12---vyAvahArikii-shikShikA/viracyaviracayya: Difference between revisions

no edit summary
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
No edit summary
Line 1:
<big>'''विषयः'''''''''''''''''''''''''''—'''''''''''''''''''''''''''''' विरच्य / विरचय्य</big>
<please replace this with content from corresponding Google Sites page>
 
<big>'''प्रश्नः'''</big>
 
<big>"चित्रकारः चित्रं विरच्य प्रदर्शितवान्" उत "चित्रकारः चित्रं विरचय्य प्रदर्शितवान्" - अनयोः कः प्रयोगः साधुः?</big>
 
<big>'''उत्तरम्'''</big>
 
<big>"चित्रकारः चित्रं विरचय्य प्रदर्शितवान्" इत्येव साधुः प्रयोगः |</big>
 
<big>- रच इति चुरादिगणीयः, अदन्तः, सेट् धातुः | सर्वेभ्यः चुरादिगणस्थेभ्यः धातुभ्यः आदौ णिच्-प्रत्ययः विधीयते, यथा रच + णिच् |</big>
 
<big>- अतः प्रथमतया णिच्-प्रत्ययं निमित्तीकृत्य अङ्गकार्यं भवति चुरादिगणे | अयं णिच्-प्रत्ययः आर्धधातुकः प्रत्ययः |</big>
 
<big>- रच इत्यस्मिन् अन्तिमः अकारः इत्संज्ञकः न इत्यतः धातुः अदन्तः, तस्य उपधायां हल्-वर्णः च | अनेन णिचि विहिते उपधावृद्धिः न भवति |</big>
 
<big>- णिचः आर्धधातुकत्वात् रच + णिच् इत्यस्याम्‌ अवस्थायाम् '''अतो लोपः''' (६.४.४८) इत्यनेन रच इत्यस्य ह्रस्व अकारस्य लोपे जाते रच् इति अवशिष्यते |</big>
 
<big>- अधुना रच् + णिच्  इत्यस्याम् अवस्थायां णिच्-निमित्तीकृत्य '''अत उपधायाः''' (७.२.११६) इत्यस्य वृद्धिकार्ये जाते, रच् + णिच् → राच् + इ → राचि इति भवति स्म |</big>
 
<big>- किन्तु रच-धातोः मूले यः अन्तिम-अकारः आसीत्‌, यस्य च लोपः जातः, णिच्‌ निमित्तीकृत्य '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन सूत्रेण स च लुप्त-अकारः पुनः दृश्यते '''अत उपधायाः''' (७.२.११६) इति सूत्रेण अतः 'रच' इत्येव न तु 'रच्‌'; तस्मात्‌ वृद्धिः न भवति |</big>
 
<big>- (चुरादिगणे अनेके एतादृशाः अदन्तधातवः सन्ति; तेषाम्‌ अन्तिम-अकारस्य प्रयोजनम्‌ इदमेव | यथा चुरादौ गण → गणयति, एवमेव क्षिप, पुट, गृह चेति अदन्तधातवः |)</big>
 
<big>- तर्हि अनने रच् + णिच् → रच् + इ → रचि इति एव प्रक्रियार्थं सिद्धम् |</big>
 
<big>- णिच्-प्रत्ययस्य योजनेन रचि इति धातु-संज्ञां प्राप्नोति '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन | अतः विरचि इति वि-उपसर्गपूर्वकः आतिदेशिकः रचि-धातुः |</big>
 
<big>- विरचि इति उपसर्गपूर्वकः इत्यस्मात् '''समासेऽनञ्पूर्वे क्त्वो ल्यप्‌''' (७.१.३७) इत्यनेन ल्यप्-प्रत्ययः विहितः भवति क्त्वा-प्रत्ययस्य स्थाने, विरचि + ल्यप् |</big>
 
<big>- विरचि + ल्यप् इत्यस्यां दशायां '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः (विरचि इत्यस्मिन् इकारस्य) लोपे जाते, विरच् + य → विरच्य इति ल्यबन्तरूपं स्यात् इति शङ्का उदेति |</big>
 
<big>- किन्तु अत्र णिचः लोपः न, अपि तु णिचः अय् इति आदेशः |</big>
 
<big>- विरचि + ल्यप् इत्यस्यां दशायां '''णेरनिटि''' इति सूत्रं प्रबाध्य '''ल्यपि लघुपूर्वात्''' (६.४.५६) इत्यनेन लघुपूर्वात् परस्य णिच्-प्रत्ययस्य अय्-आदेशः भवति |</big>
 
<big>- विरच् + णिच् इत्यत्र वि-उपसर्गपुर्वकः रच्-धातुः लघुपूर्वः यतः अस्य धातोः उपधायां लघुस्वरः वर्तते | अस्मात् लघुपूर्वात् परः अस्ति णिच्-प्रत्ययः |</big>
 
<big>- अतः लघुपूर्व-रच्-धातोः परस्य णिच्-प्रत्ययस्य स्थाने अय् इति आदेशः '''ल्यपि लघुपूर्वात्''' इत्यनेन | विरच् + णिच् + ल्यप् → विरच् + अय् + ल्यप् |</big>
 
<big>- आहत्य, वि + रच + णिच् + ल्यप् → वि + रच् + इ + ल्यप् → वि + रच् + अय् + य → विरचय्य इति ल्यबन्तरूपम् ।</big>
 
<big>- तथैव, चुरादिगणस्य अन्येषाम् अदन्तानां धातूनां ल्यबन्तरूपाणि अपि -- प्रकटय्य, प्रकथय्य, परिगणय्य इत्यादीनि |</big>
deletepagepermission, page_and_link_managers, teachers
2,632

edits