12---vyAvahArikii-shikShikA/dvikarmakadhAtUnAM-karmaNiprayoge-kArakavyavasthA: Difference between revisions

m
Protected "द्विकर्मकधातूनां कर्तरिप्रयोगे कारकव्यवस्था" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
m (Protected "द्विकर्मकधातूनां कर्तरिप्रयोगे कारकव्यवस्था" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(10 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:द्विकर्मकधातूनां कर्तरिप्रयोगे कारकव्यवस्था}}
<please replace this with content from corresponding Google Sites page>
'''<big>विषयः - <u>द्विकर्मकधातूनां कर्मणिप्रयोगे कारकव्यवस्था</u></big>'''
 
<font size="4"></font><font size="4"></font>
 
 
'''<big><u>प्रश्नः</u></big>'''
 
<font size="4"></font>
 
<big>कर्तरिप्रयोगः - “भिक्षुकः धनिकम् आहारं याचते” / “भिक्षुकः धनिकात् आहारं याचते” इति वाक्यद्वयमपि साधु |</big>
 
<font size="4"></font>
 
<big>अनयोः वाक्ययोः कर्मणिप्रयोगः कथं भवति ? अधस्तनयोः प्रयोगयोः कः प्रयोगः साधुः ?</big>
 
<font size="4"></font>
 
<big>"भिक्षुकेण धनिकः आहारं याच्यते" उत "भिक्षुकेण धनिकम् आहारः याच्यते" ?  </big>
 
 
 
'''<big><u>उत्तरम्</u></big>'''
 
<big>"भिक्षुकेण धनिकः आहारं याच्यते" इत्येव साधुः प्रयोगः |</big>
 
 
 
<big>- द्विकर्मकधातूनां व्यवस्था एवं यत्‌ कर्तरिप्रयोगे द्वयोः कर्मपदयोर्मध्ये यस्य विकल्पेन अन्यविभक्तिकत्वं भवति, तत्‌ गौणकर्मपदम्‌ इत्युच्यते | अन्यत्‌ कर्मपदं द्वितीयाविभक्तौ एव भवति इति कारणतः तच्च पदं प्रधानकर्मपदम्‌ |</big>
 
<big>- द्विकर्मकधातूनां व्यवस्था एवं यत्‌ कर्तरिप्रयोगे द्वयोः कर्मपदयोर्मध्ये यस्य विकल्पेन अन्यविभक्तिकत्वं भवति, तत्‌ गौणकर्मपदम्‌ इत्युच्यते | अन्यत्‌ कर्मपदं द्वितीयाविभक्तौ एव भवति इति कारणतः तच्च पदं प्रधानकर्मपदम्‌ |</big>
 
<font size="4"></font>
 
<big>- अत्र धनिक-शब्दः विकल्पेन धनिकं/धनिकात्‌ इति कृत्वा गौणकर्मपदम्‌; आहार-शब्दः नित्यं द्वितीयाविभक्तौ 'आहारम्‌' इति कृत्वा प्रधानकर्मपदम्‌ |</big>
 
<font size="4"></font>
 
<big>- अतः “भिक्षुकः धनिकम् आहारं याचते” इत्यस्मिन् “आहारम्” इति प्रधानकर्मपदं च “धनिकम्” इति गौणकर्मपदम् |</big>
 
<font size="4"></font>
 
<big>- '''कर्तुरीप्सिततमं कर्म''' (१.४.४९) इत्यनेन आहार-शब्दस्य कर्मसंज्ञा, '''अकथितं च''' (१.४.५१) इत्यनेन धनिक-शब्दस्य कर्मसंज्ञा |</big>
 
<font size="4"></font>
 
<big>- षोडश औपदेशिकाः द्विकर्मकधातवः सन्ति ये सिद्धान्तकौमुद्याम् अनेन श्लोकेन निर्दिष्टाः |</big>
 
<font size="4"></font>
 
<big>'''दुह्-याच्-पच्-दण्ड्-रुधि-प्रच्छि-चि-ब्रू-शासु-जि-मथ्-मुषाम् |'''</big>
 
<font size="4"></font>
 
<big>'''कर्मयुक् स्यादकथितं तथा स्यात् नी-हृ-कृष्-वहाम् ||'''</big>
 
<font size="4"></font>
 
<big>- एषां षोडशानां द्विकर्मकधातूनां, तदर्थकानां च प्रयोगे प्रधानकर्मपदं च गौणकर्मपदं भवतः |</big>
 
<font size="4"></font>
 
<big>- कर्मणिप्रयोगे कर्मपदं प्रथमाविभक्तौ भवति इति अस्माभिर्बुध्यते | बालकः ग्रन्थं पठति → बालकेन ग्रन्थः पठ्यते, इति सामान्यज्ञानम्‌ |</big>
 
<font size="4"></font>
 
<big>- किन्तु द्विकर्मकधातूनां योगे कर्मद्वये सति कर्मणिप्रयोगे द्वयोर्मध्ये कस्य कर्मणः प्रथमाविभक्त्यन्तत्वेन परिवर्तनं स्यात् इति प्रश्नः उदेति |</big>
 
<font size="4"></font>
 
<big>- कर्मणिप्रयोगे एषु षोडशसु धातुषु द्वादशानां गौणकर्मणः प्रथमाविभक्तिः; अवशिष्टानां चतुर्णां प्रधानकर्मणः प्रथमाविभक्तिः |</big>
 
<font size="4"></font>
 
<big>- “'''गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम्”''' इत्यनेन सिद्धान्तकौमुदीवचनेन कस्य कर्मणः प्रथमाविभक्तिः स्यात् इति निर्देशः प्राप्यते |</big>
 
<font size="4"></font>
 
<big>- द्विकर्मकधातूनां कर्मणिप्रयोगे कारकव्यवस्थायाः बोधसौकर्याय एते षोडश द्विकर्मकधातवः समूहद्वये विभक्ताः |</big>
 
<font size="4"></font>
 
<big>- प्रथमः समूहः '''दुह्-याच्-पच्-दण्ड्-रुधि-प्रच्छि-चि-ब्रू-शासु-जि-मथ्-मुष्''' इत्येषां सङ्ग्रहः; दुह्यादिगणः इत्युच्यते |</big>
 
<font size="4"></font>
 
<big>- दुह धातुः अदादिगणे अस्ति | कर्तरिप्रयोगे अयं गणः "दुहादयः" इत्युच्यते; कर्मणिप्रयोगे रूपम्‌ अस्ति दुह्यते इति कारणतः दुह्यादयः इति उच्यते |</big>
 
<font size="4"></font>
 
<big>- द्वितीयः समूहः '''नी-हृ-कृष्-वह्''' इत्येषां चतुर्णां द्विकर्मकधातूनां सङ्ग्रहः |</big>
 
<font size="4"></font>
 
<big>- दुह्यादिगणे अन्तर्भूतानां धातूनां कर्मणिप्रयोगे गौणकर्मणः प्रथामाविभक्तिः -- “'''गौणे कर्मणि दुह्यादेः”''' |</big>
 
<font size="4"></font>
 
<big>- नी-हृ-कृष्-वह् इत्येषां कर्मणिप्रयोगे प्रधानकर्मणः प्रथामाविभक्तिः -- “'''प्रधाने नीहृकृष्वहाम्”''' |</big>
 
<font size="4"></font>
 
<big>- अस्य आधारेण दुह्यादिगणे अन्तर्भूतस्य याच्-धातोः कर्मणिप्रयोगे गौणकर्मणः प्रथामाविभक्तिः |</big>
 
<font size="4"></font>
 
<big>- अतः "भिक्षुकेण धनिकः आहारं याच्यते" इति प्रयोगस्य साधुत्वं सिध्यति यत्र गौणकर्म “धनिकः” प्रथमाविभक्त्यन्तं भवति |</big>
 
<font size="4"></font>
 
<big>- एवमेव, द्वितीयसमूहे अन्तर्भूतानां नी-हृ-कृष्-वह् इत्येषां धातूनां कर्मणिप्रयोगे प्रधानकर्मणः प्रथमविभक्तिः भवति |</big>
 
<font size="4"></font>
 
<big>- उदाहरणत्वेन, “बालकेन ग्रामं शुनकः नीयते”, अत्र नी-धातोः कर्मणिप्रयोगे “शुनकः” इति प्रधानकर्मणः प्रथमाविभक्तिः |</big>
 
<font size="4"></font>
 
<big>- कर्मणिप्रयोगे क्रियापदं कर्मपदेन सह अन्वेति इत्यतः क्रियापदस्य वचनं कर्मपदस्य वचनम् अवलम्ब्य निर्णीयते |</big>
 
<font size="4"></font>
 
<big>- "भिक्षुकेण धनिकाः आहारं याच्यन्ते” इत्यस्मिन् वाक्ये कर्मण्यर्थे निष्पन्नं क्रियापदं “याच्यन्ते” इति बहुवचने, “धनिकाः” इत्यस्य बहुवचनान्तत्वात् |</big>
 
<font size="4"></font>
 
<big>- “बालकेन ग्रामं शुनकाः नीयन्ते” इत्यस्मिन् वाक्ये कर्मण्यर्थे निष्पन्नं क्रियापदं “नीयन्ते” इति बहुवचने, “शुनकाः” इत्यस्य बहुवचनान्तत्वात् |</big>
 
<font size="4"></font>
 
<big>- अन्ततो गत्वा द्विकर्मकधातूनां व्यवस्था एतादृशी अस्ति इति तु सत्यं; परन्तु यद्यपि दुह्यादीनां गौणकर्मणः प्रथमाविभक्तिः, तथापि वाक्ये गौणकर्मपदं नोक्तं चेत्‌, यत्कर्मपदम्‌ उक्तं तस्यैव प्रथमाविभक्तिः | भिक्षुकः आहारं याचते → भिक्षुकेण आहारः याच्यते | एवमेव नी-हृ-कृष्-वह् इत्येभिः घटिते वाक्ये प्रधानकर्मपदं नोक्तं चेत्‌, यत्कर्मपदम्‌ उक्तं तस्यैव प्रथमाविभक्तिः | बालकः ग्रामं नयति → बालकेन ग्रामः नीयते |</big>
 
 
'''<big>परिशिष्टम्</big>'''
 
'''<big>---------</big>'''<font size="4"></font>
 
 
 
'''<big>गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम् |</big>'''
 
'''<big>बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया  |</big>'''<font size="4"></font>
 
'''<big>प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मता ||</big>'''
 
 
*<big>सिद्धान्तकौमुद्याः श्लोकेनानेन द्विकर्मकस्थले कस्मिन् कर्मणि प्रथमाविभक्तिः भवति इति सुचना प्राप्यते |</big>
 
 
*<big>“'''गौणे कर्मणि दुह्यादेः”''' इत्यस्मात् दुह्यादीनां कर्मणिप्रयोगे गौणे कर्मणि प्रथमाविभक्तिः स्यात् इति निर्देशः |</big>
<font size="4"></font>
 
<big>          कर्तरिप्रयोगः -  पाचकः तण्डुलान् ओदनं पचति | पाचकः तण्डुलैः ओदनं पचति |</big>
 
<font size="4"></font>
 
<big>          कर्मणिप्रयोगः - पाचकेन तण्डुलाः ओदनं पच्यन्ते |</big>
 
 
*<big>“'''प्रधाने नीहृकृष्वहाम्”''' इत्यस्मात् नीहृकृष्वहां कर्मणिप्रयोगे प्रधाने कर्मणि प्रथमाविभक्तिः स्यात् इति निर्देशः |</big>
<font size="4"></font>
 
<big>         कर्तरिप्रयोगः -  सेवकः प्रकोष्ठं भारं वहति | सेवकः प्रकोष्ठे* भारं वहति | (प्रकोष्ठाय अपि समीचीनम्‌ |)</big>
 
<font size="4"></font>
 
<big>         कर्मणिप्रयोगः - सेवकेन प्रकोष्ठं भारः उह्यते |</big>
 
 
*<big>“'''बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया”''' इत्यस्मात् बुद्ध्यर्थकानां, भक्ष्यर्थकाणां, शब्दकर्मकाणां णिजन्तावस्थायां निजेच्छया नाम वक्तुः इच्छया कर्मणिप्रयोगे गौणे कर्मणि अथवा प्रधाने कर्मणि प्रथमाविभक्तिः स्यात् इति निर्देशः |</big>
<font size="4"></font>
 
<big>        कर्तरिप्रयोगः -  शिक्षकः छात्रं विषयं बोधयति | “छात्रम्” इति गौणकर्मपदम् | “विषयम्” इति प्रधानकर्मपदम् |</big>
 
<font size="4"></font>
 
<big>        कर्मणिप्रयोगः - शिक्षकेण छात्रः विषयं बोध्यते | शिक्षकेण छात्रं विषयः बोध्यते |</big>
 
 
*<big>“'''प्रयोज्यकर्मण्यन्येषां ण्यन्तानां”''' इत्यस्मात् अन्येषां णिजन्तधातूनां प्रयोगे यत्र कर्मद्वयं युज्यते तत्र प्रयोज्यकर्मणि प्रथमाविभक्तिः भवति | अणौ—अणिजन्तस्थले—यः कर्ता अस्ति, सः प्रयोज्यकर्ता भवति णिजन्तस्थले | णिजन्तावस्थायां प्रयोज्यकर्ता कर्मत्वेन परिवर्तनं प्राप्य प्रयोज्यकर्म भवति |</big>
<font size="4"></font>
 
<big>       कर्तरिप्रयोगः -  पुत्रः विद्यालयं गच्छति → पिता पुत्रं विद्यालयं गमयति | “पुत्रः” प्रयोज्यकर्ता | कर्मत्वेन परिवर्तितं, “पुत्रम्” इति प्रयोज्यकर्म |</big>
 
<font size="4"></font>
 
<big>       कर्मणिप्रयोगः - पित्रा पुत्रः विद्यालयं गम्यते |</big>
page_and_link_managers, Administrators
5,094

edits