14---samAsaH/02A---avyayiibhAvasamAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 75:
<big>आदौ समासः विधीयते केनचित् समासविधायकसूत्रेण |  तत्पश्चात् प्रक्रियायां समासस्य निर्माणे पञ्चोपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति  | इमानि पञ्च उपाङ्गनि सन्ति—</big>
==== <big>१) '''प्रातिपदिकसंज्ञा'''</big> ====
<big>समासस्य अलौकिकविग्रहात् समासप्रक्रिया आरभ्यते|समासस्य प्रातिपदिकसंज्ञा विधीयते '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण | प्रातिपदिकसंज्ञानन्तरं पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण | अष्टाध्यायां (६.३.१) इत्यस्मात् सूत्रात् आरभ्य (६.३.२४) इति सूत्रपर्यन्तं पूर्वपदस्य विभक्तेः अलुक् भवति   | उत्तरपदे इति अधिकारे सुब्-अलुक् इति एकं कार्यम् अस्ति | पञ्चमे सोपाने सुबलुक् इत्यस्य विवरणम् अग्रे दीयते |</big>
==== <big>२) '''पूर्वनिपातः''' = '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३)</big> ====
<big>इति संज्ञासूत्रेण समासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति  | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति '''उपसर्जनं पूर्वम्'''‌ (२.२.३०) इति सूत्रेण |</big>
Line 83:
<big>३) '''लिङ्गवचनयोः निर्णयः'''</big>
 
<big>समासस्य लिङ्गस्य, वचनस्य च निर्णयः  |</big>
 
 
Line 89:
<big>४) '''समासान्तप्रत्ययाः'''</big>
 
<big>समासप्रक्रियायां कुत्रचित् समासान्तप्रत्ययः विधीयते इति स्मर्तव्यम् | अष्टाध्यायां समासान्ताधिकारः (५.४.६८) इत्यस्मात् सूत्रात् आरभ्य (५.४.१६०) इति सूत्रपर्यन्तम् अस्ति  | अस्मिन् अधिकारे समासे कुत्रचित् समासान्तप्रत्ययाः विधीयन्ते  |</big>
 
 
Line 129:
 
 
<big>अव्ययीभावसमासे पूर्वपदम् अव्ययम् इत्युक्तम्|तर्हि अव्ययं नाम किम् इति अवगन्तव्यम् |</big>
 
<big>'''अव्ययम्'''  —</big>
Line 143:
<big>संस्कृतभाषायां बहूनि अव्ययपदानि सन्ति | कानिचन  प्रसिद्धानि अव्ययानि — अथ, अपि, इति, इव, एव, एवम्, च,यथा-तथा, यावत्-तावत्, नूनं, पुनः, किल, खलु इत्यादीनि | सर्वासु विभक्तिषु एतेषाम् अव्ययानां रूपाणि न परिवर्तन्ते |</big>
 
<big>व्याकरणे केषाञ्चन शब्दानाम् अव्ययसंज्ञा भवति | तेभ्यः यदा सुप्प्रत्ययाः विधीयन्ते तदा तेषां सुप्प्रत्ययानां लुक् (लोपः) भवति '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण | सुबन्तानां तिङन्तानां च पदसंज्ञा भवति '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इति सूत्रेण  इति ज्ञातम् | अव्ययानाम् अपि पदसंज्ञा भवति सुप्प्रत्ययस्य विधानेन | यद्यपि सुप्प्रत्ययाः लुप्यन्ते तथापि '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन प्रत्ययस्य लोपानान्तरम् अपि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव  | सर्वाणि अव्ययानि सुबान्तानि एव भवन्ति यतोहि तेभ्यः सुप्-प्रत्ययाः विधीयन्ते लुप्यन्ते च | अत एव अव्ययानां रूपाणि त्रिषु लिङ्गेषु, सर्वासु विभक्तिषु, सर्वेषु वचनेषु च समानानि भवन्ति |</big>
 
----
Line 190:
 
 
<big>प्रादिगणे ये शब्दाः पठिताः, तेषां प्रयोगः धातुना सह भवति चेत् तेषाम् उपसर्गसंज्ञा अपि भवति '''उपसर्गाः क्रियायोगे''' (१.४.५९) इति सूत्रेण |  उपसर्गाणाम् अपि अव्ययसंज्ञा भवति|प्रादीनाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति इति कारणेन तेषाम् अव्ययसंज्ञा अपि भवति '''स्वरादिनिपातमव्ययम्''' ( १.१.३७) इति सूत्रेण |</big>
 
----
Line 196:
<big>'''उपसर्गाः क्रियायोगे''' (१.४.५९)</big>
 
<big>प्रादयः क्रियायोगे उपसर्गसज्ञाः स्युः | एते प्रादयः सन्ति  — प्र-परा-अप-सम्-अनु-अव-निस्-निर्-दुस्-दुर्-वि-आङ्-नि-अधि-अपि-अति-सु-उत्-अभि-प्रति- परि-उप | यदा प्रादीनां प्रयोगः धातुना सह क्रियते तदा तेषाम् उपसर्गसंज्ञा भवति | क्रियायाः योगः, क्रियायोगः तस्मिन्, क्रियायोगे, षष्ठीतत्पुरुषः | उपसर्गाः प्रथमान्तं, क्रियायोगे सप्तम्यन्तम् | '''प्रादयः''' ( १.४.५८) इत्यस्मात् सूत्रात् प्रादयः इत्यस्य अनुवृत्तिः | '''प्राग्रीश्वरान्निपाताः''' ( १.४.५६)  इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''प्रादयः क्रियायोगे उपसर्गाः |'''</big>
 
----
Line 250:
<big>अव्ययीभावसमासस्य विषये केचन समासान्तप्रत्ययाः विधीयन्ते | समासान्ताधिकारे (५.४.६८ – ५.४.१६०) समासान्तप्रत्ययाः विधीयन्ते | समासान्तप्रत्ययाः तद्धिताधिकारे सन्ति | एते प्रत्ययाः तद्धितप्रत्ययाः एव परन्तु समासस्य प्रक्रियायां विधीयन्ते | तद्धितसंज्ञकाः समासान्तप्रत्ययाः समासस्य अन्ते आयान्ति, अपि च समासस्य अवयवाः भवन्ति | अत एव एते समासान्तप्रत्ययाः इति नाम्ना ज्ञायन्ते | समासान्ताः समासस्य अवयवाः सन्ति इत्यतः एव समासान्तानां योजनानन्तरं सम्पूर्णस्य समस्तपदस्य प्रातिपदिकसंज्ञा भवति| यद्यपि एतानि कार्याणि समस्तपदस्य निर्माणे भवन्ति तथापि प्रक्रिया तु तद्धितप्रक्रियाम् आश्रित्य एव भवति | नाम तद्धितप्रकरणे यानि सूत्राणि प्रसक्तानि भवन्ति तद्धितप्रक्रियायां, तानि समासप्रक्रियायाम् अपि प्रसक्तानि भवन्ति यतोहि समासान्ताः तद्धिताधिकारे सन्ति | अत एव पाणिनिना एते समासान्तप्रत्ययाः तद्धिताधिकारे स्थापिताः |</big>
===== <big>'''तद्धिताः''' (४.१.७६)</big> =====
<big>अधिकारसूत्रम् इदम् |अस्य सूत्रस्य अधिकारः अस्ति ४.१.७६ इति सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तं नाम ५.४.१७० इति पर्यन्तम् | अस्मिन् अधिकारे ये प्रत्ययाः विधीयन्ते ते सर्वे तद्धितसंज्ञकाः भवन्ति | '''सूत्रं स्वयं सम्पूर्णम्''' |</big>
===== <big>'''समासान्ताः''' (५.४.६८)</big> =====
<big>एतत् सूत्रम् अधिकारसूत्रम् अस्ति | अस्मात् सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तं ये तद्धितप्रत्ययाः पाठिताः ते समासप्रक्रियायां विधीयन्ते | अर्थात् समासान्तस्य अधिकारः ५.४.६८ इत्यस्मात् सूत्रात् आरभ्य ५.४.१६० इति सूत्रपर्यन्तम् | एते समासान्तप्रत्ययाः प्रातिपदिकात् विधीयन्ते यतोहि '''ङ्याप्प्रातिपदिकात्''' ( ४.१.१) इति सूत्रस्य अधिकारः अस्ति चतुर्थाध्ययात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तम् |</big>
Line 258:
 
 
<big>एते समासान्तप्रत्ययाः समासान्तावयवाः भवन्ति | समासान्तप्रत्यये कृते, तं प्रत्ययम् अपि योजयित्वा समासस्य व्यवहारः क्रियते येन अग्रे सुप्प्रत्ययस्य योजना सम्भवति | यदि समासान्तप्रत्ययाः समासस्य अवयवाः न सन्ति तर्हि सुप्प्रत्ययं योजयितुं न शक्यते यतोहि सुप्प्रत्ययः प्रातिपदिकात् एव विहितः भवति |</big>
 
 
 
<big>यथा  – अध्यात्मन् इति अव्ययीभावसमासे '''टच्''' इति समासान्तप्रत्ययः विधीयते '''अनश्च''' (५.४.१०८) इति सूत्रेण यतोहि आत्मन् इति अन्नन्तः पुंलिङ्गशब्दः अस्ति '''→ अध्यात्मन् + टच्''' | अयं टच् इति प्रत्ययः समासस्य अन्तावयवः भवति इति कारणेन सम्पूर्णस्य '''<nowiki/>'''' अध्यात्मन्+टच् ' इत्यस्य समाससंज्ञा, प्रातिपदिकसंज्ञा च भवति | ततः अग्रे प्रक्रियायाम् अध्यात्म इति भवति, तस्मात् सु इति प्रत्ययस्य विधानानन्तरम् अध्यात्मम् इति रूपं सिध्यतिसिद्ध्यति | प्रक्रिया अग्रे उल्लेखिता अस्ति |</big>
 
 
Line 326:
<big>अव्ययीभावप्रसङ्गे समासान्तप्रत्ययः कदा विधीयते इत्यस्य सारांशः अत्र दीयते, सूत्राणां व्याख्यानम् अग्रे भविष्यति -</big>
 
<big>१) '''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) = शरदादिगणे ये शब्दाः पठिताः, ते शब्दाः उत्तरपदे विद्यन्ते चेत्, तस्मात् टच् इति समासान्तप्रत्ययः विधीयते '''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) इति सूत्रेण | यथा – शरद् इति प्रातिपदिकम् |</big>
 
<big>२) '''अनश्च''' (५.४.१०८)  = अन्नन्तः पुंलिङ्गशब्दः अथवा अन्नन्तः स्त्रीलिङ्गशब्दः उत्तरपदे विद्यते चेत्, तस्मात् टच् इति समासान्तप्रत्ययः विधीयते '''अनश्च''' (५.४.१०८) इति सूत्रेण | यथा – राजन् इति प्रातिपदिकम् |</big>
Line 343:
 
===== '''<big><u>विभाषा</u></big>''' =====
<big>'''विभाषा''' (२.१.११) = एतद् अधिकारसूत्रम् अस्ति | एतस्य सूत्रस्य अधिकारः '''अपपरिबहिरञ्चवः''' '''पञ्चम्या''' (२.१.१२) इति सूत्रात् आरभ्य '''कडाराः कर्मधारये''' (२.२.३८) इति सूत्रपर्यन्तम् अस्ति | एतस्मात् सूत्रात् समासविधिः विकल्पेन भवति | एषा विभाषा '''‘महाविभाषा'''’ इति उच्यते यतोहि एतेन सूत्रेण यः विकल्पाधिकारः कृतः सः बृहान्नस्ति | एतस्य प्रसक्तिः सम्पूर्णसमासप्रकरणे अस्ति | विभाषा प्रथमान्तं, एकपदमिदं सूत्रम् | '''सूत्रं स्वयं सम्पूर्णम् |'''</big>
 
<big>'''विभाषा''' (२.१.११) इति सूत्रस्य अधिकारे यानि सूत्राणि पठितानि तानि सर्वाणि विकल्पेन विधीयन्ते इति अस्माभिः पूर्वमेव ज्ञातम् | समासः विकल्पेन विधीयते इति सामान्यः नियमः परन्तु कुत्रचित् '''विभाषा''' (२.१.११) इत्यस्य अधिकारः चेत् अपि  समासः नित्यरूपेण विधीयते | यत्र समासः नित्यः तत्र '''विभाषा''' (२.१.११) इति सूत्रस्य प्रसक्तिः न भवति | '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् प्राक् यानि समासविधायकसूत्राणि सन्ति तत्र सर्वत्र समासः नित्यः भवति | अव्ययीभावाधिकारे (२.१.५) इत्यस्मात् सूत्रात् आरभ्य (२.१.१०) इति सूत्रपर्यन्तं षट् सूत्राणि सन्ति यत्र '''विभाषा''' (२.१.११) इत्यस्य अधिकारः नास्ति, अत एव तत्र सर्वत्र समासः विकल्पेन न भवति अपि तु नित्यरूपेण भवति |</big>
Line 360:
 
==== <big>'''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७)</big> ====
<big>नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | ह्रस्वः प्रथमान्तं, नपुंसके सप्तम्यन्तं, प्रातिपदिकस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | '''अचश्च''' (१.२.२८) इत्यनेन अचः एव ह्रस्वत्वम् | '''अलोऽन्तस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव ह्रस्वत्वम् (न तु प्रातिपदिकस्य) | अनुवृत्ति-सहितसूत्रम्‌— '''नपुंसकलिङ्गे अचः प्रातिपदिकस्य ह्रस्वः |'''</big>
 
==== <big>'''अचश्च''' (१.२.२८)</big> ====
Line 370:
 
==== <big>'''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४)</big> ====
<big>अदन्तात् अव्ययीभावात् तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | बहुलम् इत्युक्ते बहून् अर्थान् लाति( गृह्णाति) इति बहुलम् | अत्र बहुलम् इति शब्दस्य प्रयोगेण कुत्रचित् विकल्पेन अम्-आदेशः भवति, कुत्रचित् अम् आदेशः नित्यः भवति | कुत्र विकल्पेन, कुत्र नित्यः इति निर्णयः प्रयोगं दृष्ट्वा करणीयः | सामान्यतया विकल्पेन इति स्वीकर्तुं शक्यते | यदि विकल्पार्थः इष्टः तर्हि विकल्पः अथवा वा इति शब्दस्य प्रयोगः भवति परन्तु अत्र बहुलम् इत्यनेन विशिष्टार्थः बुध्यते|तृतीया च सप्तमी च तयोः इतरेतरयोगद्वन्द्वः तृतीयासप्तम्यौ, तयोः | तृतीयासप्तम्योः षष्ठ्यन्तं, बहुलं प्रथमान्तं, द्विपदमिदं सूत्रम् | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यस्मात् सूत्रात् अव्ययीभावात्, अतः, अम् इत्येषाम् अनुवृत्तिः भवति | अनुवृत्ति-सहितसूत्रम्‌— '''तृतीयासप्तम्योः अव्ययीभावाद् अतः अम् बहुलम्''' |</big>
 
==== <big>'''अमि पूर्वः''' (६.१.१०५)</big> ====
<big>अक् वर्णात् अम्-सम्बन्धि-अच् परः चेत् पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति | अमि सप्तम्यन्तं, पूर्वः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अकः सवर्णे दीर्घः''' ( ६.१.९९) इत्यस्मात् सूत्रात् '''अकः''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः| '''इको यणचि''' ( ६.१.७६) इत्यस्मात् सूत्रात् अचि इत्यस्य अनुवृत्तिः | '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन अचि अमि इत्युक्तौ अजादि-अमि | अनुवृत्ति सहितसूत्रम् — '''अकः अमि अचि पूर्वपरयोः एकः पूर्वः संहितायाम् |'''</big>
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
|+
Line 384:
 
==== <big> <u>'''सम्प्रति अष्टाध्यायीक्रमेण अव्ययीभाव-समास-सूत्राणि पठिष्यामः-'''</u></big> ====
<big><br />समासप्रकरणे बहूनि सूत्राणि वर्तन्ते अतः पाठनस्य पद्धतिः अत्यन्तं महत्त्वपूर्णा | प्रत्येकस्मिन्‌ स्तरे मातुः पाठ्यक्रमः पाणिनेः सूत्राणि अवलम्ब्य समायोजितः | मातुः पाठ्यक्रमे समासप्रकरणस्य सम्बन्धः अन्यैः प्रकरणै सह  स्पष्टतया प्रतिपाद्यते येन यत् किमपि समस्तपदं भवतु तस्य प्रक्रिया कथं भवति इति  ज्ञातुं शक्नुमः| यथा अव्यायीभावसमासस्य प्रसङ्गे समास-तद्धितयोः सम्बन्धः प्रक्रियास्तरे सम्यक्तया ज्ञायते | एवं च सर्वत्र सूत्राधारीकृत्य पाठ्यक्रमः व्यवस्थापितः चेत् पाठस्य मार्गः ह्रस्वः भवति;  ज्ञानं च दृढं भवति  |</big>
 
<big><br />अव्ययीभावसमासस्य विषये मुख्यं सूत्रम् अस्ति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इति | एतेन सूत्रेण अव्ययीभावसमासः षोडशेषु अर्थेषु विधीयते | अग्रे सूत्रस्य विवरणं दीयते |</big>
 
<blockquote>
 
 
<big>1) अव्ययं सुबन्तेन सह '''<u>नित्यं</u>''' समस्यते, अव्ययीभावसमासः च भवति | अव्ययस्य बहवः अर्थाः भवन्ति|सूत्रे षोडश अर्थाः उक्ताः|परन्तु तदधिकाः अर्थाः अपि भवितुम् अर्हन्ति |</big></blockquote>
<big><br />'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  ( २.१.६)  = विभक्ति - समीप - समृद्धि - व्यृद्धि (ऋद्धेः अभावः) - अर्थाभाव - अत्यय (नाशनम्) - असम्प्रति (अयोग्यं) - शब्दप्रादुर्भाव (शब्दस्य प्रसिद्धिः) - पश्चाद् - यथा (योग्यता, वीप्सा, पदार्थानतिवृत्ति अपि च सादृश्यम्) - आनुपूर्व्य (क्रमशः) - यौगपद्य (एकत्र भवनं) - सादृश्य  - सम्पत्ति - साकल्य (सम्पूर्णता) - अन्तवचनेषु (समाप्तिः) इत्यस्मिन् अर्थे विद्यमानस्य अव्ययस्य समर्थेन सुबन्तेन सह <u>नित्यसमासः</u> भवति, अव्ययीभावश्च समासः भवति | अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु | विभक्तिश्च समीपं च समृद्धिश्च  व्यृद्धिश्च  अर्थाभावश्च अत्ययश्च असम्प्रतिश्च शब्दप्रादुर्भावश्च पश्चाच्च  यथा च आनुपूर्व्यञ्च यौगपद्यञ्च सादृश्यञ्च सम्पत्तिश्च साकल्यञ्च अन्तावचनञ्च तेषाम् इतरेतरयोगद्वन्द्वः विभक्ति-समीप-समृद्धि-व्यृद्ध्यर्थाभावात्ययासम्प्रति-शब्दप्रादुर्भावपश्चाद्यथानुपूर्व्य-यौगपद्य- सादृश्य-सम्पत्ति-साकल्यान्तावचनानि, तेषु|अव्ययं प्रथमान्तं, विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति |'''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌—'''अव्ययं सुप् सुपा सह''' '''विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु अव्ययीभावः समासः |'''</big>
 
<big>अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरम् अव्ययम् इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | अव्ययपदं समासे पूर्वं तिष्ठति इत्यर्थः निष्पन्नः| नाम अव्ययीभावसमासे अव्ययं पूर्वपदे भवति उत्तरपदं सुबन्तं पदं भवति|अयं समासः नित्यः, न तु वैकल्पिकः|</big>
 
 
 
<big>'''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) = समासशास्त्रे प्रथमानिर्दिष्टम् उपसर्जनसंज्ञकं स्यात्| समासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति, तत् पदम् उपसर्जन-संज्ञकं स्यात् | समासशास्त्रे इत्यनेन समासविधायकसूत्रं, वार्तिकं वा स्यात् | इदं संज्ञा-सूत्रम् अस्ति | प्रथमानिर्दिष्टं प्रथमान्तं, उपसर्जनं प्रथमान्तं, समासे सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | अनुवृत्ति-सहित-सूत्रम्‌ — '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' |</big>
 
<big>'''उपसर्जनं पूर्वम्‌''' (२.२.३०) = समासे उपसर्जनसंज्ञकः पूर्वं प्रयोक्तव्यः | अनेन सूत्रेण यत् कार्यं भवति तस्य नाम पूर्वनिपातः अथवा पूर्वप्रयोगः इति कथ्यते | उपसर्जनं प्रथमान्तं, पूर्वं प्रथमान्तं, द्विपदमिदं सूत्रम् |</big>
 
 
 
<big>'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अनुवृत्तिः भवति | अत्र समासः इति शब्दस्य विभक्तिपरिणामं कृत्वा सप्तमीविभक्तौ भवति | अनुवृत्ति-सहित-सूत्रम्‌— समासे उपसर्जनं पूर्वम् |</big>
 
 
 
<big>अस्मिन् सूत्रे अव्ययस्य षोडश अर्थाः दृश्यन्ते | अव्ययानाम् इतोऽपि अधिकाः अर्थाः अपि भवितुम् अर्हन्ति इति उक्तमेव | अधुना एते अर्थाः दृश्यन्ते –</big>
 
<big>१) <u>विभक्त्यर्थे</u> – 'अधि' इति अव्ययं विभक्त्यर्थे प्रयुज्यते | अधि इति अव्ययं सप्तम्यर्थे अस्ति|सप्तम्याः अर्थः अधिकरणम् इति | <u>विभक्त्यर्थे अधि इति एकमेव अव्ययम् लभ्यते</u> | यथा – हरौ इति = अधिहरि | नाम हरेः विषये इति | वयम् अधिहरि वसामः | शिवः अधिकैलासं वसति |</big>
 
<big>२) <u>समीपार्थे (निकटः)</u> – 'उप' इति अव्ययं समीपार्थे प्रयुज्यते|यथा – कृष्णस्य समीपम् = उपकृष्णम् | धेनवः उपकृष्णं तिष्ठन्ति | उपकृष्णे स्थितः अर्जुनः | उपकृष्णात् आगतः दूतः | उपकृष्णं/ उपकृष्णेन विना न हि सुखम् |</big>
 
<big>३) <u>समृद्ध्यर्थे (ऋद्धेः आधिक्यं - excessive prosperity)</u> – 'सु' इति अव्ययस्य प्रयोगः क्रियते | यथा – मद्राणां समृद्धिः = सुमद्रम्|मद्रदेशवासिनां समृद्धिः | भिक्षाणां समृद्धिः = सुभिक्षम् |  सुमद्रं जनाः आनन्देन वसन्ति स्म |</big>
 
<big>४) <u>व्यृद्ध्यर्थे (ऋद्धेः अभावः, वैकृत्यम्,  deterioration)</u> –  विगता ऋद्धिः = व्यृद्धिः | 'दुर्' इति अव्ययस्य प्रयोगः क्रियते|यथा – यवनानां व्यृद्धिः = दुर्यवनम् | एवमेव शकानां व्यृद्धिः = दुःशकम् | दुर्यवनं प्रजाः दुखिताः अभवन् |</big>
 
<big>५) <u>अर्थाभावार्थे (अभावार्थे, पदार्थस्य असत्ता )</u> – 'निर्' इति अव्ययस्य प्रयोगः क्रियते|यथा – मक्षिकाणाम् अभावः = निर्मक्षिकम् | विघ्नानाम् अभावः = निर्विघ्नम्|बालकः निर्मक्षिकम् आनन्देन शेते |</big>
 
<big>६) <u>अत्ययार्थे (नाशः)</u> – 'अति', निर्, निस् इत्येषाम् अव्ययानां प्रयोगः क्रियते | यथा – हिमस्य अत्ययः =अतिहिमम् | अतिशीतम्, निर्हिमम्  इत्यादयः | अतिहिमं परिसरस्य हानिः भवति | रामः अतिकोपात् शान्तिं प्राप्तवान् |</big>
 
<big>७) <u>असम्प्रत्यर्थे (अयुक्तः, अयोग्यकाले इति)</u> – 'अति' इति अव्ययस्य प्रयोगः क्रियते | असम्प्रति = न युज्यते इत्यर्थः | यथा – निद्रा सम्प्रति न युज्यते = अतिनिद्रम् | कम्बलं सम्प्रति न युज्यते इति अतिकम्बलम् | अतिनिद्रम् आरोग्याय न भवति | अतिनिद्रं पुरुषः उत्तिष्ठति |</big>
 
<big>८) <u>शब्दप्रादुर्भावार्थे (शब्दस्य प्रसिद्धिः, शब्दस्य प्रकाशः, appearance of the word)</u> – 'इति' इति अव्ययस्य प्रयोगः क्रियते | यथा – हरिशब्दस्य प्रकाशः = इतिहरि |पणिनिशब्दस्य प्रकाशः = इतिपाणिनि | ज्ञानशब्दस्य प्रकाशः = इतिज्ञानम् | शङ्काराचर्यस्य कारणेन भारते इतीश्वरम् आरब्धम् |तिरुपत्याम् इतिगोविन्दं श्रवणेन सर्वे ध्यानमग्नाः भवन्ति |</big>
 
<big>९) <u>पश्चादर्थे (अनन्तरम्)</u> – 'अनु' इति अव्ययस्य प्रयोगः क्रियते|यथा – विष्णोः पश्चात् = अनुविष्णु | रथानां पश्चात् = अनुरथम् |पदानां पश्चात् = अनुपदम् | अनुशिष्यम्, अनुगोपालम् इत्यादीनि उदाहरणानि | रामः अनुमृगं धावति |अनुवृष्टि सस्यानि वर्धन्ते | अन्वर्चकं भक्ताः रामनाम जपन्ति स्म |</big>
 
<big>१०) यथा इत्यस्य चत्वारः अर्थाः सन्ति – योग्यता, वीप्सा, पदार्थानतिवृत्तिः, सादृश्यम् च | अत्र 'यथा' इति अव्ययस्य प्रयोगः क्रियते|</big>
 
<big>a. <u>योग्यता (अर्हता)</u> – अस्मिन् अर्थे 'अनु' इति अव्ययं समस्यते | यथा – रूपस्य योग्यम् = अनुरूपम् | गुणानां योग्यम् = अनुगुणम् | लेखस्य योग्यम् = अनुलेखम् |विद्यालयस्य योग्यम् = अनुविद्यालयम् | अनुरूपं सः युतकं क्रीणाति | एतानि उत्तराणि अनुप्रश्नं भवन्ति|</big>
 
<big>b. <u>वीप्सा (पौनः पुण्यः)</u> – 'प्रति' इति अव्ययस्य प्रयोगः क्रियते | यथा – अर्थमर्थं प्रति = प्रत्यर्थम् | प्रतिमासं, प्रतिगृहं, प्रत्येकम् इत्यादीनि उदाहरणानि | यथा प्रतिवृक्षं सिञ्चति इत्यस्य एकैकं वृक्षं सिञ्चति इत्यर्थः | रामः प्रतिदिनं कार्यालयं गच्छति |</big>
 
<big>c. <u>पदार्थानतिवृत्तिः (अनतिक्रमः – not exceeding)</u> – 'यथा' इति अव्ययस्य प्रयोगः क्रियते |यथा – शक्तिम् अनतिक्रम्य = यथाशक्ति | यथाशक्ति पठति इत्यस्य शक्तिम् अनतिक्रम्य पठति इत्यर्थः | यथाप्रीति | यथाबुद्धि, यथाज्ञानम् इत्यादीनि उदाहरणानि | छात्राः यथामति अध्ययनं कुर्वन्ति | शिष्यः आचर्यस्य वचनं यथोक्तम् अवगच्छति | यथासम्भवं विद्यार्थिभिः सह  सर्वोऽपि संलापः संस्कृतभाषैव कर्तव्यः |यथाकुलं पुरुषाः व्यापारं कुर्वन्ति |</big>
 
<big>  d. <u>सादृश्यम् (औपम्यम् -Similarity)</u> – 'सह' इति अव्ययस्य प्रयोगः क्रियते|यथा  हरेः सादृश्यम् = सहरि | सहरि प्रद्युम्ने दृश्यते | सादृश्यस्य प्राधान्यम् अस्ति |</big>
 
<big>११) आनुपूर्व्यार्थे (क्रमशः -Sequentially) – 'अनु' इति अव्ययस्य प्रयोगः क्रियते | यथा – ज्येष्ठस्य आनुपूर्व्येण = अनुज्येष्ठम् | अनुज्येष्ठं मानवकः प्रणमति | अनुकनिष्ठं माता भोजनं परिवेषयति | वृद्धस्य आनुपूर्व्येण = अनुवृद्धम् |</big>
 
<big>१२) <u>यौगपद्यार्थे (युगपत्, समानकाले)</u> – 'सह' इति अव्ययस्य प्रयोगः क्रियते | चक्रेण युगपत् = सचक्रम् | सचक्रं शङ्खं धेहि | सरामं लक्ष्मणः, सीता च वनं गच्छतः |</big>
 
<big>१३) <u>सादृश्यार्थे (तुल्यत्वं, गौणम्)</u> – 'सह' इति अव्ययस्य प्रयोगः क्रियते | सह स्थाने 'स' आदेशः भवति | यथा – सदृशः सख्या = ससखि|ससखि रमा सुन्दरी आसीत् |प्रकृत्या ससखि रामः अस्ति | सकृष्णं प्रद्युम्नः गुणवान् आसीत् |अत्र सादृश्यस्य प्राधान्यं नास्ति |</big>
 
<big>१४) <u>सम्पत्त्यर्थे (अनुरूपः आत्मभावः, Appropriate)</u> – 'सह' इति अव्ययस्य प्रयोगः क्रियते| सह स्थाने 'स' आदेशः भवति | यथा क्षत्राणां सम्पत्तिः = सक्षत्रम् | सक्षत्रं रामः रावणेन युद्धम् अकरोत् | सबुद्धि बालकः पाठम् अवगच्छति |</big>
 
<big>१५) <u>साकल्यार्थे (सम्पूर्णता -Entirety, अशेषता)</u> – 'सह' इति अव्ययस्य प्रयोगः क्रियते| सह स्थाने 'स' आदेशः भवति | यथा – तृणम् अपि अपरित्यज्य अत्ति = सतृणम्|सः सतृणम् अत्ति | अर्थात् लेशमात्रम् अपि अपरित्यज्य खादति |</big>
 
<big>१६) <u>अन्तार्थे (समाप्ति:)</u> – 'सह' इति अव्ययस्य प्रयोगः क्रियते | सह स्थाने 'स' आदेशः भवति |यथा – अग्निग्रन्थपर्यन्तम् अधीते = साग्नि | साग्नि  अधीते |</big>
 
<big>उपरि उक्तान् अर्थान् विहाय अन्येषाम् अर्थानां प्रयोगः अपि काव्येषु दृश्यते |</big>
Line 466:
 
 
<big>अस्मिन् सूत्रे अव्ययम् इति पदस्य षोडश अर्थाः सन्ति इति ज्ञातम् | परन्तु एतेषाम् अव्ययानाम् इतोऽपि अधिकाः अर्थाः अर्हन्ति | तेषाम् अर्थानां समर्थनार्थं सूत्रस्य योगविभागः क्रियते | सूत्रस्य अर्थं विकासयितुम् कौमुद्यां सूत्रस्य योगविभागः कृतः|योगविभागेन अव्ययम् इति एकः पृथग्भागः क्रियते, अवशिष्टभागः अन्यभागः भवति | योगविभागात् सूत्रस्य अर्थद्वयम् एवं भवति –</big>
 
<big>१) प्रथमभागस्य अर्थः = अव्ययम् इति पदं यत् सूत्रे अस्ति तस्य समासः भवति सुबन्तेन पदेन सह, अव्ययीभावसमासश्च भवति |</big>
Line 472:
<big>२) द्वितीयभागस्य अर्थः =  विभक्त्यादिषु अर्थेषु अव्ययस्य सुबन्तेन सह समासः भवति, अव्ययीभावसमासश्च भवति | एतादृशयोगविभागेन न केवलं षोडश अर्थाः स्वीक्रियन्ते अपि तु तस्मात् अधिकाः अर्थाः अपि स्वीक्रियन्ते |</big>
 
<big>एतादृशयोगविभागेन प्राचीनकाले अव्ययीभावसमासस्य विषये ये प्रयोगाः दृश्यन्ते , तेषां प्रयोगाणां समर्थनं शक्यते | पूर्वम् अस्माभिः पठितं यत् एतेषां केवलसमासानां समर्थनं '''सह सुपा''' (२.१.४) इति सामान्यसूत्रेण क्रियते इति | तर्हि अत्र प्रकृतसूत्रे योगविभागस्य का आवश्यकता?</big>
 
 
 
<big>वस्तुतस्तु योगविभागस्य आवश्यकता नास्ति परन्तु केचन वैयाकरणाः उच्यन्ते यत् एतेषां समासानां समर्थनं '''सह सुपा''' (२.१.४) इति सूत्रेण नास्ति परन्तु विधायकसूत्रे एव योगविभागं कृत्वा समर्थनं करणीयम् इति|तदर्थं योगविभागस्य विषये उक्तम् |यत् किमपि भवतु प्राचीनप्रयोगाणां समर्थनं कथञ्चित् करणीयम् –  योगविभागेन वा नो चेत् '''सह सुपा''' ( २.१.४) इति सूत्रेण वा | तादृशसमासान् कर्तुं  वयं न अर्हामः|वयं तु केवलं षोडशेषु अर्थेषु एव समासं कर्तुं शक्नुमः |</big>
 
<big>सामन्यतः समासः विकल्पेन भवति, नाम व्यस्तप्रयोगः अपि शक्यते, समस्तप्रयोगः अपि शक्यते | परन्तु अत्र अव्ययीभावः विकल्पेन न भवति अपि तु नित्यरूपेण भवति यतोहि '''विभाषा''' (२.१.११) इति सूत्रस्य अधिकारे इदम् अव्ययीभावसमासविधायाकं सूत्रं नास्ति | इदं सूत्रं '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् प्राक् अस्ति यतोहि अत्र अस्वपदविग्रहः एव सम्भवति | अत एव प्रकृतसूत्रे अव्ययीभावसमासः नित्यः इत्युच्यते | न  विद्यते स्वपदविग्रहः यस्य सः समासः अस्वपदविग्रहः|यस्य समासस्य अस्वपदविग्रहः, सः समासः नित्यसमासः | नाम समासस्य अर्थः समासघटकानि पदानि विहाय अन्यपदैः यदा वर्ण्यते तदा अस्वपदविग्रहः इति उच्यते | समास-घटक-पद-रहित-वाक्यम् अस्वपदविग्रहः इति उच्यते | यथा — उपकृष्णम् इति उदाहरणे विग्रहः कृष्णसय उप इति भवितुं न अर्हति | एतेन विग्रहेण अर्थबोधः न जायते | अतः अत्र अस्वपदविग्रहं प्रयुज्य कृष्णस्य समीपम् इति विग्रहवाक्यं वक्तव्यं भवति |</big>
 
----
Line 484:
<big>'''अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' ( २.१.६) इति सूत्रे अव्ययानाम् अर्थ: क्रमेण परिशील्यते -</big><blockquote>
===<big>'''i)'''  '''<u>सूत्रे विभक्त्यर्थे अव्ययम्</u> –'''</big>===
</blockquote><big>'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)- अस्मिन् सूत्रे '''<u>विभक्त्यर्थे</u>''' वर्तमानम् अव्ययं सुबन्तेन सह समस्यते, सोऽव्ययीभावः| विभक्त्यर्थः नाम कारकम् इति अर्थः |कारकेषु अपि अधिकरणकारकमेव अत्र इष्यते |  विभक्त्यर्थे अधि इति अव्ययं समस्यते|अधि इति अव्ययं सप्तम्यर्थे अस्ति | सप्तमीविभक्तेः अधिकरणम् इति अर्थः अस्ति | अस्य उदाहरणम् अस्ति अधिहरि | अधिहरि इति समस्तपदस्य प्रक्रिया अधः प्रदर्शिता अस्ति |</big>
 
====<big>'''अ)''' '''उत्तरपदम् अनदन्तं चेत्-'''</big>====
<big>'''हरौ इति = अधिहरि''' – अत्र अधि इति शब्दः सप्तमीविभक्त्यर्थे, अधिकरणर्थे प्रयुक्तः अस्ति | अधि शब्दः सप्तम्यर्थस्य बोधकः अस्ति |</big>
 
{| class="wikitable mw-collapsible"
Line 496:
 
 
<big>हरि + ङि + अधि '''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण|'''अव्ययीभावः''' (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)   इति सूत्रेण अधि इति अव्ययं समर्थेन हरि इति सुबन्तेन सह समस्यते | एतेन सूत्रेण अव्ययीभावसमासः विधीयते |</big>
 
 
 
<big>हरि + ङि + अधि '''→'''  समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण |</big>
 
 
 
<big>हरि + ङि + अधि '''→  '''इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | अतः हरि + ङि + अधि '''→''' इत्यस्मिन्‌ ङि इत्यस्य लुक्‌ भवति '''→''' हरि + अधि |</big>
 
 
 
<big>हरि + अधि '''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति | अत्र च 'अधि' इत्यस्य अन्ते सुप्‌  न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा इति | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक् अभवत् '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण|अतः अधि इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण | यद्यपि प्रत्ययस्य लोपः जातः तथापि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव |</big>
 
 
 
<big>हरि + अधि→ अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमाविभक्त्या यत्  पदं निर्दिश्यते समासविधायकसूत्रे तत् उपसर्जनसंज्ञकं भवति|अत्र '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इति  समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र अधि इति अव्ययम् अस्ति, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |</big>
 
 
 
<big>अधिहरि '''→ अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | अधिहरि इति शब्दः अव्ययसंज्ञकः भवति |</big>
 
 
 
<big>अधिहरि'''→''' इदानीं लिङ्गस्य निर्णयः क्रियते | '''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम्|अतः अधिहरि इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |</big>
 
 
Line 526:
 
 
<big>अधिहरि '''→ ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)''' इति सूत्रेण नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य हस्वः भवति | अतः अधिहरि इति भवति|</big>
 
<big>अधिहरि + सु '''→''' अधिहरि इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः '''ङ्याप्प्रातिपदिकात्‌''' ( ४.१.१),</big>
 
<big>'''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) इत्याभ्यां सूत्राभ्याम् |</big>
 
<big>अधिहरि + सु '''→''' अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण अव्ययात् परस्य सु प्रत्ययस्य लोपः भवति | '''अव्ययीभावश्च''' (१.१.४१) इत्यनेन सूत्रेण अधिहरि इति अव्ययम् अस्ति इत्यतः सु प्रत्ययस्य लोपः भवति '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण | '''अधिहरि''' इति समस्तपदं निष्पन्नम्|अत्र अधिहरि इत्यस्य अदन्तम् अङ्गं नास्ति अतः '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३), '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) च, अनयोः सूत्रयोः प्रसक्तिः नास्ति | एतस्मिन् विषये अग्रे वक्ष्यते |</big>
 
<big>'''वयं सर्वे अधिहरि वसामः''' | '''अधिहरि जगतः सृष्टिः भवति |'''</big>
 
<big>सर्वासु विभक्तिषु अधिहरि इत्येव रूपं भवति |</big>
Line 562:
===== <big>'''सुपो धातुप्रातिपदिकयोः''' (२.४.७१)</big> =====
 
<big>धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्-प्रत्ययस्य लुक् भवति | यदि कश्चन सुप्-प्रत्ययः कस्यचित् धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानः अस्ति, तर्हि तस्य सुप्-प्रत्ययस्य लुक् भवति | धातुश्च प्रातिपदिकं च तयोरितरेतरयोगद्वन्द्वः, धातुप्रातिपदिके, तयोर्धातुप्रातिपदिकयोः| सुपः षष्ठ्यन्तं, धातुप्रातिपदिकयोः षष्ठीद्विवचनान्तम्|ण्यक्षत्रियार्षञितो यूनि लुगणिञोः ( २.४.५८) इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अस्ति|अनुवृत्ति-सहित-सूत्रम्‌— '''धातुप्रातिपदिकयोः सुपः लुक् |'''</big>
|-
|
Line 579:
|
===== <big>'''अव्ययीभावश्च''' (२.४.१८)</big> =====
<big>अव्ययीभावसमासः नपुंसकलिङ्गे भवति | अव्ययीभावः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''स नपुंसकम्''' (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रं— '''अव्ययीभावः च नपुंसकम् |'''</big>
 
<big> </big>
Line 585:
|
===== <big>'''अव्ययीभावश्च''' (१.१.४१)</big> =====
<big>अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | अव्ययीभावसमास-संज्ञायाः विधानानन्तरं सम्पूर्णं समस्तपदम् अव्ययं भवति | इदं सूत्रं संज्ञासूत्रम् अस्ति|अव्ययीभावः प्रथमान्तं, च अव्ययपदं द्विपदमिदं सूत्रम् | '''स्वरादिनिपातमव्ययम्''' ( १.१.३७) इत्यस्मात् सूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रं— '''अव्ययीभावः च अव्ययम् |'''</big>
|-
|
===== <big>'''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७)</big> =====
<big>नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात्|ह्रस्वः प्रथमान्तं, नपुंसके सप्तम्यन्तं, प्रातिपदिकस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | '''अचश्च''' (१.२.२८) इत्यनेन अचः एव ह्रस्वत्वम् |'''अलोऽन्तस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव ह्रस्वत्वम् (न तु प्रातिपदिकस्य) | अनुवृत्ति-सहितसूत्रम्‌— '''नपुंसकलिङ्गे अचः प्रातिपदिकस्य ह्रस्वः |'''</big>
|-
|
===== <big>'''एच इग्घ्रस्वादेशे''' ( १.१.४८)</big> =====
<big>एच्-वर्णस्य ह्रस्वादेशः क्रियते चेत्, एच्-वर्णस्य स्थाने इक्-वर्णः विधीयते | उच्चारणसाम्यवशात् एकारस्य, ऐकारस्य च स्थाने इकारः भवति, ओकारस्य औकारस्य च स्थाने उकारः भवति|इदं परिभाषासूत्रम् अस्ति | एचः षष्ठ्यन्तम् , इक् प्रथमान्तं , ह्रस्व-आदेशे सप्तम्यन्तम् | सूत्रं स्वयं सम्पूर्णम्  — '''एचः इक् ह्रस्वादेशे''' |</big>
|}
 
Line 620:
 
 
<big>अधि इति शब्दः सप्तमीविभक्त्यर्थे, अधिकरणार्थे प्रयुक्तः अस्ति | अधि शब्दः सप्तम्यर्थस्य बोधकः अस्ति|</big>
 
 
<big>अलौकिकविग्रहवाक्यम्</big>
 
<big>गोपा + ङि + अधि '''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण|'''अव्ययीभावः''' (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)   इति सूत्रेण अधि इति अव्ययं समर्थेन गोपा इति सुबन्तेन सह समस्यते|एतेन सूत्रेण अव्ययीभावसमासः विधीयते |</big>
 
 
<big>गोपा + ङि + अधि '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण |</big>
 
 
<big>गोपा + ङि + अधि '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | अतःगोपा + ङि + अधि '''→'''इत्यस्मिन्‌ ङि इत्यस्य लुक्‌ भवति '''→''' गोपा + अधि</big>
 
<big>गोपा + अधि '''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति | अत्र च 'अधि' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा इति | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण|अतः अधि इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |यद्यपि प्रत्ययस्य लोपः जातः तथापि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव |</big>
 
<big>गोपा + अधि '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इति  समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति|अत्र अधि इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |</big>
 
 
<big>अधिगोपा '''→ अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | अधिगोपा इत्यस्य अव्ययसंज्ञा भवति |</big>
 
 
<big>अधिगोपा'''→''' इदानीं लिङ्गस्य निर्णयः क्रियते | '''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः अधिगोपा इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |</big>
 
<big>अधिगोपा '''→ ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)''' इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति | अतः अधिगोप इति भवति |</big>
 
 
Line 650:
 
 
<big>अधिगोप + सु '''→''' अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात्  सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय|पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति अधिगोपात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
 
<big>अधिगोप + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम् सम्बन्धी अच् परः चेत् पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमीविभक्तिं विहाय अपरासु विभक्तिषु '''अधिगोपम्''' इति रूपं सिद्धं भवति|'''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयं सम्भवति'''→''' अधिगोपम् / अधिगोपेन, अधिगोपम् / अधिगोपे | अन्यासु विभक्तिषु अधिगोपम् इति रूपं सिद्धं भवति|</big>
 
 
Line 659:
 
 
<big>अधिगोप + ङसि '''→ टाङसिङसामिनात्स्याः''' (७.१.१२) इत्यनेन सूत्रण अदन्तात् अङ्गात् परस्य टा, ङसि, ङस् च प्रत्ययानां स्थाने  क्रमेण इन, आत्, स्य इत्येते आदेशाः भवन्ति | अतः पञ्चमीविभक्तौ अदन्तात् अङ्गात् ङसि इत्यस्य स्थाने आत् इति आदेशः भवति |</big>
 
 
<big>अधिगोप + आत् '''→ अकः सवर्णे दीर्घः''' (६.१.१०१) इति सूत्रस्य कार्यानन्तरम् अधिगोपात् इति रूपं निष्पन्नं भवति |</big>
 
<big>अधः सर्वासु विभक्तिषु रूपाणि प्रदर्शितानि |</big>
|}
 
Line 727:
|
=====<big> '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३)</big>=====
<big>अदन्तात् अव्ययीभावात्  सुप् प्रत्ययस्य लुक् न भवति, अपि तु पञ्चमीविभक्तिं विहाय अन्यासु विभक्तिषु सुप्प्रत्ययस्य स्थाने अमादेशः विधीयते | अस्मिन् सूत्रे निषेधः इति भागः अपि अस्ति येन सुपः लुक् निषिध्यते, विधिः इति भागः अपि अस्ति येन अमादेशः विधीयते, परन्तु पञ्चमीं विहाय|न अव्यययपदम्, अव्ययीभावात् पञ्चम्यन्तम्, अतः पञ्चम्यन्तम्, अम् प्रथमान्तं, तु अव्ययपदम्, अपञ्चम्याः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | '''अव्ययादाप्सुपः''' (२.४.८२) इत्यस्मात् सूत्रात् सुपः इत्यस्य अनुवृत्तिः | '''ण्यक्षत्रियार्षञितो यूनि लुगणिञोः''' ( २.४.५८) इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अतः अव्ययीभावात् तु न सुपः लुक्, अपञ्चम्याः अम् |'''</big>
 
 
Line 734:
 
===== <big>'''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४)</big> =====
<big>अदन्तात् अव्ययीभावात् तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति|अत्र बहुलम् इति शब्दस्य प्रयोगेण कुत्रचित् विकल्पेन अम्-आदेशः भवति, कुत्रचित् अम् आदेशः नित्यः भवति | कुत्र विकल्पेन, कुत्र नित्यः इति निर्णयः प्रयोगं दृष्ट्वा करणीयः | सामान्यतया विकल्पेन इति स्वीकर्तुं शक्यते |यदि विकल्पार्थः इष्टः तर्हि विकल्पः अथवा वा इति शब्दस्य प्रयोगः भवति परन्तु अत्र बहुलम् इत्यनेन विशिष्टार्थः बुध्यते|तृतीया च सप्तमी च तयोः इतरेतरयोगद्वन्द्वः तृतीयासप्तम्यौ, तयोः | तृतीयासप्तम्योः षष्ठ्यन्तं, बहुलं प्रथमान्तं, द्विपदमिदं सूत्रम् | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यस्मात् सूत्रात् अव्ययीभावात्, अतः, अम् इत्येषाम् अनुवृत्तिः भवति | अनुवृत्ति-सहितसूत्रम्‌— '''तृतीयासप्तम्योः अतः अव्ययीभावाद् अम् बहुलम्''' |</big>
 
 
 
<big>बहुलम् अपि च विकल्पने अनयोः शब्दयोः भेदः वर्तते|बहुलम् इत्यनेन क्वचित् प्रवृत्तिः, क्वचि अप्रवृत्तिः, क्वचित् विभाषा, क्वचित् अन्यदेव | अव्ययीभावासमासस्य सन्दर्भे बहुलम् इत्यस्य विकल्पेन इति अर्थः प्रायेण गृह्यते | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रे बहुलग्रह्णात् एव सुमद्रम्, उन्मत्तगङ्गम् इत्यादौ सप्तम्याः नित्यम् अम्भावः | अर्थात् '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रे बहुलम् इति शब्दस्य प्रयोगः भवति कुत्रचित् यथा सुमद्रम्, उन्मत्तगङ्गम् इत्यादौ | नाम कुत्रचित् विकल्पेन अम्भावः भवति कुत्रचित् नित्यं भवति|यदि विकल्पः इत्येव इष्यते तर्हि वा शब्दस्य पाठः स्यात् परन्तु अस्मिन् सूत्रे विशिष्टः अर्थः इष्टः अतः एव बहुलम् इति शब्दस्य प्रयोगः कृतः |</big>
 
<big>मद्राणां समृद्धिः = सुमद्रम् | नित्यम् अम्भावः भवति सर्वासु विभक्तिषु पञ्चमीं विहाय |</big>
 
<big>उन्मत्ता गङ्गा यस्मिन् = उन्मत्तगङ्गम् | अत्रापि नित्यम् अम्भावः भवति सर्वासु विभक्तिषु पञ्चमीं विहाय |</big>
 
 
Line 749:
|
===== <big>'''अमि पूर्वः''' (६.१.१०५)</big> =====
<big>अक् वर्णात्  अम् -सम्बन्धी अच् परः चेत् पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति | अमि सप्तम्यन्तं, पूर्वः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अकः सवर्णे दीर्घः''' ( ६.१.९९) इत्यस्मात् सूत्रात् '''अकः''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः|'''इको यणचि''' ( ६.१.७६) इत्यस्मात् सूत्रात् अचि इत्यस्य अनुवृत्तिः | '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन अचि अमि इत्युक्तौ अजादि-अमि | अनुवृत्ति सहितसूत्रम् — '''अकः अचि अमि पूर्वपरयोः एकः पूर्वः संहितायाम् |'''</big>
|}
 
Line 806:
<big>अलौकिकविग्रहवाक्यम्</big>
 
<big>आत्मन् + ङि + अधि '''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण | '''अव्ययीभावः''' (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति|'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)  इति सूत्रेण अधि इति अव्ययं समर्थेन आत्मनि इति सुबन्तेन सह समस्यते | एतेन सूत्रेण अव्ययीभावसमासः विधीयते |</big>
 
 
<big>आत्मन् + ङि + अधि '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण |</big>
 
<big>आत्मन् + ङि + अधि '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | अतःआत्मन् + ङि + अधि '''→'''इत्यस्मिन्‌ ङि इत्यस्य लुक्‌ भवति→ आत्मन् + अधि इति |</big>
 
<big>आत्मन् + अधि'''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति|अत्र च 'अधि' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा इति | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण|अतः अधि इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |यद्यपि प्रत्ययस्य लोपः जातः तथापि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव |</big>
 
 
<big>आत्मन् + अधि '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इति  समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति|अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति|अत्र अधि इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |</big>
 
<big>अधि + आत्मन् → '''अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति |</big>
 
<big>अधि + आत्मन् → अत्र '''इको यणचि''' (६.१.७६) इति सूत्रेण यण् सन्धिं कृत्वा → अध्यात्मन् इति भवति, तस्य अव्ययसंज्ञा भवति |</big>
 
 
<big>अध्यात्मन् '''→''' इदानीम् '''अनश्च''' (५.४.१०८) इति सूत्रेण अव्ययीभावसमासस्य अन्ते "अन्" इति विद्यते चेत् तस्मात् टच् इति समासान्तप्रत्ययः भवति |</big>
 
<big>अध्यात्मन् + टच् '''→''' टच् इति समासान्तप्रत्ययः समासस्य अवयवः भवति|टच् इति प्रत्यये इतसंज्ञकवर्णयोः लोपानन्तरम् अकारः अवशिष्यते |अध्यात्मन् + अ '''→''' आत्मन् इति पुंलिङ्गशब्दः अस्ति, अतः '''नपुंसकादन्यतरस्याम्''' (५.४.१०९) इति सूत्रस्य प्रसक्तिः नास्ति | '''नपुंसकादन्यतरस्याम्''' (५.४.१०९) इति सूत्रेण नपुंसकलिङ्गे अन्नन्तप्रातिपदिकात् टच् इति समासान्तप्रत्ययः विकल्पेन भवति |</big>
 
 
<big>अध्यात्मन् + अ '''→''' इदानीं '''नस्तद्धिते''' (६.४.१४४) इति सूत्रेण तद्धितप्रत्यये परे नकारान्तस्य भसंज्ञकस्य शब्दस्य टिसंज्ञकस्य लोपः भवति '''→ नस्तद्धिते''' (६.४.१४४) इति सूत्रेण अन् इति टि-भागस्य लोपानन्तरम् '''→''' अध्यात्म् + अ '''→''' अध्यात्म इति भवति |</big>
 
<big>अध्यात्म '''→''' इदानीं लिङ्गस्य निर्णयः क्रियते | '''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् |अतः अध्यात्म इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |</big>
 
 
<big>अध्यात्म + सु '''→''' अध्यात्म इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः '''ङ्याप्प्रातिपदिकात्‌'''  (४.१.१), '''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) इत्याभ्यां सूत्राभ्याम् |</big>
 
 
<big>अध्यात्म + सु '''→  अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते|'''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय|पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति अध्यात्मात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
<big>अध्यात्म + अम् '''→'''  '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्|पञ्चमी-विभक्तिं विहाय अपरासु विभक्तिषु '''अध्यात्मम्''' इति रूपं सिद्धं भवति|'''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयं सम्भवति '''→''' अध्यात्मम् / अध्यात्मेन, अध्यात्मम् / अध्यात्मे |अन्यासु विभक्तिषु अध्यात्मम् इति रूपं सिद्धं भवति|पञ्चमी-विभक्तौ अध्यात्मात् इति रूपं भवति |</big>
 
<big><br />पञ्चमीविभक्तौ सुप् लुक् न भवति इति उक्तम् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण|तर्हि प्रक्रिया अधो भागे प्रदर्शिता –</big>
 
<big>अध्यात्म + ङसि '''→ टाङसिङसामिनात्स्याः''' (७.१.१२) इत्यनेन सूत्रण अदन्तात् अङ्गात् परस्य टा, ङसि, ङस् च प्रत्ययानां स्थाने  क्रमेण इन, आत्, स्य इत्येते आदेशाः भवन्ति | अतः पञ्चमीविभक्तौ अदन्तात् अङ्गात् ङसि इत्यस्य स्थाने आत् इति आदेशः भवति |</big>
 
<big>अध्यात्म+ आत् '''→ अकः सवर्णे दीर्घः''' (६.१.१०१) इति सूत्रस्य कार्यानन्तरम् अध्यात्मात् इति रूपं निष्पन्नं भवति |</big>
 
<big>एवमेव राज्ञः समीपम् = उपराजम् इति भवति |</big>
Line 854:
|
===== <big>'''अनश्च''' (५.४.१०८)</big> =====
<big>यस्य अव्ययीभावसमासस्य अन्ते "अन्" इति विद्यते तस्मात् टच् इति समासान्तप्रत्ययः भवति |अनः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''अव्ययीभावे शरत्प्रभृतिभ्यः''' ( ५.४.१०८) इत्यस्मात् सूत्रात् अव्ययीभावः इत्यस्य अनुवृत्तिः|अव्ययीभावः इति पदस्य विभक्तिपरिणामं कृत्वा अव्ययीभावात् इति भवति | '''राजाहस्सखिभ्यष्टच्‌''' (५.४.९१) इत्यस्मात् सूत्रात् टच् इति पदस्य अनुवृत्तिः | '''समासान्ताः''' (५.४.६८), '''तद्धिताः''' (४.१.७६) अनयोः सूत्रयोः अधिकारः | '''ङ्याप्प्रातिपदिकात्‌''' (४.१.१) इत्यस्य अधिकारः | '''प्रत्ययः, परश्च''' अनयोः सूत्रयोः अपि अधिकारः |अनुवृत्ति-सहितसूत्रम्‌— '''अनश्च अव्ययीभावात् प्रादिपदिकात् टच् प्रत्ययः परश्च तद्धितः समासान्तः |'''</big>
 
<big>राजन्, आत्मन्, ब्रह्मन्, अर्यमन् इत्येतानि पुंलिङ्गप्रातिपदिकानि, अन्नन्तानि च सन्ति|सीमन्, दामन् इत्यादयः स्त्रीलिङ्गे अन्नन्तशब्दाः सन्ति | अव्ययीभावसमासे यदि एतानि अन्नन्तानि प्रातिपदिकस्य अन्ते विद्यन्ते तर्हि '''अनश्च''' (५.४.१०८) इति सूत्रेण टच् इति प्रत्ययः नित्यं भवति | यदि अन्नन्तं प्रातिपदिकं नपुंसकलिङ्गे अस्ति तर्हि टच् इति समासान्तप्रत्ययः विकल्पेन भवति '''नपुंसकादन्यतरस्याम्''' (५.४.१०९) इति सूत्रेण | एतत् सूत्रम् अग्रे पठिष्यामः |</big>
 
 
Line 863:
===== <big>'''नस्तद्धिते''' (६.४.१४४)</big> =====
 
<big>तद्धितप्रत्यये परे नकारान्तस्य भसंज्ञकस्य अङ्गस्य टिसंज्ञकस्य लोपः भवति | नः षष्ठ्यन्तं, तद्धिते सप्तम्यन्तं, द्विपदमिदं सूत्रम्|'''टेः''' (६.४.१४३) इति सूत्रस्य सम्पूर्णतया अनुवृत्तिः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तादेशः | '''अल्लोपोऽनः''' (६.४.१३४) इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' ( ६.४.१) इत्यस्य अधिकारः |'''भस्य''' (६.४.१२९) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''भस्य अङ्गस्य नः तद्धिते टेः लोपः |'''</big>
 
 
Line 869:
|
===== <big>'''अचोऽन्त्यादि टि''' (१.१.६४)</big> =====
<big>अचां मध्ये यः अन्त्यः, सः आदिः यस्य तत्‌ टि-संज्ञकं स्यात्‌ | अन्ते भवः अन्त्यः, अन्त्यः आदिर्यस्य सः अन्त्यादिः बहुव्रीहिः | अचः षष्ठ्यन्तम्‌, अन्त्यादिः प्रथमान्तं, टि प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | अत्र अचः एकवचने यतोहि अनेन अच्‌-जातिः इति इष्टम्‌ | आशयः बहुवचनं, निर्धारण-सप्तमी (बहुषु एकम्‌) |</big>
|-
|
Line 877:
|
===== <big>'''सुडनपुंसकस्य''' (१.१.४३)</big> =====
<big>सुट्‌-प्रत्याहारे सु-आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थान-संज्ञा भवति परन्तु नपुंसकलिङ्गे न |सुट्‌-प्रत्याहारे सु, औ, जस्‌, अम्‌, औट्‌ इतीमे प्रत्ययाः अन्तर्भूताः | न नपुंसकम्‌, अनपुंसकम्‌ नञ्तत्पुरुषः, तस्य अनपुंसकस्य | सुट्‌ प्रथमान्तम्‌, अनपुंसकस्य षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | '''शि सर्वनामस्थानम्'''‌ (१.१.४२) इत्यस्मात्‌ सर्वनामस्थानम्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''सुट् सर्वनामस्थानम्‌ अनपुंसकस्य |'''</big>
|-
|
===== <big>'''यचि भम्‌''' (१.४.१८)</big> =====
<big>सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तम्‌ ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परः अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति |य्‌ च, अच्‌ च यच्‌ समाहारद्वन्द्वः, तस्मिन्‌ यचि | यचि सप्तम्यन्तं, भम्‌ प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | '''स्वादिष्वसर्वनामस्थाने''' (१.४.१७) इत्यस्य पूर्णतया अनुवृतिः | अनुवृत्ति-सहितसूत्रम्‌— '''स्वादिषु असर्वनामस्थाने यचि भम्‌''' |</big>
|-
|
Line 893:
<big>एतेषां प्रक्रिया चिन्तनीया —१) सीमनि इति , २) दामनि इति  ३) दण्डिनि इति (दण्डिन् इति पुंलिङ्गशब्दः) |</big>
 
<big>अधः सीमन् इति अन्नन्त-स्त्रीलिङ्गशब्दस्य रूपाणि प्रदर्शितानि|एवमेव दामन् इति स्त्रीलिङ्गशब्दस्य रूपाणि अपि |</big>
{| class="wikitable"
|'''<big>विभक्तिः</big>'''
Line 960:
'''<big>नद्याः समीपम् = उपनदम्/उपनदि</big>'''
 
<big>उपनदम् इति समस्तपदस्य रूपसाधनार्थं '''नदीपौर्णमास्याग्रहायणीभ्यः''' (५.४.११०) इति सूत्रेण टच् इति समासान्तप्रत्ययः विकल्पेन विधीयते | यस्मिन् पक्षे टच् इति समासान्तप्रत्ययः विधीयते तत्र उपनदम् इति रूपं निष्पन्नं भवति|यस्मिन् पक्षे टच् इति प्रत्ययः न विधीयते तत्र उपनदि इति रूपं सिद्ध्यति | उपनदम् / उपनदि इति समस्तपदस्य शास्त्रीय-प्रक्रिया अधो लिखिता वर्तते |</big>
 
{| class="wikitable mw-collapsible"
Line 970:
 
 
<big>नदी +ङस् +  उप → समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण | '''अव्ययीभावः''' (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)   इति सूत्रेण उप इति अव्ययं समर्थेन नदी इति सुबन्तेन सह समस्यते |</big>
 
 
 
<big>नदी + ङस् + उप '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण |</big>
 
 
 
<big>नदी + ङस् + उप '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन |अतः नदी + ङस् + उप '''→'''इत्यस्मिन्‌ ङस् इत्यस्य लुक्‌ → उप + नदी इति |</big>
 
 
 
<big>उप + नदी'''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'उप' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण | अतः उप इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |</big>
 
 
 
<big>नदी + उप '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति|अत्र उप इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |</big>
 
 
 
<big>उपनदी '''→ अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | उपनदी इत्यस्य अव्ययसंज्ञा भवति |</big>
 
 
 
<big>उपनदी '''→''' अत्र '''नदीपौर्णमास्याग्रहायणीभ्यः''' (५.४.११०) इत्यनेन अव्ययीभावसमासस्य अन्ते "नदी" इति शब्दात् विकल्पेन "टच्" इति समासान्तप्रत्ययः भवति | उपनदी + टच् '''→''' टच् इति प्रत्यये टकार-चकारयोः इत्संज्ञा भवति, अकारः अवशिष्यते | टच् इति प्रत्ययस्य योजनेन हलन्तशब्दाः अपि अजन्ताः भवन्ति; एतदेव टच् इति प्रत्ययस्य प्रयोजनम्|समासान्तप्रत्ययः समासस्य अवयवः अस्ति |</big>
 
 
 
<big>उपनदी + अ'''→ यचि भम्‌''' (१.४.१८) इत्यनेन उपनदी इत्यस्य भसंज्ञा भवति टच् इति अजादि प्रत्यये परे | '''यस्येति च''' (६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | उपनदी इत्यस्य ईकारस्य लोपः भवति'''→''' अत्र उपनद् + अ '''→''' उपनद इति भवति |</big>
 
<big><br /></big>
 
<big>उपनद→ इदानीं लिङ्गस्य निर्णयः भवति | '''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम्|अतः उपनदि इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |</big>
 
 
 
<big>उपनद → उपनद इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः '''ङ्याप्प्रातिपदिकात्‌''' (४.१.१), '''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्'''‌ (४.१.२) इत्याभ्यां सूत्राभ्याम् |</big>
 
 
 
<big>उपनद + सु '''→''' अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते|'''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम्-आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथासामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति उपनदात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
 
page_and_link_managers, Administrators
5,097

edits