12---vyAvahArikii-shikShikA/jagrtavanjagaritavan: Difference between revisions

m
Protected "जागृतवान् / जागरितवान्" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
m (Protected "जागृतवान् / जागरितवान्" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(5 intermediate revisions by one other user not shown)
Line 1:
{{DISPLAYTITLE:जागृतवान् / जागरितवान्}}
<please replace this with content from corresponding Google Sites page>
'''<big>विषयः--<u>जागृतवान् / जागरितवान्</u></big>'''
 
 
 
'''<big><u>प्रश्नः</u></big>'''
 
<big>"शिशुः जागृतवान्" उत "शिशुः जागरितवान्" - अनयोः कः प्रयोगः साधुः ?</big>
 
 
 
<big>'''<u>उत्तरम्</u>'''</big>
 
<big>"शिशुः जागरितवान्" इत्येव साधुः प्रयोगः |</big>
 
 
 
<big>- जागृ, निद्राक्षयार्थे इति अदादिगणीयः सेट् धातुः | जागृ-धातोः क्तवतु-प्रत्यये परे जागरितवान् इति पुंलिङ्गे रूपम् |</big>
 
<big>- वस्तुतः क्तवतु कित् प्रत्ययः इत्यतः क्तवतु-प्रत्यये परे जागृ इत्यस्मिन् अङ्गे गुणः निषिध्यते '''क्क्ङिति च''' (१.१.५) इति सूत्रेण |</big>
 
<big>- किन्तु जागृ-धातोः किति प्रत्यये परे गुणः भवति '''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) इत्यनेन सूत्रेण |</big>
 
<big>- '''जाग्रोऽविचिण्णल्ङित्सु''' इत्यनेन जागृ-धातौ ऋकारस्य वृद्धिप्राप्तिः चेत्‌, गुणनिषेधः अथवा वृद्धिनिषेधः चेत्‌, तस्य ऋकारस्य गुणः भवति |</big>
 
<big>- जागृ + क्तवतु इत्यस्यां स्थित्यां, क्तवतु-प्रत्ययस्य कित्त्वात् गुणनिषेधे सति '''जाग्रोऽविचिण्णल्ङित्सु''' इत्यनेन गुणकार्यं; जागृ + क्तवतु → जागर् + क्तवतु |</big>
 
<big>- क्तवतु इति प्रत्ययः '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इत्यनेन सेट् | जागृ-धातुः अपि सेट् | अतः इडागमः भवति |</big>
 
<big>- आहत्य, जागृ + क्तवतु '''→''' जागृ + इ + तवत् '''→''' जागर् + इ + तवत् '''→''' जागरितवत् इति प्रातिपदिकम् | एकवचने, पुंलिङ्गे जागरितवान्, स्त्रीलिङ्गे जागरितवती |</big>
 
<big>- तथैव अपरेषु कित्सु प्रत्ययेषु परेष्वपि जागृ-धातौ गुणकार्यम् | यथा, जागृ + क्त '''→''' जागर् + इ + त '''→''' जागरित, जागृ + क्त्वा '''→''' जागर् + इ + त्वा '''→''' जागरित्वा |</big>
 
<big>- कित्‌ङित्‌-भिन्नेषु प्रत्ययेषु, यदि केनापि सूत्रेण गुणस्य निषेधः न विधीयते तर्हि सामान्यरीत्या जागृ-धातौ ऋकारस्य गुणः |</big>
 
<big>- यथा, जागृ + तुमुन् इत्यस्मिन् '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणः | जागृ + तुमुन् '''→''' जागर् + इ + तुम् '''→''' जागरितुम् |</big>
page_and_link_managers, Administrators
5,094

edits