12 - कालकृतपरत्वापरत्वम्
कालकृतपरत्वापरत्वम्
प्रश्नः— कालकृतपरत्वापरत्वविषये, रामशरीरेण अनुभूतक्रियाः लक्ष्मणशरीरेण अनुभूतक्रियायाः अपेक्षया अधिकाः इति कृत्वा रामः ज्येष्ठः/परः इति विद्याधरीग्रन्थे सूचयति | किन्तु प्रश्नः उदेति यत् रामः दशवर्षे मृतः च लक्ष्मणः शतवर्षाणि यावत् जीवितः चेत् लक्ष्मणे अधिकाः क्रियाः स्युः | उत्तरत्वेन प्राप्यते, यावत् पर्यन्तम् उभयोः शरीरं तिष्ठति तावत् पर्यन्तम् एव क्रियायाः गणना करणीया | परिष्काररूपेण समानकालिकशरीरयोः गणना इति उच्यते | तादृशं चिन्तनं समीचीनं वा इति प्रश्नः |
ये पूर्वजाः आसन् अस्माकं, तेऽपि ज्येष्ठाः खलु ? तेषु पूर्वजेषु कालकृतपरत्वम् अस्ति इति नैयायिकैः मन्यते चेत् तैः पूर्वजैः सह न कदापि अस्माकं समानकालिकक्रियाः अनुभूताः | कथं तर्हि ते ज्येष्ठाः/पराः इति मन्यन्ते ? समानकालिकशरीरयोः एव ज्येष्ठत्वं/परत्वं च कनिष्ठत्वम्/अपरत्वम् इत्यनयोः आरोपणम् इति विवक्षा वा ? प्रायः तथा नास्ति किल |
उदाहरणत्वेन कस्यचित् शिशोः जन्म भवति इति चिन्तयतु | एतावता तस्मिन् शिशौ क्रियाः न अनुभूताः | नितरां शून्यम् इति चिन्तयतु | शिशोः जन्मसमयात् पूर्वदिने तस्य प्रपितामहः मृतः चेदपि सः प्रपितामहः ज्येष्ठः एव खलु ? शिशोः जन्मसमये शिशोः अपेक्षया प्रपितामहे (तस्य मृतशरीरे) अधिकाः क्रियाः स्युः ये एतावत् पर्यन्तं शिशौ न आगताः खलु ? अनेन प्रपितामहे कालकृतं परत्वम् आगच्छति न वा ?
विद्याधरीग्रन्थे अपि इयमेव विवक्षा इति भाति | यतोहि रामशरीरे याः क्रियाः ताः अनुत्पन्ने लक्ष्मणे न सन्ति एव इति वदति लेखकः | लक्ष्मणस्य उत्पत्तेः पूर्वमेव याः क्रियाः अनुभूताः रामेण, ताः रामे एव सन्ति | आसां क्रियाणां कारणेन एव रामशरीरे क्रियाः अधिकाः इति मत्वा रामः परः इति प्रतीतिः | अस्य तर्कस्य आधारेण एव अस्माकं पूर्वजाः ज्येष्ठाः/पराः इति प्रतीतिः अपि आगच्छति यद्यपि पूर्वजाः अस्माकं समानकालिकाः न स्युः इति |
उत्तरम्— समानकाले यत् शरीरद्वयं भवति, तदाश्रित्य एव कालकृतपरत्वापरत्वं वक्तव्यं भवति अन्यथा प्रतिपादयितुं न शक्यते | द्वयोः शरीरयोः मध्ये एकं प्रथमम् उत्पन्नम् इति भवतु नाम; यस्मिन् क्षणे कालकृतपरत्वापरत्वव्यवहारः क्रियते, यस्मिन् काले द्वयोः शरीरयोः तुलना क्रियते, तस्मिन् क्षणे द्वयोः उपस्थितिरपेक्षते एव | उपस्थितिः इत्युक्ते जीवितोपस्थितिः; जीवनाभावे क्रिया अनुभूता न भवति |
दृष्टान्ते विवेकानन्दः चत्वारिंशत्तमे वर्षे दिवङ्गतः जातः | इदानीन्तने काले कस्यचित् श्यामस्य चत्वारिंशदधिकानि वर्षाणि जातानि इति चिन्तयतु | अधुना श्यामः विवेकानन्दस्य अपेक्षया ज्येष्ठः इति न भवति वस्तुतः | किमर्थमिति चेत्, परत्वापरत्वस्य, ज्येष्ठत्वकनिष्ठत्वस्य तादृशलोकव्यवहारो नास्ति | समानकाले यत् शरीरद्वयं भवति, तत्रैव वक्तव्यं भवति |
अत्र चिन्तनविधिः कः ? विवेकानन्दस्य अपेक्षया श्यामः परः इति वक्तव्यं चेत्, विवेकानन्दस्य शरीरस्य अत्यन्ताभावः अस्ति इदानीम् | विवेकानन्दस्य शरीरे सत्येव किं परं किम् अपरम् इति वक्तुं शक्यते | अधुना तस्य शरीरमेव नास्ति इति कारणेन तत्र परत्वापरत्वव्यवहार एव न भवति | यस्य अत्यन्ताभावः अस्ति, तस्य विषये परत्वापरत्वम् अनुभोक्तुं न पार्यते |
परत्वापरत्वव्यवहारः कदा भवति ? यदा कस्यचित् शरीरं वर्तते तदानीमेव भवति, न तु अन्यथा | नियमरूपेण वक्तव्यं चेत्, कुत्र परत्वम् अस्ति कुत्र अपरत्वम् अस्ति इति वक्तव्यं चेत्, परत्वस्य आश्रयीभूतं द्रव्यम् अपेक्षितम् | अपरत्वस्य च आश्रयीभूतं द्रव्यम् अपेक्षितम् | तस्मिन् द्रव्ये सत्येव एतत् परम् एतदपरम् इति व्यवहारः | सिद्धान्ततया— तस्य गुणस्य आश्रयीभूतस्य द्रव्यस्य सत्त्वे एव एवं व्यवहारो भवति |
इदानीं विवेकानन्दे अपरत्वम् अस्ति वा इति कथं प्रष्टुं शक्नुमः ? अधुना अपरत्वमिति गुणस्य आश्रयीभूतं द्रव्यमेव नास्ति | आश्रयीभूतं द्रव्यं विना गुणस्य सत्त्वमेव न सम्भवति | इत्येव अत्र युक्तिः | अतः पूर्वजानां ज्येष्ठत्वं वा परत्वं वा इति विषयो एव न आगच्छति | अनया युक्त्या प्रपितामहः दिवङ्गतः तदा शिशोः जन्म उत्पन्नम्, अत्रापि ज्येष्ठत्वं कनिष्ठत्वं चेति वक्तुं न शक्यते |
एवमेव 'रामः दशवर्षे मृतः च लक्ष्मणः शतवर्षाणि यावत् जीवितः चेत् लक्ष्मणे अधिकाः क्रियाः स्युः'—अधुना प्रायः स्पष्टः एव किमर्थं तथा न भवति | यस्मिन् क्षणे कालकृतपरत्वापरत्वव्यवहारः क्रियते, तस्मिन् क्षणे द्वयोः उपस्थितिरपेक्षते एव | रामस्य मरणानन्तरं लक्ष्मणः अनेकानि वर्षाणि जीवति इति भवतु नाम, तस्मिन् समये परत्वापरत्वव्यवहारो नास्ति |
ज्येष्ठत्वं च कनिष्ठत्वं चेति व्यवहारः सापेक्षा भवति; आपेक्षिकः भवति | इत्युक्ते 'एतस्य अपेक्षया एषः परः', 'एतस्य अपेक्षया एषः अपरः' इत्येव व्यवहारः सर्वत्र भवति | केवलं व्यवहारः इति न, तस्य पदार्थस्य स्वरूपमपि तादृशमेव | परत्वम् अपरत्वञ्च एतद्द्वयमपि सापेक्षमेव भवति सर्वदा | सापेक्षयोः द्वयोः पदार्थयोः व्यवहारः तदा भवति, यदा द्वयोः अपि अस्तित्वं सम्भवति | परत्वम् अपरत्वम् इत्येतयोः द्वयोः उपस्थितौ सत्यामेव व्यवहारः सम्भवति | अपि च तदाश्रयीभूतं द्रव्यम् अस्ति चेदेव सम्भवति | इदानीं प्रपितामहस्य शरीरं नास्ति इति कारणेन 'तदपेक्षया एषः अपरः' इति व्यवहारः एव असम्भवः | यतोहि गुणस्य आश्रयीभूतं द्रव्यं नास्ति | आश्रयीभूतद्रव्यस्य अभावे सति परत्वं न सम्भवति | परत्वं न सम्भवति इति कारणेन 'अपरत्वं शिशोः शरीरे अस्ति' इति वक्तव्यं चेत्, किमपेक्षया अपरत्वमिति वक्तव्यम् | तन्नास्त्येव तत्र, यतोहि प्रपितामहस्य शरीरमेव नास्ति | एतादृशस्थितौ परत्वापरत्वव्यवहारः न भवति | केवलं 'पूर्वजः' 'उत्तरजः' इति वक्तुं शक्यते |
Swarup – March 2018