12---vyAvahArikii-shikShikA/prarthayeprarthayami: Difference between revisions

m
Protected "प्रार्थये, प्रार्थयामि" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
m (Protected "प्रार्थये, प्रार्थयामि" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(4 intermediate revisions by one other user not shown)
Line 1:
{{DISPLAYTITLE:प्रार्थये, प्रार्थयामि}}
<please replace this with content from corresponding Google Sites page>
'''<big>विषयः'''''—'''''<u>प्रार्थये, प्रार्थयामि</u>'''</big>
 
 
 
'''<big><u>प्रश्नः</u></big>'''
 
<big>"सः प्रार्थयति" अथवा "सः प्रार्थयते"? कः प्रयोगः साधुः?</big>
 
 
 
'''<big><u>उत्तरम्</u></big>'''
 
<big>उभयथा अपि प्रयोगः वर्तते | "सः प्रार्थयति" अथवा "सः प्रार्थयते"— उभौ प्रयोगौ साधू स्तः |</big>
<big>- प्र-उपसर्गपूर्वकः अर्थ्-धातुः चुरादिस्थः | अस्य स्वार्थे विकल्पेन णिच्-प्रत्ययः |</big>
 
<big>- प्र-उपसर्गपूर्वकः अर्थ्-धातुः चुरादिस्थः | अस्य स्वार्थे विकल्पेन णिच्-प्रत्ययः |</big>
 
<big>- सामान्यतया चुरादिगणे धातवः उभयपदिनः सन्ति '''णिचश्च''' (१.३.७४), '''शेषात्कर्तरि परस्मैपदम्‌''' (१.३.७८) इति सूत्रद्वयेन |</big>
 
<big>- परन्तु चुरादौ अपवादभूत-अन्तर्गणद्वयं वर्तते यत्र धातवः अत्मनेपदिनः सन्ति |</big>
 
<big>- '''आगर्वादात्मनपदिनः''' इति गणसूत्रेण एकः अन्तर्गणः सृष्टः यस्मिन् विद्यमानाः अदन्तधातवः सर्वे नित्य-आत्मनेपदिनः |</big>
 
<big>- '''आगर्वादात्मनपदिनः''' इति गणसूत्रेण अर्थ्-धातोः आत्मनेपदमेव भवेत् | तदा अर्थयते, अर्थयसे, अर्थये इत्यादीनि रूपाणि भवन्ति |</big>
 
<big>- णिच्‌-प्रत्ययः 'धातु-प्रत्ययः' इति उच्यते, यतोहि तस्य संयोजनेन धातुः निष्पद्यते | यथा पठ्‌-धातुः + णिच्‌ → पाठि इति नूतनधातुः |</big>
 
<big>- णिच्‌-प्रत्ययः वस्तुतः धातुभ्यः अपि विधीयते, प्रातिपदिकेभ्यः अपि विधीयते; उभयथा नूतनधातुः भवति | अतः अत्र धातोः निष्पादनार्थं मार्गद्वायं वर्तते | यदा साक्षात्‌ अर्थ्‌-धातुतः णिच्‌-प्रत्ययः विधीयते, तदा यः धातुः निष्पद्यते 'अर्थि', स च आत्मनेपदी यथा उपर्युक्तम्‌ | यदा अर्थ्‌ + अच्‌-कृत्‌प्रत्ययः इत्यनेन 'अर्थ' इति कृदन्तप्रातिपदिकं निष्पद्यते, तदा तस्मात्‌ यदा णिच्‌ संयुज्यते, परस्मैपदिधातुः 'अर्थि' निष्पद्यते | (कृदन्तात् '''तत्करोति तदाचष्टे''' इति गणसूत्रेण णिच्-प्रत्ययः विहितः भवति |)</big>
 
<big>- अतः मार्गद्वयं वर्तते | प्रथमतया साक्षात्‌ अर्थ्‌-धातुना सामान्यमार्गः—  </big>
 
<big>- प्र + अर्थ्‌-धातुः + णिच् → प्रार्थि-धातुः → प्रार्थि + शप् + ते → प्रार्थि + अ + ते → प्रार्थे + अ + ते → प्रार्थय + ते → प्रार्थयते |</big>
 
<big>- तदा द्वितीयमार्गः, यदा णिच्‌ विधीयते 'अर्थ' इति कृदन्तप्रातिपदिकात्‌—</big>
 
<big>- प्र + अर्थ्‌-धातुः + अच्‌ [इति कृत्‌-प्रत्ययः] → प्रार्थ इति प्रातिपदिकम्‌ → प्रार्थ + णिच् → प्रार्थि इति धातुः → प्रार्थि + शप् + ति → प्रार्थि + अ + ति → प्रार्थे + अ + ति → प्रार्थय + ति → प्रार्थयति |</big>
 
<big>- अतः द्वितीयमार्गेण 'प्रार्थयति' इत्यपि साधुः भवति |</big>
 
<big>- सिद्धान्तकौमुद्यां तु “निवृत्तप्रेषणाद्धातोः प्राकृतार्थे णिजिष्यते” | अर्थात् णिज्विहीनेन तुल्यार्थः भवति | णिच्प्रत्ययस्य प्रेरणार्थः नास्तीति (प्रकृतार्थः) |</big>
page_and_link_managers, Administrators
5,094

edits