14---samAsaH/02A---avyayiibhAvasamAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(6 intermediate revisions by the same user not shown)
Line 1:
{{DISPLAYTITLE:<span style="color:#ff0000">02A - अव्ययीभावसमासः</span>}}
{| class="wikitable mw-collapsible mw-collapsed"
|'''<big>२०२० ध्वनिमुद्राणनि</big>'''
Line 68:
 
 
<big>तिङन्तपदस्य निर्माणे मातॄणां पद्धति: वैज्ञानिकी, तर्कपूर्णा इति तु वयं जानीमः एव, किन्तु समासपाठ्यक्रमे अपि मातुः पद्धत्यां वैलक्ष्ण्यं वर्तते एव  | माता समासपाठस्य विज्ञानं, समग्रचिन्तनं च पाठयति यत् न वैयाकरणसिद्धान्तकौमुद्यां न वा लघुसिद्धान्तकौमुद्यां न वा अन्यत्र कुत्रापि लभ्यते  | समासप्रकरणस्य अध्यापनार्थं, छात्राणां सुखबोधनार्थं च मातृभिः समासप्रक्रियायां पञ्च उपाङ्गानि कृतानि, यैः उपाङ्गैः क्रमेण बोधः जायते समासे कीदृशकार्याणि भवितुम् अर्हन्ति अपि च तत्सम्बद्धसूत्राणि अष्टाध्यायांअष्टाध्याय्यां कुत्र वर्तन्ते इति अपि ज्ञायते  | समासप्रकरणस्य अध्ययने मातुः पाठ्यक्रमः न केवलं विलक्षणः, सरलः अपि अस्ति येन सुलभतया अर्थबोधः जायते | बहूनां विद्यार्थीनां भ्रमः जायते वैयाकरणसिद्धान्तकौमुदीं पठित्वा परन्तु मातुः पाठ्यक्रमे समासपाठः पठ्यते चेत् निश्चयेन बोधः भवत्येव   | मातुः पाठे समासप्रक्रियायां पञ्च उपाङ्गानि सन्ति इति उक्तम् | एतस्य विवरणम् अग्रे दीयते |</big>
 
 
Line 76:
 
==== <big>१) '''प्रातिपदिकसंज्ञा'''</big> ====
<big>समासस्य अलौकिकविग्रहात् समासप्रक्रिया आरभ्यते|समासस्य प्रातिपदिकसंज्ञा विधीयते '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण | प्रातिपदिकसंज्ञानन्तरं पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण | अष्टाध्यायांअष्टाध्याय्यां (६.३.१) इत्यस्मात् सूत्रात् आरभ्य (६.३.२४) इति सूत्रपर्यन्तं पूर्वपदस्य विभक्तेः अलुक् भवति | उत्तरपदे इति अधिकारे सुब्-अलुक् इति एकं कार्यम् अस्ति | पञ्चमे सोपाने सुबलुक् इत्यस्य विवरणम् अग्रे दीयते |</big>
 
 
Line 92:
<big>४) '''समासान्तप्रत्ययाः'''</big>
 
<big>समासप्रक्रियायां कुत्रचित् समासान्तप्रत्ययः विधीयते इति स्मर्तव्यम् | अष्टाध्यायांअष्टाध्याय्यां समासान्ताधिकारः (५.४.६८) इत्यस्मात् सूत्रात् आरभ्य (५.४.१६०) इति सूत्रपर्यन्तम् अस्ति | अस्मिन् अधिकारे समासे कुत्रचित् समासान्तप्रत्ययाः विधीयन्ते |</big>
 
 
Line 98:
<big>५) '''उत्तरपदाधिकारः'''</big>
 
<big>कुत्रचित् उत्तरपदे इति अधिकारे स्थितस्य सूत्रस्य प्रभावेण पूर्वपदे किञ्चित् कार्यं भवति | अष्टाध्यायाम्अष्टाध्याय्याम् उत्तरपदाधिकारः ( ६.३.१) इत्यस्मात् सूत्रात् आरभ्य ( ६.३.१३९) इति सूत्रपर्यन्तम् अस्ति | अस्मिन् अधिकारे उत्तरपदे परे पूर्वपदस्य किञ्चित् कार्यं भवति  | यथा विश्वमित्रः इति समासे पूर्वपदस्य स्वरस्य दीर्घत्वं भूत्वा विश्वामित्रः इति भवति  | कुत्रचित् किञ्चित् उत्तरपदे परे पूर्वपदस्य विभक्तेः अलुक् अपि भवति | एतादृशकार्याणि उत्तरपदाधिकारे लभ्यन्ते |</big>
 
<big>मातुः पाठ्यक्रमम् अवलम्ब्य अग्रे अव्ययीभावसमासस्य विषये पठामः  |</big>
Line 146:
 
<big>संस्कृतभाषायां बहूनि अव्ययपदानि सन्ति | कानिचन  प्रसिद्धानि अव्ययानि — अथ, अपि, इति, इव, एव, एवम्, च,यथा-तथा, यावत्-तावत्, नूनं, पुनः, किल, खलु इत्यादीनि | सर्वासु विभक्तिषु एतेषाम् अव्ययानां रूपाणि न परिवर्तन्ते |</big>
<big>व्याकरणे केषाञ्चन शब्दानाम् अव्ययसंज्ञा भवति | तेभ्यः यदा सुप्प्रत्ययाः विधीयन्ते तदा तेषां सुप्प्रत्ययानां लुक् (लोपः) भवति '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण | सुबन्तानां तिङन्तानां च पदसंज्ञा भवति '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इति सूत्रेण  इति ज्ञातम् | अव्ययानाम् अपि पदसंज्ञा भवति सुप्प्रत्ययस्य विधानेन | यद्यपि सुप्प्रत्ययाः लुप्यन्ते तथापि '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन प्रत्ययस्य लोपानान्तरम् अपि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव  | सर्वाणि अव्ययानि सुबान्तानि एव भवन्ति यतोहि तेभ्यः सुप्-प्रत्ययाः विधीयन्ते लुप्यन्ते च | अत एव अव्ययानां रूपाणि त्रिषु लिङ्गेषु, सर्वासु विभक्तिषु, सर्वेषु वचनेषु च समानानि भवन्ति |</big>
 
 
 
Line 153 ⟶ 151:
 
----
<big>अष्टाध्यायांअष्टाध्याय्यां केषां शब्दानाम् अव्ययसंज्ञा भवति इति अग्रे उच्यते —</big>
 
==== <big>'''प्राग्रीश्वरान्निपाताः''' (१.४.५६)</big> ====
Line 263 ⟶ 261:
 
----
'''<big><u>अव्ययीभावश्च इति सूत्रं द्विवारम् अस्ति अष्टाध्यायाम्अष्टाध्याय्याम्</u></big>'''
 
 
Line 459 ⟶ 457:
 
 
<big>१) <u>विभक्त्यर्थे</u> – 'अधि' इति अव्ययं विभक्त्यर्थे प्रयुज्यते | अधि इति अव्ययं सप्तम्यर्थे अस्ति | सप्तम्याः अर्थः अधिकरणम् इति | <u>विभक्त्यर्थे अधि, इतिअन्तर् एकमेवइति अव्ययम् लभ्यते</u> | यथा – हरौ इति = अधिहरि | नाम हरेः विषये इति | वयम् अधिहरि वसामः | शिवः अधिकैलासं वसति |</big>
 
<big>२) <u>समीपार्थे (निकटः)</u> – 'उप' इति अव्ययं समीपार्थे प्रयुज्यते | यथा – कृष्णस्य समीपम् = उपकृष्णम् | धेनवः उपकृष्णं तिष्ठन्ति | उपकृष्णे स्थितः अर्जुनः | उपकृष्णात् आगतः दूतः | उपकृष्णं/ उपकृष्णेन विना न हि सुखम् |</big>
Line 478 ⟶ 476:
 
<big>१०) यथा इत्यस्य चत्वारः अर्थाः सन्ति – योग्यता, वीप्सा, पदार्थानतिवृत्तिः, सादृश्यम् च | अत्र 'यथा' इति अव्ययस्य प्रयोगः क्रियते |</big>
<big>a. <u>योग्यता (अर्हता)</u> – अस्मिन् अर्थे 'अनु' इति अव्ययं समस्यते | यथा – रूपस्य योग्यम् = अनुरूपम् | गुणानां योग्यम् = अनुगुणम् | लेखस्य योग्यम् = अनुलेखम् |विद्यालयस्य योग्यम् = अनुविद्यालयम् | अनुरूपं सः युतकं क्रीणाति | एतानि उत्तराणि अनुप्रश्नं भवन्ति|</big>
 
<big>a. <u>योग्यता (अर्हता)</u> – अस्मिन् अर्थे 'अनु' इति अव्ययं समस्यते | यथा – रूपस्य योग्यम् = अनुरूपम् | गुणानां योग्यम् = अनुगुणम् | लेखस्य योग्यम् = अनुलेखम् |विद्यालयस्य योग्यम् = अनुविद्यालयम् | अनुरूपं सः युतकं क्रीणाति | एतानि उत्तराणि अनुप्रश्नं भवन्ति |</big>
Line 2,888 ⟶ 2,885:
<big>अव्ययीभावसमासे ‘सह’ इत्यस्य स्थाने ‘स’ इत्ययम् आदेशो भवति अकालवाचिनि उत्तरपदे | अव्ययीभावे सप्तम्यन्तं, च अव्ययपदम्, अकाले सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''सहस्य सः संज्ञायां''' (६.३.७८) इत्यस्मात् सूत्रात् सहस्य, सः, च अनयोः पदयो: अनुवृत्तिः भवति | '''अलुगुत्तरपदे''' (६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहितसूत्रम्‌— '''अव्ययीभावे च सहस्य सः अकाले उत्तरपदे |'''</big>
 
<big>अष्टाध्यायाःअष्टाध्याय्याः द्वितीयाध्यायस्य प्रथमपादे, द्वितीयपादे च समासविधायकसूत्राणि सन्ति | द्वितीयाध्यायस्य चतुर्थपादे स्थितैः सूत्रैः समासस्य लिङ्गवचननिर्धारणं क्रियते | पञ्चमाध्यायस्य चतुर्थपादे स्थितैः सूत्रैः केषुचित् समासेषु उत्तरपदस्य अन्ते समासान्तप्रत्ययाः विधीयन्ते इति अस्माभिः पूर्वमेव दृष्टम्|षष्ठाध्यायस्य तृतीयपादे यानि सूत्राणि सन्ति, तानि '''उत्तरपदे''' इत्यस्य अधिकारे सन्ति, तेषां ज्ञानं विना समासस्य सम्पूर्णज्ञानं न भवितुम् अर्हति| '''अव्ययीभावे चाकाले''' (६.३.८१) इति सूत्रं षष्ठाध्यायस्य तृतीयपादे अस्ति|तस्य प्रयोगः उपरि प्रदर्शितः एव |</big>
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
page_and_link_managers, Administrators
5,097

edits