14---samAsaH/02A---avyayiibhAvasamAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 75:
<big>आदौ समासः विधीयते केनचित् समासविधायकसूत्रेण |  तत्पश्चात् प्रक्रियायां समासस्य निर्माणे पञ्चोपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति  | इमानि पञ्च उपाङ्गनि सन्ति—</big>
==== <big>१) '''प्रातिपदिकसंज्ञा'''</big> ====
<big>समासस्य अलौकिकविग्रहात् समासप्रक्रिया आरभ्यते|समासस्य प्रातिपदिकसंज्ञा विधीयते '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण | प्रातिपदिकसंज्ञानन्तरं पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण | अष्टाध्यायां (६.३.१) इत्यस्मात् सूत्रात् आरभ्य (६.३.२४) इति सूत्रपर्यन्तं पूर्वपदस्य विभक्तेः अलुक् भवति   | उत्तरपदे इति अधिकारे सुब्-अलुक् इति एकं कार्यम् अस्ति | पञ्चमे सोपाने सुबलुक् इत्यस्य विवरणम् अग्रे दीयते |</big>
==== <big>२) '''पूर्वनिपातः''' = '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३)</big> ====
<big>इति संज्ञासूत्रेण समासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति  | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति '''उपसर्जनं पूर्वम्'''‌ (२.२.३०) इति सूत्रेण |</big>
Line 95:
<big>५) '''उत्तरपदाधिकारः'''</big>
 
<big>कुत्रचित् उत्तरपदे इति अधिकारे स्थितस्य सूत्रस्य प्रभावेण पूर्वपदे किञ्चित् कार्यं भवति | अष्टाध्यायाम् उत्तरपदाधिकारः ( ६.३.१) इत्यस्मात् सूत्रात् आरभ्य ( ६.३.१०८) इति सूत्रपर्यन्तम् अस्ति | अस्मिन् अधिकारे उत्तरपदे परे पूर्वपदस्य किञ्चित् कार्यं भवति  | यथा विश्वमित्रः इति समासे पूर्वपदस्य स्वरस्य दीर्घत्वं भूत्वा विश्वामित्रः इति भवति  | कुत्रचित् किञ्चित् उत्तरपदे परे पूर्वपदस्य विभक्तेः अलुक् अपि भवति | एतादृशकार्याणि उत्तरपदाधिकारे लभ्यन्ते |</big>
 
<big>मातुः पाठ्यक्रमम् अवलम्ब्य अग्रे अव्ययीभावसमासस्य विषये पठामः  |</big>
Line 112:
 
=== '''<big><u>अव्ययीभावासमासः</u></big>''' ===
<big>अव्ययीभावसमासे पूर्वपदम् अव्ययम्, उत्तरपदं च सुबन्तं पदं भवति | अनव्ययम् अव्ययं सम्पद्यते इति अव्ययीभावः  | अर्थात् यत् अव्ययं नास्ति तत् समासे अव्ययं भवति चेत्  अव्ययीभावसमासः इति उच्यते | अव्ययीभावसमासे प्रायेण पूर्वपदार्थस्य प्राधान्यम् अस्ति  | यथा- उपवृक्षम् इति अव्ययीभावसमासः, तस्य विग्रहवाक्यम् अस्ति वृक्षस्य समीपम् इति | अस्मिन् समासे ‘उप’ इति अव्ययस्य एव प्राधान्यम् अस्ति यतोहि तस्यैव अन्वयः क्रियया सह भवति | अतः एव अव्ययीभावसमासे प्रायेण पूर्वपदस्य प्राधान्यम् इति कथ्यते  | उपवृक्षम् इति समासस्य अव्ययसंज्ञा भवति '''अव्ययीभावश्च''' (१.१.४१) इति सूत्रेण | अव्ययीभावसमासः नपुंसकलिङ्गे भवति  | उपवृक्षम् इति अव्ययं, नपुंसकलिङ्गे अस्ति |</big>
 
 
Line 121:
 
====<big>'''अव्ययीभावश्च''' (१.१.४१)</big>====
<big>अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | अव्ययीभावसमास-संज्ञायाः विधानानन्तरं सम्पूर्णं समस्तपदम् अव्ययं भवति |इदं सूत्रं संज्ञासूत्रम् अस्ति|अव्ययीभावः प्रथमान्तं, च अव्ययपदं द्विपदमिदं सूत्रम् | '''स्वरादिनिपातमव्ययम्''' ( १.१.३७) इत्यस्मात् सूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रं— '''अव्ययीभावः च अव्ययम् |'''</big>
 
<big>यथा  —</big>
 
<big>हरौ इति = अधिहरि | अव्ययीभावसमासः विधीयते '''अव्ययीभावः''' (२.१.५) इति सूत्रेण, तस्य अव्ययसंज्ञा भवति '''अव्ययीभावश्च''' (१.१.४१)  इति सूत्रेण |</big>
 
 
Line 135:
<big>अव्ययस्य लक्षणं कौमुद्यां दीयते यत् -</big>
 
'''<big>सदृशं त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु |</big>'''
 
<big>'''वचनेषु च सर्वेषु यन्न व्येति (परिवर्तते) तत् अव्ययम्''' ॥ इति</big>
Line 141:
 
 
<big>संस्कृतभाषायां बहूनि अव्ययपदानि सन्ति|कानिचन  प्रसिद्धानि अव्ययानि — अथ, अपि, इति, इव, एव, एवम्, च,यथा-तथा, यावत्-तावत्, नूनं, पुनः, किल, खलु इत्यादीनि | सर्वासु विभक्तिषु एतेषाम् अव्ययानां रूपाणि न परिवर्तन्ते |</big>
 
<big>व्याकरणे केषाञ्चन शब्दानाम् अव्ययसंज्ञा भवति | तेभ्यः यदा सुप्प्रत्ययाः विधीयन्ते तदा तेषां सुप्प्रत्ययानां लुक् (लोपः) भवति '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण | सुबन्तानां तिङन्तानां च पदसंज्ञा भवति '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इति सूत्रेण  इति ज्ञातम् | अव्ययानाम् अपि पदसंज्ञा भवति सुप्प्रत्ययस्य विधानेन | यद्यपि सुप्प्रत्ययाः लुप्यन्ते तथापि '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन प्रत्ययस्य लोपानान्तरम् अपि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव  | सर्वाणि अव्ययानि सुबान्तानि एव भवन्ति यतोहि तेभ्यः सुप्-प्रत्ययाः विधीयन्ते लुप्यन्ते च | अत एव अव्ययानां रूपाणि त्रिषु लिङ्गेषु, सर्वासु विभक्तिषु, सर्वेषु वचनेषु च समानानि भवन्ति |</big>
 
----
Line 150:
 
==== <big>'''प्राग्रीश्वरान्निपाताः''' (१.४.५६)</big> ====
<big>इदम् अधिकारसूत्रम् अस्ति | एतस्य सूत्रस्य अधिकारः अस्मात् सूत्रात् आरभ्य '''अधिरीश्वरे''' (१.४.९७) इति सूत्रपर्यन्तम् अस्ति  अत एव सूत्रे रीश्वरात् इति उक्तम् | अस्मिन् अधिकारे ये शब्दाः पठिताः, तेषां सर्वेषां निपातसंज्ञा भवति | '''चादयोऽसत्त्वे''' ( १.४.५७) इति सूत्रे एतस्य उदाहरणं दीयते | प्राक् इत्यव्ययं, रीशवरात् पञ्चम्यन्तं, निपाताः प्रथमान्तम् | '''सूत्रं स्वयं सम्पूर्णम् |'''</big>
 
 
Line 157:
<big>'''चादयोऽसत्त्वे''' ( १.४.५७)</big>
 
<big>चादिगणे ये शब्दाः पठिताः तेषाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति | यदि कस्यचित् शब्दस्य लिङ्निर्देशः सङ्ख्यानिर्देशः वा भवितुम् अर्हति, तर्हि सः शब्दः द्रव्यवाची इति उच्यते | यथा पृथिवी, आपः, रामः, ज्ञानम् इत्यादयः | यदि एतादृशः निर्देशः न भवितुम् अर्हति, तर्हि सः शब्दः अद्रव्यवाची इति उच्यते |यथा च, वा, अपि, इत्यादयः | च आदिः येषां ते चादयः, बहुव्रीहिः | सत्वं लिङ्गसङ्ख्यान्वितं द्रव्यम् | न द्रव्यम् अद्रव्यम् तस्मिन्, अद्रव्ये | चादयः प्रथमान्तम्, असत्त्वे सप्तम्यन्तं द्विपदमिदं सूत्रम् | '''प्राग्रीश्वरान्निपाताः''' ( १.४.५६) इत्यस्मात् सूत्रात् निपाताः इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''चादयः असत्त्वे निपाताः |'''</big>
 
<big>'पशु' इति अपि  शब्दः चादिणे अस्ति | अस्य शब्दस्य अर्थद्वयम् अस्ति - 'सम्यक्', तथा 'प्राणी' इति |'प्राणी' इत्यस्मिन् अर्थे अस्य शब्दस्य लिङ्गं, सङ्ख्या च  भवति | परन्तु 'सम्यक्' इत्यस्मिन् अर्थे अस्य शब्दयस्य लिङ्गं, सङ्ख्या च न भवति | 'सम्यक्' इत्यस्मिन् अर्थे अयं शब्दः अद्रव्यवाचकः, अतः निपातसंज्ञकः; परन्तु प्राणी इत्यस्मिन् अर्थे पशु-शब्दः द्रव्यवाचकः अतः निपातसंज्ञकः नास्ति |</big>
 
<big>चादिगणे बहवः शब्दाः सन्ति तेषु केचन अत्र दीयन्ते — च, एव, हि, आदह, नूनं, युगपत्, बत, उञ, मन्ये, अहो, धिक्, चेत्, तत्र, नञ्, पशु, सह, सत्यम्, इति, हाहा, तत्, पुरा, खलु इत्यादयः |</big>
Line 167:
<big>'''प्रादयः''' ( १.४.५८)</big>
 
<big>प्रादिगणे ये शब्दाः पठिताः तेषाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति| प्रादिगणे एते द्वाविंशतिः शब्दाः सन्ति - प्र-परा-अप-सम्-अनु-अव-निस्-निर्-दुस्-दुर्-वि-आङ्-नि-अधि-अपि-अति-सु-उत्-अभि-प्रति-परि-उप | एते एव प्रादयः इत्युच्यन्ते | प्रः आदिर्येषां ते प्रादयः, बहुव्रीहिः | '''चादयोऽसत्त्वे''' (१.४.५३) इत्यस्मात् सूत्रात् असत्त्वे इत्यस्य अनुवृत्तिः | असत्त्वे नाम अद्रव्यार्थाः इति| सत्त्वम् नाम द्रव्यम् | असत्त्वे नाम अद्रव्ये | '''प्राग्रीश्वरान्निपाताः''' ( १.४.५६) इत्यस्मात् सूत्रात् निपाताः इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''प्रादयः असत्त्वे निपाताः |'''</big>
 
 
 
<big>प्रादीनाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति| प्रादीनां निपातसंज्ञा अस्ति इति कारणेन तेषां '''स्वरादिनिपातमव्ययम्''' ( १.१.३७) इति सूत्रेण अव्ययसंज्ञा अपि भवति | यस्मिन् शब्दे लिङ्गस्य, सङ्ख्यायाः वा सम्बन्धः अस्ति, नो चेत् यस्मिन् शब्दे लिङ्गम् अथवा सङ्ख्या अस्ति सः शब्दः द्रव्यवाची इति वदामः | नाम यदि कस्यचित् शब्दस्य लिङ्निर्देशः सङ्ख्यानिर्देशः वा भवितुम् अर्हति, सः शब्दः द्रव्यवाची अस्ति इति उच्यते | यदि एतादृशः निर्देशः न भवितुम् अर्हति, तर्हि सः शब्दः अद्रव्यवाची इति उच्यते |</big>
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
Line 182:
'''<u><big>अव्ययसंज्ञा</big></u>'''
==== <big>'''स्वरादिनिपातमव्ययम्''' ( १.१.३७)</big> ====
<big>स्वरादिगणे ये शब्दाः पठिताः अपि च ये निपातसंज्ञकाः शब्दाः सन्ति ते सर्वेऽपि अव्ययसंज्ञकाः भवन्ति | '''प्राग्रीश्वरान्निपाताः'''( १.४.४६) इत्यस्मिन् अधिकारे सर्वे निपातसंज्ञकाः शब्दाः उच्यन्ते | स्वर् आदौ येषां ते स्वरादयः | स्वरादयश्च निपाताश्च तेषां समाहारद्वन्द्वः स्वरादिनिपातम् | स्वरादिनिपातं प्रथमान्तम्, अव्ययं प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहित-सूत्रं— '''स्वरादिनिपातम् अव्ययम्|'''</big>
 
<big>स्वरादिगणे बहवः शब्दाः सन्ति तेषु केचन शब्दाः अत्र उक्ताः = स्वर्,अन्‍तर्, प्रातर्, पुनर्,  उच्‍चैस्, नीचैस्, शनैस्, ऋते, युगपत्,  पृथक्, श्वस्, दिवा, रात्रौ, सायम्, चिरम्, ईषत्, तूष्‍णीम्, बहिस्, अवस्, समया, निकषा, स्‍वयम्, वृथा, नञ्, हेतौ, इद्धा, अद्धा,  तिरस्, अन्‍तरा, अन्‍तरेण, सहसा, विना, नाना, स्‍वस्‍ति, स्‍वधा, अलम्, वषट्, श्रौषट्, वौषट्, अन्‍यत्, अस्‍ति, प्रायस्, मुहुस्, साकम्, सार्धम्, नमस्,  धिक्, अथ, मा, माङ् इत्यादयः | अयं गणः आकृतिगणः इत्युच्यते यतोहि अस्मिन् गणे अन्ये शब्दाः अपि भवितुम् अर्हन्ति | शिष्टप्रयोगं दृष्ट्वा अन्येषां शब्दानां ज्ञानं भवति |</big>
 
<big>निपातानां कानिचन उदाहरणानि  — च, वा, ह, अह, एव, नूनं, युगपत्, भूयस्, चेत्, हन्त, नञ्, यावत्, तावत्, खलु, किल्, सुष्ठु इत्यादयः |</big>
 
 
 
<big>प्रादिगणे ये शब्दाः पठिताः, तेषां प्रयोगः धातुना सह भवति चेत् तेषाम् उपसर्गसंज्ञा अपि भवति '''उपसर्गाः क्रियायोगे''' (१.४.५९) इति सूत्रेण|  उपसर्गाणाम् अपि अव्ययसंज्ञा भवति|प्रादीनाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति इति कारणेन तेषाम् अव्ययसंज्ञा अपि भवति '''स्वरादिनिपातमव्ययम्''' ( १.१.३७) इति सूत्रेण |</big>
 
----
Line 196:
<big>'''उपसर्गाः क्रियायोगे''' (१.४.५९)</big>
 
<big>प्रादयः क्रियायोगे उपसर्गसज्ञाः स्युः| एते प्रादयः सन्ति  — प्र-परा-अप-सम्-अनु-अव-निस्-निर्-दुस्-दुर्-वि-आङ्-नि-अधि-अपि-अति-सु-उत्-अभि-प्रति- परि-उप | यदा प्रादीनां प्रयोगः धातुना सह क्रियते तदा तेषाम् उपसर्गसंज्ञा भवति | क्रियायाः योगः, क्रियायोगः तस्मिन्, क्रियायोगे, षष्ठीतत्पुरुषः | उपसर्गाः प्रथमान्तं, क्रियायोगे सप्तम्यन्तम् | '''प्रादयः''' ( १.४.५८) इत्यस्मात् सूत्रात् प्रादयः इत्यस्य अनुवृत्तिः | '''प्राग्रीश्वरान्निपाताः''' ( १.४.५६)  इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''प्रादयः क्रियायोगे उपसर्गाः |'''</big>
 
----
Line 203:
 
==== <big>'''गतिश्च''' ( १.४.६०)</big> ====
<big>प्रादयः क्रियायोगे गतिसज्ञाः स्युः | प्र-परा-अप-सम्-अनु-अव-निस्-निर्-दुस्-दुर्-वि-आङ्-नि-अधि-अपि-अति-सु-उत्-अभि-प्रति- परि-उप एते प्रादयः सन्ति | यदा प्रादीनां प्रयोगः धातुना सह क्रियते तदा तेषाम् गतिसंज्ञा भवति | गतिः प्रथमान्तं, च अव्ययम् | '''प्राग्रीश्वरान्निपाताः''' ( १.४.५६)  इत्यस्य अधिकारः | '''उपसर्गाः क्रियायोगे''' (१.४.५९) इत्यस्मात् क्रियायोगे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''प्रादयः क्रियायोगे गतयः |'''</big>
 
 
Line 210:
 
==== '''<big><u>उपसर्गसंज्ञा, गतिसंज्ञा निपातसंज्ञा - त्रयाणामपि सहवासः</u></big>''' ====
<big>अर्थात् प्रादिगणे ये शब्दाः सन्ति, तेषाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति '''प्रादयः''' ( १.४.५८) इति सूत्रेण| '''उपसर्गाः क्रियायोगे''' (१.४.५९)''',  गतिश्च''' ( १.४.६०) इति द्वाभ्यां सूत्राभ्यां तेषां शब्दानां क्रियायोगे उपसर्गसंज्ञा, गतिसंज्ञा च भवति | आहत्य एतेषां प्रादीनां तिस्रः संज्ञाः भवितुम् अर्हन्ति | एताः सर्वाः संज्ञाः '''आकडारादेका संज्ञा''' (१.४.१) इति क्षेत्रे  सन्ति तर्हि कथं एतासां सर्वासां संज्ञानाम् एकत्र सहवासः सम्भवति?</big>
 
<big>'''प्रादयः''' ( १.४.५८), '''उपसर्गाः क्रियायोगे''' (१.४.५९), '''गतिश्च''' (१.४.६०) इति  एतानि त्रीणि सूत्राणि  '''आकडारादेका संज्ञा''' (१.४.१) इति सूत्रस्य परिधौ एव सन्ति इत्यतः एकस्य रूपस्य एका एव संज्ञा अर्हा  इति चिन्तयामः, परन्तु '''गतिश्च''' ( १.४.६०) इति सूत्रे चकार-ग्रहणेन तिसृणां संज्ञानां समावेशः सम्भवति | '''गतिश्च''' ( १.४.६०)  इति सूत्रे चकारः स्वीकृतः अस्ति, स एव ज्ञापयति यत् अनेकसंज्ञानां समावेशः सम्भवति इति | अत एव एकस्य रूपस्य उपसर्गसंज्ञा, गतिसंज्ञा, निपातसंज्ञा च भवितुम् अर्हति |</big>
 
==== <big>'''आकडारादेका संज्ञा''' (१.४.१)</big> ====
Line 219:
 
 
<big>'''अव्ययीभावश्च''' (२.४.१८) = अव्ययीभावसमासः नपुंसकलिङ्गे भवति| अव्ययीभावः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''स नपुंसकम्''' (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम् — '''अव्ययीभावः च नपुंसकम्|'''</big>
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
Line 231:
<big>अव्ययीभावसमासः अव्ययं भवति इति उक्तम्|तर्हि अव्ययसंज्ञायाः प्रयोजनं किम्?</big>
 
<big><br />अव्ययसंज्ञायाः प्रयोजनं यत् '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण सुप्प्रत्ययानां लुक् भवति | '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण अव्ययात् परस्य सुप् प्रत्ययाः लुप्यन्ते | अस्य सूत्रस्य कार्यानन्तरं  सर्वासु विभक्तिषु अव्ययीभावसमासस्य रूपाणि समानानि भवेयुः इति चिन्तयामः | तादृशचिन्तनं समीचीनमेव, परन्तु ततः परम् अन्यसूत्राणि प्रसक्तानि चेत्  अव्ययीभावसमासस्य सर्वाणि रूपाणि समानानि न भवन्ति| कासु विभक्तिषु रूपभेदाः भवितुम् अर्हन्ति इति अग्रे उच्यते | तदर्थं सूत्रद्वयं पठिष्यामः -  '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) , '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति |</big>
 
----
==== <big>'''अव्ययीभावश्च (२.४.१८) इति  सूत्रस्य प्रयोजनम्'''</big> ====
<big>अव्ययीभावसमासे प्रायेण प्रादीनाम् एव प्रयोगः दृश्यते| अव्ययीभावसमासः अव्ययं भवति, नपुंसकलिङ्गे च भवति इति उक्तम्| यत् पदम् अव्ययम् अस्ति तस्य लिङ्गवैशिष्ट्यं नास्ति यतोहि सु-प्रत्ययाः लुप्यन्ते | त्रिषु लिङ्गेषु, सर्वासु विभक्तिषु, सर्वेषु वचनेषु अव्ययानि न परिवर्तन्ते | लिङ्गवैशिष्ट्यं नास्ति चेत् किमर्थम् '''अव्ययीभावश्च''' (२.४.१८) इति सूत्रेण नपुंसकलिङ्गविधानं क्रियते? '''अव्ययीभावश्च''' (२.४.१८) इति  सूत्रस्य प्रयोजनं किम्?</big>
===='''<big><u>अव्ययीभावस्य नपुंसकलिङ्गविधानस्य प्रयोजनम्</u></big>'''====
<big>नपुंसकलिङ्गे प्रयुक्तानां कार्याणां प्राप्तिः एव '''अव्ययीभावश्च''' (२.४.१८) इति सूत्रस्य प्रयोजनम् | प्रक्रियाकाले अव्ययीभावसमासः नपुंसकलिङ्गे अस्ति चेत् अजन्तप्रातिपदिकस्य अन्तिमस्वरस्य ह्रस्वत्वं भवति '''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१,२.४७) इति सूत्रेण | एतदेव मुख्यप्रयोजनं नपुंसकलिङ्गस्य| ह्रस्वानन्तरं प्रातिपदिकम् अदन्तं चेत् सुप्-प्रत्ययस्य लुक् न भवति '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण परन्तु अमादेशः भवति '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' ( २.४.८३) इत्यनेन | एतत् सर्वम् अग्रे पठिष्यामः | सारांशः यत् अव्ययीभावसमासः नपुंसकलिङ्गे अस्ति यतोहि लिङ्गम् अवलम्ब्य कानिचन कार्याणि प्रवर्तन्ते |</big>
 
----
page_and_link_managers, Administrators
5,097

edits