14---samAsaH/02A---avyayiibhAvasamAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 73:
=== '''<big>पञ्च उपाङ्गानि</big>''' ===
<big>आदौ समासः विधीयते केनचित् समासविधायकसूत्रेण |  तत्पश्चात् प्रक्रियायां समासस्य निर्माणे पञ्चोपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति  | इमानि पञ्च उपाङ्गनि सन्ति—</big>
 
 
==== <big>१) '''प्रातिपदिकसंज्ञा'''</big> ====
<big>समासस्य अलौकिकविग्रहात् समासप्रक्रिया आरभ्यते|समासस्य प्रातिपदिकसंज्ञा विधीयते '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण | प्रातिपदिकसंज्ञानन्तरं पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण | अष्टाध्यायां (६.३.१) इत्यस्मात् सूत्रात् आरभ्य (६.३.२४) इति सूत्रपर्यन्तं पूर्वपदस्य विभक्तेः अलुक् भवति   | उत्तरपदे इति अधिकारे सुब्-अलुक् इति एकं कार्यम् अस्ति | पञ्चमे सोपाने सुबलुक् इत्यस्य विवरणम् अग्रे दीयते|</big>
 
 
==== <big>२) '''पूर्वनिपातः''' = '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३)</big> ====
<big>इति संज्ञासूत्रेण समासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति  | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति '''उपसर्जनं पूर्वम्'''‌ (२.२.३०) इति सूत्रेण |</big>
 
 
==== <big> ३) '''लिङ्गवचनयोः निर्णयः'''</big> ====
<big>समासस्य लिङ्गस्य, वचनस्य च निर्णयः  |</big>
 
 
==== <big>४) '''समासान्तप्रत्ययाः'''</big> ====
<big>समासप्रक्रियायां कुत्रचित् समासान्तप्रत्ययः विधीयते इति स्मर्तव्यम् | अष्टाध्यायां समासान्ताधिकारः (५.४.६८) इत्यस्मात् सूत्रात् आरभ्य (५.४.१६०) इति सूत्रपर्यन्तम् अस्ति  | अस्मिन् अधिकारे समासे कुत्रचित् समासान्तप्रत्ययाः विधीयन्ते  |</big>
 
 
==== <big>५) '''उत्तरपदाधिकारः'''</big> ====
Line 98 ⟶ 103:
=== '''<big>अव्ययीभावासमासः</big>''' ===
<big>अव्ययीभावसमासे पूर्वपदम् अव्ययम्, उत्तरपदं च सुबन्तं पदं भवति | अनव्ययम् अव्ययं सम्पद्यते इति अव्ययीभावः  | अर्थात् यत् अव्ययं नास्ति तत् समासे अव्ययं भवति चेत्  अव्ययीभावसमासः इति उच्यते |अव्ययीभावसमासे प्रायेण पूर्वपदार्थस्य प्राधान्यम् अस्ति  | यथा- उपवृक्षम् इति अव्ययीभावसमासः, तस्य विग्रहवाक्यम् अस्ति वृक्षस्य समीपम् इति | अस्मिन् समासे ‘उप’ इति अव्ययस्य एव प्राधान्यम् अस्ति यतोहि तस्यैव अन्वयः क्रियया सह भवति | अतः एव अव्ययीभावसमासे प्रायेण पूर्वपदस्य प्राधान्यम् इति कथ्यते  | उपवृक्षम् इति समासस्य अव्ययसंज्ञा भवति '''अव्ययीभावश्च''' (१.१.४१) इति सूत्रेण | अव्ययीभावसमासः नपुंसकलिङ्गे भवति  | उपवृक्षम् इति अव्ययं, नपुंसकलिङ्गे अस्ति |</big>
 
 
 
 
 
Line 104 ⟶ 112:
==== <big>'''अव्ययीभावः''' (२.१.५)</big> ====
<big>अधिकारसूत्रम् इदम्   | अस्मिन् अधिकारे अव्ययीभाव-समासः विधीयते  | नाम अस्मिन् अधिकारे यत् उच्यते तत् सर्वम् अव्ययीभावसमासः भवति | अव्ययीभाव-समास-सम्बद्धसूत्राणि (२.१.६) इत्यस्मात् सूत्रात् आरभ्य (२.१.२१) इति सूत्रपर्यन्तं सन्ति |  अव्ययीभावः प्रथमान्तम्, एकपदमिदं सूत्रम्  | '''सूत्रं स्वयं सम्पूर्णम्'''  |</big>
 
 
====<big>'''अव्ययीभावश्च''' (१.१.४१)</big>====