14---samAsaH/02A---avyayiibhAvasamAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 64:
|३१)   [https://archive.org/download/samAsaH-pANini-dvArA/42_%20avyayiibhAvasamAsaH--%20apa-pari-bahir-aNYcavaH%20panchamyA%20_%202021-02-12.mp4 avyayiibhAvasamAsaH-- apa-pari-bahir-aNYcavaH panchamyA _ 2021-02-12]
|}
 
 
__TOC__
 
 
 
<big>तिङन्तपदस्य निर्माणे मातॄणां पद्धति: वैज्ञानिकी, तर्कपूर्णा इति तु वयं जानीमः एव, किन्तु समासपाठ्यक्रमे अपि मातुः पद्धत्यां वैलक्ष्ण्यं वर्तते एव  | माता समासपाठस्य विज्ञानं, समग्रचिन्तनं च पाठयति यत् न वैयाकरणसिद्धान्तकौमुद्यां न वा लघुसिद्धान्तकौमुद्यां न वा अन्यत्र कुत्रापि लभ्यते  | समासप्रकरणस्य अध्यापनार्थं, छात्राणां सुखबोधनार्थं च मातृभिः समासप्रक्रियायां पञ्च उपाङ्गानि कृतानि, यैः उपाङ्गैः क्रमेण बोधः जायते समासे कीदृशकार्याणि भवितुम् अर्हन्ति अपि च तत्सम्बद्धसूत्राणि अष्टाध्यायां कुत्र वर्तन्ते इति अपि ज्ञायते  | समासप्रकरणस्य अध्ययने मातुः पाठ्यक्रमः न केवलं विलक्षणः, सरलः अपि अस्ति येन सुलभतया अर्थबोधः जायते | बहूनां विद्यार्थीनां भ्रमः जायते वैयाकरणसिद्धान्तकौमुदीं पठित्वा परन्तु मातुः पाठ्यक्रमे समासपाठः पठ्यते चेत् निश्चयेन बोधः भवत्येव   | मातुः पाठे समासप्रक्रियायां पञ्च उपाङ्गानि सन्ति इति उक्तम् | एतस्य विवरणम् अग्रे दीयते |</big>
 
 
 
=== '''<big>पञ्च उपाङ्गानि</big>''' ===
<big>आदौ समासः विधीयते केनचित् समासविधायकसूत्रेण |  तत्पश्चात् प्रक्रियायां समासस्य निर्माणे पञ्चोपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति  | इमानि पञ्च उपाङ्गनि सन्ति—</big>
 
 
==== <big>१) '''प्रातिपदिकसंज्ञा'''</big> ====
<big>समासस्य अलौकिकविग्रहात् समासप्रक्रिया आरभ्यते|समासस्य प्रातिपदिकसंज्ञा विधीयते '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण | प्रातिपदिकसंज्ञानन्तरं पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण | अष्टाध्यायां (६.३.१) इत्यस्मात् सूत्रात् आरभ्य (६.३.२४) इति सूत्रपर्यन्तं पूर्वपदस्य विभक्तेः अलुक् भवति   | उत्तरपदे इति अधिकारे सुब्-अलुक् इति एकं कार्यम् अस्ति | पञ्चमे सोपाने सुबलुक् इत्यस्य विवरणम् अग्रे दीयते|</big>
 
 
==== <big>२) '''पूर्वनिपातः''' = '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३)</big> ====
<big>इति संज्ञासूत्रेण समासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति  | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति '''उपसर्जनं पूर्वम्'''‌ (२.२.३०) इति सूत्रेण |</big>
 
 
 
====<big>३) '''लिङ्गवचनयोः निर्णयः'''</big>====
<big>३) '''लिङ्गवचनयोः निर्णयः'''</big>
 
<big>समासस्य लिङ्गस्य, वचनस्य च निर्णयः  |</big>
 
 
 
==== <big>४) '''समासान्तप्रत्ययाः'''</big> ====
<big>४) '''समासान्तप्रत्ययाः'''</big>
 
<big>समासप्रक्रियायां कुत्रचित् समासान्तप्रत्ययः विधीयते इति स्मर्तव्यम् | अष्टाध्यायां समासान्ताधिकारः (५.४.६८) इत्यस्मात् सूत्रात् आरभ्य (५.४.१६०) इति सूत्रपर्यन्तम् अस्ति  | अस्मिन् अधिकारे समासे कुत्रचित् समासान्तप्रत्ययाः विधीयन्ते  |</big>
 
 
 
==== <big>५) '''उत्तरपदाधिकारः'''</big> ====
<big>५) '''उत्तरपदाधिकारः'''</big>
 
<big>कुत्रचित् उत्तरपदे इति अधिकारे स्थितस्य सूत्रस्य प्रभावेण पूर्वपदे किञ्चित् कार्यं भवति | अष्टाध्यायाम् उत्तरपदाधिकारः ( ६.३.१) इत्यस्मात् सूत्रात् आरभ्य ( ६.३.१०८) इति सूत्रपर्यन्तम् अस्ति | अस्मिन् अधिकारे उत्तरपदे परे पूर्वपदस्य किञ्चित् कार्यं भवति  | यथा विश्वमित्रः इति समासे पूर्वपदस्य स्वरस्य दीर्घत्वं भूत्वा विश्वामित्रः इति भवति  | कुत्रचित् किञ्चित् उत्तरपदे परे पूर्वपदस्य विभक्तेः अलुक् अपि भवति |एतादृशकार्याणि उत्तरपदाधिकारे लभ्यन्ते |</big>
 
Line 112:
=== '''<big><u>अव्ययीभावासमासः</u></big>''' ===
<big>अव्ययीभावसमासे पूर्वपदम् अव्ययम्, उत्तरपदं च सुबन्तं पदं भवति | अनव्ययम् अव्ययं सम्पद्यते इति अव्ययीभावः  | अर्थात् यत् अव्ययं नास्ति तत् समासे अव्ययं भवति चेत्  अव्ययीभावसमासः इति उच्यते |अव्ययीभावसमासे प्रायेण पूर्वपदार्थस्य प्राधान्यम् अस्ति  | यथा- उपवृक्षम् इति अव्ययीभावसमासः, तस्य विग्रहवाक्यम् अस्ति वृक्षस्य समीपम् इति | अस्मिन् समासे ‘उप’ इति अव्ययस्य एव प्राधान्यम् अस्ति यतोहि तस्यैव अन्वयः क्रियया सह भवति | अतः एव अव्ययीभावसमासे प्रायेण पूर्वपदस्य प्राधान्यम् इति कथ्यते  | उपवृक्षम् इति समासस्य अव्ययसंज्ञा भवति '''अव्ययीभावश्च''' (१.१.४१) इति सूत्रेण | अव्ययीभावसमासः नपुंसकलिङ्गे भवति  | उपवृक्षम् इति अव्ययं, नपुंसकलिङ्गे अस्ति |</big>
 
 
 
 
<big>अव्ययीभावसमासाधिकारे यानि सूत्राणि सन्ति, तैः सूत्रैः यदा समासः क्रियते तदा '''अव्ययीभावः''' (२.१.५)  इति अधिकारसूत्रेण अव्ययीभावसमासः इति विशिष्टा समाससंज्ञा विधीयते |</big>
 
==== <big>'''अव्ययीभावः''' (२.१.५)</big> ====
<big>अधिकारसूत्रम् इदम्   | अस्मिन् अधिकारे अव्ययीभाव-समासः विधीयते  | नाम अस्मिन् अधिकारे यत् उच्यते तत् सर्वम् अव्ययीभावसमासः भवति | अव्ययीभाव-समास-सम्बद्धसूत्राणि (२.१.६) इत्यस्मात् सूत्रात् आरभ्य (२.१.२१) इति सूत्रपर्यन्तं सन्ति |  अव्ययीभावः प्रथमान्तम्, एकपदमिदं सूत्रम्  | '''सूत्रं स्वयं सम्पूर्णम्'''  |</big>
Line 146 ⟶ 143:
 
<big>व्याकरणे केषाञ्चन शब्दानाम् अव्ययसंज्ञा भवति |तेभ्यः यदा सुप्प्रत्ययाः विधीयन्ते तदा तेषां सुप्प्रत्ययानां लुक् (लोपः) भवति '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण |सुबन्तानां तिङन्तानां च पदसंज्ञा भवति '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इति सूत्रेण  इति ज्ञातम्|अव्ययानाम् अपि पदसंज्ञा भवति सुप्प्रत्ययस्य विधानेन| यद्यपि सुप्प्रत्ययाः लुप्यन्ते तथापि '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन प्रत्ययस्य लोपानान्तरम् अपि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव  | सर्वाणि अव्ययानि सुबान्तानि एव भवन्ति यतोहि तेभ्यः सुप्-प्रत्ययाः विधीयन्ते लुप्यन्ते च |अत एव अव्ययानां रूपाणि त्रिषु लिङ्गेषु, सर्वासु विभक्तिषु, सर्वेषु वचनेषु च समानानि भवन्ति |</big>
 
 
----
 
 
 
<big>अष्टाध्यायां केषां शब्दानाम् अव्ययसंज्ञा भवति इति अग्रे उच्यते —</big>
 
==== <big>'''प्राग्रीश्वरान्निपाताः''' (१.४.५६)</big> ====
<big>इदम् अधिकारसूत्रम् अस्ति | एतस्य सूत्रस्य अधिकारः अस्मात् सूत्रात् आरभ्य '''अधिरीश्वरे''' (१.४.९७) इति सूत्रपर्यन्तम् अस्ति  अत एव सूत्रे रीश्वरात् इति उक्तम् | अस्मिन् अधिकारे ये शब्दाः पठिताः, तेषां सर्वेषां निपातसंज्ञा भवति | '''चादयोऽसत्त्वे''' ( १.४.५७) इति सूत्रे एतस्य उदाहरणं दीयते | प्राक् इत्यव्ययं, रीशवरात् पञ्चम्यन्तं, निपाताः प्रथमान्तम्| '''सूत्रं स्वयं सम्पूर्णम्|'''</big>
 
 
Line 162 ⟶ 156:
<big>'''चादयोऽसत्त्वे''' ( १.४.५७)</big>
 
<big>चादिगणे ये शब्दाः पठिताः तेषाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति| यदि कस्यचित् शब्दस्य लिङ्निर्देशः सङ्ख्यानिर्देशः वा भवितुम् अर्हति, तर्हि सः शब्दः द्रव्यवाची इति उच्यते |यथा पृथिवी, आपः, रामः, ज्ञानम् इत्यादयः| यदि एतादृशः निर्देशः न भवितुम् अर्हति, तर्हि सः शब्दः अद्रव्यवाची इति उच्यते |यथा च, वा, अपि, इत्यादयः |च आदिः येषां ते चादयः, बहुव्रीहिः| सत्वं लिङ्गसङ्ख्यान्वितं द्रव्यम्| न द्रव्यम् अद्रव्यम् तस्मिन्, अद्रव्ये| चादयः प्रथमान्तम्, असत्त्वे सप्तम्यन्तं द्विपदमिदं सूत्रम् |'''प्राग्रीश्वरान्निपाताः''' ( १.४.५६) इत्यस्मात् सूत्रात् निपाताः इत्यस्य अधिकारः| अनुवृत्ति-सहित-सूत्रं— '''चादयः असत्त्वे निपाताः|'''</big>
 
<big>'पशु' इति अपि  शब्दः चादिणे अस्ति |अस्य शब्दस्य अर्थद्वयम् अस्ति - 'सम्यक्', तथा 'प्राणी' इति |'प्राणी' इत्यस्मिन् अर्थे अस्य शब्दस्य लिङ्गं, सङ्ख्या च  भवति | परन्तु 'सम्यक्' इत्यस्मिन् अर्थे अस्य शब्दयस्य लिङ्गं, सङ्ख्या च न भवति | 'सम्यक्' इत्यस्मिन् अर्थे अयं शब्दः अद्रव्यवाचकः, अतः निपातसंज्ञकः; परन्तु प्राणी इत्यस्मिन् अर्थे पशु-शब्दः द्रव्यवाचकः अतः निपातसंज्ञकः नास्ति|</big>
 
<big>चादिगणे बहवः शब्दाः सन्ति तेषु केचन अत्र दीयन्ते — च, एव, हि, आदह, नूनं, युगपत्, बत, उञ, मन्ये, अहो, धिक्, चेत्, तत्र, नञ्, पशु, सह, सत्यम्, इति, हाहा, तत्, पुरा, खलु इत्यादयः |</big>
 
 
 
<big>'''प्रादयः''' ( १.४.५८)</big>
<big>'पशु' इति अपि  शब्दः चादिणे अस्ति |अस्य शब्दस्य अर्थद्वयम् अस्ति - 'सम्यक्', तथा 'प्राणी' इति |'प्राणी' इत्यस्मिन् अर्थे अस्य शब्दस्य लिङ्गं, सङ्ख्या च  भवति |परन्तु 'सम्यक्' इत्यस्मिन् अर्थे अस्य शब्दयस्य लिङ्गं, सङ्ख्या च न भवति | 'सम्यक्' इत्यस्मिन् अर्थे अयं शब्दः अद्रव्यवाचकः, अतः निपातसंज्ञकः; परन्तु प्राणी इत्यस्मिन् अर्थे पशु-शब्दः द्रव्यवाचकः अतः निपातसंज्ञकः नास्ति|</big>
 
<big>प्रादिगणे ये शब्दाः पठिताः तेषाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति| प्रादिगणे एते द्वाविंशतिः शब्दाः सन्ति - प्र-परा-अप-सम्-अनु-अव-निस्-निर्-दुस्-दुर्-वि-आङ्-नि-अधि-अपि-अति-सु-उत्-अभि-प्रति-परि-उप | एते एव प्रादयः इत्युच्यन्ते| प्रः आदिर्येषां ते प्रादयः, बहुव्रीहिः| '''चादयोऽसत्त्वे''' (१.४.५३) इत्यस्मात् सूत्रात् असत्त्वे इत्यस्य अनुवृत्तिः|असत्त्वे नाम अद्रव्यार्थाः इति| सत्त्वम् नाम द्रव्यम् | असत्त्वे नाम अद्रव्ये| '''प्राग्रीश्वरान्निपाताः''' ( १.४.५६) इत्यस्मात् सूत्रात् निपाताः इत्यस्य अधिकारः| अनुवृत्ति-सहित-सूत्रं— '''प्रादयः असत्त्वे निपाताः|'''</big>
<big>चादिगणे बहवः शब्दाः सन्ति तेषु केचन अत्र दीयन्ते — च, एव, हि, आदह, नूनं, युगपत्, बत, उञ, मन्ये, अहो, धिक्, चेत्, तत्र, नञ्, पशु, सह, सत्यम्, इति, हाहा, तत्, पुरा, खलु इत्यादयः |</big>
 
 
==== <big>'''प्रादयः''' ( १.४.५८)</big> ====
<big>प्रादिगणे ये शब्दाः पठिताः तेषाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति| प्रादिगणे एते द्वाविंशतिः शब्दाः सन्ति - प्र-परा-अप-सम्-अनु-अव-निस्-निर्-दुस्-दुर्-वि-आङ्-नि-अधि-अपि-अति-सु-उत्-अभि-प्रति-परि-उप |एते एव प्रादयः इत्युच्यन्ते| प्रः आदिर्येषां ते प्रादयः, बहुव्रीहिः|'''चादयोऽसत्त्वे''' (१.४.५३) इत्यस्मात् सूत्रात् असत्त्वे इत्यस्य अनुवृत्तिः|असत्त्वे नाम अद्रव्यार्थाः इति|सत्त्वम् नाम द्रव्यम् |असत्त्वे नाम अद्रव्ये|'''प्राग्रीश्वरान्निपाताः''' ( १.४.५६) इत्यस्मात् सूत्रात् निपाताः इत्यस्य अधिकारः|अनुवृत्ति-सहित-सूत्रं— '''प्रादयः असत्त्वे निपाताः|'''</big>
 
 
 
<big>प्रादीनाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति|प्रादीनां निपातसंज्ञा अस्ति इति कारणेन तेषां '''स्वरादिनिपातमव्ययम्''' ( १.१.३७) इति सूत्रेण अव्ययसंज्ञा अपि भवति|यस्मिन् शब्दे लिङ्गस्य, सङ्ख्यायाः वा सम्बन्धः अस्ति, नो चेत् यस्मिन् शब्दे लिङ्गम् अथवा सङ्ख्या अस्ति सः शब्दः द्रव्यवाची इति वदामः|नाम यदि कस्यचित् शब्दस्य लिङ्निर्देशः सङ्ख्यानिर्देशः वा भवितुम् अर्हति, सः शब्दः द्रव्यवाची अस्ति इति उच्यते |यदि एतादृशः निर्देशः न भवितुम् अर्हति, तर्हि सः शब्दः अद्रव्यवाची इति उच्यते |</big>
 
<big>प्रादीनाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति| प्रादीनां निपातसंज्ञा अस्ति इति कारणेन तेषां '''स्वरादिनिपातमव्ययम्''' ( १.१.३७) इति सूत्रेण अव्ययसंज्ञा अपि भवति| यस्मिन् शब्दे लिङ्गस्य, सङ्ख्यायाः वा सम्बन्धः अस्ति, नो चेत् यस्मिन् शब्दे लिङ्गम् अथवा सङ्ख्या अस्ति सः शब्दः द्रव्यवाची इति वदामः| नाम यदि कस्यचित् शब्दस्य लिङ्निर्देशः सङ्ख्यानिर्देशः वा भवितुम् अर्हति, सः शब्दः द्रव्यवाची अस्ति इति उच्यते | यदि एतादृशः निर्देशः न भवितुम् अर्हति, तर्हि सः शब्दः अद्रव्यवाची इति उच्यते |</big>
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
Line 185 ⟶ 176:
![[#top | ''उपरि गम्यताम्'']]
|}
 
 
 
----
 
'''<u><big>अव्ययसंज्ञा</big></u>'''
 
=== '''<u><big>अव्ययसंज्ञा</big></u>''' ===
 
==== <big>'''स्वरादिनिपातमव्ययम्''' ( १.१.३७)</big> ====
<big>स्वरादिगणे ये शब्दाः पठिताः अपि च ये निपातसंज्ञकाः शब्दाः सन्ति ते सर्वेऽपि अव्ययसंज्ञकाः भवन्ति |'''प्राग्रीश्वरान्निपाताः'''( १.४.४६) इत्यस्मिन् अधिकारे सर्वे निपातसंज्ञकाः शब्दाः उच्यन्ते| स्वर् आदौ येषां ते स्वरादयः|स्वरादयश्च निपाताश्च तेषां समाहारद्वन्द्वः स्वरादिनिपातम्| स्वरादिनिपातं प्रथमान्तम्, अव्ययं प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहित-सूत्रं— '''स्वरादिनिपातम् अव्ययम्|'''</big>
 
<big>स्वरादिगणे बहवः शब्दाः सन्ति तेषु केचन शब्दाः अत्र उक्ताः = स्वर्,अन्‍तर्, प्रातर्, पुनर्,  उच्‍चैस्, नीचैस्, शनैस्, ऋते, युगपत्,  पृथक्, श्वस्, दिवा, रात्रौ, सायम्, चिरम्, ईषत्, तूष्‍णीम्, बहिस्, अवस्, समया, निकषा, स्‍वयम्, वृथा, नञ्, हेतौ, इद्धा, अद्धा,  तिरस्, अन्‍तरा, अन्‍तरेण, सहसा, विना, नाना, स्‍वस्‍ति, स्‍वधा, अलम्, वषट्, श्रौषट्, वौषट्, अन्‍यत्, अस्‍ति, प्रायस्, मुहुस्, साकम्, सार्धम्, नमस्,  धिक्, अथ, मा, माङ् इत्यादयः |अयं गणः आकृतिगणः इत्युच्यते यतोहि अस्मिन् गणे अन्ये शब्दाः अपि भवितुम् अर्हन्ति| शिष्टप्रयोगं दृष्ट्वा अन्येषां शब्दानां ज्ञानं भवति|</big>
 
<big>निपातानां कानिचन उदाहरणानि  — च, वा, ह, अह, एव, नूनं, युगपत्, भूयस्, चेत्, हन्त, नञ्, यावत्, तावत्, खलु, किल्, सुष्ठु इत्यादयः|</big>
 
<big>स्वरादिगणे बहवः शब्दाः सन्ति तेषु केचन शब्दाः अत्र उक्ताः = स्वर्,अन्‍तर्, प्रातर्, पुनर्,  उच्‍चैस्, नीचैस्, शनैस्, ऋते, युगपत्,  पृथक्, श्वस्, दिवा, रात्रौ, सायम्, चिरम्, ईषत्, तूष्‍णीम्, बहिस्, अवस्, समया, निकषा, स्‍वयम्, वृथा, नञ्, हेतौ, इद्धा, अद्धा,  तिरस्, अन्‍तरा, अन्‍तरेण, सहसा, विना, नाना, स्‍वस्‍ति, स्‍वधा, अलम्, वषट्, श्रौषट्, वौषट्, अन्‍यत्, अस्‍ति, प्रायस्, मुहुस्, साकम्, सार्धम्, नमस्,  धिक्, अथ, मा, माङ् इत्यादयः |अयं गणः आकृतिगणः इत्युच्यते यतोहि अस्मिन् गणे अन्ये शब्दाः अपि भवितुम् अर्हन्ति|शिष्टप्रयोगं दृष्ट्वा अन्येषां शब्दानां ज्ञानं भवति|</big>
 
<big>निपातानां कानिचन उदाहरणानि  — च, वा, ह, अह, एव, नूनं, युगपत्, भूयस्, चेत्, हन्त, नञ्, यावत्, तावत्, खलु, किल्, सुष्ठु इत्यादयः|</big>
 
 
<big>प्रादिगणे ये शब्दाः पठिताः, तेषां प्रयोगः धातुना सह भवति चेत् तेषाम् उपसर्गसंज्ञा अपि भवति '''उपसर्गाः क्रियायोगे''' (१.४.५९) इति सूत्रेण|  उपसर्गाणाम् अपि अव्ययसंज्ञा भवति|प्रादीनाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति इति कारणेन तेषाम् अव्ययसंज्ञा अपि भवति '''स्वरादिनिपातमव्ययम्''' ( १.१.३७) इति सूत्रेण|</big>
 
 
----
 
 
=== '''<big><u>उपसर्गसंज्ञा</u></big>''' ===
<big>'''उपसर्गाः क्रियायोगे''' (१.४.५९)</big>
 
<big>प्रादयः क्रियायोगे उपसर्गसज्ञाः स्युः| एते प्रादयः सन्ति  — प्र-परा-अप-सम्-अनु-अव-निस्-निर्-दुस्-दुर्-वि-आङ्-नि-अधि-अपि-अति-सु-उत्-अभि-प्रति- परि-उप  | यदा प्रादीनां प्रयोगः धातुना सह क्रियते तदा तेषाम् उपसर्गसंज्ञा भवति | क्रियायाः योगः, क्रियायोगः तस्मिन्, क्रियायोगे, षष्ठीतत्पुरुषः| उपसर्गाः प्रथमान्तं, क्रियायोगे सप्तम्यन्तम्| '''प्रादयः''' ( १.४.५८) इत्यस्मात् सूत्रात् प्रादयः इत्यस्य अनुवृत्तिः| '''प्राग्रीश्वरान्निपाताः''' ( १.४.५६)  इत्यस्य अधिकारः| अनुवृत्ति-सहित-सूत्रं— '''प्रादयः क्रियायोगे उपसर्गाः |'''</big>
 
 
 
----
 
 
=== '''<big><u>गतिसंज्ञा</u></big>''' ===
 
==== <big>'''गतिश्च''' ( १.४.६०)</big> ====
<big>प्रादयः क्रियायोगे गतिसज्ञाः स्युः| प्र-परा-अप-सम्-अनु-अव-निस्-निर्-दुस्-दुर्-वि-आङ्-नि-अधि-अपि-अति-सु-उत्-अभि-प्रति- परि-उप एते प्रादयः सन्ति|यदा प्रादीनां प्रयोगः धातुना सह क्रियते तदा तेषाम् गतिसंज्ञा भवति | गतिः प्रथमान्तं, च अव्ययम्| '''प्राग्रीश्वरान्निपाताः''' ( १.४.५६)  इत्यस्य अधिकारः| '''उपसर्गाः क्रियायोगे''' (१.४.५९) इत्यस्मात् क्रियायोगे इत्यस्य अनुवृत्तिः| अनुवृत्ति-सहित-सूत्रं— '''प्रादयः क्रियायोगे गतयः|'''</big>
 
 
Line 229 ⟶ 209:
 
==== '''<big><u>उपसर्गसंज्ञा, गतिसंज्ञा निपातसंज्ञा - त्रयाणामपि सहवासः</u></big>''' ====
<big>अर्थात् प्रादिगणे ये शब्दाः सन्ति, तेषाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति '''प्रादयः''' ( १.४.५८) इति सूत्रेण| '''उपसर्गाः क्रियायोगे''' (१.४.५९)''',  गतिश्च''' ( १.४.६०) इति द्वाभ्यां सूत्राभ्यां तेषां शब्दानां क्रियायोगे उपसर्गसंज्ञा, गतिसंज्ञा च भवति |आहत्य एतेषां प्रादीनां तिस्रः संज्ञाः भवितुम् अर्हन्ति| एताः सर्वाः संज्ञाः '''आकडारादेका संज्ञा''' (१.४.१) इति क्षेत्रे  सन्ति तर्हि कथं एतासां सर्वासां संज्ञानाम् एकत्र सहवासः सम्भवति ?</big>
 
 
<big>'''प्रादयः''' ( १.४.५८), '''उपसर्गाः क्रियायोगे''' (१.४.५९), '''गतिश्च''' (१.४.६०) इति  एतानि त्रीणि सूत्राणि  '''आकडारादेका संज्ञा''' (१.४.१) इति सूत्रस्य परिधौ एव सन्ति इत्यतः एकस्य रूपस्य एका एव संज्ञा अर्हा  इति चिन्तयामः, परन्तु '''गतिश्च''' ( १.४.६०) इति सूत्रे चकार-ग्रहणेन तिसृणां संज्ञानां समावेशः सम्भवति| '''गतिश्च''' ( १.४.६०)  इति सूत्रे चकारः स्वीकृतः अस्ति, स एव ज्ञापयति यत् अनेकसंज्ञानां समावेशः सम्भवति इति| अत एव एकस्य रूपस्य उपसर्गसंज्ञा, गतिसंज्ञा, निपातसंज्ञा च भवितुम् अर्हति |</big>
 
==== <big>'''आकडारादेका संज्ञा''' (१.४.१)</big> ====
<big>अस्मात सूत्रात्‌ आरभ्य कडारा कर्मधारये (२.२.३८) पर्यन्तम्‌ एकस्य रूपस्य एका एव संज्ञा अर्हा | तत्र सर्वत्र परस्य संज्ञासूत्रस्य बलं, '''विप्रतिषेधे परं कार्यम्'''‌ (१.४.२) इत्यनेन अथवा अपवादभूतत्वात्‌ |</big>
 
 
<big>'''अव्ययीभावश्च''' (२.४.१८) = अव्ययीभावसमासः नपुंसकलिङ्गे भवति|अव्ययीभावः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् |'''स नपुंसकम्''' (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति|अनुवृत्ति-सहित-सूत्रम् — '''अव्ययीभावः च नपुंसकम्|'''</big>
 
<big>'''अव्ययीभावश्च''' (२.४.१८) = अव्ययीभावसमासः नपुंसकलिङ्गे भवति| अव्ययीभावः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''स नपुंसकम्''' (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति| अनुवृत्ति-सहित-सूत्रम् — '''अव्ययीभावः च नपुंसकम्|'''</big>
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
Line 245 ⟶ 224:
![[#top | ''उपरि गम्यताम्'']]
|}
 
 
----
 
 
===='''<big><u>अव्ययीभावसमासे अव्ययस्य प्रयोजनम्</u></big>'''====
<big>अव्ययीभावसमासः अव्ययं भवति इति उक्तम्|तर्हि अव्ययसंज्ञायाः प्रयोजनं किम् ?</big>
 
<big><br />
अव्ययसंज्ञायाः प्रयोजनं यत् '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण सुप्प्रत्ययानां लुक् भवति |'''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण अव्ययात् परस्य सुप् प्रत्ययाः लुप्यन्ते|अस्य सूत्रस्य कार्यानन्तरं  सर्वासु विभक्तिषु अव्ययीभावसमासस्य रूपाणि समानानि भवेयुः इति चिन्तयामः |तादृशचिन्तनं समीचीनमेव, परन्तु ततः परम् अन्यसूत्राणि प्रसक्तानि चेत्  अव्ययीभावसमासस्य सर्वाणि रूपाणि समानानि न भवन्ति|कासु विभक्तिषु रूपभेदाः भवितुम् अर्हन्ति इति अग्रे उच्यते |तदर्थं सूत्रद्वयं पठिष्यामः -  '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' ( २.४.८३) , '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति |</big>
 
<big><br />अव्ययसंज्ञायाः प्रयोजनं यत् '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण सुप्प्रत्ययानां लुक् भवति | '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण अव्ययात् परस्य सुप् प्रत्ययाः लुप्यन्ते| अस्य सूत्रस्य कार्यानन्तरं  सर्वासु विभक्तिषु अव्ययीभावसमासस्य रूपाणि समानानि भवेयुः इति चिन्तयामः | तादृशचिन्तनं समीचीनमेव, परन्तु ततः परम् अन्यसूत्राणि प्रसक्तानि चेत्  अव्ययीभावसमासस्य सर्वाणि रूपाणि समानानि न भवन्ति| कासु विभक्तिषु रूपभेदाः भवितुम् अर्हन्ति इति अग्रे उच्यते | तदर्थं सूत्रद्वयं पठिष्यामः -  '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) , '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति |</big>
 
----
 
 
==== <big>'''अव्ययीभावश्च (२.४.१८) इति  सूत्रस्य प्रयोजनम्'''</big> ====
<big>अव्ययीभावसमासे प्रायेण प्रादीनाम् एव प्रयोगः दृश्यते| अव्ययीभावसमासः अव्ययं भवति, नपुंसकलिङ्गे च भवति इति उक्तम्| यत् पदम् अव्ययम् अस्ति तस्य लिङ्गवैशिष्ट्यं नास्ति यतोहि सु-प्रत्ययाः लुप्यन्ते| त्रिषु लिङ्गेषु, सर्वासु विभक्तिषु, सर्वेषु वचनेषु अव्ययानि न परिवर्तन्ते| लिङ्गवैशिष्ट्यं नास्ति चेत् किमर्थम् '''अव्ययीभावश्च''' (२.४.१८) इति सूत्रेण नपुंसकलिङ्गविधानं क्रियते ? '''अव्ययीभावश्च''' (२.४.१८) इति  सूत्रस्य प्रयोजनं किम्?</big>
 
 
===='''<big><u>अव्ययीभावस्य नपुंसकलिङ्गविधानस्य प्रयोजनम्</u></big>'''====
<big>नपुंसकलिङ्गे प्रयुक्तानां कार्याणां प्राप्तिः एव '''अव्ययीभावश्च''' (२.४.१८) इति सूत्रस्य प्रयोजनम् |प्रक्रियाकाले अव्ययीभावसमासः नपुंसकलिङ्गे अस्ति चेत् अजन्तप्रातिपदिकस्य अन्तिमस्वरस्य ह्रस्वत्वं भवति '''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१,२.४७) इति सूत्रेण | एतदेव मुख्यप्रयोजनं नपुंसकलिङ्गस्य| ह्रस्वानन्तरं प्रातिपदिकम् अदन्तं चेत् सुप्-प्रत्ययस्य लुक् न भवति '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण परन्तु अमादेशः भवति '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' ( २.४.८३) इत्यनेन| एतत् सर्वम् अग्रे पठिष्यामः | सारांशः यत् अव्ययीभावसमासः नपुंसकलिङ्गे अस्ति यतोहि लिङ्गम् अवलम्ब्य कानिचन कार्याणि प्रवर्तन्ते|</big>
 
 
----
Line 272 ⟶ 242:
 
 
==== '''<big><u>अव्ययीभावश्च इति सूत्रं द्विवारम् अस्ति अष्टाध्यायाम्</u></big>''' ====
 
<big>वस्तुतस्तु अव्ययीभावश्च इति सूत्रं स्थलद्वये वर्तते|'''अव्ययीभावश्च''' (१.१.४१) इति एकं सूत्रं तु अव्ययप्रकरणे प्रथमाध्याये अस्ति यत्र अव्ययसंज्ञा क्रियते|'''अव्ययीभावश्च''' (२.४.१८) इति अपरसूत्रं द्वितीयाध्याये अस्ति यत्र अव्ययीभावसमासस्य नपुंसकलिङ्गविधानं क्रियते |</big>
 
 
----
 
 
==== '''<big><u>अव्ययीभावसमासस्य प्रसङ्गे समासान्तप्रत्ययाः</u></big>''' ====
<big>अव्ययीभावसमासस्य विषये केचन समासान्तप्रत्ययाः विधीयन्ते |समासान्ताधिकारे (५.४.६८ – ५.४.१६०) समासान्तप्रत्ययाः विधीयन्ते |समासान्तप्रत्ययाः तद्धिताधिकारे सन्ति| एते प्रत्ययाः तद्धितप्रत्ययाः एव परन्तु समासस्य प्रक्रियायां विधीयन्ते| तद्धितसंज्ञकाः समासान्तप्रत्ययाः समासस्य अन्ते आयान्ति, अपि च समासस्य अवयवाः भवन्ति| अत एव एते समासान्तप्रत्ययाः इति नाम्ना ज्ञायन्ते |समासान्ताः समासस्य अवयवाः सन्ति इत्यतः एव समासान्तानां योजनानन्तरं सम्पूर्णस्य समस्तपदस्य प्रातिपदिकसंज्ञा भवति| यद्यपि एतानि कार्याणि समस्तपदस्य निर्माणे भवन्ति तथापि प्रक्रिया तु तद्धितप्रक्रियाम् आश्रित्य एव भवति | नाम तद्धितप्रकरणे यानि सूत्राणि प्रसक्तानि भवन्ति तद्धितप्रक्रियायां, तानि समासप्रक्रियायाम् अपि प्रसक्तानि भवन्ति यतोहि समासान्ताः तद्धिताधिकारे सन्ति | अत एव पाणिनिना एते समासान्तप्रत्ययाः तद्धिताधिकारे स्थापिताः |</big>
 
 
===== <big>'''तद्धिताः''' (४.१.७६)</big> =====
<big>अधिकारसूत्रम् इदम्|अस्य सूत्रस्य अधिकारः अस्ति ४.१.७६ इति सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तं नाम ५.४.१७० इति पर्यन्तम् | अस्मिन् अधिकारे ये प्रत्ययाः विधीयन्ते ते सर्वे तद्धितसंज्ञकाः भवन्ति |'''सूत्रं स्वयं सम्पूर्णम्''' |</big>
===== <big>'''समासान्ताः''' (५.४.६८)</big> =====
<big>एतत् सूत्रम् अधिकारसूत्रम् अस्ति | अस्मात् सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तं ये तद्धितप्रत्ययाः पाठिताः ते समासप्रक्रियायां विधीयन्ते | अर्थात् समासान्तस्य अधिकारः ५.४.६८ इत्यस्मात् सूत्रात् आरभ्य ५.४.१६० इति सूत्रपर्यन्तम् | एते समासान्तप्रत्ययाः प्रातिपदिकात् विधीयन्ते यतोहि '''ङ्याप्प्रातिपदिकात्''' ( ४.१.१) इति सूत्रस्य अधिकारः अस्ति चतुर्थाध्ययात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तम् |</big>
 
<big>केचन समासान्तप्रत्ययाः सर्वेषु समासेषु विधीयन्ते |केचन केवलं विशिष्टसमासानां कृते एव |यथा - अव्ययीभावसमासस्य कृते केचन समासान्तप्रत्ययाः विधीयन्ते, केचन केवलं तत्पुरुषसमासस्य कृते विधीयन्ते, केचन केवलं बहुव्रीहिसमासस्य कृते विधीयन्ते|सर्वेषां समासान्तप्रत्ययानाम् आवलिं प्राप्तुं [https://samskritavyakaranam.miraheze.org/wiki/14---samAsaH/07---parishiShTam परिशिष्टम् इति] करपत्रं दृश्यताम् |</big>
 
===== <big>'''समासान्ताः''' (५.४.६८)</big> =====
<big>एतत् सूत्रम् अधिकारसूत्रम् अस्ति |अस्मात् सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तं ये तद्धितप्रत्ययाः पाठिताः ते समासप्रक्रियायां विधीयन्ते |अर्थात् समासान्तस्य अधिकारः ५.४.६८ इत्यस्मात् सूत्रात् आरभ्य ५.४.१६० इति सूत्रपर्यन्तम् |एते समासान्तप्रत्ययाः प्रातिपदिकात् विधीयन्ते यतोहि '''ङ्याप्प्रातिपदिकात्''' ( ४.१.१) इति सूत्रस्य अधिकारः अस्ति चतुर्थाध्ययात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तम् |</big>
 
<big>केचन समासान्तप्रत्ययाः सर्वेषु समासेषु विधीयन्ते |केचन केवलं विशिष्टसमासानां कृते एव |यथा - अव्ययीभावसमासस्य कृते केचन समासान्तप्रत्ययाः विधीयन्ते, केचन केवलं तत्पुरुषसमासस्य कृते विधीयन्ते, केचन केवलं बहुव्रीहिसमासस्य कृते विधीयन्ते|सर्वेषां समासान्तप्रत्ययानाम् आवलिं प्राप्तुं परिशिष्टम् इति करपत्रं दृश्यताम् |</big>
 
 
Line 296 ⟶ 260:
 
 
<big>यथा  – अध्यात्मन् इति अव्ययीभावसमासे '''टच्''' इति समासान्तप्रत्ययः विधीयते '''अनश्च''' (५.४.१०८) इति सूत्रेण यतोहि आत्मन् इति अन्नन्तः पुंलिङ्गशब्दः अस्ति '''→ अध्यात्मन् + टच्''' |अयं टच् इति प्रत्ययः समासस्य अन्तावयवः भवति इति कारणेन सम्पूर्णस्य '''<nowiki/>'''' अध्यात्मन्+टच् ' इत्यस्य समाससंज्ञा, प्रातिपदिकसंज्ञा च भवति |ततः अग्रे प्रक्रियायाम् अध्यात्म इति भवति, तस्मात् सु इति प्रत्ययस्य विधानानन्तरम् अध्यात्मम् इति रूपं सिध्यति|प्रक्रिया अग्रे उल्लेखिता अस्ति |</big>
 
<big>यथा  – अध्यात्मन् इति अव्ययीभावसमासे '''टच्''' इति समासान्तप्रत्ययः विधीयते '''अनश्च''' (५.४.१०८) इति सूत्रेण यतोहि आत्मन् इति अन्नन्तः पुंलिङ्गशब्दः अस्ति '''→ अध्यात्मन् + टच्''' | अयं टच् इति प्रत्ययः समासस्य अन्तावयवः भवति इति कारणेन सम्पूर्णस्य '''<nowiki/>'''' अध्यात्मन्+टच् ' इत्यस्य समाससंज्ञा, प्रातिपदिकसंज्ञा च भवति | ततः अग्रे प्रक्रियायाम् अध्यात्म इति भवति, तस्मात् सु इति प्रत्ययस्य विधानानन्तरम् अध्यात्मम् इति रूपं सिध्यति| प्रक्रिया अग्रे उल्लेखिता अस्ति |</big>
 
<big>यदि  टच् इति प्रत्ययः समासासस्य अवयवः न भवति तर्हि कः क्लेशः भवति ?</big>
 
 
<big>टच् इति प्रत्ययः समासस्य अवयवः न भवति चेत् अस्माकं प्रातिपदिकं भवति अध्यात्मन् इति |तस्य अनन्तरं टच् इति प्रत्ययः पृथक् तिष्ठति|तर्हि अत्र कः क्लेशः इति चेत् – अधुना सुप्प्रत्ययानां विधानं न शक्यते यतोहि प्रातिपदिकात् एव सुप्प्रत्ययाः विधीयन्ते| परन्तु अत्र अध्यात्मन् + टच् इत्यस्ति |अध्यात्मन् + टच् इत्यस्मात् सुप्प्रत्ययस्य विधानं न शक्यते यतोहि अध्यात्मन् + टच्  इत्यस्य प्रातिपदिकसंज्ञा नास्ति, केवलं अध्यात्मन् इत्यस्यैव प्रातिपदिकसंज्ञा अस्ति |प्रातिपादिकात् एव सुप्प्रत्ययाः विधीयन्ते परन्तु अत्र तु प्रातिपदिकस्य अनन्तरं टच् इति प्रत्ययः अस्ति, अनेन कारणेन अध्यात्मन् इति प्रातिपदिकात् सुप्प्रत्ययस्य विधानं न सम्भवति |एतादृशस्य क्लेशस्य निवारणार्थम् एव समासान्ताः समासस्य अवयवाः भवन्ति |यदा समासान्तः समासस्य अवयवः भवति तदा 'अध्यात्मन् + टच् '  इत्यस्य सम्पूर्णस्य समाससंज्ञा, प्रतिपदिकसंज्ञा च भवति|अतः अधुना ' अध्यात्मन् + टच् ' इति प्रातिपदिकात् सुप्प्रत्ययस्य विधानं सम्भवति |</big>
<big>यदि  टच् इति प्रत्ययः समासासस्य अवयवः न भवति तर्हि कः क्लेशः भवति?</big>
 
<big>टच् इति प्रत्ययः समासस्य अवयवः न भवति चेत् अस्माकं प्रातिपदिकं भवति अध्यात्मन् इति | तस्य अनन्तरं टच् इति प्रत्ययः पृथक् तिष्ठति| तर्हि अत्र कः क्लेशः इति चेत् – अधुना सुप्प्रत्ययानां विधानं न शक्यते यतोहि प्रातिपदिकात् एव सुप्प्रत्ययाः विधीयन्ते| परन्तु अत्र अध्यात्मन् + टच् इत्यस्ति | अध्यात्मन् + टच् इत्यस्मात् सुप्प्रत्ययस्य विधानं न शक्यते यतोहि अध्यात्मन् + टच्  इत्यस्य प्रातिपदिकसंज्ञा नास्ति, केवलं अध्यात्मन् इत्यस्यैव प्रातिपदिकसंज्ञा अस्ति | प्रातिपादिकात् एव सुप्प्रत्ययाः विधीयन्ते परन्तु अत्र तु प्रातिपदिकस्य अनन्तरं टच् इति प्रत्ययः अस्ति, अनेन कारणेन अध्यात्मन् इति प्रातिपदिकात् सुप्प्रत्ययस्य विधानं न सम्भवति | एतादृशस्य क्लेशस्य निवारणार्थम् एव समासान्ताः समासस्य अवयवाः भवन्ति | यदा समासान्तः समासस्य अवयवः भवति तदा 'अध्यात्मन् + टच् ' इत्यस्य सम्पूर्णस्य समाससंज्ञा, प्रतिपदिकसंज्ञा च भवति| अतः अधुना 'अध्यात्मन् + टच् ' इति प्रातिपदिकात् सुप्प्रत्ययस्य विधानं सम्भवति |</big>
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
Line 307 ⟶ 273:
![[#top | ''उपरि गम्यताम्'']]
|}
 
 
----
 
 
===== '''<big>ङ्याप्प्रातिपदिकात्‌ (४.१.१)</big>''' =====
<big>'''[अधिकारः ४.१.१ – ५.४.१६०] |''' चतुर्थे पञ्चमे चाध्याययोः यावन्तः प्रत्यायाः विहिताः, ते सर्वे प्रातिपदिकेभ्यः, ङ्यन्तेभ्यः, आबन्तेभ्यः वा आयान्ति | ङ्यन्तरूपाणि आबन्तरूपाणि च स्त्रीलिङ्गरूपाणि इति | तर्हि आहत्य चतुर्थे पञ्चमे चाध्याययोः सर्वाणि सुबन्तविधायकसूत्राणि सन्ति; तेषु सर्वेषु यत्‌ किमपि विहितं, '''प्रत्ययः''' इत्यनेन यः विहितः, तस्य नाम प्रत्ययः | अपि च यः विहितः, सः सर्वत्र प्रातिपदिकात्‌, ङ्यन्तात्‌, आबन्तात्‌ वा विहितः भवति |</big>
 
 
----
 
 
===== '''<big><u>अव्ययीभावसमासे समासान्तप्रत्ययाः</u></big>''' =====
<big>अव्ययीभावसमासे यत्र समासान्तप्रत्ययः विधीयते तत्र टच् इति प्रत्ययः एव विधीयते| कुत्रचित् नित्यरूपेण विधीयते, कुत्रचित् विकल्पेन विधीयते| अव्ययीभावसमासे  समासान्ताधिकारात् एतानि सूत्राणि प्रसक्तानि भवन्ति | टच् इति प्रत्ययस्य विधानेन प्रक्रियायाम् अव्ययीभावसमासः अदन्तः भवति येन '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' ( २.४.८३) इत्यनेन सुप्प्रत्ययस्य स्थाने अमादेशः सिद्ध्यति |</big>
 
 
{| class="wikitable mw-collapsible"
|'''<big>सूत्रक्रमाङ्कः</big>'''
|'''<big>सूत्रं</big>'''
Line 359 ⟶ 320:
|<big>अव्ययीभावसमासः</big>
|}
 
 
 
Line 378 ⟶ 340:
 
----
 
 
===== '''<big><u>विभाषा</u></big>''' =====
<big>'''विभाषा''' (२.१.११) = एतद् अधिकारसूत्रम् अस्ति| एतस्य सूत्रस्य अधिकारः '''अपपरिबहिरञ्चवः''' '''पञ्चम्या''' (२.१.१२) इति सूत्रात् आरभ्य '''कडाराः कर्मधारये''' (२.२.३८) इति सूत्रपर्यन्तम् अस्ति | एतस्मात् सूत्रात् समासविधिः विकल्पेन भवति|एषा विभाषा '''‘महाविभाषा'''’ इति उच्यते यतोहि एतेन सूत्रेण यः विकल्पाधिकारः कृतः सः बृहान्नस्ति | एतस्य प्रसक्तिः सम्पूर्णसमासप्रकरणे अस्ति|विभाषा प्रथमान्तं, एकपदमिदं सूत्रम्|'''सूत्रं स्वयं सम्पूर्णम्|'''</big>
 
 
<big>'''विभाषा''' (२.१.११) इति सूत्रस्य अधिकारे यानि सूत्राणि पठितानि तानि सर्वाणि विकल्पेन विधीयन्ते इति अस्माभिः पूर्वमेव ज्ञातम् |समासः विकल्पेन विधीयते इति सामान्यः नियमः परन्तु कुत्रचित् '''विभाषा''' (२.१.११) इत्यस्य अधिकारः चेत् अपि  समासः नित्यरूपेण विधीयते |यत्र समासः नित्यः तत्र '''विभाषा''' (२.१.११) इति सूत्रस्य प्रसक्तिः न भवति | '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् प्राक् यानि समासविधायकसूत्राणि सन्ति तत्र सर्वत्र समासः नित्यः भवति |अव्ययीभावाधिकारे (२.१.५) इत्यस्मात् सूत्रात् आरभ्य (२.१.१०) इति सूत्रपर्यन्तं षट् सूत्राणि सन्ति यत्र '''विभाषा''' (२.१.११) इत्यस्य अधिकारः नास्ति, अत एव तत्र सर्वत्र समासः विकल्पेन न भवति अपि तु नित्यरूपेण भवति|</big>
 
 
 
<big>'''विभाषा''' (२.१.११) इति सूत्रस्य अधिकारे यानि सूत्राणि पठितानि तानि सर्वाणि विकल्पेन विधीयन्ते इति अस्माभिः पूर्वमेव ज्ञातम् | समासः विकल्पेन विधीयते इति सामान्यः नियमः परन्तु कुत्रचित् '''विभाषा''' (२.१.११) इत्यस्य अधिकारः चेत् अपि  समासः नित्यरूपेण विधीयते |यत्र समासः नित्यः तत्र '''विभाषा''' (२.१.११) इति सूत्रस्य प्रसक्तिः न भवति | '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् प्राक् यानि समासविधायकसूत्राणि सन्ति तत्र सर्वत्र समासः नित्यः भवति |अव्ययीभावाधिकारे (२.१.५) इत्यस्मात् सूत्रात् आरभ्य (२.१.१०) इति सूत्रपर्यन्तं षट् सूत्राणि सन्ति यत्र '''विभाषा''' (२.१.११) इत्यस्य अधिकारः नास्ति, अत एव तत्र सर्वत्र समासः विकल्पेन न भवति अपि तु नित्यरूपेण भवति|</big>
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
|+
deletepagepermission, page_and_link_managers, teachers
2,636

edits