14---samAsaH/02A---avyayiibhAvasamAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 141:
 
 
<big>संस्कृतभाषायां बहूनि अव्ययपदानि सन्ति | कानिचन  प्रसिद्धानि अव्ययानि — अथ, अपि, इति, इव, एव, एवम्, च,यथा-तथा, यावत्-तावत्, नूनं, पुनः, किल, खलु इत्यादीनि | सर्वासु विभक्तिषु एतेषाम् अव्ययानां रूपाणि न परिवर्तन्ते |</big>
 
<big>व्याकरणे केषाञ्चन शब्दानाम् अव्ययसंज्ञा भवति | तेभ्यः यदा सुप्प्रत्ययाः विधीयन्ते तदा तेषां सुप्प्रत्ययानां लुक् (लोपः) भवति '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण | सुबन्तानां तिङन्तानां च पदसंज्ञा भवति '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इति सूत्रेण  इति ज्ञातम् | अव्ययानाम् अपि पदसंज्ञा भवति सुप्प्रत्ययस्य विधानेन | यद्यपि सुप्प्रत्ययाः लुप्यन्ते तथापि '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन प्रत्ययस्य लोपानान्तरम् अपि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव  | सर्वाणि अव्ययानि सुबान्तानि एव भवन्ति यतोहि तेभ्यः सुप्-प्रत्ययाः विधीयन्ते लुप्यन्ते च | अत एव अव्ययानां रूपाणि त्रिषु लिङ्गेषु, सर्वासु विभक्तिषु, सर्वेषु वचनेषु च समानानि भवन्ति |</big>
Line 157:
<big>'''चादयोऽसत्त्वे''' ( १.४.५७)</big>
 
<big>चादिगणे ये शब्दाः पठिताः तेषाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति | यदि कस्यचित् शब्दस्य लिङ्निर्देशः सङ्ख्यानिर्देशः वा भवितुम् अर्हति, तर्हि सः शब्दः द्रव्यवाची इति उच्यते | यथा पृथिवी, आपः, रामः, ज्ञानम् इत्यादयः | यदि एतादृशः निर्देशः न भवितुम् अर्हति, तर्हि सः शब्दः अद्रव्यवाची इति उच्यते | यथा च, वा, अपि, इत्यादयः | च आदिः येषां ते चादयः, बहुव्रीहिः | सत्वं लिङ्गसङ्ख्यान्वितं द्रव्यम् | न द्रव्यम् अद्रव्यम् तस्मिन्, अद्रव्ये | चादयः प्रथमान्तम्, असत्त्वे सप्तम्यन्तं द्विपदमिदं सूत्रम् | '''प्राग्रीश्वरान्निपाताः''' ( १.४.५६) इत्यस्मात् सूत्रात् निपाताः इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''चादयः असत्त्वे निपाताः |'''</big>
 
<big>'पशु' इति अपि  शब्दः चादिणे अस्ति | अस्य शब्दस्य अर्थद्वयम् अस्ति - 'सम्यक्', तथा 'प्राणी' इति | 'प्राणी' इत्यस्मिन् अर्थे अस्य शब्दस्य लिङ्गं, सङ्ख्या च  भवति | परन्तु 'सम्यक्' इत्यस्मिन् अर्थे अस्य शब्दयस्य लिङ्गं, सङ्ख्या च न भवति | 'सम्यक्' इत्यस्मिन् अर्थे अयं शब्दः अद्रव्यवाचकः, अतः निपातसंज्ञकः; परन्तु प्राणी इत्यस्मिन् अर्थे पशु-शब्दः द्रव्यवाचकः अतः निपातसंज्ञकः नास्ति |</big>
 
<big>चादिगणे बहवः शब्दाः सन्ति तेषु केचन अत्र दीयन्ते — च, एव, हि, आदह, नूनं, युगपत्, बत, उञ, मन्ये, अहो, धिक्, चेत्, तत्र, नञ्, पशु, सह, सत्यम्, इति, हाहा, तत्, पुरा, खलु इत्यादयः |</big>
Line 167:
<big>'''प्रादयः''' ( १.४.५८)</big>
 
<big>प्रादिगणे ये शब्दाः पठिताः तेषाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति| प्रादिगणे एते द्वाविंशतिः शब्दाः सन्ति - प्र-परा-अप-सम्-अनु-अव-निस्-निर्-दुस्-दुर्-वि-आङ्-नि-अधि-अपि-अति-सु-उत्-अभि-प्रति-परि-उप | एते एव प्रादयः इत्युच्यन्ते | प्रः आदिर्येषां ते प्रादयः, बहुव्रीहिः | '''चादयोऽसत्त्वे''' (१.४.५३) इत्यस्मात् सूत्रात् असत्त्वे इत्यस्य अनुवृत्तिः | असत्त्वे नाम अद्रव्यार्थाः इति | सत्त्वम् नाम द्रव्यम् | असत्त्वे नाम अद्रव्ये | '''प्राग्रीश्वरान्निपाताः''' ( १.४.५६) इत्यस्मात् सूत्रात् निपाताः इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''प्रादयः असत्त्वे निपाताः |'''</big>
 
 
Line 182:
'''<u><big>अव्ययसंज्ञा</big></u>'''
==== <big>'''स्वरादिनिपातमव्ययम्''' ( १.१.३७)</big> ====
<big>स्वरादिगणे ये शब्दाः पठिताः अपि च ये निपातसंज्ञकाः शब्दाः सन्ति ते सर्वेऽपि अव्ययसंज्ञकाः भवन्ति | '''प्राग्रीश्वरान्निपाताः'''( १.४.४६) इत्यस्मिन् अधिकारे सर्वे निपातसंज्ञकाः शब्दाः उच्यन्ते | स्वर् आदौ येषां ते स्वरादयः | स्वरादयश्च निपाताश्च तेषां समाहारद्वन्द्वः स्वरादिनिपातम् | स्वरादिनिपातं प्रथमान्तम्, अव्ययं प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहित-सूत्रं— '''स्वरादिनिपातम् अव्ययम् |'''</big>
 
<big>स्वरादिगणे बहवः शब्दाः सन्ति तेषु केचन शब्दाः अत्र उक्ताः = स्वर्,अन्‍तर्, प्रातर्, पुनर्,  उच्‍चैस्, नीचैस्, शनैस्, ऋते, युगपत्,  पृथक्, श्वस्, दिवा, रात्रौ, सायम्, चिरम्, ईषत्, तूष्‍णीम्, बहिस्, अवस्, समया, निकषा, स्‍वयम्, वृथा, नञ्, हेतौ, इद्धा, अद्धा,  तिरस्, अन्‍तरा, अन्‍तरेण, सहसा, विना, नाना, स्‍वस्‍ति, स्‍वधा, अलम्, वषट्, श्रौषट्, वौषट्, अन्‍यत्, अस्‍ति, प्रायस्, मुहुस्, साकम्, सार्धम्, नमस्,  धिक्, अथ, मा, माङ् इत्यादयः | अयं गणः आकृतिगणः इत्युच्यते यतोहि अस्मिन् गणे अन्ये शब्दाः अपि भवितुम् अर्हन्ति | शिष्टप्रयोगं दृष्ट्वा अन्येषां शब्दानां ज्ञानं भवति |</big>
Line 219:
 
 
<big>'''अव्ययीभावश्च''' (२.४.१८) = अव्ययीभावसमासः नपुंसकलिङ्गे भवति| अव्ययीभावः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''स नपुंसकम्''' (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम् — '''अव्ययीभावः च नपुंसकम् |'''</big>
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
Line 235:
----
==== <big>'''अव्ययीभावश्च (२.४.१८) इति  सूत्रस्य प्रयोजनम्'''</big> ====
<big>अव्ययीभावसमासे प्रायेण प्रादीनाम् एव प्रयोगः दृश्यते| अव्ययीभावसमासः अव्ययं भवति, नपुंसकलिङ्गे च भवति इति उक्तम् | यत् पदम् अव्ययम् अस्ति तस्य लिङ्गवैशिष्ट्यं नास्ति यतोहि सु-प्रत्ययाः लुप्यन्ते | त्रिषु लिङ्गेषु, सर्वासु विभक्तिषु, सर्वेषु वचनेषु अव्ययानि न परिवर्तन्ते | लिङ्गवैशिष्ट्यं नास्ति चेत् किमर्थम् '''अव्ययीभावश्च''' (२.४.१८) इति सूत्रेण नपुंसकलिङ्गविधानं क्रियते? '''अव्ययीभावश्च''' (२.४.१८) इति  सूत्रस्य प्रयोजनं किम्?</big>
===='''<big><u>अव्ययीभावस्य नपुंसकलिङ्गविधानस्य प्रयोजनम्</u></big>'''====
<big>नपुंसकलिङ्गे प्रयुक्तानां कार्याणां प्राप्तिः एव '''अव्ययीभावश्च''' (२.४.१८) इति सूत्रस्य प्रयोजनम् | प्रक्रियाकाले अव्ययीभावसमासः नपुंसकलिङ्गे अस्ति चेत् अजन्तप्रातिपदिकस्य अन्तिमस्वरस्य ह्रस्वत्वं भवति '''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१,२.४७) इति सूत्रेण | एतदेव मुख्यप्रयोजनं नपुंसकलिङ्गस्य | ह्रस्वानन्तरं प्रातिपदिकम् अदन्तं चेत् सुप्-प्रत्ययस्य लुक् न भवति '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण परन्तु अमादेशः भवति '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' ( २.४.८३) इत्यनेन | एतत् सर्वम् अग्रे पठिष्यामः | सारांशः यत् अव्ययीभावसमासः नपुंसकलिङ्गे अस्ति यतोहि लिङ्गम् अवलम्ब्य कानिचन कार्याणि प्रवर्तन्ते |</big>
 
----
Line 245:
'''<big><u>अव्ययीभावश्च इति सूत्रं द्विवारम् अस्ति अष्टाध्यायाम्</u></big>'''
 
<big>वस्तुतस्तु अव्ययीभावश्च इति सूत्रं स्थलद्वये वर्तते | '''अव्ययीभावश्च''' (१.१.४१) इति एकं सूत्रं तु अव्ययप्रकरणे प्रथमाध्याये अस्ति यत्र अव्ययसंज्ञा क्रियते | '''अव्ययीभावश्च''' (२.४.१८) इति अपरसूत्रं द्वितीयाध्याये अस्ति यत्र अव्ययीभावसमासस्य नपुंसकलिङ्गविधानं क्रियते |</big>
----
==== '''<big><u>अव्ययीभावसमासस्य प्रसङ्गे समासान्तप्रत्ययाः</u></big>''' ====
<big>अव्ययीभावसमासस्य विषये केचन समासान्तप्रत्ययाः विधीयन्ते | समासान्ताधिकारे (५.४.६८ – ५.४.१६०) समासान्तप्रत्ययाः विधीयन्ते | समासान्तप्रत्ययाः तद्धिताधिकारे सन्ति | एते प्रत्ययाः तद्धितप्रत्ययाः एव परन्तु समासस्य प्रक्रियायां विधीयन्ते | तद्धितसंज्ञकाः समासान्तप्रत्ययाः समासस्य अन्ते आयान्ति, अपि च समासस्य अवयवाः भवन्ति | अत एव एते समासान्तप्रत्ययाः इति नाम्ना ज्ञायन्ते | समासान्ताः समासस्य अवयवाः सन्ति इत्यतः एव समासान्तानां योजनानन्तरं सम्पूर्णस्य समस्तपदस्य प्रातिपदिकसंज्ञा भवति| यद्यपि एतानि कार्याणि समस्तपदस्य निर्माणे भवन्ति तथापि प्रक्रिया तु तद्धितप्रक्रियाम् आश्रित्य एव भवति | नाम तद्धितप्रकरणे यानि सूत्राणि प्रसक्तानि भवन्ति तद्धितप्रक्रियायां, तानि समासप्रक्रियायाम् अपि प्रसक्तानि भवन्ति यतोहि समासान्ताः तद्धिताधिकारे सन्ति | अत एव पाणिनिना एते समासान्तप्रत्ययाः तद्धिताधिकारे स्थापिताः |</big>
===== <big>'''तद्धिताः''' (४.१.७६)</big> =====
<big>अधिकारसूत्रम् इदम् |अस्य सूत्रस्य अधिकारः अस्ति ४.१.७६ इति सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तं नाम ५.४.१७० इति पर्यन्तम् | अस्मिन् अधिकारे ये प्रत्ययाः विधीयन्ते ते सर्वे तद्धितसंज्ञकाः भवन्ति |'''सूत्रं स्वयं सम्पूर्णम्''' |</big>
===== <big>'''समासान्ताः''' (५.४.६८)</big> =====
<big>एतत् सूत्रम् अधिकारसूत्रम् अस्ति | अस्मात् सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तं ये तद्धितप्रत्ययाः पाठिताः ते समासप्रक्रियायां विधीयन्ते | अर्थात् समासान्तस्य अधिकारः ५.४.६८ इत्यस्मात् सूत्रात् आरभ्य ५.४.१६० इति सूत्रपर्यन्तम् | एते समासान्तप्रत्ययाः प्रातिपदिकात् विधीयन्ते यतोहि '''ङ्याप्प्रातिपदिकात्''' ( ४.१.१) इति सूत्रस्य अधिकारः अस्ति चतुर्थाध्ययात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तम् |</big>
 
<big>केचन समासान्तप्रत्ययाः सर्वेषु समासेषु विधीयन्ते | केचन केवलं विशिष्टसमासानां कृते एव | यथा - अव्ययीभावसमासस्य कृते केचन समासान्तप्रत्ययाः विधीयन्ते, केचन केवलं तत्पुरुषसमासस्य कृते विधीयन्ते, केचन केवलं बहुव्रीहिसमासस्य कृते विधीयन्ते | सर्वेषां समासान्तप्रत्ययानाम् आवलिं प्राप्तुं [https://samskritavyakaranam.miraheze.org/wiki/14---samAsaH/07---parishiShTam परिशिष्टम् इति] करपत्रं दृश्यताम् |</big>
 
 
 
<big>एते समासान्तप्रत्ययाः समासान्तावयवाः भवन्ति|समासान्तप्रत्यये कृते, तं प्रत्ययम् अपि योजयित्वा समासस्य व्यवहारः क्रियते येन अग्रे सुप्प्रत्ययस्य योजना सम्भवति | यदि समासान्तप्रत्ययाः समासस्य अवयवाः न सन्ति तर्हि सुप्प्रत्ययं योजयितुं न शक्यते यतोहि सुप्प्रत्ययः प्रातिपदिकात् एव विहितः भवति |</big>
 
 
Line 268:
<big>यदि  टच् इति प्रत्ययः समासासस्य अवयवः न भवति तर्हि कः क्लेशः भवति?</big>
 
<big>टच् इति प्रत्ययः समासस्य अवयवः न भवति चेत् अस्माकं प्रातिपदिकं भवति अध्यात्मन् इति | तस्य अनन्तरं टच् इति प्रत्ययः पृथक् तिष्ठति | तर्हि अत्र कः क्लेशः इति चेत् – अधुना सुप्प्रत्ययानां विधानं न शक्यते यतोहि प्रातिपदिकात् एव सुप्प्रत्ययाः विधीयन्ते | परन्तु अत्र अध्यात्मन् + टच् इत्यस्ति | अध्यात्मन् + टच् इत्यस्मात् सुप्प्रत्ययस्य विधानं न शक्यते यतोहि अध्यात्मन् + टच्  इत्यस्य प्रातिपदिकसंज्ञा नास्ति, केवलं अध्यात्मन् इत्यस्यैव प्रातिपदिकसंज्ञा अस्ति | प्रातिपादिकात् एव सुप्प्रत्ययाः विधीयन्ते परन्तु अत्र तु प्रातिपदिकस्य अनन्तरं टच् इति प्रत्ययः अस्ति, अनेन कारणेन अध्यात्मन् इति प्रातिपदिकात् सुप्प्रत्ययस्य विधानं न सम्भवति | एतादृशस्य क्लेशस्य निवारणार्थम् एव समासान्ताः समासस्य अवयवाः भवन्ति | यदा समासान्तः समासस्य अवयवः भवति तदा 'अध्यात्मन् + टच् ' इत्यस्य सम्पूर्णस्य समाससंज्ञा, प्रतिपदिकसंज्ञा च भवति | अतः अधुना 'अध्यात्मन् + टच् ' इति प्रातिपदिकात् सुप्प्रत्ययस्य विधानं सम्भवति |</big>
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
Line 283:
 
===== '''<big><u>अव्ययीभावसमासे समासान्तप्रत्ययाः</u></big>''' =====
<big>अव्ययीभावसमासे यत्र समासान्तप्रत्ययः विधीयते तत्र टच् इति प्रत्ययः एव विधीयते| कुत्रचित् नित्यरूपेण विधीयते, कुत्रचित् विकल्पेन विधीयते | अव्ययीभावसमासे  समासान्ताधिकारात् एतानि सूत्राणि प्रसक्तानि भवन्ति | टच् इति प्रत्ययस्य विधानेन प्रक्रियायाम् अव्ययीभावसमासः अदन्तः भवति येन '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' ( २.४.८३) इत्यनेन सुप्प्रत्ययस्य स्थाने अमादेशः सिद्ध्यति |</big>
 
{| class="wikitable mw-collapsible"
Line 328:
<big>१) '''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) = शरदादिगणे ये शब्दाः पठिताः, ते शब्दाः उत्तरपदे विद्यन्ते चेत्, तस्मात् टच् इति समासान्तप्रत्ययः विधीयते '''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) इति सूत्रेण |यथा – शरद् इति प्रातिपदिकम् |</big>
 
<big>२) '''अनश्च''' (५.४.१०८)  = अन्नन्तः पुंलिङ्गशब्दः अथवा अन्नन्तः स्त्रीलिङ्गशब्दः उत्तरपदे विद्यते चेत्, तस्मात् टच् इति समासान्तप्रत्ययः विधीयते '''अनश्च''' (५.४.१०८) इति सूत्रेण | यथा – राजन् इति प्रातिपदिकम् |</big>
 
<big>३) '''नपुंसकादन्यतरस्याम्''' (५.४.१०९) = अन्नन्तः नपुंसकलिङ्गशब्दः उत्तरपदे विद्यते चेत्, तस्मात् टच् इति समासान्तप्रत्ययः विकल्पेन विधीयते '''नपुंसकादन्यतरस्याम्''' (५.४.१०९) इति सूत्रेण | यथा – चर्मन् इति प्रातिपदिकम् |</big>
 
<big>४) '''नदीपौर्णमास्याग्रहायणीभ्यः''' (५.४.११०) = अव्ययीभावसमासस्य उत्तरपदे "नदी", "पौर्णमासी", "आग्रहायणी" एतेषु कश्चन शब्दः   विद्यते चेत्, तस्मात् विकल्पेन टच् इति समासान्तप्रत्ययः विधीयते '''नदीपौर्णमास्याग्रहायणीभ्यः''' (५.४.११०) इति सूत्रेण |</big>
 
<big>५) '''झयः''' (५.४.१११) = झयन्तशब्दः उत्तरपदे चेत् तस्मात् टच् इति समासान्तप्रत्ययः विकल्पेन विधीयते '''झयः''' (५.४.१११) इति सूत्रेण | यथा – समिध् इति प्रातिपदिकम् |</big>
 
<big>६) '''गिरेश्च सेनकस्य''' ( ५.४.११२) =  उत्तरपदे गिरि इति शब्दः चेत्, तस्मात् टच् इति समासान्तप्रत्ययः विकल्पेन विधीयते '''गिरेश्च सेनकस्य''' (५.४.१११) इति सूत्रेण</big> |
Line 343:
 
===== '''<big><u>विभाषा</u></big>''' =====
<big>'''विभाषा''' (२.१.११) = एतद् अधिकारसूत्रम् अस्ति | एतस्य सूत्रस्य अधिकारः '''अपपरिबहिरञ्चवः''' '''पञ्चम्या''' (२.१.१२) इति सूत्रात् आरभ्य '''कडाराः कर्मधारये''' (२.२.३८) इति सूत्रपर्यन्तम् अस्ति | एतस्मात् सूत्रात् समासविधिः विकल्पेन भवति|एषा विभाषा '''‘महाविभाषा'''’ इति उच्यते यतोहि एतेन सूत्रेण यः विकल्पाधिकारः कृतः सः बृहान्नस्ति | एतस्य प्रसक्तिः सम्पूर्णसमासप्रकरणे अस्ति | विभाषा प्रथमान्तं, एकपदमिदं सूत्रम् | '''सूत्रं स्वयं सम्पूर्णम् |'''</big>
 
<big>'''विभाषा''' (२.१.११) इति सूत्रस्य अधिकारे यानि सूत्राणि पठितानि तानि सर्वाणि विकल्पेन विधीयन्ते इति अस्माभिः पूर्वमेव ज्ञातम् | समासः विकल्पेन विधीयते इति सामान्यः नियमः परन्तु कुत्रचित् '''विभाषा''' (२.१.११) इत्यस्य अधिकारः चेत् अपि  समासः नित्यरूपेण विधीयते | यत्र समासः नित्यः तत्र '''विभाषा''' (२.१.११) इति सूत्रस्य प्रसक्तिः न भवति | '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् प्राक् यानि समासविधायकसूत्राणि सन्ति तत्र सर्वत्र समासः नित्यः भवति | अव्ययीभावाधिकारे (२.१.५) इत्यस्मात् सूत्रात् आरभ्य (२.१.१०) इति सूत्रपर्यन्तं षट् सूत्राणि सन्ति यत्र '''विभाषा''' (२.१.११) इत्यस्य अधिकारः नास्ति, अत एव तत्र सर्वत्र समासः विकल्पेन न भवति अपि तु नित्यरूपेण भवति |</big>
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
|+
Line 357:
 
====<big>'''अव्ययादाप्सुपः''' (२.४.८२)</big>====
<big>अव्ययात् परस्य आप्-प्रत्ययानां सुप्-प्रत्ययानां च लुक्-भवति | आबन्तरूपाणि स्त्रीलिङ्गरूपाणि भवन्ति  | '''लुक्''' ( २.४.५८) इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं — '''अव्ययात् आप्-सुपः लुक्''' |</big>
 
==== <big>'''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७)</big> ====
<big>नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात्|ह्रस्वः प्रथमान्तं, नपुंसके सप्तम्यन्तं, प्रातिपदिकस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्| '''अचश्च''' (१.२.२८) इत्यनेन अचः एव ह्रस्वत्वम् | '''अलोऽन्तस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव ह्रस्वत्वम् (न तु प्रातिपदिकस्य) | अनुवृत्ति-सहितसूत्रम्‌— '''नपुंसकलिङ्गे अचः प्रातिपदिकस्य ह्रस्वः |'''</big>
 
==== <big>'''अचश्च''' (१.२.२८)</big> ====
<big>यत्र यत्र ह्रस्वः, दीर्घः, प्लुतः च विधीयन्ते, तत्र तत्र अचः इति षष्ठ्यन्तं पदम्‌ आगत्य उपस्थितं भवति | परिभाषासूत्रम्‌ | अचः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''ऊकालोऽज्झ्रस्वदीर्घप्लुतः''' (१.२.२७) इत्यस्मात्‌ अच्‌, ह्रस्वदीर्घप्लुतः इत्यनयोः अनुवृत्तिः | तत्र विभक्तिपरिणामेन तृतीयान्तं भवति, ह्रस्वदीर्घप्लुतैः (शब्दैः) | अनुवृत्ति-सहितसूत्रम्‌— '''ह्रस्वदीर्घप्लुतैः अचः च अच्‌''' |</big>
 
 
==== <big>'''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३)</big> ====
<big>अदन्तात् अव्ययीभावात्  सुप् प्रत्ययस्य लुक् न भवति, अपि तु पञ्चमीविभक्तिं विहाय अन्यासु विभक्तिषु सुप्प्रत्ययस्य स्थाने अमादेशः विधीयते | अस्मिन् सूत्रे निषेधः इति भागः अपि अस्ति येन सुपः लुक् निषिध्यते, विधिः इति भागः अपि अस्ति येन अमादेशः विधीयते, परन्तु पञ्चमीं विहाय | न अव्यययपदम्, अव्ययीभावात् पञ्चम्यन्तम्, अतः पञ्चम्यन्तम्, अम् प्रथमान्तं, तु अव्ययपदम्, अपञ्चम्याः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | '''अव्ययादाप्सुपः''' (२.४.८२) इत्यस्मात् सूत्रात् सुपः इत्यस्य अनुवृत्तिः|'''ण्यक्षत्रियार्षञितो यूनि लुगणिञोः''' ( २.४.५८) इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः|अनुवृत्ति-सहितसूत्रम्‌—'''अव्ययीभावाद् अतः तु न सुपः लुक् अपञ्चम्याः अम् |'''</big>
 
==== <big>'''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४)</big> ====
<big>अदन्तात् अव्ययीभावात् तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति|बहुलम् इत्युक्ते बहून् अर्थान् लाति( गृह्णाति) इति बहुलम् | अत्र बहुलम् इति शब्दस्य प्रयोगेण कुत्रचित् विकल्पेन अम्-आदेशः भवति, कुत्रचित् अम् आदेशः नित्यः भवति|कुत्र विकल्पेन, कुत्र नित्यः इति निर्णयः प्रयोगं दृष्ट्वा करणीयः | सामान्यतया विकल्पेन इति स्वीकर्तुं शक्यते | यदि विकल्पार्थः इष्टः तर्हि विकल्पः अथवा वा इति शब्दस्य प्रयोगः भवति परन्तु अत्र बहुलम् इत्यनेन विशिष्टार्थः बुध्यते|तृतीया च सप्तमी च तयोः इतरेतरयोगद्वन्द्वः तृतीयासप्तम्यौ, तयोः | तृतीयासप्तम्योः षष्ठ्यन्तं, बहुलं प्रथमान्तं, द्विपदमिदं सूत्रम् | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यस्मात् सूत्रात् अव्ययीभावात्, अतः, अम् इत्येषाम् अनुवृत्तिः भवति|अनुवृत्ति-सहितसूत्रम्‌— '''तृतीयासप्तम्योः अव्ययीभावाद् अतः अम् बहुलम्''' |</big>
 
==== <big>'''अमि पूर्वः''' (६.१.१०५)</big> ====
<big>अक् वर्णात् अम् सम्बन्धी -सम्बन्धि-अच् परः चेत् पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति|अमि सप्तम्यन्तं, पूर्वः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अकः सवर्णे दीर्घः''' ( ६.१.९९) इत्यस्मात् सूत्रात् '''अकः''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः| '''इको यणचि''' ( ६.१.७६) इत्यस्मात् सूत्रात् अचि इत्यस्य अनुवृत्तिः | '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन अचि अमि इत्युक्तौ अजादि-अमि | अनुवृत्ति सहितसूत्रम् — '''अकः अमि अचि पूर्वपरयोः एकः पूर्वः संहितायाम् |'''</big>
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
|+
page_and_link_managers, Administrators
5,097

edits