14---samAsaH/02A---avyayiibhAvasamAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,087:
|+
!
==== <big>'''टच्-प्रत्ययापक्षे प्रक्रिया'''</big> ====
|-
|'''<big>टच्-प्रत्ययापक्षे उपनदि इति समस्तपदस्य प्रक्रिया अधो लिखिता अस्ति-</big>'''
Line 1,155:
 
 
=== ='''<u><big>२) समीपार्थे  द्वितीयम् उदाहरणम् -</big></u>''' ====
{| class="wikitable mw-collapsible"
!'''<u><big>समीपार्थे  द्वितीयम् उदाहरणम्</big></u>'''
Line 1,259:
|+
|
===== <big>'''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३)</big> =====
 
 
Line 1,268:
|
 
===== <big>'''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४)</big> =====
<big>'''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) =अदन्तात् अव्ययीभावात् तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति|अत्र बहुलम् इति शब्दस्य प्रयोगेण कुत्रचित् विकल्पेन अम्-आदेशः भवति, कुत्रचित् अम् आदेशः नित्यः भवति|कुत्र विकल्पेन, कुत्र नित्यः इति निर्णयः प्रयोगं दृष्ट्वा करणीयः |सामान्यतया विकल्पेन इति स्वीकर्तुं शक्यते |यदि विकल्पार्थः इष्टः तर्हि विकल्पः अथवा वा इति शब्दस्य प्रयोगः भवति परन्तु अत्र बहुलम् इत्यनेन विशिष्टार्थः बुध्यते|तृतीया च सप्तमी च तयोः इतरेतरयोगद्वन्द्वः तृतीयासप्तम्यौ, तयोः|तृतीयासप्तम्योः षष्ठ्यन्तं, बहुलं प्रथमान्तं, द्विपदमिदं सूत्रम्|'''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यस्मात् सूत्रात् अव्ययीभावात्, अतः, अम् इत्येषाम् अनुवृत्तिः भवति|अनुवृत्ति-सहितसूत्रम्‌— '''तृतीयासप्तम्योः अतः अव्ययीभावाद् अम् बहुलम्''' |</big>
 
<big>'''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) =अदन्तात् अव्ययीभावात् तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति|अत्र बहुलम् इति शब्दस्य प्रयोगेण कुत्रचित् विकल्पेन अम्-आदेशः भवति, कुत्रचित् अम् आदेशः नित्यः भवति|कुत्र विकल्पेन, कुत्र नित्यः इति निर्णयः प्रयोगं दृष्ट्वा करणीयः |सामान्यतया विकल्पेन इति स्वीकर्तुं शक्यते |यदि विकल्पार्थः इष्टः तर्हि विकल्पः अथवा वा इति शब्दस्य प्रयोगः भवति परन्तु अत्र बहुलम् इत्यनेन विशिष्टार्थः बुध्यते|तृतीया च सप्तमी च तयोः इतरेतरयोगद्वन्द्वः तृतीयासप्तम्यौ, तयोः|तृतीयासप्तम्योः षष्ठ्यन्तं, बहुलं प्रथमान्तं, द्विपदमिदं सूत्रम्|'''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यस्मात् सूत्रात् अव्ययीभावात्, अतः, अम् इत्येषाम् अनुवृत्तिः भवति|अनुवृत्ति-सहितसूत्रम्‌— '''तृतीयासप्तम्योः अतः अव्ययीभावाद् अम् बहुलम्''' |</big>
|}
 
Line 1,277 ⟶ 1,278:
 
 
==== '''<big>३) समीपार्थे तृतीयम् उदाहरणम्</big>''' ====
<big>शरदः समीपम् = उपशरदम् |शरद् इत्युक्ते ऋतुः|शरद् इति शब्दः दकारान्तः शब्दः|</big>
{| class="wikitable"
|+
!'''<big>३) समीपार्थे तृतीयम् उदाहरणम्</big>'''
|-
|<big>अलौकिकविग्रहवाक्यम्</big>
 
 
<big>शरद् + ङस् + उप '''→''' समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण|'''अव्ययीभावः''' (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति |'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)  इति सूत्रेण उप इति अव्ययं समर्थेन शरदः इति सुबन्तेन सह समस्यते|</big>
शरदः समीपम् = उपशरदम् |शरद् इत्युक्ते ऋतुः|शरद् इति शब्दः दकारान्तः शब्दः|
 
अलौकिकविग्रहवाक्यम्
 
शरद् + ङस् + उप '''→''' समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण|'''अव्ययीभावः''' (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति |'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)  इति सूत्रेण उप इति अव्ययं समर्थेन शरदः इति सुबन्तेन सह समस्यते|
 
<big>शरद् + ङस् + उप '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण|</big>
 
 
<big>शरद् + ङस् + उप '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन|अतः शरद् + ङस् + उप '''→'''इत्यस्मिन्‌ ङस् इत्यस्य लुक्‌ → शरद् + उप इति |</big>
 
 
 
<big>शरद् + उप '''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'उप' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण|अतः उप इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |</big>
 
 
 
<big>शरद् + उप '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति|अत्र समासविधायकसूत्रम् अस्ति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) |अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति|अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति|अत्र उप इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति|</big>
 
 
<big>उपशरद् '''→''' '''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) इत्यनेन शरदादिगणे विद्यमानेभ्यः शब्देभ्यः अव्ययीभावसमासे "टच्" इति समासान्तः तद्धितसंज्ञकप्रत्ययः भवति |शरद् इति शब्दः शरादिगणे अस्ति अपि च उपशरद् इति अव्ययीभावसमाससंज्ञकः, अतः टच् इति समासान्तः प्रत्ययः विधीयते|उपशरद् + टच् '''→''' टच् इति प्रत्यये टकार-चकारयोः इत्संज्ञा भवति, अकारः अवशिष्यते|टच् प्रत्ययस्य योजनानन्तरं हलन्तशब्दाः अपि अजन्ताः भवन्ति|समासान्तप्रत्ययाः समासस्य अवयवः भवन्ति|इदानीम् उपशरद्+अ इत्यस्य प्रातिपदिकसंज्ञा अस्ति|</big>
 
 
<big>उपशरद् + अ '''→''' उपशरद'''→''' '''अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति इत्यतः उपशरद इत्यस्य अव्ययसंज्ञा अस्ति|</big>
 
 
 
<big>उपशरद '''→''' इदानीं लिङ्गस्य निर्णयः क्रियते|'''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम्|अतः उपशरद इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम्|</big>
 
 
<big>उपशरद + सु '''→''' उपशरद इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति|अधुना सुप् प्रत्ययस्य उत्पत्तिः '''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) इति सूत्रेण | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते|'''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी विभक्तिं विहाय|पञ्चमी विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्बन्तप्रक्रियानन्तरं रूपं भवति '''उपशरदात्''' |अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति|</big>
 
 
 
<big>उपशरद + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्|पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''उपशरदम्''' इति रूपं सिद्धं भवति|अधुना '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति|अनेन तृतीयाविभक्तौ अपि च सप्तमीविभक्तौ रूपद्वयं सम्भवति-</big>
 
 
 
<big>तृतीयाविभक्तौ= -उपशरदम् / उपशरदेन,</big>
 
<big>सप्तमीविभक्तौ =उपशरदम् / उपशरदे|</big>
 
<big>अन्यासु विभक्तिषु पञ्चमीविभक्तिं विहाय उपशरदम् इति रूपं सिद्धं भवति|पञ्चमीविभक्तौ उपशरदात् इति रूपं भवति|</big>
|}
 
शरद् + ङस् + उप '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन|अतः शरद् + ङस् + उप '''→'''इत्यस्मिन्‌ ङस् इत्यस्य लुक्‌ → शरद् + उप इति |
 
शरद् + उप '''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'उप' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण|अतः उप इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |
 
शरद् + उप '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति|अत्र समासविधायकसूत्रम् अस्ति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) |अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति|अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति|अत्र उप इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति|
 
उपशरद् '''→''' '''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) इत्यनेन शरदादिगणे विद्यमानेभ्यः शब्देभ्यः अव्ययीभावसमासे "टच्" इति समासान्तः तद्धितसंज्ञकप्रत्ययः भवति |शरद् इति शब्दः शरादिगणे अस्ति अपि च उपशरद् इति अव्ययीभावसमाससंज्ञकः, अतः टच् इति समासान्तः प्रत्ययः विधीयते|उपशरद् + टच् '''→''' टच् इति प्रत्यये टकार-चकारयोः इत्संज्ञा भवति, अकारः अवशिष्यते|टच् प्रत्ययस्य योजनानन्तरं हलन्तशब्दाः अपि अजन्ताः भवन्ति|समासान्तप्रत्ययाः समासस्य अवयवः भवन्ति|इदानीम् उपशरद्+अ इत्यस्य प्रातिपदिकसंज्ञा अस्ति|
 
उपशरद् + अ '''→''' उपशरद'''→''' '''अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति इत्यतः उपशरद इत्यस्य अव्ययसंज्ञा अस्ति|
 
उपशरद '''→''' इदानीं लिङ्गस्य निर्णयः क्रियते|'''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम्|अतः उपशरद इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम्|
 
उपशरद + सु '''→''' उपशरद इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति|अधुना सुप् प्रत्ययस्य उत्पत्तिः '''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) इति सूत्रेण | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते|'''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी विभक्तिं विहाय|पञ्चमी विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्बन्तप्रक्रियानन्तरं रूपं भवति '''उपशरदात्''' |अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति|
 
उपशरद + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्|पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''उपशरदम्''' इति रूपं सिद्धं भवति|अधुना '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति|अनेन तृतीयाविभक्तौ अपि च सप्तमीविभक्तौ रूपद्वयं सम्भवति-
 
तृतीयाविभक्तौ= -उपशरदम् / उपशरदेन,
 
सप्तमीविभक्तौ =उपशरदम् / उपशरदे|
 
अन्यासु विभक्तिषु पञ्चमीविभक्तिं विहाय उपशरदम् इति रूपं सिद्धं भवति|पञ्चमीविभक्तौ उपशरदात् इति रूपं भवति|