गुणनाशः
अत्र अस्ति वेङ्कटेश-महोदयस्य उपस्थापनं, सर्वेषां पुरतः प्रतिपादितं जुन्-मासस्य चतुर्विंशे दिनाङ्के, २०१७-तमे वर्षे | विषयः-- गुणनाशः | अग्रे गत्वा अन्ये जनाः अपि सम्यक्तया स्वोपस्थापनं विलिख्य समीकृत्य अस्माकं जालस्थाने प्रकाशयितुं शक्नुवन्ति | नूनम् एतादृशविचारः बहु सुन्दरः-- स्वरूपः |
गुणनाशः
सर्वेभ्यो नमः
मम अद्यतनोपस्थापनविषयोस्ति गुणनाशः| विद्याधर्यां त्रयोधिकशततमे पुटे "गुणनाशं सम्प्रति" इत्यारभ्य द्रवत्वनाशोपि तेजः संयोगादेव" इति पर्यन्तम् | पुनःस्मरणार्थं समवायिकारणम् असमवायिकारणं निमित्तकारणम् इत्येतेषां विवरणानि दीयन्ते |
यत् स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति तत् समवायिकारणम् | उदाहरणार्थं स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन घटं जनयति इति कारणतः कपालः घटसमवायिकारणम् | इदानीम् असमवायिकारणम् - तादृशे समवायिकारणे यत् समवायेन स्थित्वा समवायेन कार्यमुत्पादयति तत् असमवायिकारणम् | उदाहरणार्थं समवायिकारणकपाले समवायेन स्थित्वा कपालद्वयसंयोगः समवायेन कार्यमुत्पादयति इति घटं प्रति अयं कपालद्वयसंयोगः असमवायिकारणम् | समवायिकारणम् असमवायिकारणं विहाय अन्यानि निमित्तकारणानि इत्युच्यन्ते ।
इदानीं गुणनाशं सम्प्रति चिन्तयाम | अस्मिन् लेखने गुणनाशस्य त्रीणि कारणानि परिशीलयाम | प्रथमं गुणसमवायिकारणनाशात् | द्वितीयं निमित्तकारणनाशात् | तृतीयं समानाधिकरणगुणेन च |
क्रमशः पश्यामः | यथा पूर्वदर्शितचैत्रादिक्षणचित्रैः जानीमः द्रव्यगुणयोरुत्पत्तिः युगपत् न भवति | द्रव्योत्पत्तेः अनन्तरक्षणैव गुणोत्पत्तिः जायते | यदि तथा न स्यात् गुणोत्पत्तिक्षणपूर्ववृत्तित्वं द्रव्ये न स्यात् इति भवति | अपि च द्रव्यं गुणान् प्रति कारणं न इत्यपि स्वीकर्तव्यं भवति दोषेण | अतः द्रव्यं स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायेन गुणमुद्पादयति इति कारणतः गुणं प्रति द्रव्यं समवायिकारणम् |
गुणः द्रव्यमाश्रित्य तिष्ठति | समवायिकारणघटस्य नाशे सति तद्रूपगुणमपि नश्यति | अयं विषयः अनुभवसिद्धः | अतः गुणसमवायिकारणनाशात् (इत्युक्ते द्रव्यनाशात्) गुणनाशः इति वाक्यं स्पष्टम् |
इदानीं गुणनाशस्य द्वितीयं कारणं विलोक्यते | चतुर्विंशत्यां गुणेषु संख्या अन्यतमा | एकत्वमपि संख्यसम्बद्धितगुणः, द्रव्यमाश्रित्य तिष्ठति | ततः आश्रयगतमेकत्वम् | तादृशमेकत्वं घटे समवायेन स्थित्वा द्वित्वरूपगुणं प्रति कारणम् | द्वित्वगुणं प्रति द्रव्यं साक्षात् समवायिकारणम् | तामेव द्वित्वसङ्ख्यां प्रति आश्रितगतमेकत्वम् असमवायिकारणम् | वयं पूर्वं पठितवन्तः द्वित्वासमवायिकारणभूतमेकत्वं द्विविधं भवति इति | आश्रयस्य नित्यानित्यत्वात् च एकत्वं नित्यमनित्यं च भवति | घटादयः अनित्यद्रव्याणि इत्यस्मात् तेषु विद्यमानमेकत्वमपि अनित्यमेव | द्रव्यस्य नाशे सति एकत्वमपि नष्टं भवति। ‘एकत्वादिव्यवहारहेतुः सङ्ख्या’ इति लक्षणकरणात् एकत्वादिरूपसंख्या एव व्यवहारे जायमाने ज्ञाने प्रकारविधया अस्माभिः गृह्यते| तर्हि 'यावत् ‘अयम् एकः घटः इमौ द्वौ घटौ' इति अन्यस्मै बोधनाय शब्दप्रयोगं न कुर्मः तावत् एकत्वद्वित्वादिरूपसङ्ख्या न विद्यते अस्माभिः | तदा तेन अयमेकः इति शब्दप्रयोगेण तस्य आकारज्ञानमुत्पद्यते | स्वयं यदा गणयति, तदा इयं सङ्ख्या उत्पद्यते वस्तुषु । इयमुत्पादितापेक्षाबुद्धिः द्वित्वादिसङ्ख्यां प्रति निमित्तकारणं भवतीति वदन्ति वैशेषिकाः | तादृशोत्पादितस्य निमित्तकारणस्य नाशेऽपि द्वित्वादिगुणनाशः भवति |
‘तर्हि असमवायिकारणनाशात् गुणनाशः न भवति वा’ इति प्रश्ने सति किञ्चित् समाधानमत्र दीयते | द्वित्वसङ्ख्यां प्रति द्रव्यं समवायिकारणम्, आश्रयगतमेकत्वमेकरीत्या असमवायिकारणमिति पूर्वोक्तम् | तर्हि एकस्य घटस्य अपनयनेन द्वित्वनाशः भवति वा? यतः तस्मिन्नाश्रितगतमेकत्वं द्वित्वं प्रति असमवायिकारणमिति कथनेन ? द्रव्यनाशस्य आधारेण पश्यामः| द्रव्यनाशः समवायिकारणनाशात् वा असमवायिकारणनाशात् वा भवति इति ज्ञातम् |
असमवायिकारणकपालद्वयस्य संयोगस्य नाशेन घटः नश्यतीति कारणतः असमवायिकारणनाशः एकं कारणम् | तस्यां परिस्थित्यां यद्यपि कपालद्वयोः संयोगेन उत्पादितस्य घटस्य नाशः भवति तथापि तेन कपालः तु न नष्टः | परन्तु अस्मिन् सन्दर्भे एकस्य घटस्य अपनयनेन वा नाशेन वा न केवलं द्वित्वं परन्तु तस्य असमवायिकारणमाश्रयगतमेकत्वमपि नष्टं जातम् (द्रव्यनाशात् गुणनाशः ; द्रव्यं समवायिकारणमत्र ) | समवायिकारणनाशात् असमवायिकारणस्य नास्तित्वम् | एतस्मात् गुणनाशं प्रति असमवायिकारणनाशः अस्वीकारः भवति इति मम मतिः | अपरञ्च द्वित्वगुणः तदा जायते यदा वस्तुद्वयस्य उपस्थितिः भवति। तदा चक्षुरिन्द्रियेण वा चक्षुर्व्यापारे असमर्थोऽपि त्वगिन्द्रियेण वा अपेक्षाबुद्धिः इति ज्ञानविषयोत्पद्यते आत्मनि | उदाहरणार्थं एकः मनुष्यः द्वे पुस्तके पशयति। तस्य आत्मनि ज्ञानं जायते इदम् एकं पुस्तकम्, इदं एकं पुस्तकम् अनेन द्वित्वसङ्ख्या प्रत्येकस्मिन् पुस्तके जायते । | द्वित्वसङ्ख्या इति गुणं प्रति इयम् अपेक्षाबुद्धिः कारणम्। अतः एतेन निमित्तकारणस्य नाशेन द्वित्वसङ्ख्यायाः नाशेऽपि जायते इति सन्दृढम् |
तृतीयं कारणमस्ति समानाधिकरणगुणः| समानाधिकरणं ययोः तौ समानाधिकरणौ | अतः गुणद्वयं यदि समानाधिकरणं प्राप्यते तौ समानाधिकरणौ गुणौ | तादृशे विद्यमाने एकेन गुणेनापि द्रव्ये विद्यमानस्य अपरस्य गुणस्य नाशः| उदाहरणार्थं प्रकोष्ठे स्तिथे रिक्तघटस्यान्ते श्यामादिरुपगुणः विद्यते | यदि तमेव घटं बहिः सूर्यप्रकाशे स्थापयामः तर्हि तेजसः संयोगेन, पाकसंयोगेन श्यामादिरूपगुणनाशः भवति | तेजः संयोगेन घटे विद्यमाने श्यामादिरूपनाशः | अन्यमुदाहरणं स्वीकुर्मः| एकदा रात्रौ वृष्टिः जाता इति चिन्तयाम | तदर्थं पृथिव्यां द्रवत्वमुत्पन्नम् | अग्रिमे दिने भास्करस्य आगमनेन तस्य आतपात् पृथिव्यां पूर्वरूपद्रवत्वनाशः भवति तेजः संयोगादेव | पृथिव्यां पाकजम् इत्यनेन लक्षणवाक्येन पाकः तेजः संयोगः तेन गुणः जायते इति पूर्वं लक्षितम् । अनेन गुणनाशस्य तृतीयं कारणं विस्पष्टम् | एतानि विहाय कालेन रोगेण चरमस्मरणेन च गुणनाशः भवति। तानि कारणानि अग्रे वक्ष्यन्ते।
धन्यवादाः
वेङ्कटेशः