10---nyAyashAstram/22---saMyoganAshAt-vibhAgaH-nAtiriktaH-ityAkShepasya-sAmAnyaparihAraH: Difference between revisions

added subpage link
(added pdf link)
(added subpage link)
Line 50:
<big>अस्मिन्‌ विषये अत्र रक्षा-भगिन्याः उपस्थापनम्‌--</big>
 
= '''<big>संयोगनाशात् विभागः नातिरिक्तः इत्याक्षेपस्य परिहारः |</big>''' =
 
<big>संयोगनाशको गुणो विभागः इति विभागस्य निरूपणप्रसङ्गे एकः आक्षेपः उल्लिखितः | आक्षेपः अयं, "संयोगनाशात् विभागः नातिरिक्तः" | नाम संयोगनाशः विभागः च समानौ इति आक्षेपः | आक्षेपस्य निवारणं कथं क्रियते इत्यस्य विषये उपस्थापनम् |</big>
 
Line 56 ⟶ 57:
<big>तस्मात् प्राक् केषाञ्चन पारिभाषिकाणाम् अंशानां पुनरवलोकनम् |</big>
 
== '''<big>ज्ञानम्</big>''' ==
 
 
<big>ज्ञानम् इति सविषयकपदार्थः | यत्र ज्ञानम् उदेति तत्र प्रत्येकं ज्ञानस्य विलक्षणः विषयः भवति एव | ज्ञानम् इति कार्यं; ज्ञानस्य निमित्तकारणत्वेन विषयः भवति अथवा विषयाः भवन्ति |</big>
 
== '''<big>अभावः</big>''' ==
 
<big>"इदं नास्ति" अथवा "इदं तत् न" इति सूच्यमानः पदार्थः अभावः | अस्य चत्वारः प्रकाराः -- प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः, अन्योन्याभावः |</big>
 
Line 71 ⟶ 75:
<big>अयम् अभावः घटत्वावच्छिन्नप्रतियोगिताकः | अस्य अभावस्य जिज्ञासायां प्रतियोगिनः च प्रतियोगीतायाः आकाङ्क्षा स्पष्टं प्रतिभाति इत्यतः अभावस्य प्रतियोगिताज्ञानाधीनज्ञानविषयत्वम् |</big>
 
== '''<big>भावपदार्थः</big>''' ==
 
<big>कस्यचित् पदार्थस्य अस्तित्वस्य सूचकः अयं पदार्थः | अभावं विहायः द्रव्यगुणकर्मादयः सर्वे पदार्थाः भावपदार्थाः | अस्य बोधनार्थं अभाववत् प्रतियोगिनः वा प्रतियोगितायाः पूर्वज्ञानं न अपेक्षते |</big>
 
Line 77 ⟶ 82:
<big>अभावः प्रतियोगिसाकाङ्क्षः पदार्थः | भावपदार्थः प्रतियोगिनिराकाङ्क्षः | अयमेव भावाभावयोः पदार्थयोः मध्ये विद्यमानः भेदः |</big>
 
== '''<big>अधुना मूलविषयः -- संयोगनाशात् विभागः नातिरिक्तः इत्यस्य आक्षेपस्य परिहारः |</big>''' ==
 
<big>क्षणपञ्चकव्यापिन्यां संयोगप्रक्रियायां क्रिया, विभागः, संयोगस्य नाशः, इत्यादीनि कार्याणि जायन्ते | प्रक्रियामिमां घटपटयोः संयोगस्य उदाहरणं स्वीकृत्य परिशीलयामः | अस्यां प्रक्रियायां क्रियोत्पत्त्युत्तरक्षणे "घटपटौ विभक्तौ", "घटपटयोः संयोगः नष्टः" इति कार्यद्वयमपि सिध्यति | "घटपटौ विभक्तौ" इति एका प्रतीतिः | "घटपटयोः संयोगः नष्टः" इति अपरा प्रतीतिः | इमे द्वेपि प्रतीती किं सामाने स्तः इति प्रश्ने उदिते सति समाधानम् अग्रे उपस्थाप्यते |</big>
 
Line 86 ⟶ 92:
<big>"घटपटौ विभक्तौ" इत्यपि क्रियोत्पत्त्यनन्तरं जायमानम् अनुभवसिद्धं ज्ञानम् |अस्य ज्ञानस्य निमित्तकारणत्वेन स्थितः विषयः विभागः | विभागः गुणरूपः भावपदार्थः | अस्य बोधनार्थं संयोगरूपिप्रतियोगिनः आवश्यकता नास्ति | अतः "घटपटौ विभक्तौ" इत्यनेन ज्ञानेन विभागनामकः भावपदार्थः विषयीक्रियते इति प्रतीयते |</big>
 
=== '''<big>उभयोः ज्ञानयोः विषययोः परिशीलनेन किं सिध्यति ? "घटपटौ विभक्तौ" च "घटपटयोः संयोगः नष्टः" इति द्वौ भिन्नौ सविषयकौ पदार्थौ अनुभवसिद्धौ भवतः | उभाभ्यां विषयीक्रियमाणौ पदार्थौ परस्परं भिन्नौ इत्यतः संयोगनाशः च विभागः एकः पदार्थः एव इति वक्तुं न शक्यते | संयोगः प्रध्वंसाभारूपः | विभागः भावपदार्थः, अन्यतमः गुणः |</big>''' ===
 
 
Line 104 ⟶ 110:
 
<nowiki>---------------------------------</nowiki>
 
 
Subpages (1) [[गुणनाशः]]
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/b/b9/%E0%A5%A8%E0%A5%A8_-_%E0%A4%B8%E0%A4%82%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%A8%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%A4%E0%A5%8D_%E0%A4%B5%E0%A4%BF%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83_%E0%A4%A8%E0%A4%BE%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A4%BF%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%83_%E0%A4%87%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A5%87%E0%A4%AA%E0%A4%B8%E0%A5%8D%E0%A4%AF_%E0%A4%B8%E0%A4%BE%E0%A4%AE%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B9%E0%A4%BE%E0%A4%B0%E0%A4%83.pdf २२ - संयोगनाशात्‌ विभागः नातिरिक्तः इत्याक्षेपस्य सामान्यपरिहारः.pdf]
teachers
746

edits