15 - औदासीन्यम्
ध्वनिमुद्रणम् -
१) audAsiinyam_+_rUpalakShaNe-gurutvasya-nivAraNam_dravatva-paricayaH_2018-05-05
गुरुत्वलक्षणवाक्ये कार्यतायां समवायसम्बन्धावच्छिन्नत्वस्य उपादाने यद्यपि त्रिषु दोषेषु कोऽपि दोषो नास्ति, तथापि तस्य निवेशनेन वैयर्थ्यं प्रदर्शितम्—अतः तस्य अनावश्यकता पर्यवसिता | अस्मिन्नेव प्रसङ्गे द्रवत्वलक्षणवाक्येऽपि तादृशी वार्ता भवति | नाम, एकवारं यदा कार्यातायाम् अवच्छेदकधर्मः निवेशितः, तदा तस्याम्मेव कार्यतायाम् अवच्छेदकसम्बन्धस्य आवश्यकता नास्ति | तदर्थं विद्याधर्यां वाक्यं दत्तमस्ति (पृ०स०११२) 'इत्थमेव अग्रिमे द्रवत्वलक्षणेऽपि आद्यस्यन्दनत्वावच्छिन्नत्वस्य कार्यतायां निवेशादेव उदासीने असमवायिकारणे अतिव्याप्तिर्वार्यते इति तत्रापि कार्यतायां समवायसम्बन्धावच्छिन्नत्वं न देयमेव |'
प्रश्नः— उदासीनशब्दस्य कः अर्थः, किमर्थञ्च अत्र प्रयुक्तः ?
उत्तरं— ग्रन्थे एव दत्तमस्ति 'उदासीनमित्यस्य प्रकृतासम्बद्धमित्यर्थः' | उदासीनशब्दस्य अर्थो भवति प्रकृतासम्बद्धम् | यथा गुरुत्वस्य लक्षणम् 'आद्यपतनासमवायिकारणं गुरुत्वम्' | एवमेव 'आद्यस्यन्दनासमवायिकारणं द्रवत्वम्' | उभयत्र वार्ता समाना | तत्र दलप्रयोजनं चिन्तयामः चेत्, गुरुत्वस्थले समवायसम्बन्धावच्छिन्न-आद्यपतनत्वावच्छिन्नकार्यतानिरूपित-समवायसम्बन्धावच्छिन्नकारणताश्रयत्वं गुरुत्वस्य लक्षणम् इति प्रथमतया आगच्छति | तत्र अस्माभिः किं दृष्टम् ? यदि लक्षणे आद्यपतनत्वावच्छिन्नत्वं न दीयते, तर्हि किं लक्षणम् अवशिष्यते ? समवायसम्बन्धावच्छिन्नकार्यतानिरूपित-समवायसम्बन्धावच्छिन्नकारणताश्रयत्वम् इति | अस्य अतिव्याप्तिः कुत्र ? यत्र कुत्रापि असमवायिकारणे | उदासीने | प्रकृते यदिष्टं नास्ति | प्रकृते किं प्रवर्तमानम् अस्ति ? गुरुत्वलक्षणम् | इदानीम् उक्तलक्षणवाक्यञ्च गुरुत्वे गच्छति किन्तु अन्यत्रापि गच्छति | कुत्र ? कपालसंयोगे | तर्हि कपालसंयोगः अत्र उदासीनः | यतोहि प्रसङ्गे तस्य काऽपि आवश्यकता नास्ति | गुरुत्वलक्षणस्य प्रतिपालनक्रमे कपालसंयोगस्य का उपयोगिता ? काऽपि नास्ति | अतः स च कपालसंयोगः उदासीनः |
उदासीनः नाम यत्र अस्माकम् अपेक्षा नास्ति | यथा कस्मिंश्चित् विषये चर्चा प्रवर्तमाना | तदा कोऽपि अन्यत् किमपि वदति यत् असम्बद्धम् | इति चेत्, सः उदासीनं वदति | अप्रासङ्गिकम् | प्रकृतासम्बद्धम् | प्रकृतेन सह यत् सम्बद्धं नास्ति | प्रकृतगुरुत्वलक्षणविषये, कपालसंयोगः उदासीनः | तत्र अतिव्याप्तिः | एवमेव कार्यतायां समवायसम्बन्धावच्छिन्नत्वं तथैव उदासीनम् |
प्रसङ्गे, लोके उदासीन-सम्प्रदायः अस्ति | तेषां विचारोऽयं 'विषयेभ्यः औदासीन्यम्' इति | उदासीनता-भावः | लौकिकविषयेभ्यः औदासीन्यं नाम जगति यत्किमपि अस्ति, तस्मिन् लिप्तता मास्तु | यत्किमपि जीवने आगच्छति तत्प्रति उदासीनभावः— आगतः, गतश्च— तस्यां दिशि मनसि रुचिः न स्यात्, चिन्तनं न स्यात् | क्रोधो वा रागो वा, उभयमपि न स्यात् | इति उदासीनभावः |
तर्हि शास्त्रे उदासीनशब्दो नाम प्रकृतासम्बद्धम् | उदासीनस्य अर्थः शास्त्रे च सम्प्रदाये च साम्यम् अस्ति | 'यस्य किमपि प्रयोजनं नास्ति' | रागद्वेशक्रोधादीनां जीवने किमपि प्रयोजनं नास्ति | एवमेव रीत्या गुरुत्वलक्षणवाक्यस्य कार्यतायां समवायसम्बन्धावच्छिन्नत्वस्य किमपि प्रयोजनं नास्ति |
Swarup – April 2018