10---nyAyashAstram/10---prashnAH-uttarANi-ca/3-astinastiabhavah: Difference between revisions

Added texts
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
(Added texts)
Line 1:
<big>अस्ति, नास्ति, अभावः</big>
<please replace this with content from corresponding Google Sites page>
 
 
<big>प्रश्नः­—</big>
 
<big>- - - - - - - - - - - - - - - - -</big>
 
<big>३६ तमे पुटे एवं लिखितं -</big>
 
<big>"'''भूतलं घटाभाववत् इति ज्ञानस्तले दैशिकविशेषणता संसर्गमादाय चिन्त्यम्''' |”</big>
 
 
<big>"प्राकृतमनुसरामः | सर्वेऽपि पदार्थः स्वस्मिन् तादात्म्यसम्बन्धेन भवति | '''तेन सम्बन्धेन नास्तीति अभावः एव अन्योन्याभवः''', भेदः | स च चतुर्थः अभावः | तादात्म्यसम्बन्धस्य प्रतियोगितावच्छेदकत्वम् उपरिष्टात् साधयिष्यते इत्यलम् |"</big>
 
 
<big>अत्र उक्तं "'''भूतलं घट-अन्योन्यभाववत् इति ज्ञानस्तले तदात्म्यसम्बन्धः वर्तते" | भूतलं घट-अत्यन्ताभाववत् इति ज्ञानस्तले स्वरूपसम्बन्धः इति खलु |'''</big>
 
 
<big>कृपया मम संशयं निवारयतु |</big>
 
<big>- - - - - - - - - - - - - - - - -</big>
 
 
<big>उत्तरम्‌—</big>
 
<big>"'''भूतलं घट-अन्योन्यभाववत् इति ज्ञानस्तले तदात्म्यसम्बन्धः वर्तते'''" इति तु ग्रन्थकारेण न उक्तम्‌ |</big>
 
 
<big>अत्र 'नास्ति', 'अभावः' अनयोः भेदः अवगन्तव्यः |</big>
 
 
<big>घटः भूतले अस्ति इति चिन्त्यताम्‌ | केन सम्बन्धेन ? संयोगसम्बन्धेन |</big>
 
<big>अधुना घटः भूतले नास्ति इति चिन्त्यताम्‌ | केन सम्बन्धेन नास्ति ? संयोगसम्बन्धेन एव |</big>
 
 
<big>किमपि वस्तु अपरस्मिन्‌ अस्ति चेत्‌, येन सम्बन्धेन ''अस्ति'', तेन एव सम्बन्धेन अपि भवति यदा ''नास्ति'' |</big>
 
 
<big>किन्तु तस्य एव अभावः यदा अस्ति, तदा स च अभावः अन्येन सम्बन्धेन भवति | घटस्य अत्यन्ताभावः भूतले अस्ति चेत्‌, '''स्वरूपसम्बन्धेन''' भवति | परन्तु तस्मिन्‌ एव समये यदि वदामः यत्‌ घटः भूतले नास्ति, तर्हि तत्र '''संयोगसम्बन्धेन''' नास्ति |</big>
 
 
<big>अतः किमपि वस्तु नास्ति, अपि च तस्य अभावः अस्ति, उभयत्र सम्बन्धः भिन्नः |</big>
 
 
<big>निष्कर्षत्वेन यदा ग्रन्थकारः लिखति यत्‌ "सर्वेऽपि पदार्थः स्वस्मिन् तादात्म्यसम्बन्धेन भवति | तेन सम्बन्धेन नास्तीति अभावः एव अन्योन्याभवः”—</big>
 
 
<big>अत्र "सर्वेऽपि पदार्थः स्वस्मिन् तादात्म्यसम्बन्धेन भवति" इत्युक्ते घटः स्वस्मिन्‌ अस्ति तादात्म्यसम्बन्धेन | तदा "तेन सम्बन्धेन नास्तीति" इत्युक्ते '''घटः पटः न तादात्म्यसम्बन्धेन''', ''न तु'' '''घटस्य अन्योनाभावः पटे अस्ति तादात्म्यसम्बन्धेन''' | अनेन उपवाक्येन भ्रमः भवति | कीदृशभ्रमः ? यत्‌ येन सम्बन्धे वस्तु अधिकरणे नास्ति, तेन एव सम्बन्धेन तस्य अभावः तस्मिन्‌ अधिकरणे अस्ति— इदं नितरां दोषाय |</big>
 
 
<big>अतः खलु ३१ इति पृष्ठसङ्ख्यायां लिखितम्‌ अस्ति, “सर्वोऽपि पदार्थः उक्तसम्बन्धेन स्वस्मिन्‌ भवति | तेन सम्बन्धेन घटो नास्तीत्यभावः घटं विहाय जगति सर्वत्र भवति |” अत्र अन्योन्यभावः इति नोक्तम्‌; घटो नास्ति इत्येव उक्तम्‌ |</big>
 
 
<big>यः कोऽपि अभावः भवतु नाम, स च अभावः स्वस्य अधिकरणे तिष्ठति स्वरूपसम्बन्धेन | अत्यन्ताभावः भवतु, अन्योनाभावः भवतु, स्वरूपसम्बन्धेन एव तिष्ठति |</big>
 
 
<big>Swarup – November 2015</big>
teachers
746

edits