लक्ष्मी-भगिन्याः व्याख्यानम्‌

From Samskrita Vyakaranam
< न्यायशास्त्रम्‌‎ | 19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/laksmi-bhaginyahvyakhyanam
Jump to navigation Jump to search

भेदः एव पृथक्त्वम् ?[edit source | hide | hide all]


विषयपरिचय:

भेद:

लोकव्यवाहारे घट: पटो न घट: पटात् भिन्न: इत्यादि प्रत्यया: भेद: इति अन्योन्याभावं साधयन्ति  | घटे विद्यमान घटाभावस्य विरोधि: प्रतियोगी इति नैयायिकै: सज्ञा कृता | घट: स्वस्मिन् तादात्म्यसंबन्धेन वर्तते | घटं विहाय जगति सर्वत्र य: घटत्वावच्छिन्न तादत्म्यसंबन्धावच्छिन्न प्रतियोगिताकाभाव: वर्तते तदेव अन्योनयाभाव: अथवा भेद: इति उच्यते | एतादृश अन्योन्यभाव: अथवा भेद: सप्तसु पदार्थेषु वर्तते |


पृथक्त्वम्

पृथक्त्वं नाम गुण: चथुर्विंशति गुणेषु अन्यतम: | गुणा: नवद्रव्यवृत्ति: इत्युक्ते गुणा: अन्येषु पदार्थेषु न विद्यामाना: अपि च गुणे अन्य गुणा: न वर्तन्ते | पुन: घट: पटात् पृथक् घट: पुस्तकात् पृथक् इति लोकव्यवहारे सति प्रशन: उदेति यदि भेद: पृथक्त्वं समानं वा ?


मतभेद:

नवीन नैयायिका: वदन्ति भेद: एव पृथक्त्वम् | घट: पटो न अथवा घट: पटात् पृथक् द्वयो अपि समान अर्थ: बोध्यते  |

रूप: रसो न अथवा रूपं घटात् पृथक् इति प्रत्यये स्पष्टतया भेद: अथवा अन्योनयाभाव: एव भासते यतोहि पृथक्त्वं गुणत्वात्  गुणेषु न वर्तन्ते | व्याकरणनियमात् वाक्यानि भिन्नानि | पृथक्त्वस्थले अवधिवाचकपदं पञ्चमी आश्रयवाचकपदं प्रथमा विभक्त्यां च भवत: | भेदस्थले प्रतियोगी अनुयोगी द्वयोपि प्रथमा विभक्ति | भेद: सप्तपदार्थवृत्ति: सर्वत्र नित्यं च वर्तते इति कृत्वा पृथक्त्वस्य अपेक्षया भेदेन सर्वत्र निर्वाह: भवितुम् अर्हति इति नवीन नैयायिकानां मत: | वाक्य शैली दृष्ट्वा भेद: भिन्न: पृथक्त्वं भिन्नम् इति न वक्तुं शक्यते | परन्तु प्राचीना: भेद: पृथक्त्वं च भिन्नपदार्थौ इति मन्यन्ते |  केषां विचार: समीचीन: इति अग्रे पश्याम: |


गम्भीरविचार:

विद्याधर्या: ग्रन्थकार: चथुर्विंशति गुणेषु अन्यतम: गुण: संयोग: कथं कुत्र संभवति इति गम्भीरतया अवलोकयन् प्राचिनानां मतं स्वीकृत्य नव्यनैयायिकानां भेद: एव पृथक्त्वं अस्य आक्षेपस्य निरासं करोति |


संयोग:

-- कर्मज: संयोग: संयोगज: संयोग: --

प्रथमतया संयोगस्य प्रसङ्गं पश्याम: | मूर्तद्रव्यस्य क्रियया अन्य मूर्तद्रव्येण विभुना वा सह संयोग: जात: | यत् द्रव्यं क्रियाया: आश्रयं भवति तत् मूर्तद्रव्यम्  | पृथ्वी तेज:वायु जलं च मूर्तद्रव्याणि | आकाश: काल: इत्यादि विभुद्रव्याणि  | हस्तक्रियया पुस्तकेन हस्तपुस्तक संयोग: भवति | यदा पक्षिण: वृक्षे अस्ति तदा वृक्षपक्षिणो: संयोग: भवति | क्रियया जायमान: हस्तपुस्तक संयोग: कर्मजसंयोग: इति उच्यते | शरीरपुस्तक मध्ये हस्तक्रियया य: संयोग: जात: स: संयोगजसंयोग: | एवम् अवयवसंयोगेन अवयविसंयोग: अपि अन्यद्रव्येण विभुना वा भवति |  


अत्र प्रश्न: उदेति किमर्थम्  अवयवि-द्रव्य संयोग: संयोगजसंयोग: न तु कर्मजसंयोग: ? क्रियया उत्पन्न: संयोग: कर्मज: | अवयस्य संयोगेन य: संयोग: जात: स: संयोगज: | अवयवे जायामान क्रिया अवयवि-द्रव्ययो: मध्ये संयोगं प्रति कारणम् न भवति यथा कुलालस्य पिता घटोत्पन्नकार्यं प्रति कारणं न भवति | कुलालस्य पिता न्यायशास्त्रे घटं प्रति अन्यथासिद्धं कारणम् भवति |


अन्य प्रश्न: उदेति हस्ते जायमान क्रिया शरीरे अपि भवति वा ? उत्तरम्  अस्ति प्रथमक्षणे हस्ते क्रिया जाता उत्तर क्षणे शरीरे जाता | यदि एकस्मिन् समये एव शरीरे अपि क्रिया उत्पन्ना भवति इति स्वीकुर्म: तर्हि शरीरहस्तौ एक: एव स्यात् | किन्तु लोके अपि न्यायशास्त्रे अपि तथा व्यवहार: न भवति | अपि च न्यायशास्त्रे कारणम् भिन्नं कार्यं भिन्नम्  | अत: अवयवे जायमाना क्रिया विशेषतया अवयवे प्रथमक्षणे यस्मात् कर्मज: संयोग: भवति | तदनन्तरम् अवयवे विद्यमान कर्मजसंयोग: अवयविनि उत्पन्नं संयोगं प्रति कारणम् भवति |  


-- युतसिद्धत्वं अयुतसिद्धत्वं पृथगाश्रयाश्रितौ --

अधुना नूतन प्रश्न: आगत: | कपालद्वय संयोगेन उत्पन्ने घटे अन्यस्य मूर्तद्रव्येण संयोग: जायते वा ? कपालद्वयस्य कयाचन क्रियया परस्परसंयोगात् घटम् उत्पन्नम् | पूर्वम् उक्तं यत् अवयवगत क्रियया कर्मजसंयोगेन अवयविनि अपि अन्य मूर्तद्रव्येण संयोगजसंयोगं प्राप्नोति | किन्तु अवयव द्वयो: मध्ये क्रियया जायमान संयोगेन अवयविनि घटे कर्मज: संयोगज: वा संयोग: न जायते | किमर्थम् ? यदि कपालद्वय संयोगेन घटे अपि संयोग: जायते इति स्वीकुर्म: तर्हि घट: कपालेन संयुक्त: इति स्वीकर्तव्यं स्यात् | एतस्मात् निकष: भवति यत् कपाल: अस्ति घट: अस्ति तयो: संयोग: जात: यत् अनुभवविरुद्ध: | कपालद्वयो: संयोगात् पूर्वं घटमेव नास्ति |


तर्हि संयोग: कुत्र सम्भवति ? प्रश्नस्य उत्तरम् अस्ति यत् संयोग: युतसिद्ध्ययो: द्रव्यो: मध्ये भवति न कदापि अयुतसिद्धयो: द्रव्यो: मध्ये |


अयुतसिद्धं नाम यत्र एकं द्रव्यं अन्यं द्रव्यं आश्रित्य तस्मिन् नाशपर्यन्तं तिष्ठति | घट: कपालम् आश्रित्य स्वनाशपर्यन्तं तिष्ठति | पट: तन्तुम् आश्रित्य स्वनाशपर्यन्तं तिष्ठति | एताभ्यां उदाहारणाभ्याम् निकष: अस्ति अवयवि अवयवान् आश्रित्य स्वनाशपर्यन्तं तिष्ठति | तादृश अवयविनि अवयवेषु मध्ये अयुतसिद्धं भवति | यावत् पर्यन्तं अवयवि द्रव्य: अविनश्यदवस्थं स्व अवयवान् आश्रित्य तिष्ठति तावत् पर्यन्तं अवयव-अवयवियो: मध्ये अयुतसिद्धं भवति |  


घटं भूतले अस्ति | पुस्तकं उत्पीठिकायाम् अस्ति | घटं पुस्तकं च भूतलं उत्पीठिकायाम् विना भवितुं शक्नुत: | भूतलं उत्पीठिका अपि घटं पुस्तकं विना भवितुं शक्नुत: |  पुस्तकं उत्पीठिका मध्ये अवयवि अवयव सम्बन्ध: नास्ति | अत: उच्यते पुस्तकं उत्पीठिका अथवा घटं भूतलं मध्ये युतसिद्धं अस्ति |  घटं भूतलं विहाय भूतलं घटं विहाय स्वतन्त्रतया पृथक् पृथक् आश्रये भवति |  घटं स्वसमवायिकारणे कपालं आश्रित्य भूतलं विना तिष्ठति | भूतलं अपि तथा | भूतलं घटयो: सिद्ध: पृथक् |  तथैव परीस्तिथी  पटघटयो: पटभूतलयो: इत्यादि | तादृश युतसिद्धयो: द्रव्यो: मध्ये एव परस्पर संयोग: स्वीक्रियते | अपरै: शब्दै: कपालस्य को अपि पृथक् आश्रये आश्रित: द्रव्येण सह संयोग: स्वीक्रियते न तु स्वस्मिन् आश्रित्घटेन |


पूर्वस्मिन् परिच्छेदे नूतन पारिभाषिक शब्दस्य परिचय अपि अभवत् नाम पृथगाश्रयाश्रितौ | पृथक् च तौ आश्रयौ पृथगाश्रयौ, कर्मधारय समास | प्रुथगाश्रयौ आश्रितौ पृथगाश्रयाश्रितौ कर्मधारयगर्भ  द्वितीय तत्पुरुष समास | घट: स्वावये  समवायिकारणे अथवा कपालं आश्रित्य तिष्ठति | तथैव पट: तन्तुं आश्रित्य | इदानीं नूतन निकष अपि आगत: | यत्र युतसिद्धत्वं तत्र पृथगाश्रयाश्रितत्वं | द्वितीय निकष: अपि उत्पन्न: | यत्र अयुतसिद्धत्वं इति स्वभाव: तत्र अवयवावयवि मध्ये समवायिसम्बन्ध: | यस्मात् तृतीय निकष:  अयुतसिद्ध-समवायिकारणयो: मध्ये समव्याप्तिरस्ति | उदाहारणेन स्पष्टं भवति | यत्र यत्र धूम: तत्र तत्र वह्नि: परन्तु यत्र वह्नि: तत्र धूम: प्राय: भवेत् न वा | अत: तयो: मध्ये समव्याप्ति: नास्ति | धूम-वह्नयो: प्रसङ्गे वह्नि व्यापक: धूम: व्याप्य: | यस्य अधिकदेशवृत्ति: स: व्यापक: यस्य न्यूनदेशवृत्ति: स: व्याप्य: | किन्तु यत्र यत्र अयुतसिद्धं तत्र तत्र अवयवि अवयवेषु समवायिसंबन्धेन तिष्ठति | अत: अयुतसिद्धत्वं-समवयिकारणयो: मध्ये समव्याप्ति: |


अयुतसिद्धत्वं नाम घट: घटपरम्परयाम् परमाणु पर्यन्तं यानि अवयवानि सन्ति तान् आश्रित्य स्वनाशपर्यन्तं तिष्ठति | घटपरम्परयाम् घटारम्भकपार्थिवपरमाणव: | तथैव पटपरम्परयाम् पटारम्भकपार्थिवपरमाणव: | यद्यपि आरम्भक परमाणव: समान जाति एकस्मिन् समये घटारम्भकपार्थिवपरमाणव: पटारम्भकपार्थिवपरमाणव: न भवितुं अर्हन्ति | घटपटयो: नाशानन्तरं ईश्वरेच्छावशात् घटस्य आरम्भकपरमाणव: पटारम्भकपरमणाव: भवितुं अर्हन्ति | अथवा अवयवि भेदात् अवयव भेद: | कार्यं भिन्नं अत: कारणम् भिन्नम्  | कारयभेदात् अवयवभेद: अपि अनुमीयते |  अत्र परमाणु दृष्ट्या युतसिद्दत्वं अयुतसिद्दत्वं कथं साधयते इति संक्षेपेन लाघवम् अनुसृत्य दत्तम् |


आहत्य परस्पर संयोग: कर्मज: संयोगज: वा द्वौ युतसिद्धयो: प्रुथगाश्रयाश्रितौ द्रव्यो: मध्ये एव सम्भवति | अवय-अवयवि मध्ये अयुतसिद्धत्वं कदापि संयोग: न जायते न स्वीक्रियते च |


-- संयोगस्य आधारेण प्रुथक्त्वभेदयो: वैलक्षण्यम्  --


“पृथागाश्रयाश्रितौ - पृथग्ववन्तौ यौ आश्रयौ तदाश्रितौ” आधारेण पृथक्त्वं नाम गुण: क: ? वृक्ष: स्वावयवे स्तिथ: पक्षिण: स्वावयवे स्तिथ: | वृक्षस्य अवयवा: भिन्ना: पक्षिण: अवयवा: भिन्ना: | अवयवेषु पृथक्त्वं इति गुण: वर्तते | स्वं स्वेन पृथग्ववान् अवयवै: आश्रित: वृक्ष: | तथैव पक्षिण: अपि | अनेन द्वौ पृथग्ववन्तौ आश्रयौ तदाश्रित: वृक्ष-पक्षिणौ | पुन: पृथक् इति व्यवहार: कदा भवति ? उत्तरम् अस्ति भिन्न आकाश देश: भवति तदा | घट: कपालम् आश्रित्य तिष्ठति कपाल: कपालिकाम् आश्रित्य इत्यादि परन्तु घटस्य अवयव-परम्परायां विद्यमाना: अवयवा: सर्वा: एकस्मिन् देशे एव सन्ति | कपालिका कपालात् न पृथक् घट: कपालत् न पृथक् घट: कपालिकात् न पृथक् इत्यादि | एकस्मिन् देशे सति अयुतसिद्धत्वे अथवा समवायिसंबन्धे स्तिथे द्रव्येषु मध्ये पृथक्त्वं न स्वीक्रियते | भिन्न आकाश देशे स्तिथे यथा वृक्ष-पक्षिणो: मध्ये घटभूतलयो: मध्ये एव पृथक्त्व गुणव्यवहारं भवति |


कपाल: घटात् पृथक् इति प्रत्यये भेदस्य अथवा अन्योनयाभवस्य एव ग्रहणं न तु प्रुथक्त्वरूपगुण: |  पृथागाश्रयाश्रितौ स्थाने “भिन्नाश्रयाश्रितौ” इति व्यवहार: समान: वा ? न इति उत्तरम् | किमर्थम् ? घटकपालौ भिन्न द्रव्यौ आश्रयौ अपि भिन्नौ | कपालस्य कपालिका आश्रय: घटस्य आश्रय: कपाल: | आश्रयभिन्नत्वात् संयोग: न जायते |  घट: कपाल: कपालिका अपि च यावन्त: अवयवा: घटपरम्परायाम् सन्ति ते सर्वे एकस्मिन् देशे सन्ति | तेषां मध्ये पृथक्त्वम् इति व्यवहार: न भवति संयोग: अपि न भवति | किन्तु भेद: नाम अन्योन्याभाव: अवश्यम्  अस्ति | भेद: नित्यं प्रतियोगिनं विहाय सर्वत्र अस्ति |  तर्हि क्रियया संयोग: कुत्र जायते प्रश्ने सति पृथगाश्रयाश्रितौ द्रव्यौ मध्ये एव संयोग: भवति | भिन्न: इति पदेन न साध्यते | भिन्न: इति पदेन भेद: एव ग्रह्यते न तु भिन्न आकाश देशे स्तिथे पृथागाश्रयाश्रितौ द्रव्यौ |


एतावता संयोगस्य आधारेण पृथक्त्व भेदयो: वैलक्षण्यं कृतम् | आहत्य संयोग: भेदेन न निर्वाह: किन्तु नवीन नैयायिका: न मन्यन्ते |


-- अवधि: --

अवधित्वं इति स्वरूपसम्बन्ध विषय: उदाहरणेन स्पष्टं भवति | विभाग: इति कश्चन गुण: चतुर्विंशति गुणेषु अन्यतम: |  यदा वृक्षात् फलं पतति विभाग: वृक्ष: अपि जायते फले अपि जायते | विभाग: द्विनिष्ठ: | वृक्ष: फलात् विभक्त: | किन्तु प्रतीतिवशात् लोक व्यवहार: अस्ति फलं वृक्षात् पतति  न कदापि वृक्ष: फलात् पतति | अत: फले वृक्षावधिकत्वम् आरोप्यते |  फलं वृक्षात् पतति इति वाक्ये वृक्ष: अवधि: | वृक्षावधिक: विभाग: फले | पतनक्रियया जात: विभाग: सावधिक: | फलं वृक्षावधिकस्य विभागस्य आश्रय: | अवधिवाचकपदं पञ्चमी | आश्रयवाचकपदं प्रथमा |  अवधित्वं वृक्षे आरोप्यते | विभाग: नाम गुणस्य आश्रय: फलम् | विभाग: सावधिक: | अथवा अवधिकत्वं विभागे अस्ति |


पृथक्त्वस्थले अपि पञ्चमी विभक्त्या: उपयोगं भवति | अत्र घट: तत्र पुस्तकम् | यद्यपि क्रिया न भवति भिन्न देश अवस्थया पृथक्त्वम्  अवगम्यते  | घट: पुस्तकात् पृथक् |  अत्र पुस्तकम् अवधि: | अवधित्वं पुस्तके | अवधिकत्वं पृथक्त्वे | पुस्तकावधिकपृथक्त्वं घटे अस्ति | अथवा पृथक्त्वं नाम गुणस्य आश्रय: घट: | पृथक्त्वमपि सावधिक पदार्थ: | विपरीत रीत्या पुस्तकं घटात् पृथक् इति प्रतितौ घट: अवधि घटावधिक पृथक्त्वस्य आश्रय: पुस्तकम् | भेदस्थले अवधिस्थाने प्रतियोगी इति व्यवहार: भवति | घटभेद: अथवा घटावधिक: भेद: पटे | किन्तु घटत्वावच्छिन्न तादत्म्यसंबन्धावच्छिन्न प्रतियोगिकाभाव: पटे इति सामान्य व्यवहार: |  भिन्नदेशत्वं न अपेक्षितम् | घटभेद: सर्वत्र घटं विहाय जगति सर्वत्र अस्ति कपाले कपालिकायां च | अथवा अवयवि भेद: अवयवेषु अवयव परम्परायां च भवति | तथैव कोऽपि अवयवभेद: अन्य अवयवेषु द्रव्ये जगति सर्वत्र च स्वं विहाय नित्यं भवति | अत: भेद: अपि सावधिक: पदार्थ: |


संयोगस्थले पृथगाश्रयाश्रितयो: युतसिद्धयो: द्रव्यो: मध्ये एव संयोग: भवति यथा हस्त-पुस्तकयो: | हस्तपुस्तकयो: संयोग: इति सामान्य व्यवहार: | अवधित्वम् आरोपणार्थं  हस्तावधिक: संयोग: पुस्तके इति उच्यते | अत्र  हस्त: अवधि: सावधिक: संयोग: पुस्तके | अथवा पुस्तकावधिक: संयोग: हस्ते यत्र पुस्तकम्  अवधि: सावधिक: संयोग: हस्ते |  संयोग: अपि द्विनिष्ठ: विभाग: इव | अत्र पञ्चमी विभक्त्या: प्रयोग: न भवति |

-

- नियतावधिकत्वम् --


व्यवहार-क्षेत्रे भेदस्य विवक्षा घट: पटो न अथवा घट: पटात् भिन्न: घट: भूतलो न इत्यादि वाक्यै: भवन्ति | पटात् भिन्न: इति प्रतीतौ घट: अवधि: घटभेद: पटे इति स्पष्टतया अवधि: कुत्र अवधिकत्वं कुत्र इति भासते | प्रुथक्त्वस्थले अपि तथैव | घट: पटात् पृथक् इति प्रतितौ पट: अवधि: पटावधिक: पृथक्त्वं घटे अस्ति इति स्पष्टतया भासते |  भेदस्य पृथक्त्वस्य च  विवक्षायां  नियमेन अवधे: उल्लेखनं भवति | क: कस्मात् पृथक् अथवा क: कस्मात् भिन्न: इति स्पष्टीकरणीय: | नो चेत् आकाङ्क्षा भवति शब्दबोध: न जायते | अत: भेद: पृथक्त्वं च नियतावधिक: पदार्थ: |


परन्तु संयोग-विभाग-स्थले नियतावधिकं नास्ति यत: हस्तपुस्तकयो: संयोग: इति वाक्ये अवधि: क: इति नियमेन न भासते | संयोग: द्वयो अपि द्रव्यो: वर्तते | हस्तावधिक संयोग: पुस्तके इति कथनेन एव अवधे: उल्लेखनं भवति | विभाग स्थले अपि तथैव |  वृक्ष: फलात् विभक्त: इति वाक्ये अवधे: उल्लेखनम् भवति किन्तु वृक्ष्फलयो: विभाग: इति वाक्ये अवधि: न भासते |  संयोग: विभाग: द्वौ अपि द्विनिष्टौ | तयो: नियतावधिकं नास्ति |


यत्र यद्विषयकप्रतितौ अवधि: नियमेन भासते तत्र नियतावधिकत्वम् | भेद: पृथक्त्वं च नियतावधिकौ पदार्थौ | परन्तु विभागसंयोगयो: नियतावधिकं नास्ति | प्रतितिवशात् कदाचित अवधि: भासते कदाचित् न |


--निखिलावधिकत्वम् --


पृथक्त्वं भेद: संयोग: विभाग: च सावधिका: पदार्था: | य: सावधिकपदार्थ: आश्रयभूतव्यक्तिं विहाय जगति सर्वत्र विद्यमानं द्रव्यं तदवधिकत्वं तस्मिन् सावधिकपदार्थे वर्तते चेत् अस्ति स: निखिलावधिक: पदार्थ: इत्युच्यते |

पृथक्त्वं आश्रयभूतं द्रव्यं तस्य अवयव परम्परायां यानि द्रव्याणि सन्ति तान् विहाय जगति सर्वत्र अस्ति | अथवा घट पृथक्त्वस्य अवधयसमुदाये घटं च घटपरंपरायां यानि द्रव्याणि परमाणु पर्यन्तं तान् विहाय जगति विद्यमानेषु सर्वेषु  द्रव्येषु अवधय: वर्तन्ते | तथैव पट पृथक्त्वस्य अवधयसमुदाये पटं च पटस्य अवयवपरंपरायां विद्यमान द्रव्याणि च विहाय जगति विद्यमान सर्वेषु पदार्थेषु अवधय: सन्ति | अथवा अवधयसमुदायेआश्रयावधिकत्वाभाव:वर्तन्ते | घट पृथक्त्वं एकम् एव यत् घटविशिष्टं किन्तु घटपृथक्त्वे अनेका: अवधय: सन्ति |  पृथक्त्वं आश्रयभूत द्रव्येण अथवा अवधयसमुधायेन भिद्यते | एतस्मात् विवरणात् निष्कर्ष: भवति पृथक्त्वे अनेकावधिकत्वं अस्ति न तु निखिलावधिकत्वम् |


भेद: प्रतियोगिनं विहाय सर्वत्र नित्यं वर्तते | घटभेद: घटं विहाय सर्वत्र अस्ति स्वावयवपरम्परायाम् अपि | उच्यते घटे घटत्वावच्छिन्न तादत्म्यसंबन्धावच्छिन्न प्रतियोगिता | पटे घटत्वावच्छिन्न तादत्म्यसंबन्धावच्छिन्न प्रतियोगिताकाभाव: | पटे घटभेद: पुस्तकभेद: भूतलभेद: इत्यादि अनेकविध भेदा: वर्तन्ते | घटभेदस्य अवधि: अथवा प्रतियोगी घटं पुस्तकभेदस्य प्रतियोगी अथवा अवधि: पुस्तकं भूतलभेदस्य प्रतियोगी भूतलं इत्यादि | घटभेदस्य प्रतियोगी घटमेव भवितुमर्हति | पटे विद्यमान: प्रत्येक: भेद: प्रतियोगितया भिद्यते | एवं भेदस्य अवधे: उल्लेखनेन भेद: एकावधिक: इति स्पष्टं भवति | तर्हि भेद: न  निखिलावधिक: |  


संयोग: निखिलावधिक: पदार्थ: किम्? पटे पुस्तकं लेखनी घटं इति चिन्तयाम: | तर्हि पुस्ताकवधिक: संयोग: पटे | घटावधिक: संयोग: पटे | लेखन्यावधिक: संयोग: पटे | किन्तु पटे तन्त्वावधिक: संयोग: नास्ति | अथवा आश्र्यावधिक: संयोग: पटे नास्ति | अत: संयोगस्थलेऽपि अनेकावधिकत्वं अस्ति न निखिलावधिकत्वम् |


विभाग: निखिलावधिक: पदार्थ: किम्? संयोगनाशको गुण: विभाग: इति तर्कसंग्रहवाक्यम् | विभाग: अपि न निखिलावधिक: पदार्थ: | घट: स्वनाशपर्यन्तम् कपालम् आश्रित्य तिष्ठति | घटकपालयो: संयोग: नास्ति विभाग: अपि नास्ति | युतसिद्द्यो: द्रव्यो: मध्ये एव संयोग: तथैव युतसिद्धयो: द्रव्ययो: मध्ये एव विभाग: अपि | स्वाश्रयावयवावधिकत्वं विभागे नास्ति इति कृत्वा विभागे न निखिलावधिकत्वम् |


लोके कस्यापि पदार्थ: नास्ति यस्य निखिलावधिकत्वम् | त्रयाणुका: द्रव्याणां अवयवपरंपरायां वर्तन्ते इति प्रत्यक्ष प्रमाणेन स्वीक्रियन्ते | द्वयणुकम् त्रयणुकस्य अवयव: अपि च परमाणु: द्वयणुकस्य अवयव: इति अनुमीयते | द्वयणुक स्थरे प्रत्यक्ष प्रमाणं नास्ति | यदि परमाणु:एकाकी भवितुं शक्नोति तर्हि परमाणो: पृथक्त्वं निखिलावधिक: पदार्थ: स्यात् | किन्तु तादृश प्रमाणस्य अभावेन परमाणु: एकाकी इति न स्वीक्रियन्ते | ये परमाणव: सन्ति ते द्वयणुकस्य अवयवभूत: द्वयाणुका: त्रयाणुकस्य अवयव: | अत: परमाणव: एकाकी न निखिलावधिकत्वं परमाणो: पृथक्त्वे अपि नास्ति |


-- भेद: एव पृथक्त्वं इति आक्षेपस्य निरास: --

उपरि पृथगाश्रयाश्रित: युतसिद्ध: अवधि: नियतावधिकं, निखिलावधिकं इत्यादि अनेकविधा: पारिभाषिकाशब्दानां परिशीलनं अभवत् |  नवीननैयायिका: भेद: एव पृथक्त्वं इति आक्षेपं कृत्वा आपादनद्वयं वदन्ति | तयो: आपदनयो: ग्रन्थकारेण दत्त उत्तरं समाधानं च  बोधनार्थं एतावत् विचार: अभवत् |


“कपालभूतलयोः पृथगाश्रयाश्रितत्वेन तयोः संयोगसम्भवेऽपि घटकपालयोः

तथाविधत्वाभावात्‌ न तयोः कर्मजसंयोगजसंयोगोत्पत्तिः | न च गुणरूपस्य तस्य रूपादिवत्‌

मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात्‌ भूतलावधिकत्वस्येव

कपालावधिकत्वस्यापि आवश्यकत्वात्‌ तद्दोषतादवस्थ्यमिति वाच्यम्‌ |”

प्रथम वाक्यं वदति यत् कपाल: च भूतल: च पृथगाश्रयाश्रितौ | तयो: मध्ये क्रियया कर्मज: संयोगज: संयोग: भवति यथा पूर्वं दृष्टम्  | परन्तु कपालघटयो: मध्ये  पृथगाश्रयाश्रितत्वं नास्ति | एकस्मिन् देशे व्याप्तयो: तयो: मध्ये संयोग: न सम्भवति इति सिद्धान्तिन: पूर्वपक्षिण: च मन्येते |द्वितीय वाक्ये पूर्वपक्षिणो: आपादनद्वयं ग्रन्थकारेण प्रतिपाद्यते | न च “दोष:..” वाच्यम् | न च अस्य अन्वयं वाच्यम् इति पदेन | न्यायशास्त्रे तथा नियम: | दोष: इति पदं विना वदनेन दोषस्य विषय: क: इति न च...वाच्यं मध्ये आगच्छति | प्रथम आपादनं अस्ति “ गुणरूपस्य तस्य रूपदिवत् मूर्तोत्पतिद्वितियक्षणे जायमानस्य नियतावधिकत्वे मानाभवात्” | द्वितीय आपदनं “भूतलावधिकत्वस्य कपालावधिकत्वस्यापि आवश्यकत्वात्” | सिद्धान्तिन: उत्तर रूपेण वदन्ति  “तद्दोशतादवस्थ्यमिति न च वाच्यं” अथवा पुन: तद् दोषं आयाति क: दोष: इति अग्रे पश्याम: | अस्मिन् प्रसङ्गे नवीननैयायिका: ये भेद: एव पृथक्त्वं इति वदन्ति ते पूर्वपक्षिण: | सिद्धान्तिन: प्राचीन नैयायिका: येषां मतं ग्रन्थकार: अपि स्वीकरोति |


-- प्रथम आपादनं  तस्य उत्तरम् --

द्रव्येषु विद्यमाना: गुणा: मूर्तद्रव्योत्पत्ते: उत्तरक्षणे भवति | अत्र “गुणरूपस्य तस्य…” | तस्य इति पृथक्त्वस्य विशेषणम् | चथुर्विंशति गुणेषु पृथक्त्वं अन्यतम: | किन्तु इदानीं न सिद्ध: यथा संयोग: विभाग: रूपं संख्या इत्यादि सिद्दगुणा: | किमर्थम् न सिद्द: ? यद्यपि रूपादिवत् द्वितीयक्षणे जायमान: पृथक्त्वस्य नियातवधिकं अस्ति | उभौ पक्षिणौ पृथक्त्वस्य नियतावधिकं मन्येते | घट: पृथक् इति वदनेन कस्मात् पृथक् इति श्रोतु: मनसि आकाङ्ग्शा उदेति | कस्मात् पृथक् इति वक्तव्यं भवति पञ्चमी विभक्ति उपयुज्य | घट: पटात् पृथक् | पृथक्त्वस्य आश्रय: घट: पञ्चमी विभक्ति पदं पट:अवधि: | अत: पृथक्त्व गुणे नियमेन अवधि: अवधिक: भासेते | एतादृश: नियतावधिक: गुण: गुणेषु न स्वीकर्तव्य: “मानाभाव:” इति पूर्वपक्षिण: वदन्ति | संयोगादय: अन्या: गुणा: ये सिद्दा: ते नियतावधिक गुणा: न | यदि पृथक्त्वं गुणेषु न वर्तते तर्हि कुत्र भवितुं अर्हति इति प्रश्ने सति पृथक्त्व सथले भेद: एव स्वीकर्तव्य:  | भेद: अपि नियतावधिक: | घट: पटो न अथवा घट: पटात् भिन्न: इत्यादि प्रतितौ अवधि: नियमेन भासते | अत: पूर्वपक्षिण: पृथक्त्वस्य स्वाभाव: भेदरूपता इव इति आपाद्यन्ते | किन्तु भेद: अन्योनयाभाव: | न केवलं द्रव्येषु परन्तु सपतसु पदार्थेषु वर्तते सर्त्वत्र नित्यं वर्तते |  गुण: केवलं द्रव्ये एव भवति | यदि भेद: एव पृथक्त्वं तादृशी भेदरूप पृथक्त्वं द्रव्योत्पत्ते: द्वितीयक्षणे न जायते | भेदस्य नित्यत्वात् तस्य आरम्भ: न अपि च द्रव्य: स्वस्मिन् विद्यमान अन्योन्याभावस्य कारणं न भवति |


आहत्य पृथक्त्वस्य नियतावधिकत्वात् गुणेषु न अन्तर्भूत: अपि च तस्य भेदरूपता स्वीकर्तव्या इति पूर्वपक्षिण: आपाद्यन्ते |


-- द्वितीय आपादनं --

पूर्वपक्षिण: द्वितीयं आपादनम् अस्ति  “भूतलावधिकत्वस्येव कपालावधिकत्वस्यापि आवश्यकत्वात्‌” अर्थात् यदि द्वितीयादि क्षणे जायमानस्य पृथक्त्वस्य नियतावधिकत्वं स्वीकुर्म: चेत् भूतलावधिकत्व पृथक्त्वं घटे कपालावधिकत्व पृथक्त्वं अपि घटे यतोहि नियतावधिकस्य नियम: नोक्तम् |


सिद्धान्तिन: वदन्ति तद् पूर्वं उक्तं दोषम् आयाति | क: स: दोष: ? घट-कपालयो: संयोगापत्ति: | कपालावधिक- पृथक्त्वं घटे घटावधिक-पृथक्त्वं कपाले इति द्वयो: अवयव-अवयविनो: परस्परावधिकत्वं पृथक्त्वं स्वीक्रियते चेत् युतसिद्धौ स्यात् | तयो: संयोग: जात: यथा पूर्वं दृष्टम् | घट-कपालयो: विभाग: घटनाश्य पर्यन्तं न भवति इति अनुभवव्यवहार: अत: तयो: संयोग: अपि न भवितुम् अर्हति |  


घट-कपालयो: मध्ये भेद-रूपी अन्योनयाभाव: अवश्यं अस्ति | अत: घट-भेद: कपाले कपाल-भेद: घटे इति | यथा पूर्वं दृष्टं भेदस्य निखिलावधिकत्वं नास्ति केवलं नियतावधिकत्वम् एव | सिद्धान्तिन: वदन्ति पूर्वपक्षिण: नियतावधिकत्वगुणं स्वीकर्तुं प्रसङ्गे निखिलावधिकत्वमपि आरोप्यन्ते किम् ? अनेन भेद-रूप पृथक्त्वस्य आरोपितेन निखिलवधिकत्वेन घट-कपालयो: संयोग: आपत्ति: अथवा युतसिद्दत्वम् | घट-भूतल विभागे क्वचित् अवधिकं स्वीक्रियते क्वचित् वार्यते | विभाग: द्विनिष्ठ : | घटावधिक: विभाग: भूतले | भूतलावधिक: विभाग: घटे | घटावधिक: विभाग: भूतले यदस्ति तस्य अवधि: घट: | भूतलम्  अपि भूतले स्तिथ विभागस्य अवधि: न | अत: विभागे क्वचित् अवधिकत्वं स्वीक्रियते क्वचित् अवधिकत्वं वार्यते | विभागस्य निखिलावधिकत्वं नास्ति |


पृथक्त्वस्थले अपि क्वचित् अवधिकत्वं वार्यते क्वचित् स्वीक्रियते | एकस्मिन् देशे व्याप्ते परमाणु पर्यन्तं विद्यमाना: अवयवा: अवधिकत्वं अवयविन-पृथक्त्वे न स्वीक्रियते | तथैव अवयविन-अवधिकत्व पृथक्त्वं समान देशे स्तिथे अवयवे न वर्तन्ते | अनेन अवयव-अवयविनो: पृथगाश्राय: सम्भवं वार्यते नियतावधिकपृथक्त्वरूपगुणस्य नियम: अपि उच्यते | अवयव-अवयविनो: अयुतसिद्धत्वात् तयो: संयोगापत्ति: अपि निर्गच्छति | पृथक्त्व रूप गुणस्य नास्ति निखिलावधिकतवम् |


अनाश्रित: परमाणो: मध्ये ईश्वर इच्छावशात् संयोग: भवति | मूर्त-विभु द्रव्योर्मध्ये संयोग: विभाग: भवति यतोहि मूर्तद्रव्स्य पृथगाश्रायतत्वात् उपाधि भेदात् च | अत: घट-आकाशयो: मध्ये संयोग: विभाग: जायते |


-- सारांश: --


आहत्य अन्योनयाभाव-रूप भेद: अतिरिक्त गुण: पृथक्त्वम् | जगति द्विविधभिन्नता अस्ति | एक: भेद: इति पदार्थ: अन्योनयाभाव: य: सर्वत्र वर्तते नित्यं सप्तसु पदार्थेषु वर्तते | द्वितीय: अस्ति द्रव्येण  विशिष्ट पृथक्त्वं इति गुण: |गुणत्वात् द्रव्ये एव वर्तते | द्रव्योत्पत्ति द्वितीयक्ष्णे नियतावधिकत्वेन जायते इत्युक्ते कस्मात् पृथक् इति अन्य द्रव्यस्य अवधित्वेन वक्तव्यं भवति | घट: पटात् पृथक् यत्र पञ्चमी विभक्ति पदं अवधि: सावधिक पृथक्त्वं घटे | समानदिग्व्यापिन: परमाणु पर्यन्तं अवयवावधिकम् अवयवि-पृथक्त्वे नास्ति | तथैव अवयव्यावधिकम्  पृथक्त्वं अवयवेषु न वर्तन्ते | अनेन निष्कर्ष: यत् द्रव्येण विशिष्ट पृथक्त्वम् एकम् एव किन्तु अनेकावधिक: न निखिलावधिक: | अनेकावधिक: पृथक्त्वं आश्रयभूत द्रव्येण अथवा अवधयसमुदायेन भिद्यते न तु अवधिभेदेन | अवयवि आश्रयभूत अवयवेषु समवायसंबन्धेन स्वनाशपर्यन्तं तिष्ठति | अयुतसिद्दत्वात् अवयवि-अवयवो: मध्ये संयोग: न जायते विभाग: अपि न भवति | पुन: पृथक्त्वं द्रव्ये द्रव्येण एव विशिष्यते |



भेद: य: अन्योन्याभाव: सर्वत्र सप्तसु पदार्थेषु नित्यं वर्तते | अत: अवयव-अवयवि मध्ये अपि वर्तते | घट: कपालात् भिन्न: | कपाल: घटात् भिन्न: इत्यादि प्रत्यय: भेदस्थले समीचीनम् | भेद: अपि नियतावधिक: पदार्थ: कस्मात् भिन्न: इति सर्वदा वक्तव्यं भवति | अनेकविधा: भेदा: एकस्मिन् समये वर्तते | घटभेद: पुस्तकभेद: लेखनीभेद: इत्यादि एकस्मिन् समये पटे वर्तते | घटभेदस्य अवधि: अथवा प्रतियोगी घट: एव, पुस्तकभेदस्य अवधि: अथवा प्रतियोगी पुस्तकम् एव इति कृत्वा भेदस्य: एक: एव अवधि: | घटत्वावच्छिन्न तादात्म्यसंबन्धावच्छिन्न प्रतियोगिता घटभेदे | भेदस्थले सर्वदा प्रतियोगिताया: ज्ञानं आवश्यकम् | प्रतियोगिता तादृश पदार्थ: य: सर्वदा केनचित् धर्मेण अवच्छिन्ना तादात्म्यसंबन्ध अवच्छिन्ना भवति | प्रतियोगिताया: ज्ञानात् परम् एव घटभेद-पटभेदयो: वैलक्षण्यं भवति |  भेद: एकावधिक: निखिलावधिक: नास्ति | भेद: पदार्थे वर्तते पदार्थेन न विशिष्यते प्रतियोगिताया: ज्ञानस्य आवश्यकत्वात् |


अत: पृथक्त्वं भेदो न | पृथक्त्व-भेदयो: वैलक्षण्यं स्पष्टम् इति मन्ये |


     ----------------शुभम्---------------




–––––––––––––––––––––––––––


धेयम्‌ -- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [click here] and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup <dinbandhu@sprynet.com>.