10---nyAyashAstram/26---dalasArthakya-cintanam/sanyogabhinnatvesatisanyogasamavayikaranamkarma: Difference between revisions

added text
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
(added text)
Line 1:
<big>'''(१४) ‘संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म’ | संयोगभिन्नत्वे सति संयोगासमवायिकारणत्वं कर्मणः लक्षणम् |'''</big>
<please replace this with content from corresponding Google Sites page>
 
 
<big>हस्तपुस्तकयोः संयोगः शरीरपुस्तकयोः संयोगस्य असमवायिकारणम् | शरीरपुस्तकयोः संयोगः, संयोगेन जातः | अतः संयोगजः संयोगः |</big>
 
 
<big>द्वितीयविध-असमावायिकारणम् अत्र उदाहृतम् | कारणेन सह एकस्मिन् अर्थे समवेतं सत् यत् कार्यं जनयति तादृशम् असमवायिकारणम् |</big>
 
 
<big>शरीरपुस्तकयोः संयोगस्य समवायिकारणं शरीरम् | समवायिकारणस्य शरीरस्य पुनः हस्तः समवायिकारणं | नाम शरीरस्य अधिकरणं हस्तः |</big>
 
 
<big>समवायिकारणस्य अधिकरणे हस्ते समवेतः सन् हस्तपुस्तकयोः संयोगः शरीरपुस्तकयसंयोगरूपं कार्यं जनयति इति कृत्वा असमवायिकारणम् |</big>
 
 
<big>हस्तपुस्तकयोः संयोगं प्रति कर्म वा क्रिया असमवायिकारणम् | इदं प्रथमविध-असमवायिकारणं यत् कार्येण सह एकस्मिन् अर्थे समवेतं सत् कार्यं जनयति |</big>
 
 
<big>यदा हस्ते क्रिया जायते तदा हस्तपुस्तकयोः कर्मजः संयोगः उत्पद्येत | हस्तपुस्तकयोः संयोगः इति कार्यम् | कर्म अथवा क्रिया तस्य असमवायिकारणम् |</big>
 
 
<big>हस्तपुस्तकसंयोगरूपेण कार्येण सह एकस्मिन् अधिकरणे, नाम हस्तपुस्तकसंयोगस्य समवायिकारणे हस्ते, समवेतं कर्म, संयोगासमवायिकारणम् |</big>
 
 
<big>द्वे दले :  १) संयोगभिन्नत्वम्    २) संयोगासमवायिकारणत्वम्</big>
 
{| class="wikitable"
|'''<big>उपात्तं दलम्</big>'''
|'''<big>दोषः</big>'''
|'''<big>कुत्र ?</big>'''
|'''<big>निवारणम्</big>'''
|-
|<big>संयोगभिन्नत्वम्</big>
|<big>अतिव्याप्तिः</big>
|<big><nowiki>अन्येषु सर्वेषु संयोगभिन्नेषु पदार्थेषु |</nowiki></big>
|<big>संयोगासमवायिकारणत्वम्</big>
|-
|<big>संयोगासमवायिकारणत्वम्</big>
|<big>अतिव्याप्तिः</big>
|<big><nowiki>संयोगे | यतः संयोगः स्वयमपि संयोगस्य असमवायिकारणं भवितुम् अर्हति |</nowiki></big>
|<big>संयोगभिन्नत्वम्</big>
|-
|<big>'''संयोगभिन्नत्वे सति संयोगासमवायिकारणत्वम्'''</big>
|<big>'''नास्ति'''</big>
|<big>'''नास्ति'''</big>
|<big>'''नास्ति'''</big>
|}
teachers
746

edits