14---samAsaH/02A---avyayiibhAvasamAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 486:
<big>'''अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' ( २.१.६) इति सूत्रे अव्ययानाम् अर्थ: क्रमेण परिशील्यते -</big>
 
==== <big>'''i)'''  '''सूत्रे विभक्त्यर्थे अव्ययम् –'''</big> ====
<big>'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)- अस्मिन् सूत्रे '''विभक्त्यर्थे''' वर्तमानम् अव्ययं सुबन्तेन सह समस्यते, सोऽव्ययीभावः| विभक्त्यर्थः नाम कारकम् इति अर्थः |कारकेषु अपि अधिकरणकारकमेव अत्र इष्यते |  विभक्त्यर्थे अधि इति अव्ययं समस्यते|अधि इति अव्ययं सप्तम्यर्थे अस्ति |सप्तमीविभक्तेः अधिकरणम् इति अर्थः अस्ति | अस्य उदाहरणम् अस्ति अधिहरि|अधिहरि इति समस्तपदस्य प्रक्रिया अधः प्रदर्शिता अस्ति|</big>