14 - मनसः लक्षणम्
मनसः आत्मनः च कः सम्बन्धः ? संयोगसम्बन्धः | किमर्थम् ? मनः आत्मा च द्रव्ये; द्रव्ययोः संयोगसम्बन्धः भवति | तत्र द्वयोः मध्ये किं कस्मिन् ? कः आधारः कः आधेयः ? इति चेत् वृत्ति-अनियामकसम्बन्धः | केवलं संयोगः अस्ति, तावत् एव |
'जीवात्मा सुखी' (अथवा सौकर्यार्थम् 'आत्मा सूखी') इति आकारे, कारणं किम् ? 'आत्मा सुखी' इत्येकं ज्ञानम् | तस्य च ज्ञानस्य कारणं किम् ? तत्र आत्मा कारणं वा ? मनः कारणं वा ?
अत्र प्रथमतया कारणं नाम किम् इति किञ्चित् पुनस्स्मरामः | पूर्वमेव अस्माभिः दृष्टंं यत् कस्यचित् फलस्य, कार्यस्य किञ्चित् 'कारणं' भवति चेत्, त्रयः निकषाः सन्ति—
१) कार्याधिकरणे भवेत्
२) कार्याधिकरणे सर्वदा भवेत्
३) कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे भवेत् |
अतः एतत् सर्वं दृष्ट्वा जानीमः यत् 'अहं सुखी' इति ज्ञानम्, अत्र कार्यम् | इदं ज्ञानं कुत्र उत्पद्यते ? आत्मनि | 'ज्ञानाधिकरणम् आत्मा' इति लक्षणवाक्यम् अस्ति किल | अतः कार्याधिकरणम् आत्मा | आत्मा एव कार्याधिकरणं, किन्तु आत्मा कार्याधिकरणे अस्ति वा ? आत्मा स्वस्मिन् भवति वा ? पूर्वम् अस्माभिः दृष्टं यत् आत्मा तादात्म्यसम्बन्धेन स्वस्मिन् अस्ति | सर्वादा अस्ति, पूर्वक्षणेऽपि अस्ति | आत्मा नास्ति चेत् ज्ञानं न उत्पद्यते इति कृत्वा आत्मा 'अहं सुखी' इति ज्ञानस्य कारणम् | मनः अपि तथा | मनः संयोगसम्बन्धेन आत्मनि | (अथवा आत्मा मनसि यतोहि वृत्ति-अनियामकसम्बन्धः |) अतः आहत्य ज्ञानरूपिकार्यं प्रति आत्मा अपि कारणं, मनः अपि कारणम् |
कारणं त्रिप्रकारकम्— समवायीकारणम्, असमवायीकारणं, निमित्तकारणं च | समवायीकारणस्य द्वौ निकषौ— यत् (१) कार्यं प्रति कारणं भवति, अपि च (२) कार्यस्य अधिकरणं भवति समवायसम्बन्धेन— तत् समवायीकारणम् इति उच्यते | अतः 'अहं सुखी' इति ज्ञानं प्रति, आत्मा समवायीकारणं भवति |
असमवायीकारणं नाम किम् ? समवायीकारणं सदा यत्किमपि द्रव्यं भवति एव | घटस्य समवायीकारणं कपालः; पटस्य समवायीकारणं तन्तुः | असमवायीकारणस्य द्वौ निकषौ— (१) यत् समवायीकारणं द्रव्यं, तस्मिन् विद्यमानः कश्चन गुणः अथवा काचित् क्रिया, असमवायीकारणं भवति; (२) सः गुणः क्रिया च, कार्यं प्रति कारणीभूता स्यात् | अत्र पटस्य उदाहरणं पश्यामः | पटस्य समवायीकारणं तन्तुः | तन्तौ विद्यमानः कश्चन गुणः अपेक्षितः यः पटं प्रति कारणम् अस्ति | स च गुणः तन्तुसंयोगः भवति | तन्तूनां परस्परसंयोगः, पटं प्रति कारणमेव | यतोहि ते तन्तवः परस्परं संयुज्यन्ते इत्येव किल तत्र पटः जायते | अतः तन्तुसंयोगः असमवायीकारणम् |
क्रियायाः उदाहरणं पश्यामः | काचन उत्पीठिका अस्ति | अहम् उत्पीठिकां स्पृशामि | हस्त-उत्पीठिकयोः स्पर्शसमये संयोगः जायते | तर्हि अत्र संयोगः कार्यम् | अयं संयोगः कश्चन गुणः | चतुर्विंशतौ गुणेषु संयोगः अन्यतमः | तस्य संयोगस्य समवायीकारणं किम् इत्युक्ते उत्पीठिका हस्तः च | यत् कार्यस्य अधिकरणं भवति समवायसम्बन्धेन, तत् समवायीकारणम् | समवायीकारणम् उत्पीठिका हस्तः च, एतद्द्वयम् | अत्र असमवायीकारणं किम् इत्युक्ते, हस्ते विद्यमाना क्रिया | यतोहि हस्ते काचित् क्रिया जाता, तस्मात् हस्तस्य उत्पीठिकायाः संयोगः जातः | अतः इदानीं हस्त-उत्पीठिकयोः संयोगं प्रति हस्ते विद्यमाना क्रिया असमवायीकारणं भवति |
समवायीकारणम्, असमवायीकारणं च विहाय अन्यानि यानि यानि कारणानि, तानि सर्वाणि निमित्तकारणानि एव | अत्र मनः निमित्तकारणं भवति | निमित्तकारणं किमर्थम् ? प्रथमतया मनः कारणम् अस्ति इति तु सत्यमेव | “मयि सुखं जायते" इति ज्ञाने प्रक्रिया एवं भवति— आदौ आत्मा मनसा संयुज्यते, अनन्तरं मनः इन्द्रियैः सह संयुज्यते, अन्ते इन्द्रियाणि पदर्थैः सह संयुज्यन्ते |
उदाहरणार्थम् अहम् एकं चित्रं पश्यामि, तस्मात् च सुखं जायते इति चिन्तयन्तु | आदौ आत्मा मनसा सह संयुज्यते, तदा मनः चक्षुरिन्द्रियेण सह संयुज्यते, अन्ते इन्द्रियं चित्रेण सह संयुज्यते | तदानीं सुखं जायते आत्मनि | अतः तत्र आत्मनि यत् सुखं जायते, तत् प्रति मनः अपि कारणं भवति, इन्द्रियम् अपि कारणं भवति, तच्चित्रमपि कारणं भवति | इमानि सर्वाणि अपि निमित्तकारणानि भवन्ति |
समवायीकारणम्, असमवायीकारणं च विहाय अन्यानि यानि यानि कारणानि, तानि सर्वाणि निमित्तकारणानि एव | तस्मात् मनः अपि निमित्तकारणं, शरीरमपि अपि निमित्तकारणम्, इन्द्रियम् अपि निमित्तकारणं, तच्चित्रमपि निमित्तकारणम् | अपि च समवायीकारणम् आत्मा, असमवायीकारणम् आत्ममनस्संयोगः |
एतत् सर्वं दृष्ट्वा मनसः लक्षणवाक्यकथनावसरे, दलद्वयम् अपेक्षितम् | एतावत् पर्यन्तं यत् उक्तं, तेन प्रमाणितं यत् दलद्वयं नास्ति चेत् अतिव्याप्तिः | अस्मिन् प्रसङ्गे अग्रेऽपि शास्त्रीयरीत्या उच्यते |
सुखाद्युपलब्धिसाधनत्वम्, इद्रियत्वम् च | सुखाद्युपलब्धिसाधनत्वे सति इन्द्रियत्वं मनसः लक्षणम् | अत्र इन्द्रियवत्त्वं वक्तव्यं वा, इन्द्रियत्वं वक्तव्यं वा ? यथा रूपरहितत्वे सति स्पर्शवत्त्वं वायोः लक्षणम् | तथा इन्द्रियवत्त्वम् इति वक्तव्यं किल ? किन्तु स्मर्तव्यं यत् वायोः प्रसङ्गे स्पर्शः कश्चन गुणः अस्ति | वायुः द्रव्यं च | अतः वायुः स्पर्शवान् भवति | तस्मात् वायौ स्पर्शवत्त्वम् | किन्तु मनसः प्रसङ्गे इन्द्रियं गुणः वा ? नास्ति किल; मनः एव इन्द्रियम् | यथा स्पर्शः वायौ अस्ति, तथा इन्द्रियं मनसि अस्ति इति नास्ति; मनः एव इन्द्रियम् अतः इन्द्रियत्वम् इति तावत् एव | इन्द्रियवत्त्वम् इति अत्र न अपेक्षितम् | सुखाद्युपलब्धिसाधनत्वम् अपि मनसि अस्ति, इन्द्रियत्वम् अपि मनसि अस्ति | अतः सुखाद्युपलब्धिसाधनत्वे सति इन्द्रियत्वं मनसः लक्षणम् |
इदानीं सुखाद्युपलब्धिसाधनत्वम् | तस्य विस्तृतरूपेण वदनार्थम् एकं किञ्चित् दीर्घवाक्यम् अपेक्षते यथा अस्माभिः दृष्टं निरूपितं च कालस्य कृते | एतत् सर्वं परिशीलयामः 'आत्मा सुखी' इति प्रसङ्गे | 'आत्मा सुखी' इत्यनेन सुखं कुत्र ? आत्मनि | अधुना 'आत्मा सुखी' इति ज्ञानम्; अतः आत्मा अपि ज्ञानस्य विषयः, सुखम् अपि ज्ञानस्य विषयः | विषये विषयता अस्ति, तस्मात् उभये (आत्मनि सुखे च) विषयता | अपि च सुखम् आत्मनि इति कारणेन आत्मा विशेष्यं, सुखं विशेषणम् | तर्हि सुखे का नामिका विषयता ? प्रकारता | आत्मनि का नामिका विषयता ? विशेष्यता | इति कृत्वा अस्माकं वाक्यद्वयम् उत्पन्नम्— सुखनिष्ठप्रकारतानिरूपकं ज्ञानम्, आत्मनिष्ठविशेष्यतानिरूपकं ज्ञानम् | सुखे विद्यमानः धर्मः सुखत्वम्; आत्मनि विद्यमानः धर्मः आत्मत्वम् | एतदाधारेण लक्षणवाक्यं भवति | तत् किम् ? सुखत्वावच्छिन्न-प्रकारतानिरूपित, आत्मत्वावच्छिन्नविशेष्यतानिरूपक-प्रत्यक्षज्ञाननिष्ठ-प्रत्यक्षत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वे सति इन्द्रियत्वं मनसः लक्षणम् | अनेन सुखाद्युपलब्धिसाधनत्वे सति इन्द्रियत्वं मनसः लक्षणम् |
अत्र इन्द्रियत्वं किमर्थं योजनीयम् आसीत् ? यतोहि सुखाद्युपलब्धिसाधनत्वम् इति कारणत्वं बहुषु वर्तते न केवलं मनसि | यथा शरीरम् | सुखादिसाक्षात्कारं प्रति शरीरमपि कारणं भवति | शरीरावच्छेदेन खलु सुखं जायते | शरीरं नास्ति चेत्, सुखं न भवति | अत्मनि एव सुखं जायते इति सत्यं किन्तु आत्मनः यावन्तं भागं शरीरम् आवृणोति, तावति भागे एव सुखम् अनुभूयते | दृष्टान्ते इदनीं ग्रीष्मकाले अहं व्यजनं चालयामि | वायुः वाति | वायोः स्पर्शेन सुखम् अनुभूयते | कुत्र अनुभूयते इति चेत्, वस्तुतः आत्मनि एव | किन्तु आत्मनः यावन्तं भागं मम शरीरम् आवृत्य तिष्ठति, तावति भागे एव सुखम् अनुभूयते | अतः शरीरम् अपि सुखस्य साक्षात्कारे कारणं भवति | व्यजनम् अपि सुखादिसाक्षात्कारं प्रति कारणमेव | अत्र बहूनि कारणानि भवन्ति | आत्मा इति समवायीकारणं भवति, आत्ममनसंयोगः इति असमवायीकारणं, तदा अनेकानि निमित्तकारणानि | तेषाम् अतिव्याप्तेः वारणाय इन्द्रियत्वम् अपि वक्तव्यं भवति |
Swarup – July 2016
परिशिष्टम्
चित्रस्य दर्शनात् आत्मनि 'अहं सुखी' इति ज्ञानावसरे मनः अपि निमित्तकारणं, चक्षुरिन्द्रियम् अपि निमित्तकारणम् इत्यस्मात् मनसः लक्षणवाक्ये अतिव्याप्तिः अस्तीति कुत्रचित् केषाञ्चित् शङ्का स्यात् | यतोहि सुखाद्युपलब्धिसाधनत्वे सति इन्द्रियत्वम् इति मनसः लक्षणम् | तत्र चक्षुरिन्द्रियं तु इन्द्रियम् अस्त्येव अतः तस्मिन् इन्द्रियत्वं; तदा सुखाद्युपलब्धिसाधनत्वम् अपि चक्षुरिन्द्रिये अस्ति चेत् अतिव्याप्तेः प्रसङ्गः तु नास्ति किम् ?
वस्तुतस्तु उपरितनपाठे अनौपचारिकत्वेन कारणस्य परिचयः दीयते, येन समवायीकारणम्, असमवायीकारणं, निमित्तकारणं चास्माभिः बुद्धं स्यात् | गम्भीररूपेण अवगन्तव्यं चेत्, ततः अग्रे बहुकिमपि वक्तव्यं भवति; तस्य वक्तव्यस्य कश्चन उपभागः अत्र प्रस्तूयते |
कारणत्वं यदा उच्यते, तदा इतोऽपि वार्ताद्वयं परिशीलनीयं भवति— साधारणासाधारणकारणत्वं, साक्षादसाक्षात्कारणत्वं च | न्यायशास्त्रे लक्षणवाक्येषु असाधारणकारणत्वं साक्षात्कारणत्वं च निविष्टम् | निविष्टं नाम यद्यपि नोक्तं, किन्तु अन्तर्गतम् | यथा— कालः ईश्वरः च साधारणकारणानि; तानि तु लोके सर्वेषां कारणं भवन्ति इति कृत्वा लक्षणकारणत्वे मास्तु इति स्वीकारः | असाक्षात्कारणत्वमपि तथा; यस्मिन् कथञ्चित् असाक्षात्कारणत्वं वर्तते, तत् लक्षणवाक्ये मास्तु इति स्वीकारः |
तदर्थं प्रकृते लक्षणे, सुखाद्युपलब्धिसाधनत्वे, 'साक्षात् कारणत्वं' लक्षणवाक्ये नोक्तं, किन्तु यतोहि न्यायशास्त्रे लक्षणवाक्येषु सर्वत्र अन्तर्गतं, निवेशनीयम्, अतः अत्रापि भवति | नो चेत् साधारणकारणानि यत्रकुत्रचिदपि नेतुं शक्यन्ते यथा कालादयः |
'चित्रदर्शनात् सुखं जायते' इति स्थितौ, साक्षात् कारणत्वं कुत्र इति पश्येम | समवायीकारणम् आत्मा, असमवायीकारणम् आत्ममनस्संयोगः, तदा निमित्तकारणं किम् ?
चित्रं पश्यति इत्युक्तौ चक्षुरिन्द्रियस्य चित्रस्य च सन्निकर्षः | तत्र चित्रे किञ्चन वस्तु निरूपितं, वर्णितं भवति | चित्रस्य दर्शनेन चित्रे विद्यमानस्य कस्यचित् तत्सदृशवस्तुनः स्मरणं भवति | अनन्तरं तत् विषयीभूतं वस्तु यस्य कृते प्रियं, तस्मिन् आत्मनि सुखं जायते | तर्हि सुखस्य साक्षात् कारणं किं भवति इत्युक्ते तत् प्रियं वस्तु | यदि अप्रियं वस्तु, तर्हि तदनुसृत्य दुःखं जायते न तु सुखम् | अतः प्रियं वस्तु सुखस्य साक्षात् कारणम् |
पुनः— सुखं कथं जायते इत्युक्ते चित्रदर्शनोत्तरकाले, किमपि वस्तु यस्य चित्रणं कृतं, तस्य वस्तुनः स्मरणं जायते; तस्मात् स्मरणात् च सुखम् उत्पद्यते | किन्तु तत् वस्तु अत्र चित्रे न भवति खलु | तद्वस्तु अन्यत्र कुत्रचित् भवति, देशान्तरे | तस्य वस्तुनः सदृशचित्रदर्शनेन स्मरणं, तस्मात् च किञ्चन ज्ञानं जायते | तस्य ज्ञानस्य उत्पत्त्यनन्तरं, वस्तु प्रियं चेत्, सुखं जायते |
तत्र चित्रम् एकं माध्यमं येन वर्णितवस्तुनः स्मरणं स्यात् | वस्तु साक्षात् निमित्तकाराम्, अन्यत् सर्वं चित्रं, चित्र-इन्द्रियसंयोगः इत्यादिकं येन वस्तुनः स्मरणम् उत्पद्येत, तत्सर्वं कारणस्य कारणं— असाक्षात् कारणम् | असाक्षात्कारणत्वं लक्षणवाक्ये न निविष्टम् |
बोध्यं यत् विभिन्नरीत्या वस्तुनः स्मरणं मनसि आगच्छेत्; तासु रीतिषु चित्रदर्शनम् एका | किन्तु मूलसाक्षात् असाधारणकाराणं तत् वस्तु न तु चित्रम् |
तस्मात् लक्षणदृष्ट्या सुखं प्रति चक्षुरिन्द्रियं न कारणम्, अपि तु प्रयोजकम् एव | चित्रदर्शनेन यत् सुखं जायते, तस्मिन् चक्षुरादीनां साक्षात् कारणत्वं नास्ति; परम्परया किञ्चन निमित्तकारणत्वमेव | ततः अग्रे सुखं प्रति चक्षुरिन्द्रियं कारणं वस्तुतः न भवति; कारणस्य कारणम् इत्यस्ति, तस्मात् प्रयोजकम् इति वक्तव्यम् | अनौपचारिकरूपेण "निमित्तकारणम्" इति तु उच्यते, किन्तु वस्तुस्थितिः तथा न | अस्मिन् क्रमे चक्षुरिन्द्रियं साक्षात् कारणं न भवति | चक्षुरिन्द्रियं कुत्र साक्षात् कारणम् इति चेत्, अस्य चित्रस्य दर्शने कारणम् |
अधुना प्रतिपक्षी वदति यत् यस्य चक्षुरिन्द्रियं नास्ति, यः अन्धः, द्रष्टुमपि न शक्नोति, तस्य कृते तादृशचित्रं सुखस्य कारणं न भवितुम् अर्हति | अतः यत्र चित्रेण वस्तु वर्णितं, नाम चित्रं यत्र माध्यमेन सुखस्य कारणं तत्र चक्षुरिन्द्रियम् अपि कारणं— तदभावे चित्रात् सुखं न जायते |
किन्तु यत् प्रियवस्तु चित्रे वर्णितं, सः अन्धः कदाचित् चिन्तयति तस्य प्रियवस्तुनः विषये, अनेन प्रियवस्तुनः स्मरणं जातं, तदा आत्मनि सुखं जायते | अत्र चित्रे वर्णितं वस्तु सुखस्य कारणं, किन्तु अन्धस्य चक्षुरिन्द्रियं नास्ति, अतः व्यभिचारः | नाम कार्यम् अस्ति, कार्यं साधितं किन्तु चक्षुरिन्द्रियं नास्ति अतः चक्षुरिन्द्रियं कारणं न |
अधुना प्रतिपक्षी वदति यत् तच्चित्रं किन्तु सुखस्य माध्यमं न भवितुम् अर्हति यत्र चक्षुरिन्द्रियं नास्ति | अत्र उत्तरम् अस्ति यत् चित्रं सुखस्य कारणं न; प्रियवस्तु, चित्रं च समानं न | चित्रं वस्तुस्मारक-रेखाविन्यासः, न तु प्रियवस्तु स्वयम् | चित्रम् अन्यत्, वस्तु अन्यत् | चित्रे पश्यति किम् ? रेखाविन्यासं न तु मूलपदार्थम् | प्रियपदार्थः पुरतः नास्ति किल | रेखोपरेखाविन्यासस्य दर्शनेन तत्सदृशवस्तुनः स्मरणं भवति | प्रियवस्तुनः स्मरणमेव सुखं प्रति कारणं, न तु रेखोपरेखाविन्यासस्य दर्शनम् |
वस्तुतः एतादृशसुखस्य उत्पादने दीर्घपरम्परा अस्ति, परन्तु सर्वं क्षणाभ्यन्तरे भवति इत्यतः चक्षुरिन्द्रियवशात् एव सुखम् उत्पन्नम् इति अस्माकं भ्रमः | किन्तु चक्षुरिन्द्रियं केवलं प्रयोजकम् | प्रयोजकं नाम कारणस्य कारणम् | कारण-कारण-कारणम् इति प्रयोजकम् | अतः अत्र चित्रम् अपि प्रयोजकम् | न्याये यत् साक्षात् कारणं, तदेव कारणम् |
अतः सुखाद्युपलब्धिसाधनत्वे सति इन्द्रियत्वं मनसः एव लक्षणं; चक्षुरिन्द्रियस्य अतिव्याप्तिः नास्ति | किन्तु एतदपि मनसि भवेत् यत् उपरितने पाठे यादृशी चर्चा कृता, साऽपि न्यायशास्त्रस्य प्रकोष्ठेषु अतिसामान्यवार्ता | केवलं मनसि स्यात् यत् वस्तुतः, गभीररूपेण अनेकानि 'निमित्तकारणानि' प्रयोजकानि न तु साक्षात् कारणानि | एतदर्थं विद्याधर्यां लिखितं यत् "चक्षुः रूपप्रत्यक्षजनकं, न तु सुखग्राहकमिति नातिव्याप्तिः" | तस्य स्पष्टतया बोधनार्थम् एतत् सर्वं प्रतिपादनीयम् |
Swarup – July 2016