14---samAsaH/02A---avyayiibhAvasamAsaH: Difference between revisions

no edit summary
m (Protected "02A - अव्ययीभावसमासः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
Line 73:
 
=== '''<big>पञ्च उपाङ्गानि</big>''' ===
<big>आदौ समासः विधीयते केनचित् समासविधायकसूत्रेण |  तत्पश्चात् प्रक्रियायां समासस्य निर्माणे पञ्चोपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति  | इमानि पञ्च उपाङ्गनि सन्ति—सन्ति —</big>
 
==== <big>१) '''प्रातिपदिकसंज्ञा'''</big> ====
<big>समासस्य अलौकिकविग्रहात् समासप्रक्रिया आरभ्यते|समासस्य प्रातिपदिकसंज्ञा विधीयते '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण | प्रातिपदिकसंज्ञानन्तरं पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण | अष्टाध्यायां (६.३.१) इत्यस्मात् सूत्रात् आरभ्य (६.३.२४) इति सूत्रपर्यन्तं पूर्वपदस्य विभक्तेः अलुक् भवति | उत्तरपदे इति अधिकारे सुब्-अलुक् इति एकं कार्यम् अस्ति | पञ्चमे सोपाने सुबलुक् इत्यस्य विवरणम् अग्रे दीयते |</big>
 
 
==== <big>२) '''पूर्वनिपातः''' = '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३)</big> ====
<big>इति संज्ञासूत्रेण समासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति  | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति '''उपसर्जनं पूर्वम्'''‌ (२.२.३०) इति सूत्रेण |</big>
Line 116 ⟶ 119:
 
<big>अव्ययीभावसमासाधिकारे यानि सूत्राणि सन्ति, तैः सूत्रैः यदा समासः क्रियते तदा '''अव्ययीभावः''' (२.१.५)  इति अधिकारसूत्रेण अव्ययीभावसमासः इति विशिष्टा समाससंज्ञा विधीयते |</big>
 
==== <big>'''अव्ययीभावः''' (२.१.५)</big> ====
<big>अधिकारसूत्रम् इदम्   | अस्मिन् अधिकारे अव्ययीभाव-समासः विधीयते  | नाम अस्मिन् अधिकारे यत् उच्यते तत् सर्वम् अव्ययीभावसमासः भवति | अव्ययीभाव-समास-सम्बद्धसूत्राणि (२.१.६) इत्यस्मात् सूत्रात् आरभ्य (२.१.२१) इति सूत्रपर्यन्तं सन्ति |  अव्ययीभावः प्रथमान्तम्, एकपदमिदं सूत्रम्  | '''सूत्रं स्वयं सम्पूर्णम्'''  |</big>
Line 122 ⟶ 126:
====<big>'''अव्ययीभावश्च''' (१.१.४१)</big>====
<big>अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | अव्ययीभावसमास-संज्ञायाः विधानानन्तरं सम्पूर्णं समस्तपदम् अव्ययं भवति |इदं सूत्रं संज्ञासूत्रम् अस्ति|अव्ययीभावः प्रथमान्तं, च अव्ययपदं द्विपदमिदं सूत्रम् | '''स्वरादिनिपातमव्ययम्''' ( १.१.३७) इत्यस्मात् सूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रं— '''अव्ययीभावः च अव्ययम् |'''</big>
<big>यथा  —</big>
 
<big>यथा  —</big>
Line 131 ⟶ 134:
 
<big>अव्ययीभावसमासे पूर्वपदम् अव्ययम् इत्युक्तम्|तर्हि अव्ययं नाम किम् इति अवगन्तव्यम् |</big>
<big>'''अव्ययम्'''  —</big>
 
<big>'''अव्ययम्'''  —</big>
Line 146 ⟶ 148:
<big>व्याकरणे केषाञ्चन शब्दानाम् अव्ययसंज्ञा भवति | तेभ्यः यदा सुप्प्रत्ययाः विधीयन्ते तदा तेषां सुप्प्रत्ययानां लुक् (लोपः) भवति '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण | सुबन्तानां तिङन्तानां च पदसंज्ञा भवति '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इति सूत्रेण  इति ज्ञातम् | अव्ययानाम् अपि पदसंज्ञा भवति सुप्प्रत्ययस्य विधानेन | यद्यपि सुप्प्रत्ययाः लुप्यन्ते तथापि '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन प्रत्ययस्य लोपानान्तरम् अपि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव  | सर्वाणि अव्ययानि सुबान्तानि एव भवन्ति यतोहि तेभ्यः सुप्-प्रत्ययाः विधीयन्ते लुप्यन्ते च | अत एव अव्ययानां रूपाणि त्रिषु लिङ्गेषु, सर्वासु विभक्तिषु, सर्वेषु वचनेषु च समानानि भवन्ति |</big>
 
 
<big>व्याकरणे केषाञ्चन शब्दानाम् अव्ययसंज्ञा भवति | तेभ्यः यदा सुप्प्रत्ययाः विधीयन्ते तदा तेषां सुप्प्रत्ययानां लुक् (लोपः) भवति '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण | सुबन्तानां तिङन्तानां च पदसंज्ञा भवति '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इति सूत्रेण  इति ज्ञातम् | अव्ययानाम् अपि पदसंज्ञा भवति सुप्प्रत्ययस्य विधानेन | यद्यपि सुप्प्रत्ययाः लुप्यन्ते तथापि '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन प्रत्ययस्य लोपानान्तरम् अपि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव  | सर्वाणि अव्ययानि सुबान्तानि एव भवन्ति यतोहि तेभ्यः सुप्-प्रत्ययाः विधीयन्ते लुप्यन्ते च | अत एव अव्ययानां रूपाणि त्रिषु लिङ्गेषु, सर्वासु विभक्तिषु, सर्वेषु वचनेषु च समानानि भवन्ति |</big>
 
<big>व्याकरणे केषाञ्चन शब्दानाम् अव्ययसंज्ञा भवति | तेभ्यः यदा सुप्प्रत्ययाः विधीयन्ते तदा तेषां सुप्प्रत्ययानां लुक् (लोपः) भवति '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण | सुबन्तानां तिङन्तानां च पदसंज्ञा भवति '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इति सूत्रेण  इति ज्ञातम् | अव्ययानाम् अपि पदसंज्ञा भवति सुप्प्रत्ययस्य विधानेन | यद्यपि सुप्प्रत्ययाः लुप्यन्ते तथापि '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन प्रत्ययस्य लोपानान्तरम् अपि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव  | सर्वाणि अव्ययानि सुबान्तानि एव भवन्ति यतोहि तेभ्यः सुप्-प्रत्ययाः विधीयन्ते लुप्यन्ते च | अत एव अव्ययानां रूपाणि त्रिषु लिङ्गेषु, सर्वासु विभक्तिषु, सर्वेषु वचनेषु च समानानि भवन्ति |</big>
 
----
<big>अष्टाध्यायां केषां शब्दानाम् अव्ययसंज्ञा भवति इति अग्रे उच्यते —</big>
 
<big>अष्टाध्यायां केषां शब्दानाम् अव्ययसंज्ञा भवति इति अग्रे उच्यते —</big>
Line 161 ⟶ 166:
 
<big>चादिगणे ये शब्दाः पठिताः तेषाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति | यदि कस्यचित् शब्दस्य लिङ्निर्देशः सङ्ख्यानिर्देशः वा भवितुम् अर्हति, तर्हि सः शब्दः द्रव्यवाची इति उच्यते | यथा पृथिवी, आपः, रामः, ज्ञानम् इत्यादयः | यदि एतादृशः निर्देशः न भवितुम् अर्हति, तर्हि सः शब्दः अद्रव्यवाची इति उच्यते | यथा च, वा, अपि, इत्यादयः | च आदिः येषां ते चादयः, बहुव्रीहिः | सत्वं लिङ्गसङ्ख्यान्वितं द्रव्यम् | न द्रव्यम् अद्रव्यम् तस्मिन्, अद्रव्ये | चादयः प्रथमान्तम्, असत्त्वे सप्तम्यन्तं द्विपदमिदं सूत्रम् | '''प्राग्रीश्वरान्निपाताः''' ( १.४.५६) इत्यस्मात् सूत्रात् निपाताः इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''चादयः असत्त्वे निपाताः |'''</big>
 
 
 
<big>'पशु' इति अपि  शब्दः चादिणे अस्ति | अस्य शब्दस्य अर्थद्वयम् अस्ति - 'सम्यक्', तथा 'प्राणी' इति | 'प्राणी' इत्यस्मिन् अर्थे अस्य शब्दस्य लिङ्गं, सङ्ख्या च  भवति | परन्तु 'सम्यक्' इत्यस्मिन् अर्थे अस्य शब्दयस्य लिङ्गं, सङ्ख्या च न भवति | 'सम्यक्' इत्यस्मिन् अर्थे अयं शब्दः अद्रव्यवाचकः, अतः निपातसंज्ञकः; परन्तु प्राणी इत्यस्मिन् अर्थे पशु-शब्दः द्रव्यवाचकः अतः निपातसंज्ञकः नास्ति |</big>
 
 
 
<big>चादिगणे बहवः शब्दाः सन्ति तेषु केचन अत्र दीयन्ते — च, एव, हि, आदह, नूनं, युगपत्, बत, उञ, मन्ये, अहो, धिक्, चेत्, तत्र, नञ्, पशु, सह, सत्यम्, इति, हाहा, तत्, पुरा, खलु इत्यादयः |</big>
Line 186 ⟶ 195:
==== <big>'''स्वरादिनिपातमव्ययम्''' ( १.१.३७)</big> ====
<big>स्वरादिगणे ये शब्दाः पठिताः अपि च ये निपातसंज्ञकाः शब्दाः सन्ति ते सर्वेऽपि अव्ययसंज्ञकाः भवन्ति | '''प्राग्रीश्वरान्निपाताः'''( १.४.४६) इत्यस्मिन् अधिकारे सर्वे निपातसंज्ञकाः शब्दाः उच्यन्ते | स्वर् आदौ येषां ते स्वरादयः | स्वरादयश्च निपाताश्च तेषां समाहारद्वन्द्वः स्वरादिनिपातम् | स्वरादिनिपातं प्रथमान्तम्, अव्ययं प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहित-सूत्रं— '''स्वरादिनिपातम् अव्ययम् |'''</big>
 
 
 
<big>स्वरादिगणे बहवः शब्दाः सन्ति तेषु केचन शब्दाः अत्र उक्ताः = स्वर्,अन्‍तर्, प्रातर्, पुनर्,  उच्‍चैस्, नीचैस्, शनैस्, ऋते, युगपत्,  पृथक्, श्वस्, दिवा, रात्रौ, सायम्, चिरम्, ईषत्, तूष्‍णीम्, बहिस्, अवस्, समया, निकषा, स्‍वयम्, वृथा, नञ्, हेतौ, इद्धा, अद्धा,  तिरस्, अन्‍तरा, अन्‍तरेण, सहसा, विना, नाना, स्‍वस्‍ति, स्‍वधा, अलम्, वषट्, श्रौषट्, वौषट्, अन्‍यत्, अस्‍ति, प्रायस्, मुहुस्, साकम्, सार्धम्, नमस्,  धिक्, अथ, मा, माङ् इत्यादयः | अयं गणः आकृतिगणः इत्युच्यते यतोहि अस्मिन् गणे अन्ये शब्दाः अपि भवितुम् अर्हन्ति | शिष्टप्रयोगं दृष्ट्वा अन्येषां शब्दानां ज्ञानं भवति |</big>
 
 
 
<big>निपातानां कानिचन उदाहरणानि  — च, वा, ह, अह, एव, नूनं, युगपत्, भूयस्, चेत्, हन्त, नञ्, यावत्, तावत्, खलु, किल्, सुष्ठु इत्यादयः |</big>
Line 216 ⟶ 229:
 
<big>'''प्रादयः''' ( १.४.५८), '''उपसर्गाः क्रियायोगे''' (१.४.५९), '''गतिश्च''' (१.४.६०) इति  एतानि त्रीणि सूत्राणि  '''आकडारादेका संज्ञा''' (१.४.१) इति सूत्रस्य परिधौ एव सन्ति इत्यतः एकस्य रूपस्य एका एव संज्ञा अर्हा  इति चिन्तयामः, परन्तु '''गतिश्च''' ( १.४.६०) इति सूत्रे चकार-ग्रहणेन तिसृणां संज्ञानां समावेशः सम्भवति | '''गतिश्च''' ( १.४.६०)  इति सूत्रे चकारः स्वीकृतः अस्ति, स एव ज्ञापयति यत् अनेकसंज्ञानां समावेशः सम्भवति इति | अत एव एकस्य रूपस्य उपसर्गसंज्ञा, गतिसंज्ञा, निपातसंज्ञा च भवितुम् अर्हति |</big>
 
 
==== <big>'''आकडारादेका संज्ञा''' (१.४.१)</big> ====
Line 235 ⟶ 249:
 
<big><br />अव्ययसंज्ञायाः प्रयोजनं यत् '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण सुप्प्रत्ययानां लुक् भवति | '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण अव्ययात् परस्य सुप् प्रत्ययाः लुप्यन्ते | अस्य सूत्रस्य कार्यानन्तरं  सर्वासु विभक्तिषु अव्ययीभावसमासस्य रूपाणि समानानि भवेयुः इति चिन्तयामः | तादृशचिन्तनं समीचीनमेव, परन्तु ततः परम् अन्यसूत्राणि प्रसक्तानि चेत्  अव्ययीभावसमासस्य सर्वाणि रूपाणि समानानि न भवन्ति | कासु विभक्तिषु रूपभेदाः भवितुम् अर्हन्ति इति अग्रे उच्यते | तदर्थं सूत्रद्वयं पठिष्यामः -  '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) , '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति |</big>
 
 
----
 
==== <big>'''अव्ययीभावश्च (२.४.१८) इति  सूत्रस्य प्रयोजनम्'''</big> ====
<big>अव्ययीभावसमासे प्रायेण प्रादीनाम् एव प्रयोगः दृश्यते| अव्ययीभावसमासः अव्ययं भवति, नपुंसकलिङ्गे च भवति इति उक्तम् | यत् पदम् अव्ययम् अस्ति तस्य लिङ्गवैशिष्ट्यं नास्ति यतोहि सु-प्रत्ययाः लुप्यन्ते | त्रिषु लिङ्गेषु, सर्वासु विभक्तिषु, सर्वेषु वचनेषु अव्ययानि न परिवर्तन्ते | लिङ्गवैशिष्ट्यं नास्ति चेत् किमर्थम् '''अव्ययीभावश्च''' (२.४.१८) इति सूत्रेण नपुंसकलिङ्गविधानं क्रियते? '''अव्ययीभावश्च''' (२.४.१८) इति  सूत्रस्य प्रयोजनं किम्?</big>
 
 
===='''<big><u>अव्ययीभावस्य नपुंसकलिङ्गविधानस्य प्रयोजनम्</u></big>'''====
<big>नपुंसकलिङ्गे प्रयुक्तानां कार्याणां प्राप्तिः एव '''अव्ययीभावश्च''' (२.४.१८) इति सूत्रस्य प्रयोजनम् | प्रक्रियाकाले अव्ययीभावसमासः नपुंसकलिङ्गे अस्ति चेत् अजन्तप्रातिपदिकस्य अन्तिमस्वरस्य ह्रस्वत्वं भवति '''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१,२.४७) इति सूत्रेण | एतदेव मुख्यप्रयोजनं नपुंसकलिङ्गस्य | ह्रस्वानन्तरं प्रातिपदिकम् अदन्तं चेत् सुप्-प्रत्ययस्य लुक् न भवति '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण परन्तु अमादेशः भवति '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' ( २.४.८३) इत्यनेन | एतत् सर्वम् अग्रे पठिष्यामः | सारांशः यत् अव्ययीभावसमासः नपुंसकलिङ्गे अस्ति यतोहि लिङ्गम् अवलम्ब्य कानिचन कार्याणि प्रवर्तन्ते |</big>
 
 
----
'''<big><u>अव्ययीभावश्च इति सूत्रं द्विवारम् अस्ति अष्टाध्यायाम्</u></big>'''
 
'''<big><u>अव्ययीभावश्च इति सूत्रं द्विवारम् अस्ति अष्टाध्यायाम्</u></big>'''
 
<big>वस्तुतस्तु अव्ययीभावश्च इति सूत्रं स्थलद्वये वर्तते | '''अव्ययीभावश्च''' (१.१.४१) इति एकं सूत्रं तु अव्ययप्रकरणे प्रथमाध्याये अस्ति यत्र अव्ययसंज्ञा क्रियते | '''अव्ययीभावश्च''' (२.४.१८) इति अपरसूत्रं द्वितीयाध्याये अस्ति यत्र अव्ययीभावसमासस्य नपुंसकलिङ्गविधानं क्रियते |</big>
 
 
----
 
==== '''<big><u>अव्ययीभावसमासस्य प्रसङ्गे समासान्तप्रत्ययाः</u></big>''' ====
<big>अव्ययीभावसमासस्य विषये केचन समासान्तप्रत्ययाः विधीयन्ते | समासान्ताधिकारे (५.४.६८ – ५.४.१६०) समासान्तप्रत्ययाः विधीयन्ते | समासान्तप्रत्ययाः तद्धिताधिकारे सन्ति | एते प्रत्ययाः तद्धितप्रत्ययाः एव परन्तु समासस्य प्रक्रियायां विधीयन्ते | तद्धितसंज्ञकाः समासान्तप्रत्ययाः समासस्य अन्ते आयान्ति, अपि च समासस्य अवयवाः भवन्ति | अत एव एते समासान्तप्रत्ययाः इति नाम्ना ज्ञायन्ते | समासान्ताः समासस्य अवयवाः सन्ति इत्यतः एव समासान्तानां योजनानन्तरं सम्पूर्णस्य समस्तपदस्य प्रातिपदिकसंज्ञा भवति | यद्यपि एतानि कार्याणि समस्तपदस्य निर्माणे भवन्ति तथापि प्रक्रिया तु तद्धितप्रक्रियाम् आश्रित्य एव भवति | नाम तद्धितप्रकरणे यानि सूत्राणि प्रसक्तानि भवन्ति तद्धितप्रक्रियायां, तानि समासप्रक्रियायाम् अपि प्रसक्तानि भवन्ति यतोहि समासान्ताः तद्धिताधिकारे सन्ति | अत एव पाणिनिना एते समासान्तप्रत्ययाः तद्धिताधिकारे स्थापिताः |</big>
 
 
===== <big>'''तद्धिताः''' (४.१.७६)</big> =====
<big>अधिकारसूत्रम् इदम् |अस्य सूत्रस्य अधिकारः अस्ति ४.१.७६ इति सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तं नाम ५.४.१७० इति पर्यन्तम् | अस्मिन् अधिकारे ये प्रत्ययाः विधीयन्ते ते सर्वे तद्धितसंज्ञकाः भवन्ति | '''सूत्रं स्वयं सम्पूर्णम्''' |</big>
 
 
===== <big>'''समासान्ताः''' (५.४.६८)</big> =====
Line 283 ⟶ 306:
 
----
 
 
===== '''<big>ङ्याप्प्रातिपदिकात्‌ (४.१.१)</big>''' =====
 
 
<big>'''[अधिकारः ४.१.१ – ५.४.१६०] |''' चतुर्थे पञ्चमे चाध्याययोः यावन्तः प्रत्यायाः विहिताः, ते सर्वे प्रातिपदिकेभ्यः, ङ्यन्तेभ्यः, आबन्तेभ्यः वा आयान्ति | ङ्यन्तरूपाणि आबन्तरूपाणि च स्त्रीलिङ्गरूपाणि इति | तर्हि आहत्य चतुर्थे पञ्चमे चाध्याययोः सर्वाणि सुबन्तविधायकसूत्राणि सन्ति; तेषु सर्वेषु यत्‌ किमपि विहितं, '''प्रत्ययः''' इत्यनेन यः विहितः, तस्य नाम प्रत्ययः | अपि च यः विहितः, सः सर्वत्र प्रातिपदिकात्‌, ङ्यन्तात्‌, आबन्तात्‌ वा विहितः भवति |</big>
 
Line 291 ⟶ 317:
===== '''<big><u>अव्ययीभावसमासे समासान्तप्रत्ययाः</u></big>''' =====
<big>अव्ययीभावसमासे यत्र समासान्तप्रत्ययः विधीयते तत्र टच् इति प्रत्ययः एव विधीयते| कुत्रचित् नित्यरूपेण विधीयते, कुत्रचित् विकल्पेन विधीयते | अव्ययीभावसमासे  समासान्ताधिकारात् एतानि सूत्राणि प्रसक्तानि भवन्ति | टच् इति प्रत्ययस्य विधानेन प्रक्रियायाम् अव्ययीभावसमासः अदन्तः भवति येन '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' ( २.४.८३) इत्यनेन सुप्प्रत्ययस्य स्थाने अमादेशः सिद्ध्यति |</big>
 
 
{| class="wikitable mw-collapsible"
Line 362 ⟶ 389:
 
==='''<big><u>अव्ययीभावसमास-सम्बद्ध-मुख्यसूत्राणि</u></big>'''===
 
 
<big>अव्ययीभावसमासस्य प्रक्रियायाः प्रसङ्गे एतानि सूत्राणि सम्यक्तया ज्ञातव्यानि भवन्ति यतोहि एतेषां प्रयोगः मुहुर्मुहुः (वारं वारं) क्रियते –</big>
 
====<big>'''अव्ययादाप्सुपः''' (२.४.८२)</big>====
<big>अव्ययात् परस्य आप्-प्रत्ययानां सुप्-प्रत्ययानां च लुक्-भवति | आबन्तरूपाणि स्त्रीलिङ्गरूपाणि भवन्ति  | '''लुक्''' ( २.४.५८) इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं — '''अव्ययात् आप्-सुपः लुक्''' |</big>
 
 
==== <big>'''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७)</big> ====
Line 376 ⟶ 406:
==== <big>'''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३)</big> ====
<big>अदन्तात् अव्ययीभावात्  सुप् प्रत्ययस्य लुक् न भवति, अपि तु पञ्चमीविभक्तिं विहाय अन्यासु विभक्तिषु सुप्प्रत्ययस्य स्थाने अमादेशः विधीयते | अस्मिन् सूत्रे निषेधः इति भागः अपि अस्ति येन सुपः लुक् निषिध्यते, विधिः इति भागः अपि अस्ति येन अमादेशः विधीयते, परन्तु पञ्चमीं विहाय | न अव्यययपदम्, अव्ययीभावात् पञ्चम्यन्तम्, अतः पञ्चम्यन्तम्, अम् प्रथमान्तं, तु अव्ययपदम्, अपञ्चम्याः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | '''अव्ययादाप्सुपः''' (२.४.८२) इत्यस्मात् सूत्रात् सुपः इत्यस्य अनुवृत्तिः | '''ण्यक्षत्रियार्षञितो यूनि लुगणिञोः''' ( २.४.५८) इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—'''अव्ययीभावाद् अतः तु न सुपः लुक् अपञ्चम्याः अम् |'''</big>
 
 
==== <big>'''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४)</big> ====
<big>अदन्तात् अव्ययीभावात् तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | बहुलम् इत्युक्ते बहून् अर्थान् लाति( गृह्णाति) इति बहुलम् | अत्र बहुलम् इति शब्दस्य प्रयोगेण कुत्रचित् विकल्पेन अम्-आदेशः भवति, कुत्रचित् अम् आदेशः नित्यः भवति | कुत्र विकल्पेन, कुत्र नित्यः इति निर्णयः प्रयोगं दृष्ट्वा करणीयः | सामान्यतया विकल्पेन इति स्वीकर्तुं शक्यते | यदि विकल्पार्थः इष्टः तर्हि विकल्पः अथवा वा इति शब्दस्य प्रयोगः भवति परन्तु अत्र बहुलम् इत्यनेन विशिष्टार्थः बुध्यते | तृतीया च सप्तमी च तयोः इतरेतरयोगद्वन्द्वः तृतीयासप्तम्यौ, तयोः | तृतीयासप्तम्योः षष्ठ्यन्तं, बहुलं प्रथमान्तं, द्विपदमिदं सूत्रम् | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यस्मात् सूत्रात् अव्ययीभावात्, अतः, अम् इत्येषाम् अनुवृत्तिः भवति | अनुवृत्ति-सहितसूत्रम्‌— '''तृतीयासप्तम्योः अव्ययीभावाद् अतः अम् बहुलम्''' |</big>
 
 
==== <big>'''अमि पूर्वः''' (६.१.१०५)</big> ====
Line 393 ⟶ 425:
==== <big> <u>'''सम्प्रति अष्टाध्यायीक्रमेण अव्ययीभाव-समास-सूत्राणि पठिष्यामः-'''</u></big> ====
<big><br />समासप्रकरणे बहूनि सूत्राणि वर्तन्ते अतः पाठनस्य पद्धतिः अत्यन्तं महत्त्वपूर्णा | प्रत्येकस्मिन्‌ स्तरे मातुः पाठ्यक्रमः पाणिनेः सूत्राणि अवलम्ब्य समायोजितः | मातुः पाठ्यक्रमे समासप्रकरणस्य सम्बन्धः अन्यैः प्रकरणै सह  स्पष्टतया प्रतिपाद्यते येन यत् किमपि समस्तपदं भवतु तस्य प्रक्रिया कथं भवति इति  ज्ञातुं शक्नुमः| यथा अव्यायीभावसमासस्य प्रसङ्गे समास-तद्धितयोः सम्बन्धः प्रक्रियास्तरे सम्यक्तया ज्ञायते | एवं च सर्वत्र सूत्राधारीकृत्य पाठ्यक्रमः व्यवस्थापितः चेत् पाठस्य मार्गः ह्रस्वः भवति;  ज्ञानं च दृढं भवति  |</big>
<big><br />अव्ययीभावसमासस्य विषये मुख्यं सूत्रम् अस्ति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इति | एतेन सूत्रेण अव्ययीभावसमासः षोडशेषु अर्थेषु विधीयते | अग्रे सूत्रस्य विवरणं दीयते |</big>
 
<big><br />अव्ययीभावसमासस्य विषये मुख्यं सूत्रम् अस्ति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इति | एतेन सूत्रेण अव्ययीभावसमासः षोडशेषु अर्थेषु विधीयते | अग्रे सूत्रस्य विवरणं दीयते |</big>
Line 422 ⟶ 455:
 
<big>अस्मिन् सूत्रे अव्ययस्य षोडश अर्थाः दृश्यन्ते | अव्ययानाम् इतोऽपि अधिकाः अर्थाः अपि भवितुम् अर्हन्ति इति उक्तमेव | अधुना एते अर्थाः दृश्यन्ते –</big>
 
 
 
<big>१) <u>विभक्त्यर्थे</u> – 'अधि' इति अव्ययं विभक्त्यर्थे प्रयुज्यते | अधि इति अव्ययं सप्तम्यर्थे अस्ति | सप्तम्याः अर्थः अधिकरणम् इति | <u>विभक्त्यर्थे अधि इति एकमेव अव्ययम् लभ्यते</u> | यथा – हरौ इति = अधिहरि | नाम हरेः विषये इति | वयम् अधिहरि वसामः | शिवः अधिकैलासं वसति |</big>
Line 442 ⟶ 477:
 
<big>१०) यथा इत्यस्य चत्वारः अर्थाः सन्ति – योग्यता, वीप्सा, पदार्थानतिवृत्तिः, सादृश्यम् च | अत्र 'यथा' इति अव्ययस्य प्रयोगः क्रियते |</big>
 
<big>a. <u>योग्यता (अर्हता)</u> – अस्मिन् अर्थे 'अनु' इति अव्ययं समस्यते | यथा – रूपस्य योग्यम् = अनुरूपम् | गुणानां योग्यम् = अनुगुणम् | लेखस्य योग्यम् = अनुलेखम् |विद्यालयस्य योग्यम् = अनुविद्यालयम् | अनुरूपं सः युतकं क्रीणाति | एतानि उत्तराणि अनुप्रश्नं भवन्ति|</big>
 
<big>a. <u>योग्यता (अर्हता)</u> – अस्मिन् अर्थे 'अनु' इति अव्ययं समस्यते | यथा – रूपस्य योग्यम् = अनुरूपम् | गुणानां योग्यम् = अनुगुणम् | लेखस्य योग्यम् = अनुलेखम् |विद्यालयस्य योग्यम् = अनुविद्यालयम् | अनुरूपं सः युतकं क्रीणाति | एतानि उत्तराणि अनुप्रश्नं भवन्ति |</big>
 
<big>b. <u>वीप्सा (पौनः पुण्यः)</u> – 'प्रति' इति अव्ययस्य प्रयोगः क्रियते | यथा – अर्थमर्थं प्रति = प्रत्यर्थम् | प्रतिमासं, प्रतिगृहं, प्रत्येकम् इत्यादीनि उदाहरणानि | यथा प्रतिवृक्षं सिञ्चति इत्यस्य एकैकं वृक्षं सिञ्चति इत्यर्थः | रामः प्रतिदिनं कार्यालयं गच्छति |</big>
Line 463 ⟶ 499:
<big>१६) <u>अन्तार्थे (समाप्ति:)</u> – 'सह' इति अव्ययस्य प्रयोगः क्रियते | सह स्थाने 'स' आदेशः भवति | यथा – अग्निग्रन्थपर्यन्तम् अधीते = साग्नि | साग्नि  अधीते |</big>
 
<big>उपरि उक्तान् अर्थान् विहाय अन्येषाम् अर्थानां प्रयोगः अपि काव्येषु दृश्यते |</big>
 
<big>उपरि उक्तान् अर्थान् विहाय अन्येषाम् अर्थानां प्रयोगः अपि काव्येषु दृश्यते |</big> <big>सूत्रे उक्तानां षोडशानाम् अर्थानां विवरणं, प्रक्रिया च अग्रे दीयेते |</big>
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
|+
Line 491 ⟶ 526:
<big>वस्तुतस्तु योगविभागस्य आवश्यकता नास्ति परन्तु केचन वैयाकरणाः उच्यन्ते यत् एतेषां समासानां समर्थनं '''सह सुपा''' (२.१.४) इति सूत्रेण नास्ति परन्तु विधायकसूत्रे एव योगविभागं कृत्वा समर्थनं करणीयम् इति | तदर्थं योगविभागस्य विषये उक्तम् | यत् किमपि भवतु प्राचीनप्रयोगाणां समर्थनं कथञ्चित् करणीयम् –  योगविभागेन वा नो चेत् '''सह सुपा''' ( २.१.४) इति सूत्रेण वा | तादृशसमासान् कर्तुं  वयं न अर्हामः | वयं तु केवलं षोडशेषु अर्थेषु एव समासं कर्तुं शक्नुमः |</big>
<big>सामन्यतः समासः विकल्पेन भवति, नाम व्यस्तप्रयोगः अपि शक्यते, समस्तप्रयोगः अपि शक्यते | परन्तु अत्र अव्ययीभावः विकल्पेन न भवति अपि तु नित्यरूपेण भवति यतोहि '''विभाषा''' (२.१.११) इति सूत्रस्य अधिकारे इदम् अव्ययीभावसमासविधायाकं सूत्रं नास्ति | इदं सूत्रं '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् प्राक् अस्ति यतोहि अत्र अस्वपदविग्रहः एव सम्भवति | अत एव प्रकृतसूत्रे अव्ययीभावसमासः नित्यः इत्युच्यते | न  विद्यते स्वपदविग्रहः यस्य सः समासः अस्वपदविग्रहः | यस्य समासस्य अस्वपदविग्रहः, सः समासः नित्यसमासः | नाम समासस्य अर्थः समासघटकानि पदानि विहाय अन्यपदैः यदा वर्ण्यते तदा अस्वपदविग्रहः इति उच्यते | समास-घटक-पद-रहित-वाक्यम् अस्वपदविग्रहः इति उच्यते | यथा — उपकृष्णम् इति उदाहरणे विग्रहः कृष्णसय उप इति भवितुं न अर्हति | एतेन विग्रहेण अर्थबोधः न जायते | अतः अत्र अस्वपदविग्रहं प्रयुज्य कृष्णस्य समीपम् इति विग्रहवाक्यं वक्तव्यं भवति |</big>
 
 
 
<big>सामन्यतः समासः विकल्पेन भवति, नाम व्यस्तप्रयोगः अपि शक्यते, समस्तप्रयोगः अपि शक्यते | परन्तु अत्र अव्ययीभावः विकल्पेन न भवति अपि तु नित्यरूपेण भवति यतोहि '''विभाषा''' (२.१.११) इति सूत्रस्य अधिकारे इदम् अव्ययीभावसमासविधायाकं सूत्रं नास्ति | इदं सूत्रं '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् प्राक् अस्ति यतोहि अत्र अस्वपदविग्रहः एव सम्भवति | अत एव प्रकृतसूत्रे अव्ययीभावसमासः नित्यः इत्युच्यते | न  विद्यते स्वपदविग्रहः यस्य सः समासः अस्वपदविग्रहः | यस्य समासस्य अस्वपदविग्रहः, सः समासः नित्यसमासः | नाम समासस्य अर्थः समासघटकानि पदानि विहाय अन्यपदैः यदा वर्ण्यते तदा अस्वपदविग्रहः इति उच्यते | समास-घटक-पद-रहित-वाक्यम् अस्वपदविग्रहः इति उच्यते | यथा — उपकृष्णम् इति उदाहरणे विग्रहः कृष्णसय उप इति भवितुं न अर्हति | एतेन विग्रहेण अर्थबोधः न जायते | अतः अत्र अस्वपदविग्रहं प्रयुज्य कृष्णस्य समीपम् इति विग्रहवाक्यं वक्तव्यं भवति |</big>
 
 
----
Line 499 ⟶ 537:
===<big>'''i)'''  '''<u>सूत्रे विभक्त्यर्थे अव्ययम्</u> –'''</big>===
</blockquote><big>'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)- अस्मिन् सूत्रे '''<u>विभक्त्यर्थे</u>''' वर्तमानम् अव्ययं सुबन्तेन सह समस्यते, सोऽव्ययीभावः | विभक्त्यर्थः नाम कारकम् इति अर्थः | कारकेषु अपि अधिकरणकारकमेव अत्र इष्यते |  विभक्त्यर्थे अधि इति अव्ययं समस्यते | अधि इति अव्ययं सप्तम्यर्थे अस्ति | सप्तमीविभक्तेः अधिकरणम् इति अर्थः अस्ति | अस्य उदाहरणम् अस्ति अधिहरि | अधिहरि इति समस्तपदस्य प्रक्रिया अधः प्रदर्शिता अस्ति |</big>
 
 
====<big>'''अ)''' '''उत्तरपदम् अनदन्तं चेत्-'''</big>====
 
 
 
<big>'''हरौ इति = अधिहरि''' – अत्र अधि इति शब्दः सप्तमीविभक्त्यर्थे, अधिकरणर्थे प्रयुक्तः अस्ति | अधि शब्दः सप्तम्यर्थस्य बोधकः अस्ति |</big>
 
 
{| class="wikitable mw-collapsible"
Line 576 ⟶ 619:
|-
|
 
 
===== <big>'''सुपो धातुप्रातिपदिकयोः''' (२.४.७१)</big> =====
 
Line 584 ⟶ 629:
<big>सुबन्तं च तिङन्तं च पदसज्ञकौ भवतः, इत्युक्ते सुबन्तानां तिङन्तानां च पदसंज्ञा भवति | सुप्तिङन्तं प्रथमान्तं, पदम्‌ प्रथमान्तम्‌ |</big>
 
|-
|
Line 625 ⟶ 671:
----
 
===== <big>'''आ)''' '''उत्तरपदम् अदन्तं चेत्'''</big> =====
{| class="wikitable mw-collapsible"
|+
Line 816 ⟶ 862:
<big>तृतीयाविभक्तौ विकल्पेन अधिरमेण, सप्तमीविभक्तौ  विकल्पेन अधिरमे |</big>
----
 
 
=== '''इ) उत्तरपदं हलन्तं चेत् —''' ===
Line 868 ⟶ 915:
<big>अध्यात्म + सु '''→  अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति अध्यात्मात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
<big>अध्यात्म + अम् '''→'''  '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्|पञ्चमी-विभक्तिं विहाय अपरासु विभक्तिषु '''अध्यात्मम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयं सम्भवति '''→''' अध्यात्मम् / अध्यात्मेन, अध्यात्मम् / अध्यात्मे | अन्यासु विभक्तिषु अध्यात्मम् इति रूपं सिद्धं भवति | पञ्चमी-विभक्तौ अध्यात्मात् इति रूपं भवति |</big>
 
 
 
<big>अध्यात्म + अम् '''→'''  '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्|पञ्चमी-विभक्तिं विहाय अपरासु विभक्तिषु '''अध्यात्मम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयं सम्भवति '''→''' अध्यात्मम् / अध्यात्मेन, अध्यात्मम् / अध्यात्मे | अन्यासु विभक्तिषु अध्यात्मम् इति रूपं सिद्धं भवति | पञ्चमी-विभक्तौ अध्यात्मात् इति रूपं भवति |</big>
Line 890 ⟶ 939:
 
<big>राजन्, आत्मन्, ब्रह्मन्, अर्यमन् इत्येतानि पुंलिङ्गप्रातिपदिकानि, अन्नन्तानि च सन्ति | सीमन्, दामन् इत्यादयः स्त्रीलिङ्गे अन्नन्तशब्दाः सन्ति | अव्ययीभावसमासे यदि एतानि अन्नन्तानि प्रातिपदिकस्य अन्ते विद्यन्ते तर्हि '''अनश्च''' (५.४.१०८) इति सूत्रेण टच् इति प्रत्ययः नित्यं भवति | यदि अन्नन्तं प्रातिपदिकं नपुंसकलिङ्गे अस्ति तर्हि टच् इति समासान्तप्रत्ययः विकल्पेन भवति '''नपुंसकादन्यतरस्याम्''' (५.४.१०९) इति सूत्रेण | एतत् सूत्रम् अग्रे पठिष्यामः |</big><big>राजन्, आत्मन्, ब्रह्मन्, अर्यमन् इत्येतानि पुंलिङ्गप्रातिपदिकानि, अन्नन्तानि च सन्ति | सीमन्, दामन् इत्यादयः स्त्रीलिङ्गे अन्नन्तशब्दाः सन्ति | अव्ययीभावसमासे यदि एतानि अन्नन्तानि प्रातिपदिकस्य अन्ते विद्यन्ते तर्हि '''अनश्च''' (५.४.१०८) इति सूत्रेण टच् इति प्रत्ययः नित्यं भवति | यदि अन्नन्तं प्रातिपदिकं नपुंसकलिङ्गे अस्ति तर्हि टच् इति समासान्तप्रत्ययः विकल्पेन भवति '''नपुंसकादन्यतरस्याम्''' (५.४.१०९) इति सूत्रेण | एतत् सूत्रम् अग्रे पठिष्यामः |</big>
 
 
|-
Line 918 ⟶ 966:
|
===== <big>'''न लोपः प्रातिपदिकान्तस्य''' (८.२.७)</big> =====
<big>प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः | न लुप्तषष्ठीकं पदं, लोपः प्रथमान्तं, प्रातिपदिक लुप्तषष्ठीकं पदं, अन्तस्य षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः '''|''' अनुवृत्ति-सहितसूत्रं— '''प्रातिपदिकस्य पदस्य अन्तस्य नः लोपः |'''</big>
|}
 
Line 1,438 ⟶ 1,486:
 
<big>अदन्तात् अव्ययीभावात्  सुप् प्रत्ययस्य लुक् न भवति, अपि तु पञ्चमीविभक्तिं विहाय अन्यासु विभक्तिषु सुप्प्रत्ययस्य स्थाने अमादेशः विधीयते | अस्मिन् सूत्रे निषेधः इति भागः अपि अस्ति येन सुपः लुक् निषिध्यते, विधिः इति भागः अपि अस्ति येन अमादेशः विधीयते, परन्तु पञ्चमीं विहाय | न अव्यययपदम्, अव्ययीभावात् पञ्चम्यन्तम्, अतः पञ्चम्यन्तम्, अम् प्रथमान्तं, तु अव्ययपदम्, अपञ्चम्याः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | '''अव्ययादाप्सुपः''' (२.४.८२) इत्यस्मात् सूत्रात् सुपः इत्यस्य अनुवृत्तिः| '''ण्यक्षत्रियार्षञितो यूनि लुगणिञोः''' ( २.४.५८) इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अतः अव्ययीभावात् तु न सुपः लुक्, अपञ्चम्याः अम् |'''</big>
 
|-
|
 
 
===== <big>'''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४)</big> =====
Line 1,831 ⟶ 1,881:
 
<big>अधुना उपचर्म इति अदन्तम् इत्यतः '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रस्य प्रसक्तिः स्यात् इति चिन्तनं दोषपूर्णम् |</big>
 
 
 
<big>किमर्थम् इति चेत् उपचर्मन + सु इत्यत्र नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रस्य प्रसक्तिः नास्ति इत्यतः सुब्लुक् निषेधः न जातः, अमादेशः न जातः | अतः एव '''अव्ययादाप्सुपः''' (२.४.८२) इति उत्सर्गसूत्रेण सुप्प्रत्ययस्य लोपः जायते | सुप्प्रत्ययस्य लोपानन्तरं, उपचर्मन् इति प्रातिपदिकस्य पदस्य च अन्ते विद्यमानस्य नकारस्य लोपः कृतः '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इति सूत्रेण; उपचर्म इति अदन्तं पदं सिद्धम् | अधुना '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यस्य प्रसक्तिः अस्ति वा?</big>
Line 1,848 ⟶ 1,900:
 
<big>एतादृशचिन्तनेऽपि '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रस्य कार्यं न भवति यतोहि '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन अमादेशः बाधितः | '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यस्य द्विविधं कार्यम्‌ अस्माभिः अधीतं— शास्त्रासिद्धं, कार्यासिद्धञ्च | शास्त्रासिद्धं भवति यत्र सूत्रद्वयं युगपत्‌ प्रसक्तं; तत्र पूर्वसूत्रं प्रति त्रिपाद्यां स्थितं परसूत्रम्‌ असिद्धिम्‌ | अपि च त्रिपाद्यां स्थितस्य परसूत्रस्य कार्यं पूर्वमेव जातमिति चेत्‌, तत्र पूर्वसूत्रं प्रति तच्च कार्यम्‌ असिद्धम्‌ | अत्र पूर्वत्रासिद्धस्य द्विविधकार्ये कीदृशं कार्यम् अस्ति ? अत्र कार्यासिद्धम् अस्ति , किमर्थम् इति अग्रे उच्यते -</big>
 
 
 
<big>स्मर्तव्यं यत् '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इति सूत्रं त्रिपाद्याम् अस्ति,  '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रं तु सपादसप्ताध्यायाम् अस्ति | अत्र '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अमादेशः भवति इति चिन्तयामः;  परन्तु '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन उपचर्मन् इत्यत्र  '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इति सूत्रेण यत् कार्यं कारितं तत् असिद्धम् अस्ति '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रस्य दृष्ट्या | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रं तु इदानीमपि उपचर्मन् इति पदमेव पश्यति इत्यतः तस्य कार्यमेव न सिद्ध्यति | अत्र तु त्रिपाद्यां स्थितस्य  '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इति परसूत्रस्य कार्यं पूर्वमेव जातमिति चेत्‌, तत्र पूर्वसूत्रं '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) प्रति परत्रिपादिसूत्रस्य '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इत्यस्य कार्यम्‌ असिद्धम्‌ | अतः अत्र कार्यासिद्धम् इति उच्यते |</big>
 
<big>'''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन कार्यासिद्धम् अस्ति इति कृत्वा '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३)  इत्यस्य कार्यं न प्रवर्तते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३)  इत्यस्य कार्यमेव न प्रवर्तते इत्यतः '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इत्यस्यापि कार्यं न प्रवर्तते | आहत्य उपचर्म इति एकमेव रूपं सर्वासु विभक्तिषु |</big>
 
 
 
<big>आहत्य रूपद्वयं भवति – उपचर्मम् / उपचर्म | उपचर्मम् इति रूपं सर्वासु विभक्तिषु पञ्चमीं विहाय|पञ्चमी विभक्तौ तु उपचर्मणात्|सप्तमीविभक्तौ, तृतीयाविभक्तौ विकल्पेन उपचर्मे, उपचर्मेण इत्यपि अन्यत् रूपं भवति |</big>
Line 2,036 ⟶ 2,092:
 
<big>संहत्य त्रीणि रूपाणि भवन्ति - '''उपस्रुचम् / उपस्रुक् / उपस्रुग्'''</big>
 
 
===== <big>'''चोः कुः''' (८.२.३०)</big> =====
Line 2,437 ⟶ 2,494:
<big>इति सूत्रेण पूर्वपदस्य निमित्तात्‌ परस्य नकारान्तप्रातिपदिकं (माष + वापिन्‌ ‌ + औ → माषवापिणौ), नुम्‌-सम्बद्ध-नकारः ('''नपुंसकस्य झलचः''' इति सूत्रेण प्रथमा-द्वितीया-बहुवचने नुम्‌ भवति यथा माष + वापा + न्‌ + इ → माषवापाणि), विभक्तिसम्बन्धी नकारः (तृतीया षष्ठी वा यथा हर्षभावेण, वारिवाहाणाम्‌) इत्येषु त्रिषु कश्चन उपस्थितोऽस्ति  चेत् नस्य णो वा स्यात्‌ | अस्मिन् सूत्रे '''अट्कुप्वाङ्नुम्व्यवायेऽपि''' ( ८.४.२) इति सूत्रस्य सम्पूर्णानुवृत्तिः |</big>
<big>निर्हिमेन '''→''' अत्र रेफः एव णत्वस्य निमित्तम् अस्ति | रेफनकारयोः मध्ये ह्,इ, म्, ए, एते वर्णाः सन्ति, तथापि इन इति विभक्तिसम्बन्धिनकारस्य णत्वं भवति '''प्रातिपदिकान्तनुम्‌विभक्तिषु च''' (८.४.११) इति सूत्रेण '''→ निर्हिमेण/ निर्हिमेन''' इति भवति |</big>
 
 
 
<big>निर्हिमेन '''→''' अत्र रेफः एव णत्वस्य निमित्तम् अस्ति | रेफनकारयोः मध्ये ह्,इ, म्, ए, एते वर्णाः सन्ति, तथापि इन इति विभक्तिसम्बन्धिनकारस्य णत्वं भवति '''प्रातिपदिकान्तनुम्‌विभक्तिषु च''' (८.४.११) इति सूत्रेण '''→ निर्हिमेण/ निर्हिमेन''' इति भवति |</big>
Line 2,670 ⟶ 2,729:
 
<big>इति सूत्रेण सर्वादिगणे ये शब्दाः पठिताः तेषां 'सर्वनाम' इति संज्ञा भवति | सर्वादिगणे ३५ शब्दाः पठिताः सन्ति |</big>
 
 
 
<big>'''सर्वादिगणे एते शब्दाः पठिताः'''</big>
 
<big>सर्व, विश्व, उभ, उभय, डतर, डतम, अन्य, अन्यतर, इतर, त्वत्, त्व, नेम, सम, सिम, पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् (गणसूत्रम्), स्वमज्ञातिधनाख्यायाम् (गणसूत्रम्), अन्तरं बहिर्योगोपसंव्यानयोः (गणसूत्रम्), त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतुँ, किम् |</big>
 
 
===== <big>'''सर्वादीनि सर्वनामानि''' ( १.१.२७)</big> =====
Line 2,681 ⟶ 2,743:
 
<big>एवमेव छात्रं छात्रं प्रति = प्रतिच्छात्रम् |</big>
 
 
===== <big>'''छे च''' (६.१.७३)</big> =====
Line 2,726 ⟶ 2,789:
 
<big>प्रति इति शब्दस्य योगे '''वृक्ष''' इति शब्दस्य द्वितीयाविभक्तिः विधीयते  '''कर्मप्रवचनीययुक्ते द्वितीया''' ( २.३.८) इति सूत्रेण  |</big>
 
 
 
<big>यदि प्रति इति अव्ययस्य योगे नित्यसमासः भवति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इति समासविधायकसूत्रेण, तर्हि कुत्रापि वाक्ये वीप्सार्थे प्रति इति शब्दस्य योगे द्वितीयाविभक्तिः कदापि न भवति | एवञ्चेत् कर्मप्रवचनीयसंज्ञायाः प्रयोजनं नैव सिद्ध्यति | अतः तन्निवारणाय अत्र समासः नित्यः न भवति अपि तु विकल्पेन | अनेन व्यस्तप्रयोगः अपि शक्यते, समस्तप्रयोगः अपि शक्यते | अर्थम् अर्थं प्रति इति वाक्ये अपि प्रयोक्तुं शक्नुमः | यथा - वाक्ये - '''वृक्षं वृक्षं प्रति सिञ्चति |''' नो चेत् समासे - '''प्रतिवृक्षं सिञ्चति इति |'''</big>
Line 2,966 ⟶ 3,031:
 
<big>सहक्षत्र '''→ अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | सहक्षत्र इत्यस्य अव्ययसंज्ञा भवति | इदानीं लिङ्गस्य निर्णयः भवति | '''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः सहक्षत्र इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |</big>
 
 
 
<big>सहक्षत्र '''→ ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)''' इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति '''→''' अतः सहक्षत्र इति भवति |</big>
 
 
 
<big>सहक्षत्र '''→ अव्ययीभावे चाकाले''' (६.३.८१) इति सूत्रेण अव्ययीभावसमासे ‘सह’ इत्यस्य स्थाने ‘स’ इत्ययम् आदेशो भवति अकालवाचिनि उत्तरपदे | क्षत्र इति अकालवाचिशब्दः अस्ति अतः '''अव्ययीभावे चाकाले''' (६.३.८१) इति सूत्रेण सह स्थाने स इति आदेशः भवति'''→''' अतः सक्षत्र इति भवति |</big>
 
 
 
<big>सक्षत्र+ सु '''→''' सक्षत्र इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति  '''सक्षत्रात्''' | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
 
 
<big>सक्षत्र + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''सक्षत्रम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- सक्षत्रम् / सक्षत्रेण, सक्षत्रम् / सक्षत्रे, अन्यासु विभक्तिषु सक्षत्रम् इति रूपं सिद्धं भवति |</big>
page_and_link_managers, Administrators
5,097

edits