14---samAsaH/02A---avyayiibhAvasamAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 514:
 
<big>अधिहरि '''→ अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति |अधिहरि इति शब्दः अव्ययसंज्ञकः भवति|</big>
 
 
<big>अधिहरि'''→''' इदानीं लिङ्गस्य निर्णयः क्रियते|'''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम्|अतः अधिहरि इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम्|</big>
 
 
 
Line 532 ⟶ 534:
 
<big>सर्वासु विभक्तिषु अधिहरि इत्येव रूपं भवति |</big>
|}
 
 
----
 
 
<big>अव्ययीभावसमासस्य प्रसङ्गे एतानि सूत्राणि अपेक्षितानि  –</big>
 
{| class="wikitable"
|+
!<big>अव्ययीभावसमासस्य प्रसङ्गे एतानि सूत्राणि अपेक्षितानि  –</big>
|-
|
===== <big>'''कृत्तद्धितसमासाश्च''' (१.२.४६)</big> =====
'''कृत्तद्धितसमासाश्च''' (१.२.४६) = <big>कृदन्ताः, तद्धितान्ताः, समासाः च अपि प्रातिपदिकसंज्ञकाः | कृच्च, तद्धितश्च, समासश्च, कृत्तद्धितसमासाः इतरेतरद्वन्द्वः | कृत्तद्धितसमासाः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५) इत्यस्मात्‌ अर्थवत्‌, प्रातिपदिकम्‌ इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्— '''अर्थवन्तः कृत्तद्धितसमासाः च प्रातिपदिकानि |'''</big>
|-
|
===== <big>'''सुपो धातुप्रातिपदिकयोः''' (२.४.७१)</big> =====
'''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) = <big>धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्-प्रत्ययस्य लुक् भवति | यदि कश्चन सुप्-प्रत्ययः कस्यचित् धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानः अस्ति, तर्हि तस्य सुप्-प्रत्ययस्य लुक् भवति | धातुश्च प्रातिपदिकं च तयोरितरेतरयोगद्वन्द्वः, धातुप्रातिपदिके, तयोर्धातुप्रातिपदिकयोः|सुपः षष्ठ्यन्तं, धातुप्रातिपदिकयोः षष्ठीद्विवचनान्तम्|ण्यक्षत्रियार्षञितो यूनि लुगणिञोः ( २.४.५८) इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अस्ति|अनुवृत्ति-सहित-सूत्रम्‌— '''धातुप्रातिपदिकयोः सुपः लुक् |'''</big>
|-
|
===== <big>'''सुप्तिङन्तं पदम्‌ (१.४.१४)'''</big> =====
'''सुप्तिङन्तं पदम्‌ (१.४.१४) =''' <big>सुबन्तं च तिङन्तं च पदसज्ञकौ भवतः, इत्युक्ते सुबन्तानां तिङन्तानां च पदसंज्ञा भवति | सुप्तिङन्तं प्रथमान्तं, पदम्‌ प्रथमान्तम्‌ |</big>
|-
|
===== <big>'''अव्ययादाप्सुपः''' (२.४.८२)</big> =====
'''अव्ययादाप्सुपः''' (२.४.८२) = <big>अव्ययात् परस्य आप्-प्रत्ययानां सुप्-प्रत्ययानां च लुक्-भवति |'''लुक्''' ( २.४.५८) इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः|अनुवृत्ति-सहित-सूत्रं — '''अव्ययात् आप्-सुपः लुक्''' |</big>
|-
|
===== <big>'''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२)</big> =====
'''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) = <big>प्रत्यये लुप्ते सति, प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्‌ | प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन्‌ प्रत्ययलोपे | प्रत्ययस्य लक्षणं निमित्तं यस्य तत्‌ प्रत्ययलक्षणम्‌, बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्— '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' |</big>
|-
|
|}
 
 
<big>'''अव्ययीभावश्च''' (२.४.१८)</big>
अलौकिकविग्रहवाक्यम् -
 
'''अव्ययीभावश्च''' (२.४.१८) = <big>अव्ययीभावसमासः नपुंसकलिङ्गे भवति|अव्ययीभावः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् |'''स नपुंसकम्''' (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति|अनुवृत्ति-सहित-सूत्रं— '''अव्ययीभावः च नपुंसकम्|'''</big>
हरि + ङि + अधि '''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण|'''अव्ययीभावः''' (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति|'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)   इति सूत्रेण अधि इति अव्ययं समर्थेन हरि इति सुबन्तेन सह समस्यते|एतेन सूत्रेण अव्ययीभावसमासः विधीयते|
 
हरि + ङि + अधि '''→'''  समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण|
 
हरि + ङि + अधि '''→  '''इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन|अतः हरि + ङि + अधि '''→''' इत्यस्मिन्‌ ङि इत्यस्य लुक्‌ भवति '''→''' हरि + अधि |
 
हरि + अधि '''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति|अत्र च 'अधि' इत्यस्य अन्ते सुप्‌  न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा इति | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक् अभवत् '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण|अतः अधि इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण| | यद्यपि प्रत्ययस्य लोपः जातः तथापि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव|
 
हरि + अधि→ अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमाविभक्त्या यत्  पदं निर्दिश्यते समासविधायकसूत्रे तत् उपसर्जनसंज्ञकं भवति|अत्र '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इति  समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण |अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति|अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति|अत्र अधि इति अव्ययम् अस्ति, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति|
 
अधिहरि '''→ अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति |अधिहरि इति शब्दः अव्ययसंज्ञकः भवति|
 
अधिहरि'''→''' इदानीं लिङ्गस्य निर्णयः क्रियते|'''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम्|अतः अधिहरि इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम्|
 
अधिहरि '''→ ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)''' इति सूत्रेण नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य हस्वः भवति |अतः अधिहरि इति भवति|
 
अधिहरि + सु '''→''' अधिहरि इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति |अधुना सुप् प्रत्ययस्य उत्पत्तिः '''ङ्याप्प्रातिपदिकात्‌''' ( ४.१.१), '''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) इत्याभ्यां सूत्राभ्याम्|
 
अधिहरि + सु '''→''' अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण अव्ययात् परस्य सु प्रत्ययस्य लोपः भवति |'''अव्ययीभावश्च''' (१.१.४१) इत्यनेन सूत्रेण अधिहरि इति अव्ययम् अस्ति इत्यतः सु प्रत्ययस्य लोपः भवति '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण|'''अधिहरि''' इति समस्तपदं निष्पन्नम्|अत्र अधिहरि इत्यस्य अदन्तम् अङ्गं नास्ति अतः '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३), '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) च, अनयोः सूत्रयोः प्रसक्तिः नास्ति|एतस्मिन् विषये अग्रे वक्ष्यते|
 
'''वयं सर्वे अधिहरि वसामः''' |'''अधिहरि जगतः सृष्टिः भवति |'''
 
सर्वासु विभक्तिषु अधिहरि इत्येव रूपं भवति |
 
 
अव्ययीभावसमासस्य प्रसङ्गे एतानि सूत्राणि अपेक्षितानि  –
 
 
'''कृत्तद्धितसमासाश्च''' (१.२.४६) = कृदन्ताः, तद्धितान्ताः, समासाः च अपि प्रातिपदिकसंज्ञकाः | कृच्च, तद्धितश्च, समासश्च, कृत्तद्धितसमासाः इतरेतरद्वन्द्वः | कृत्तद्धितसमासाः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५) इत्यस्मात्‌ अर्थवत्‌, प्रातिपदिकम्‌ इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्— '''अर्थवन्तः कृत्तद्धितसमासाः च प्रातिपदिकानि |'''
 
 
'''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) = धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्-प्रत्ययस्य लुक् भवति | यदि कश्चन सुप्-प्रत्ययः कस्यचित् धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानः अस्ति, तर्हि तस्य सुप्-प्रत्ययस्य लुक् भवति | धातुश्च प्रातिपदिकं च तयोरितरेतरयोगद्वन्द्वः, धातुप्रातिपदिके, तयोर्धातुप्रातिपदिकयोः|सुपः षष्ठ्यन्तं, धातुप्रातिपदिकयोः षष्ठीद्विवचनान्तम्|ण्यक्षत्रियार्षञितो यूनि लुगणिञोः ( २.४.५८) इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अस्ति|अनुवृत्ति-सहित-सूत्रम्‌— '''धातुप्रातिपदिकयोः सुपः लुक् |'''
 
 
'''सुप्तिङन्तं पदम्‌ (१.४.१४) =''' सुबन्तं च तिङन्तं च पदसज्ञकौ भवतः, इत्युक्ते सुबन्तानां तिङन्तानां च पदसंज्ञा भवति | सुप्तिङन्तं प्रथमान्तं, पदम्‌ प्रथमान्तम्‌ |
 
'''अव्ययादाप्सुपः''' (२.४.८२) = अव्ययात् परस्य आप्-प्रत्ययानां सुप्-प्रत्ययानां च लुक्-भवति |'''लुक्''' ( २.४.५८) इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः|अनुवृत्ति-सहित-सूत्रं — '''अव्ययात् आप्-सुपः लुक्''' |
 
 
'''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) = प्रत्यये लुप्ते सति, प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्‌ | प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन्‌ प्रत्ययलोपे | प्रत्ययस्य लक्षणं निमित्तं यस्य तत्‌ प्रत्ययलक्षणम्‌, बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्— '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' |
 
 
'''अव्ययीभावश्च''' (२.४.१८) = अव्ययीभावसमासः नपुंसकलिङ्गे भवति|अव्ययीभावः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् |'''स नपुंसकम्''' (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति|अनुवृत्ति-सहित-सूत्रं— '''अव्ययीभावः च नपुंसकम्|'''
 
 
'''अव्ययीभावश्च''' (१.१.४१) = अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति |अव्ययीभावसमास-संज्ञायाः विधानानन्तरं सम्पूर्णं समस्तपदम् अव्ययं भवति |इदं सूत्रं संज्ञासूत्रम् अस्ति|अव्ययीभावः प्रथमान्तं, च अव्ययपदं द्विपदमिदं सूत्रम् |'''स्वरादिनिपातमव्ययम्''' ( १.१.३७) इत्यस्मात् सूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः अस्ति|अनुवृत्ति-सहित-सूत्रं— '''अव्ययीभावः च अव्ययम्|'''
 
===== <big> </big> =====
|-
|
===== <big>'''अव्ययीभावश्च''' (१.१.४१)</big> =====
'''अव्ययीभावश्च''' (१.१.४१) = <big>अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति |अव्ययीभावसमास-संज्ञायाः विधानानन्तरं सम्पूर्णं समस्तपदम् अव्ययं भवति |इदं सूत्रं संज्ञासूत्रम् अस्ति|अव्ययीभावः प्रथमान्तं, च अव्ययपदं द्विपदमिदं सूत्रम् |'''स्वरादिनिपातमव्ययम्''' ( १.१.३७) इत्यस्मात् सूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः अस्ति|अनुवृत्ति-सहित-सूत्रं— '''अव्ययीभावः च अव्ययम्|'''</big>
|-
|
===== <big>'''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७)</big> =====
'''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७) = <big>नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात्|ह्रस्वः प्रथमान्तं, नपुंसके सप्तम्यन्तं, प्रातिपदिकस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्|'''अचश्च''' (१.२.२८) इत्यनेन अचः एव ह्रस्वत्वम्|'''अलोऽन्तस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव ह्रस्वत्वम् (न तु प्रातिपदिकस्य) |अनुवृत्ति-सहितसूत्रम्‌— '''नपुंसकलिङ्गे अचः प्रातिपदिकस्य ह्रस्वः|'''</big>
|-
|
===== <big>'''एच इग्घ्रस्वादेशे''' ( १.१.४८)</big> =====
'''एच इग्घ्रस्वादेशे''' ( १.१.४८) = <big>एच्-वर्णस्य ह्रस्वादेशः क्रियते चेत्, एच्-वर्णस्य स्थाने इक्-वर्णः विधीयते |उच्चारणसाम्यवशात् एकारस्य, ऐकारस्य च स्थाने इकारः भवति, ओकारस्य औकारस्य च स्थाने उकारः भवति|इदं परिभाषासूत्रम् अस्ति | एचः षष्ठ्यन्तम् , इक् प्रथमान्तं , ह्रस्व-आदेशे सप्तम्यन्तम् |सूत्रं स्वयं सम्पूर्णम्  — '''एचः इक् ह्रस्वादेशे''' |</big>
|}
 
----
'''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७) = नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात्|ह्रस्वः प्रथमान्तं, नपुंसके सप्तम्यन्तं, प्रातिपदिकस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्|'''अचश्च''' (१.२.२८) इत्यनेन अचः एव ह्रस्वत्वम्|'''अलोऽन्तस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव ह्रस्वत्वम् (न तु प्रातिपदिकस्य) |अनुवृत्ति-सहितसूत्रम्‌— '''नपुंसकलिङ्गे अचः प्रातिपदिकस्य ह्रस्वः|'''
 
 
'''एच इग्घ्रस्वादेशे''' ( १.१.४८) = एच्-वर्णस्य ह्रस्वादेशः क्रियते चेत्, एच्-वर्णस्य स्थाने इक्-वर्णः विधीयते |उच्चारणसाम्यवशात् एकारस्य, ऐकारस्य च स्थाने इकारः भवति, ओकारस्य औकारस्य च स्थाने उकारः भवति|इदं परिभाषासूत्रम् अस्ति | एचः षष्ठ्यन्तम् , इक् प्रथमान्तं , ह्रस्व-आदेशे सप्तम्यन्तम् |सूत्रं स्वयं सम्पूर्णम्  — '''एचः इक् ह्रस्वादेशे''' |
 
'''अभ्यासः'''