अकृत्वा_/_अकृत्य
विषयः - अकृत्वा / अकृत्य
प्रश्नः
"बालकः भोजनम् अकृत्वा शालां गतवान्" उत "बालकः भोजनम् अकृत्य शालां गतवान्" उत्तरम्
उत्तरम्
"बालकः भोजनम् अकृत्वा शालां गतवान्" इत्येव साधुः प्रयोगः | - कृ-धातुतः क्त्वा-प्रत्यये विहिते कृत्वा इति सुबन्तपदं निष्पन्नं भवति | *
- कृ-धातुतः क्त्वा-प्रत्यये विहिते कृत्वा इति सुबन्तपदं निष्पन्नं भवति | *
- नञ् (२.२.६) इत्यनेन सूत्रेण नञ् इति अव्ययं सुबन्तेन सह समस्यते | अयं नञ्-समासः |
- नञा सह समासे जाते नञः नकारस्य लोपः भवति समस्तपदे नलोपो नञः (६.३.७३) इत्यनेन; अकारः अवशिष्यते |
- उदाहरणत्वेन, नञ् + धर्मः → न + धर्मः → अ + धर्मः → अधर्मः इति नञ्-तत्पुरुषः समासः |
- एवमेव, नञ् + कृत्वा → न + कृत्वा → अ + कृत्वा → अकृत्वा इति नञ्-तत्पुरुषः समासः |
- अत्र प्रश्नः उदेति यत् अ-पूर्वक-कृ-धातोः क्त्वा-विवक्षायां ल्यप्-प्रत्ययः किमर्थं न स्यात् इति |
- यथा, आनी + ल्यप् → आनीय, विस्मृ + ल्यप् → विस्मृत्य, प्रपठ् + ल्यप् → प्रपठ्य, स्वीकृ + ल्यप् → स्वीकृत्य |
- अव्ययपूर्वकाणां धातूनां समासेऽनञ्पूर्वे क्त्वो ल्यप् (७.१.३७) इत्यनेन क्त्वा-स्थाने ल्यप् विधीयते | धेयं यत् उपसर्गाः अपि अव्ययानि |
- किन्तु समासेऽनञ्पूर्वे क्त्वो ल्यप् इत्यस्मिन् 'अनञ्पूर्वे' इत्यस्य विद्यमानत्वात् नञ्-समासे ल्यप् न विधीयते | समासस्य पूर्वपदं नञ्-भिन्न-अव्ययं चेदेव ल्यपः विधानम् |
- अकृत्वा इत्यस्मिन् कृत्वा इत्यस्मात् पूर्वं यः अकारः दृश्यते सः नकारस्य लोपानन्तरं नञः अवशेषः, न तु नञ्-भिन्नम् अव्ययम् |
- अनेन अस्मात् ल्यपः विधानं निषिद्धम् | अकृत्य इति रूपं न सिध्यति | अकृत्वा इति क्त्वान्तरूपमेव साधु |
- एवमेव अश्रुत्वा, अज्ञात्वा, अदृष्ट्वा, अपृष्ट्वा, अलिखित्वा इत्यादीनि नञ्-समासानां क्त्वान्तरूपाणि सिध्यन्ति |
*
- कृत्वा इति अव्ययं वस्तुतः सुबन्तमेव | 'कृत्वा' कृदन्तम् इति कारणतः कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन तस्य प्रातिपदिकसंज्ञा |
- ङ्याप्प्रातिपदिकात् (४.१.१) इत्यनेन यस्य प्रातिपदिकसंज्ञा, तस्मात् स्वौजस... (४.१.२) इत्यनेन सु, औ, जस् इत्यादयः सुप्-प्रत्ययाः विधीयन्ते |
- क्त्वातोसुन्कसुनः (१.१.४०) इत्यनेन क्त्वान्तपदम् अव्ययं भवति | तदा अव्ययादाप्सुपः (२.४.८२) इत्यनेन अव्ययपदात् सुप्-प्रत्ययस्य लुक् (लोपः) |
- लोपे सत्यपि प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यनेन लुप्त-प्रत्ययस्य लक्षणं मत्वा तस्य (सुप्-प्रत्ययस्य) द्वारा विहितं कार्यं भवति |
- कार्यं किम् ? सुबन्तं मत्वा सुप्तिङ्गन्तं पदम् (१.४.१४) इत्यनेन पद-संज्ञा |
- अत्र धेयं यत् 'कृत्वा + सु' इति स्थितौ सुप्तिङ्गन्तं पदम् (१.४.१४) इत्यनेन यत् कार्यं विधीयते, तत् अङ्गकार्यं नास्ति यतोहि "सुप् निमित्तीकृत्य पूर्वविद्यमाने अङ्गे कार्यम्" इति स्थितिः नास्ति |
- अपि तु 'कृत्वा + सु' इति समग्रसमुदाये नामकरणं नाम्ना कार्यम् | इत्युक्तौ अत्र "सुप्-प्रत्ययः निमित्तं मत्वा कार्यात् परः" इति नास्ति अपि तु स्वयं कार्ये भागी |
- तस्मात् न लुमताऽङ्गस्य (१.१.६३) इत्यनेन प्रत्ययलक्षणस्य निषेधो नास्ति | अङ्गकार्ये एव 'लुक्' इत्यनेन प्रत्ययलक्षणं निषिद्धम्; अत्र अङ्गकार्यं नास्ति अपि तु समुदायकार्यम् अतः प्रत्ययलक्षणम् अस्ति |
- तदर्थं 'कृत्वा' इति प्रातिपदिकात् सुप्-विहिते सुप्तिङ्गन्तं पदम् (१.४.१४) इत्यनेन सुपः लुक् चेदपि 'कृत्वा' इति सुबन्तम् |
- अतः 'कृत्वा' सुबन्तं, येन नञा सह समस्यते |