां कर्मधारयसंज्ञा भवति | अस्मिन् सूत्रे च 'समानाधिकरणः' इत्युक्तं, नाम याभ्यां पदाभ्यां समस्यते, द्वयोः पदयोः सामानाधिकरण्यं वर्तते चेत् उत्पन्नस्य समासस्य कर्मधारयसंज्ञा भवति | यत्र विशेषणविशेष्यभावः अस्ति तत्र द्वयोः पदयोः सामानाधिकरण्यम् अस्त्येव | कर्मधारयसमासस्य नवसु अपि प्रकारेषु विशेषणविशेष्यभावस्य कश्चन अंशः भवति, तदर्थं सामानाधिकरण्यम् अपि अस्ति, तदर्थञ्च कर्मधारयसंज्ञा |
अधुना यत्र उद्देश्यविधेयभावो भवति, तत्र कर्मधारयसमासो न भवति इत्युक्तम् | किन्तु यत्र उद्देश्यविधेयभावो भवति, तत्र द्वयोः पदयोः सामानाधिकरण्यम् इति तु अस्ति | उद्देश्यविधेयभावे सति सामानाधिकरण्यं भवति चेत्, किमर्थम् अत्रापि तत्पुरुषः समानाधिकरणः कर्मधारयः (१.२.४२) इति सूत्रेण कर्मधारयसमासः न स्यात् ?
यज्ञदत्तः आसने उपविष्टः | तत्र आसननिष्ठ-अधिकरणतानिरूपित-आधेयताश्रयः यज्ञदत्तः इति स्थितिः | अत्र 'आश्रयः', 'यज्ञदत्तः' इत्यनयोः पदयोः कर्मधारयसमसो न भवति इत्युक्तम् | किन्तु अनयोः द्वयोः पदयोः सामानाधिकरण्यम् इति तु अस्ति | तदाधरेण तत्पुरुषः समानाधिकरणः कर्मधारयः (१.२.४२) इति सूत्रेण कर्मधारयसमासः भवेत् खलु ?
अत्र किं भवति, कर्मधारयसमासो भवति न वा, सामान्यतत्पुरुषसमासो भवति न वा, बहुव्रीहिसमासो भवति न वा इत्येतादृशप्रश्नः द्वितीयप्रश्नः | आदौ 'अनयोः पदयोः मध्ये समासः भवति वा' इति प्रथमप्रश्नः | तदानीं समासः भवति चेत् स च समासः कीदृशः इति द्वितीयप्रशनः | द्वयोः पदयोः समासः भवति चेदेव 'एषः कः समासः' इति प्रश्नः उदेति |
तर्हि आदौ एतयोः पदयोः समासः भवति न वा इति द्रष्टव्यम् | भवति चेत् सः तत्पुरुषसमासो वा अन्यविधो वा, नाम स च समासः कीदृशः इति प्रश्नः | अधुना कर्मधारयसमासः तत्पुरुषस्य कश्चन प्रभेदः | तत् कथं स्वीकृतम् इति चेत्, यः कोऽपि समासः उत्तरपदार्थप्रधानः, सः तत्पुरुषस्य कश्चन प्रभेदः एव | कर्मधारयसमासः उत्तरपदार्थप्रधानः अतः तत्पुरुषे अन्तर्भूतः | उद्देश्यविधेयभावः यत्र अस्ति, तत्र समासः एव न भवति | किमर्थम् इति चेत् उद्देश्यविधेयभावापन्नयोः पदयोः समासविधायकसूत्रमेव नास्ति | अतः सामानाधिकरण्यम् अस्ति चेदपि समासः एव न भवति, तदर्थं च कर्मधारयसमासे परिगणना नास्ति |
सुन्दरः बालकः, आश्रयः यज्ञदत्तः इत्यनयोः द्वयोः अपि सामानाधिकरण्यम् अस्ति चेत्, शास्त्रीयरीत्या भेदः कः ? शास्त्रीयरीत्या किमर्थम् 'आश्रयः यज्ञदत्तः' इति द्वाभ्यां पदाभ्यां न समस्यते ? 'सुन्दरः बालकः' इति स्थितौ विशेषणविशेष्यभावो वर्तते | विशेषणविशेष्यभावे विशेषणत्वेन यस्य पदस्य प्रयोगं कुर्मः, तत् अन्येभ्यः पदार्थेभ्यः विशिष्यमाणं पदार्थं व्यावर्तयति | 'सुन्दरः बालकः' इति स्थले बालकाः बहवः सन्ति | तत्र विशेषणत्वेन प्रयुक्तशब्दः 'सुन्दरः', तं सुन्दरं बालकं अन्येभ्यः बालकेभ्यः व्यावर्तयति—नाम् पृथक् करोति | विशेषणस्य कार्यं तदेव | उद्देश्यविधेयभावस्थले व्यावर्तनं न विवक्षितम् | 'बालकः सुन्दरः' इति स्थितौ 'बालकः' इति कथनेन कस्य विषये वक्ता वदति इति पूर्वमेव ज्ञायते | तस्मिन् विद्यमाने बालके कोऽपि धर्मः—अत्र सैन्दर्यम्—आरोप्यते | अतः तत्र बालकः उद्देश्यः, सौदर्यं विधेयम् |
तर्हि विशेषणविशेष्यभाव-उद्देश्यविधेयभावयोः भेदः कः इति चेत्, 'सुन्दरः बालकः' इति यदा कथ्यते, तदानीं बालकस्य परिचयः सौन्दर्य-गुणेन एव भवति | आदौ श्रोता 'सौन्दर्यं' जानाति, अनन्तरं तादृशसौन्दर्यविशिष्टः मनुष्यः अस्ति इति एतद्द्वारा, सौन्दर्यद्वारा, श्रोता इदानीं तं बालकं जानाति—विशेषणविशेष्यभावस्थले | 'अयं बालकः सुन्दरः' इति कथ्यते चेत्, कस्य विषये वार्ता प्रवर्तमाना इति पूर्वमेव निश्चितं; बालकस्य परिचयः श्रोतुः मनसि पूर्वमेव जातः | तदा तस्य बालकस्य विषये कश्चन धर्मः उच्यते— अत्र सौन्दर्यम् | तत्तु अतिरिक्तं ज्ञानम् | इत्युक्ते सौन्दर्यगुणस्य कथनेन श्रोता बालकस्य परिचयं न प्राप्नोति | तदर्थम् उच्यते यत् इदं सौन्दर्यज्ञानम् अतिरिक्तम् |
विशेषणविशेष्यभाव-उद्देश्यविधेयभावयोः द्वयोरपि स्थले सामानाधिकरण्यम् | 'सुन्दरः बालकः' इति स्थले सौन्दर्यम् अपि बालकत्वम् अपि बालकपदार्थे भवतः; 'बालकः सुन्दरः' इति स्थलेऽपि सौन्दर्यम् अपि बालकत्वम् अपि बालकपदार्थे भवतः | किन्तु यत्र सामानाधिकरण्यम् अस्ति तत्र समासो भवति इति नियमेन नोक्तम् | यावत्सु पदयुगलेषु मध्ये तत्पुरुषसमासः विहितः, तेषु युगलेषु सामानाधिकरण्यं यत्र दृश्यते, सः कर्मधारयः इति |
उद्देश्यविधेयभावापन्नयोः पदयोः मध्ये समासः एव न विहितः अतः सामानाधिकरण्यम् अस्ति चेदपि कर्मधारयः न भवति | 'सुन्दरः बालकः' इति स्थितौ समासः विहितो भवति विशेषणं विशेष्येण बहुलम् (२.१.५७) इति सूत्रेण | विशेषणं विशेष्येण बहुलम् (२.१.५७) इत्यनेन विशेषणविशेष्यभावापन्नयोः मध्ये समासः विहितः | 'सुन्दरः बालकः' इत्यत्र समासविधायकसूत्रम् अस्ति; 'बालकः सुन्दरः' इत्यत्र केनापि सूत्रेण समासः न विहितः | तस्मात् अत्र समासः एव न भवति |
२) कर्मधारयसमासस्य साधनार्थं प्रक्रिया कीदृशी ?
'सुन्दरः बालकः' इति स्थितौ प्रथमतया विशेषणं विशेष्येण बहुलम् (२.१.५७) इति सूत्रेण समासः विधीयते, तदा समासः कीदृशः इति प्रश्ने सति उत्तरपदार्थप्रधानत्वात् तत्पुरुषः (२.१.२२) इति अधिकारसूत्रेण तत्पुरुषसमासः | वस्तुतः विशेषणं विशेष्येण बहुलम् (२.१.५७) इति सूत्रं तत्पुरुषः (२.१.२२) इत्यस्य क्षेत्रे अस्ति; विशेषणं विशेष्येण बहुलम् (२.१.५७) इत्यस्य अनुवृत्तिसहितसूत्रमिदम्—सुप् विशेषणं सुपा समानाधिकरणेन विशेष्येण सह बहुलं तत्पुरुषः समासः इति | ततः अग्रे च सामानाधिकरण्यम् अस्ति अतः तत्पुरुषः समानाधिकरणः कर्मधारयः (१.२.४२) इति सूत्रेण कर्मधारयसमासः | उत्तरपदार्थप्रधानः किन्तु वैयधिकरण्यम् अस्ति चेदपि तत्पुरुषः (२.१.२२) इति सूत्रेण तत्पुरुषसमासः | यथा राज्ञः पुत्रः → राजपुत्रः | किन्तु यस्मिन् तत्पुरुषसमासे सामानाधिकरण्यम् अस्ति, सः तत्पुरुषः समानाधिकरणः कर्मधारयः (१.२.४२) इत्यनेन कर्मधारयः |
आहत्य द्वयोः पदयोः एकार्थबोधकत्वं, समानविभक्तिकत्वं, ततः सामानाधिकरण्यं च पर्याप्तं नास्ति कर्मधारयसमासस्य साधनार्थम् | प्रथमतया समासविधायकसूत्रम् अपेक्षितं, तदा एव सामानाधिकरण्ये सति कर्मधारयसमासत्वम् | कर्मधारयसमासस्थले नवसु प्रकारेषु समासविधायकसूत्रं सर्वत्र समानं न | विशेषणं विशेष्येण बहुलम् (२.१.५७) इति सूत्रेण समाससंज्ञा भवति एषां कर्मधारयप्रकाराणां कृते— विशेषणपूर्वपदस्य (नीलः मेघः, नीलमेघः), विशेषणोभयपदस्य (स्थूलः उन्नतः, स्थूलोन्नतः), अवधारणापुर्वपदस्य (गुरुः एव देवः, गुरुदेवः; विद्या एव धनं, विद्याधनम्), सम्भावनापूर्वपदस्य (अयोध्या इति नगरी, अयोध्यानगरी; कैलासः इति अद्रिः, कैलासाद्रिः; आम्रः इति वृक्षः, आम्रवृक्षः; हिमालयः इति पर्वतः, हिमालयपर्वतः), मध्यपदलोपस्य (द्व्यधिकं शतं, द्विशतम्) | विशेषणोत्तरपदकर्मधरयस्य समाससंज्ञा भवति कुत्सितानि कुत्सनैः (२.१.५३) इति भिन्नसूत्रेण | यथा वैयाकरणः खसूचिः, वैयाकरणखसूचिः (खसूचिः इत्युक्ते यः बहून् दोषान् करोति) | भिन्नसूत्रेण यतोहि विशेषणं विशेष्येण बहुलम् (२.१.५७) इति सूत्रेण विशेषणवाचकपदं पूर्वपदमेव भवति | किन्तु एकवारं यदा समासः साधितः, तदा कर्मधारयसंज्ञा नवानां कृते एकमेव सूत्रम्— तत्पुरुषः समानाधिकरणः कर्मधारयः (१.२.४२) इति |
तत्पुरुषः समानाधिकरणः कर्मधारयः (१.२.४२) इति सूत्रे 'तत्पुरुषः' किमर्थम् उक्तः इति चेत्, केवलं 'समानाधिकरणः कर्मधारयः' इति उच्यते चेत् दोषो भवति | पाचिका भार्या → पाचिकाभार्यः, यस्य पत्नी पाचिका, इति स्थितौ द्वयोः पदयोः सामानाधिकरण्यं वर्तते, किन्तु अन्यपदप्राधान्यम् अस्ति इति कारणतः बहुव्रीहिसमासः | पाचिका भार्या यस्य सः पाचिकाभार्यः | कर्मधारयः प्रायः उत्तरपदप्रधानः इति कृत्वा तत्पुरुषसमासश्रेण्यां स्थापितः |
प्रायः उत्तरपदप्रधानः तत्पुरुषः किमर्थम् उक्तम् इति चेत्, पञ्चनवतिप्रतिशतं तथा; कुत्रचिदेव उत्तरपदप्रधानः न | नरः व्याघ्रः इव नरव्याघ्रः इति पूर्वपदप्रधानः | किन्तु आधिक्येन तत्पुरुषः उत्तरपदप्रधानः इति कृत्वा स्वभावेन उत्तरपदप्रधानः | न्याये यदुच्यते लक्षणशब्देन तथा न, किन्तु स्वभावेन उत्तरपदप्रधानः |
३) कर्मधारयसमासे कीदृशं पदं विशेषणयोग्यं, कीदृशं पदं च विशेष्ययोग्यम् ?
विशेषणं विशेष्येण बहुलम् (२.१.५७) इत्यस्मिन् वि + शिष् भेदार्थे + ल्युट् करणार्थे → विशेषणम् | वि + शिष् + ण्यत् (तव्यत्-अनीयर् तुल्यः)→ विशेष्य विशेषणीयार्थे | यत् विशेषणीयम् अस्ति, तद्विशेष्यम् | अनेन विशेषणम् इति भेदकम् अस्ति, विशेष्यम् इति भेद्यम् अस्ति |
अधुना कीदृशं पदं विशेषणं भवितुं योग्यं, कीदृशं च पदं विशेष्यं भवितुं योग्यम् इति द्रष्टव्यम् | द्वयोः पदयोः मध्ये 'एतदेव विशेषणम्, एतदेव विशेष्यम्' इत्यस्य निर्धारणार्थं कतिचन नियमाः सन्ति | शब्दाः चतुर्विधाः— जातिप्रवृत्तिनिमित्तकशब्दाः, गुणप्रवृत्तिनिमित्तकशब्दाः, क्रियाप्रवृत्तिनिमित्तकशब्दाः, संज्ञाप्रवृत्तिनिमित्तकशब्दाः च | सङ्क्षेपे जातिशब्दाः, गुणशब्दाः, क्रियाशब्दाः, संज्ञाशब्दाः इति वक्तुं शक्यते | जातिः प्रवृत्तेः निमित्तं यस्य, जातिप्रवृत्तिनिमित्तकः इत्यर्थः | यथा वृक्ष-शब्दस्य प्रवृत्तेः, नाम प्रयोगस्य, निमित्तम् अस्ति वृक्षत्वजातिः, अतः वृक्षशब्दः जातिप्रवृत्तिनिमित्तकः | तर्हि शब्दाः चतुर्विधाः— जातिशब्दाः (यथा वृक्षः, उत्पलं च); गुणशब्दाः (यथा स्थूलः, उन्नतः, शीतः च); क्रियाशब्दाः (यथा पाचकः, पाठकः, नर्तकः च); संज्ञाशब्दाः (यथा अयोध्या, काशी, देवदत्तः च) | वृक्ष-शब्दस्य निमित्तं वृक्षत्वजातिः; स्थूल-शब्दस्य निमित्तं स्थौल्य-गुणः; पाचक-शब्दस्य निमित्तं पाकक्रिया; अयोध्या-शब्दस्य निमित्तम् अयोध्यात्वसंज्ञा | अयोध्या अपि संज्ञा, अयोध्यात्वम् अपि संज्ञा | आहत्य जातिशब्दाः, गुणशब्दाः, क्रियाशब्दाः, संज्ञाशब्दाः च |
1) द्वयोः पदयोर्मध्ये एकः जातिवाचकः, अन्यः गुणवाचको वा क्रियावाचको वा संज्ञावाचको वा इति चेत्, जातिशब्दस्य एव विशेष्यवाचकत्वं भवति | गुणशब्दस्य, क्रियाशब्दस्य, संज्ञाशब्दस्य च विशेषणवाचकत्वं भवति | यथा उन्नतवृक्षः, पाठकपुरुषः, अयोध्यानगरी इति |
2) पदद्वयमपि गुणवाचकम् इति चेत् किं विशेषणां किं विशेष्यम् इत्यस्मिन् कोऽपि नियमो नास्ति | स्थूलः उन्नतः → स्थूलोन्नतः | उन्नतः स्थूलः → उन्नतस्थूलः |
3) पदद्वयमपि क्रियावाचकम् इति चेदपि कोऽपि नियमो नास्ति | पाठकः नर्तकः → पाठकनर्तकः | नर्तकः पाठकः → नर्तकपाठकः |
4) द्वयोः मध्ये एकः गुणशब्दः, अन्यः क्रियाशब्दः इति चेदपि कोऽपि नियमो नास्ति | स्थूलः पाचकः → स्थूलपाचकः | पाचकः स्थूलः → पाचकस्थूलः |
5) विशेषजाति-सामान्यजातिशब्दयोः समासे विशेषजातिशब्दः नित्यं विशेषणं, सामान्यजातिशब्दः नित्यं विशेष्यः च | आम्रः इति वृक्षः → आम्रवृक्षः |
अत्र च उन्नतवृक्षः विशेषणपूर्वकर्मधारयः; स्थूलोन्नतः, नर्तकपाठकः, स्थूलपाचकः च विशेषणोभयपदकर्मधारयः; कैलासाद्रिः, आम्रवृक्षः च सम्भावनापूर्वपदकर्मधारयः इति |
४) 'आधेयताश्रयः यज्ञदत्तः' इति स्थले का गतिः ?
अधुना प्रकृतौ 'आसननिष्ठ-अधिकरणतानिरूपित-आधेयताश्रयः यज्ञदत्तः' इति स्थले यज्ञदत्तः इति उद्देश्ये विधीयते आश्रयत्वम् | तर्हि यथा 'सुन्दरः बालकः' इति स्थितौ सुन्दरः प्रथमः इत्यतः बालकस्य परिचयो भवति सौन्दर्यगुणेन, तथैव आश्रयः प्रथमः इति कृत्वा आश्रयत्वेन परिचयः दीयते यज्ञदत्तस्य इति किमर्थं न स्यात् ? यदि वास्तवे आश्रयत्वेन यज्ञदत्तस्य बोधो भवति, तदानीं विशेषणविशेष्यभावः एव | यदि पूर्वमेव यज्ञदत्तस्य परिचयः जातः, तर्हि तस्मिन् परिचिते यज्ञदत्ते यदा आश्रयत्वं विधीयते तदा उद्देश्यविधेयभावः | अतः कथनसमये तात्पर्यं किम् इत्यस्य आधारेण विशेषणविशेष्यभावः अथवा उद्देश्यविधेयभावः इति निश्चीयते |
'सुन्दरः बालकः', 'बालकः सुन्दरः' इति उभयत्रापि यः कोऽपि अर्थो भवितुम् अर्हति | वाक्यस्तरे उद्देश्यविधेयभावः यत्र अस्ति तत्र उद्देश्यवाचकत्वम् आदौ प्रयोक्तव्यं, विधेयवाचकत्वम् अनन्तरं प्रयोक्तव्यम् इति तथा किमपि नास्ति | एवमेव विशेषणविशेष्यभावस्थले, वाक्यस्तरे विशेषणवाचकत्वं पूर्वं, विशेष्यवाचकत्वम् अनन्तरम् इति तथा कोऽपि नियमो नास्ति | तात्पर्यम् एव मुख्यम् | किन्तु सामान्यव्यवहारे सुबोधार्थम् एतादृशक्रमः उपयुज्यते— उद्देश्यवाचकपदं च विशेषणवाचकपदं च पूर्वम् | अतः 'आधेयताश्रयः यज्ञदत्तः' इति स्थले 'आधेयताश्रयः' इति पदं पूर्वम् इत्यस्य एव आधारेण विशेषणविशेष्यभावः, इति वक्तुं न शक्यते; वक्तुः तात्पर्यं द्रष्टव्यम् |
यदि शतं पुरुषाः सन्ति, तेषु च नवनवतिः पुरुषाः उत्थिताः, एकः च उपविष्टः, स च एकः पुरुषः आसने उपविष्टः इति कृत्वा, महतः जनसमूहात् पृथक्करणार्थं यदि वदामः आसननिष्ठ-अधिकरणतानिरूपित-आधेयताश्रयः पुरुषः, तर्हि विशेषणविशेष्यभावः अवश्यं सिध्यति | आश्रयः पुरुषः, आश्रयपुरुषः | विशेषणपूर्वपदकर्मधारयः | विशेषणविशेष्यभावः विवक्षितः चेत्, कर्मधारयसमासः भवति एव | एतादृशीषु परिस्थितिषु सामान्यतया उद्देश्यविधेयभावः एव विवक्षितः इति कारणतः अत्र समासो न भवति इति वदामः | किन्तु यदि वास्तवे विशेषणविशेष्यभावः विवक्षितः. तर्हि समासः भवति अवश्यम् |
आश्रयशब्दः विशेषणं न भवितुम् अर्हति इति कोऽपि नियमः नास्ति; विशेषणविशेष्यभावविवक्षायाम् आश्रयशब्दः गुणवाचकः इति कृत्वा विशेषणत्वेन उपयोगो भवति अवश्यम् | तर्हि आश्रयशब्दः नियतलिङ्गशब्दः सन्नपि विशेषणत्वेन उपयोक्तुं शक्यते | महिला विशेष्यम् अस्ति चेदपि | आधेयताश्रयः महिला → आधेयताश्रयमहिला इति कर्मधारयसमासः |
दृष्टान्ते दशरथपुत्रः रामः | रामाः बहवः सन्ति— बलरामः, परशुरामः इत्यादयः | कस्य रामस्य विषये वदन्नस्ति इति ज्ञापनीयम् | तदर्थम् अत्र दशरथपुत्रः इति विशेषणं, रामः इति विशेष्यः | अधुना पुत्रशब्दस्य स्थाने अपत्यम् इति उपयुज्महे चेदपि भवति | अपत्यं नपुंसकलिङ्गशब्दः, सन्तानार्थे | दशरथापत्यं रामः | इदानीं दशरथापत्यं विशेषणम् | कर्मधारयसमासे कृते दशरथापत्यरामः | एवमेव जनकापत्यं सीता, जनकापत्यसीता |
आहत्य द्वयोः पदयोः एकार्थबोधकत्वं, समानविभक्तिकत्वं, ततः सामानाधिकरण्यं च पर्याप्तं नास्ति कर्मधारयसमासस्य साधनार्थम् | प्रथमतया समासविधायकसूत्रम् अपेक्षितं, तदा एव सामानाधिकरण्ये सति कर्मधारयसमासत्वम् | कर्मधारयसमासस्थले नवसु प्रकारेषु समासविधायकसूत्राणि विभिन्नानि | किन्तु एकवारं यदा समासः साधितः, तदा कर्मधारयसंज्ञा नवानां कृते एकमेव सूत्रम्— तत्पुरुषः समानाधिकरणः कर्मधारयः (१.२.४२) इति | विशेषणविशेष्यभाव-उद्देश्यविधेयभावयोः निर्धारणे च वक्तुः तात्पर्यं प्रमुखम् | व्यावर्तनं विवक्षा इति चेत्, शब्दक्रमः यः कोऽपि भवतु नाम— विशेषणविशेष्यभावः एव अस्ति | उद्देश्यः पूर्वमेव परिचितः इति चेत्, तत्सम्बद्धातिरिक्तं ज्ञानम् इति दीयते चेत्, उद्देश्यविधेयभावः इत्येव अस्ति |
Swarup – October 2017