14---samAsaH/02A---avyayiibhAvasamAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 781:
 
आत्मन् + ङि + अधि '''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण|'''अव्ययीभावः''' (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति|'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)  इति सूत्रेण अधि इति अव्ययं समर्थेन आत्मनि इति सुबन्तेन सह समस्यते|एतेन सूत्रेण अव्ययीभावसमासः विधीयते|
|-
|-
|}
 
 
==== '''इ) उत्तरपदं हलन्तं चेत् —''' ====
 
 
Line 795 ⟶ 787:
आत्मन् + ङि + अधि '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन|अतःआत्मन् + ङि + अधि '''→'''इत्यस्मिन्‌ ङि इत्यस्य लुक्‌ भवति→ आत्मन् + अधि इति |
 
आत्मन् + अधि'''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति|अत्र च 'अधि' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा इति | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण|अतः अधि इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |यद्यपि प्रत्ययस्य लोपः जातः तथापि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव |
 
 
आत्मन् + अधि '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति|अत्र '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इति  समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण |अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति|अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति|अत्र अधि इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति|
Line 802 ⟶ 795:
 
अधि + आत्मन् → अत्र '''इको यणचि''' (६.१.७६) इति सूत्रेण यण् सन्धिं कृत्वा → अध्यात्मन् इति भवति, तस्य अव्ययसंज्ञा भवति|
 
 
 
अध्यात्मन् '''→''' इदानीम् '''अनश्च''' (५.४.१०८) इति सूत्रेण अव्ययीभावसमासस्य अन्ते "अन्" इति विद्यते चेत् तस्मात् टच् इति समासान्तप्रत्ययः भवति |
Line 812 ⟶ 807:
 
अध्यात्म + सु '''→''' अध्यात्म इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति|अधुना सुप् प्रत्ययस्य उत्पत्तिः '''ङ्याप्प्रातिपदिकात्‌'''  (४.१.१), '''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) इत्याभ्यां सूत्राभ्याम् |
 
 
अध्यात्म + सु '''→  अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते|'''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय|पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति अध्यात्मात् |अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति|
Line 825 ⟶ 821:
 
एवमेव राज्ञः समीपम् = उपराजम् इति भवति |
 
 
|-
|-
|}
 
 
==== '''इ) उत्तरपदं हलन्तं चेत् —''' ====