14---samAsaH/02A---avyayiibhAvasamAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 482:
 
<big>सामन्यतः समासः विकल्पेन भवति, नाम व्यस्तप्रयोगः अपि शक्यते, समस्तप्रयोगः अपि शक्यते| परन्तु अत्र अव्ययीभावः विकल्पेन न भवति अपि तु नित्यरूपेण भवति यतोहि '''विभाषा''' (२.१.११) इति सूत्रस्य अधिकारे इदम् अव्ययीभावसमासविधायाकं सूत्रं नास्ति|इदं सूत्रं '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् प्राक् अस्ति यतोहि अत्र अस्वपदविग्रहः एव सम्भवति |अत एव प्रकृतसूत्रे अव्ययीभावसमासः नित्यः इत्युच्यते |न  विद्यते स्वपदविग्रहः यस्य सः समासः अस्वपदविग्रहः|यस्य समासस्य अस्वपदविग्रहः, सः समासः नित्यसमासः | नाम समासस्य अर्थः समासघटकानि पदानि विहाय अन्यपदैः यदा वर्ण्यते तदा अस्वपदविग्रहः इति उच्यते |समास-घटक-पद-रहित-वाक्यम् अस्वपदविग्रहः इति उच्यते|यथा — उपकृष्णम् इति उदाहरणे विग्रहः कृष्णसय उप इति भवितुं न अर्हति | एतेन विग्रहेण अर्थबोधः न जायते | अतः अत्र अस्वपदविग्रहं प्रयुज्य कृष्णस्य समीपम् इति विग्रहवाक्यं वक्तव्यं भवति|</big>
 
 
<big>'''अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' ( २.१.६) इति सूत्रे अव्ययानाम् अर्थ: क्रमेण परिशील्यते -</big>