14---samAsaH/02A---avyayiibhAvasamAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 104:
 
 
=== '''<big><u>अव्ययीभावासमासः</u></big>''' ===
<big>अव्ययीभावसमासे पूर्वपदम् अव्ययम्, उत्तरपदं च सुबन्तं पदं भवति | अनव्ययम् अव्ययं सम्पद्यते इति अव्ययीभावः  | अर्थात् यत् अव्ययं नास्ति तत् समासे अव्ययं भवति चेत्  अव्ययीभावसमासः इति उच्यते |अव्ययीभावसमासे प्रायेण पूर्वपदार्थस्य प्राधान्यम् अस्ति  | यथा- उपवृक्षम् इति अव्ययीभावसमासः, तस्य विग्रहवाक्यम् अस्ति वृक्षस्य समीपम् इति | अस्मिन् समासे ‘उप’ इति अव्ययस्य एव प्राधान्यम् अस्ति यतोहि तस्यैव अन्वयः क्रियया सह भवति | अतः एव अव्ययीभावसमासे प्रायेण पूर्वपदस्य प्राधान्यम् इति कथ्यते  | उपवृक्षम् इति समासस्य अव्ययसंज्ञा भवति '''अव्ययीभावश्च''' (१.१.४१) इति सूत्रेण | अव्ययीभावसमासः नपुंसकलिङ्गे भवति  | उपवृक्षम् इति अव्ययं, नपुंसकलिङ्गे अस्ति |</big>
 
Line 152:
 
 
'''<big><u>निपातसंज्ञा</u></big>'''
 
<big>'''चादयोऽसत्त्वे''' ( १.४.५७)</big>
Line 196:
 
 
=== '''<big><u>उपसर्गसंज्ञा</u></big>''' ===
<big>'''उपसर्गाः क्रियायोगे''' (१.४.५९)</big>
 
Line 206:
 
 
=== '''<big><u>गतिसंज्ञा</u></big>''' ===
 
==== <big>'''गतिश्च''' ( १.४.६०)</big> ====
Line 214:
----
 
==== '''<big><u>उपसर्गसंज्ञा, गतिसंज्ञा निपातसंज्ञा - त्रयाणामपि सहवासः</u></big>''' ====
<big>अर्थात् प्रादिगणे ये शब्दाः सन्ति, तेषाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति '''प्रादयः''' ( १.४.५८) इति सूत्रेण| '''उपसर्गाः क्रियायोगे''' (१.४.५९)''',  गतिश्च''' ( १.४.६०) इति द्वाभ्यां सूत्राभ्यां तेषां शब्दानां क्रियायोगे उपसर्गसंज्ञा, गतिसंज्ञा च भवति |आहत्य एतेषां प्रादीनां तिस्रः संज्ञाः भवितुम् अर्हन्ति| एताः सर्वाः संज्ञाः '''आकडारादेका संज्ञा''' (१.४.१) इति क्षेत्रे  सन्ति तर्हि कथं एतासां सर्वासां संज्ञानाम् एकत्र सहवासः सम्भवति ?</big>
 
Line 229:
 
 
===='''<big><u>अव्ययीभावसमासे अव्ययस्य प्रयोजनम्</u></big>'''====
<big>अव्ययीभावसमासः अव्ययं भवति इति उक्तम्|तर्हि अव्ययसंज्ञायाः प्रयोजनं किम् ?</big>
 
Line 293:
 
 
===== '''<big><u>अव्ययीभावसमासे समासान्तप्रत्ययाः</u></big>''' =====
<big>अव्ययीभावसमासे यत्र समासान्तप्रत्ययः विधीयते तत्र टच् इति प्रत्ययः एव विधीयते|कुत्रचित् नित्यरूपेण विधीयते, कुत्रचित् विकल्पेन विधीयते|अव्ययीभावसमासे  समासान्ताधिकारात् एतानि सूत्राणि प्रसक्तानि भवन्ति |टच् इति प्रत्ययस्य विधानेन प्रक्रियायाम् अव्ययीभावसमासः अदन्तः भवति येन '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' ( २.४.८३) इत्यनेन सुप्प्रत्ययस्य स्थाने अमादेशः सिद्ध्यति |</big>
 
Line 363:
----
 
==='''<big><u>अव्ययीभावसमास-सम्बद्ध-मुख्यसूत्राणि</u></big>'''===
<big>अव्ययीभावसमासस्य प्रक्रियायाः प्रसङ्गे एतानि सूत्राणि सम्यक्तया ज्ञातव्यानि भवन्ति यतोहि एतेषां प्रयोगः मुहुर्मुहुः (वारं वारं) क्रियते –</big>
 
Line 404:
 
<big>अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति|उपसर्जन-संज्ञानन्तरम् अव्ययम् इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण|अव्ययपदं समासे पूर्वं तिष्ठति इत्यर्थः निष्पन्नः|नाम अव्ययीभावसमासे अव्ययं पूर्वपदे भवति उत्तरपदं सुबन्तं पदं भवति|अयं समासः नित्यः, न तु वैकल्पिकः|</big>
 
 
 
<big>'''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) = समासशास्त्रे प्रथमानिर्दिष्टम् उपसर्जनसंज्ञकं स्यात्|समासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति, तत् पदम् उपसर्जन-संज्ञकं स्यात्|समासशास्त्रे इत्यनेन समासविधायकसूत्रं, वार्तिकं वा स्यात् |इदं संज्ञा-सूत्रम् अस्ति|प्रथमानिर्दिष्टं प्रथमान्तं, उपसर्जनं प्रथमान्तं, समासे सप्तम्यन्तं, त्रिपदमिदं सूत्रम् |अनुवृत्ति-सहित-सूत्रम्‌ — '''प्रथमानिर्दिष्टं समास उपसर्जनम्'''|</big>
 
 
 
Line 482 ⟶ 485:
 
<big>सामन्यतः समासः विकल्पेन भवति, नाम व्यस्तप्रयोगः अपि शक्यते, समस्तप्रयोगः अपि शक्यते| परन्तु अत्र अव्ययीभावः विकल्पेन न भवति अपि तु नित्यरूपेण भवति यतोहि '''विभाषा''' (२.१.११) इति सूत्रस्य अधिकारे इदम् अव्ययीभावसमासविधायाकं सूत्रं नास्ति|इदं सूत्रं '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् प्राक् अस्ति यतोहि अत्र अस्वपदविग्रहः एव सम्भवति |अत एव प्रकृतसूत्रे अव्ययीभावसमासः नित्यः इत्युच्यते |न  विद्यते स्वपदविग्रहः यस्य सः समासः अस्वपदविग्रहः|यस्य समासस्य अस्वपदविग्रहः, सः समासः नित्यसमासः | नाम समासस्य अर्थः समासघटकानि पदानि विहाय अन्यपदैः यदा वर्ण्यते तदा अस्वपदविग्रहः इति उच्यते |समास-घटक-पद-रहित-वाक्यम् अस्वपदविग्रहः इति उच्यते|यथा — उपकृष्णम् इति उदाहरणे विग्रहः कृष्णसय उप इति भवितुं न अर्हति | एतेन विग्रहेण अर्थबोधः न जायते | अतः अत्र अस्वपदविग्रहं प्रयुज्य कृष्णस्य समीपम् इति विग्रहवाक्यं वक्तव्यं भवति|</big>
 
----
 
 
<big>'''अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' ( २.१.६) इति सूत्रे अव्ययानाम् अर्थ: क्रमेण परिशील्यते -</big>
 
===<big>'''i)'''  '''<u>सूत्रे विभक्त्यर्थे अव्ययम्</u> –'''</big>===
<big>'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)- अस्मिन् सूत्रे '''विभक्त्यर्थे''' वर्तमानम् अव्ययं सुबन्तेन सह समस्यते, सोऽव्ययीभावः| विभक्त्यर्थः नाम कारकम् इति अर्थः |कारकेषु अपि अधिकरणकारकमेव अत्र इष्यते |  विभक्त्यर्थे अधि इति अव्ययं समस्यते|अधि इति अव्ययं सप्तम्यर्थे अस्ति |सप्तमीविभक्तेः अधिकरणम् इति अर्थः अस्ति | अस्य उदाहरणम् अस्ति अधिहरि|अधिहरि इति समस्तपदस्य प्रक्रिया अधः प्रदर्शिता अस्ति|</big>
 
Line 731 ⟶ 736:
 
 
'''<big><u>अभ्यासः</u></big>'''
 
<big>एतेषां प्रक्रिया चिन्तनीया —</big>
Line 869 ⟶ 874:
|}
 
----<big> </big>
 
====='''<big>अभ्यासः</big>''' =====
<big>एतेषां प्रक्रिया चिन्तनीया —१) सीमनि इति , २) दामनि इति  ३) दण्डिनि इति (दण्डिन् इति पुंलिङ्गशब्दः) |</big>
Line 929 ⟶ 935:
<big>'''अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इति सूत्रे समीपार्थः -</big>
 
=== <big> '''ii)'''   '''<u>सूत्रे समीपार्थे अव्ययम्–</u>'''</big> ===
<big><br />
समीपार्थे उप इति अव्ययं प्रयुज्यते|</big>
Line 1,149 ⟶ 1,155:
<big><br />
धेयं यत् समया, निकषा, आराद् इत्यादीनि यद्यपि समीपार्थक-अव्ययानि सन्ति तथापि अव्ययीभावसमासः न भवति| तस्य कारणम् अस्ति यत् समया, निकषा इत्यनयोः शब्दयोः योगे तु सामान्यतया द्वितीयाविभक्तिः भवति; अपि च आरात् इति शब्दस्य योगे तु पञ्चमीविभक्तिः भवति|अतः द्वितीयाविभक्तेः, पञ्चमीविभक्तेः च विधानसामर्थ्यात् समया ग्रामम्, निकषा लङ्काम्, आराद् वनात् इत्यादिषु उदाहरणेषु अव्ययीभावसमासः न भवति| समीपार्थे केवलम् उप इति अव्ययस्य एव अव्ययीभावसमासः सम्भवति, अन्येषाम् अव्ययानां न |</big>
 
 
----
Line 1,275 ⟶ 1,282:
 
 
==== '''<big><u>३) समीपार्थे तृतीयम् उदाहरणम्</u></big>''' ====
<big>शरदः समीपम् = उपशरदम् |शरद् इत्युक्ते ऋतुः|शरद् इति शब्दः दकारान्तः शब्दः|</big>
{| class="wikitable mw-collapsible"
Line 1,398 ⟶ 1,405:
 
 
<big>'''<u>एतेषां प्रक्रिया वक्तव्या</u>''' —</big>
 
<big>१) विपाशः (नदी, बन्धनम्, पाशात् विमुक्तः)  समीपम्;  २) मनसः समीपम्; ३) हिमवतः समीपम्;  ४) अनडुहि (वृषभः) इति; ५) दिशि इति |</big>
Line 1,423 ⟶ 1,430:
 
 
 
===== <big>'''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७)</big> =====
 
<big>इति सूत्रस्य अन्तर्गते ''' प्रतिपरसमनुभ्योऽक्ष्णः''' इति गणसूत्रं वर्तते इति उक्तम् |गणसूत्रार्थः = प्रति, पर, सम् तथा अनु, एतेषु कश्चन शब्दः पूर्वपदे विद्यते चेत्  अपि च उत्तरपदे अक्षि इति शब्दः चेत्, तदन्तात् अव्ययीभावसमासात् टच् इति समासान्तप्रत्ययः विधीयते |अनेन प्रत्यक्षम्, परोक्षम्, समक्षम्, अन्वक्षम् इत्यादीनि समस्तपदानि सिद्ध्यन्ति|</big>
 
Line 1,566 ⟶ 1,575:
|}
 
===== <big> </big> <big>'''रषाभ्यां नो णः समानपदे''' (८.४.१)</big> =====
<big>रेफषकाराभ्यामुत्तरस्य नकारस्य णकारादेशो भवति, समानपदस्थौ चेदेव निमित्तनिमित्तिनौ भवतः |</big>
 
Line 1,574 ⟶ 1,583:
* <big>कुत्र निर्दिष्टं यत्‌ चु, टु, तु इत्येतेषु कश्चन मध्ये अस्ति चेत् '''रषाभ्यां नो णः समानपदे''' इत्यस्य प्रसक्तिर्नास्ति ?‌ '''रषाभ्यां नो णः समानपदे''' इत्यस्य प्रसङ्गः अव्यवहितस्थित्याम्‌ |</big>
* <big>आङ्‌ किमर्थम्‌ ? आ = आ-रूपः उपसर्गः | नाम अन्ये उपसर्गाः मध्ये चेत्‌ णत्वं न भवति | पर्याणद्ध (adj)‌ = परि + आ + नद्धम्‌ | covered | नद्ध = joined, tied, bound |</big>
 
----
 
 
 
==== '''<big><u>४) समीपार्थे चतुर्थम् उदाहरणम्</u></big>''' ====
{| class="wikitable mw-collapsible"
!'''<big>४) समीपार्थे चतुर्थम् उदाहरणम्</big>'''