14---samAsaH/02A---avyayiibhAvasamAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 171:
 
 
<big>प्रादीनाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति | प्रादीनां निपातसंज्ञा अस्ति इति कारणेन तेषां '''स्वरादिनिपातमव्ययम्''' ( १.१.३७) इति सूत्रेण अव्ययसंज्ञा अपि भवति | यस्मिन् शब्दे लिङ्गस्य, सङ्ख्यायाः वा सम्बन्धः अस्ति, नो चेत् यस्मिन् शब्दे लिङ्गम् अथवा सङ्ख्या अस्ति सः शब्दः द्रव्यवाची इति वदामः | नाम यदि कस्यचित् शब्दस्य लिङ्निर्देशः सङ्ख्यानिर्देशः वा भवितुम् अर्हति, सः शब्दः द्रव्यवाची अस्ति इति उच्यते | यदि एतादृशः निर्देशः न भवितुम् अर्हति, तर्हि सः शब्दः अद्रव्यवाची इति उच्यते |</big>
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
Line 231:
<big>अव्ययीभावसमासः अव्ययं भवति इति उक्तम्|तर्हि अव्ययसंज्ञायाः प्रयोजनं किम्?</big>
 
<big><br />अव्ययसंज्ञायाः प्रयोजनं यत् '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण सुप्प्रत्ययानां लुक् भवति | '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण अव्ययात् परस्य सुप् प्रत्ययाः लुप्यन्ते | अस्य सूत्रस्य कार्यानन्तरं  सर्वासु विभक्तिषु अव्ययीभावसमासस्य रूपाणि समानानि भवेयुः इति चिन्तयामः | तादृशचिन्तनं समीचीनमेव, परन्तु ततः परम् अन्यसूत्राणि प्रसक्तानि चेत्  अव्ययीभावसमासस्य सर्वाणि रूपाणि समानानि न भवन्ति | कासु विभक्तिषु रूपभेदाः भवितुम् अर्हन्ति इति अग्रे उच्यते | तदर्थं सूत्रद्वयं पठिष्यामः -  '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) , '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति |</big>
 
----
Line 373:
 
==== <big>'''अमि पूर्वः''' (६.१.१०५)</big> ====
<big>अक् वर्णात् अम्-सम्बन्धि-अच् परः चेत् पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति | अमि सप्तम्यन्तं, पूर्वः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अकः सवर्णे दीर्घः''' ( ६.१.९९) इत्यस्मात् सूत्रात् '''अकः''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | '''इको यणचि''' ( ६.१.७६) इत्यस्मात् सूत्रात् अचि इत्यस्य अनुवृत्तिः | '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन अचि अमि इत्युक्तौ अजादि-अमि | अनुवृत्ति सहितसूत्रम् — '''अकः अमि अचि पूर्वपरयोः एकः पूर्वः संहितायाम् |'''</big>
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
|+
Line 392:
 
<big>1) अव्ययं सुबन्तेन सह '''<u>नित्यं</u>''' समस्यते, अव्ययीभावसमासः च भवति | अव्ययस्य बहवः अर्थाः भवन्ति|सूत्रे षोडश अर्थाः उक्ताः|परन्तु तदधिकाः अर्थाः अपि भवितुम् अर्हन्ति |</big></blockquote>
<big><br />'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  ( २.१.६)  = विभक्ति - समीप - समृद्धि - व्यृद्धि (ऋद्धेः अभावः) - अर्थाभाव - अत्यय (नाशनम्) - असम्प्रति (अयोग्यं) - शब्दप्रादुर्भाव (शब्दस्य प्रसिद्धिः) - पश्चाद् - यथा (योग्यता, वीप्सा, पदार्थानतिवृत्ति अपि च सादृश्यम्) - आनुपूर्व्य (क्रमशः) - यौगपद्य (एकत्र भवनं) - सादृश्य  - सम्पत्ति - साकल्य (सम्पूर्णता) - अन्तवचनेषु (समाप्तिः) इत्यस्मिन् अर्थे विद्यमानस्य अव्ययस्य समर्थेन सुबन्तेन सह <u>नित्यसमासः</u> भवति, अव्ययीभावश्च समासः भवति | अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु | विभक्तिश्च समीपं च समृद्धिश्च  व्यृद्धिश्च  अर्थाभावश्च अत्ययश्च असम्प्रतिश्च शब्दप्रादुर्भावश्च पश्चाच्च  यथा च आनुपूर्व्यञ्च यौगपद्यञ्च सादृश्यञ्च सम्पत्तिश्च साकल्यञ्च अन्तावचनञ्च तेषाम् इतरेतरयोगद्वन्द्वः विभक्ति-समीप-समृद्धि-व्यृद्ध्यर्थाभावात्ययासम्प्रति-शब्दप्रादुर्भावपश्चाद्यथानुपूर्व्य-यौगपद्य- सादृश्य-सम्पत्ति-साकल्यान्तावचनानि, तेषु|अव्ययं प्रथमान्तं, विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌—'''अव्ययं सुप् सुपा सह''' '''विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु अव्ययीभावः समासः |'''</big>
 
<big>अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरम् अव्ययम् इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | अव्ययपदं समासे पूर्वं तिष्ठति इत्यर्थः निष्पन्नः| नाम अव्ययीभावसमासे अव्ययं पूर्वपदे भवति उत्तरपदं सुबन्तं पदं भवति | अयं समासः नित्यः, न तु वैकल्पिकः |</big>
 
 
Line 424:
<big>७) <u>असम्प्रत्यर्थे (अयुक्तः, अयोग्यकाले इति)</u> – 'अति' इति अव्ययस्य प्रयोगः क्रियते | असम्प्रति = न युज्यते इत्यर्थः | यथा – निद्रा सम्प्रति न युज्यते = अतिनिद्रम् | कम्बलं सम्प्रति न युज्यते इति अतिकम्बलम् | अतिनिद्रम् आरोग्याय न भवति | अतिनिद्रं पुरुषः उत्तिष्ठति |</big>
 
<big>८) <u>शब्दप्रादुर्भावार्थे (शब्दस्य प्रसिद्धिः, शब्दस्य प्रकाशः, appearance of the word)</u> – 'इति' इति अव्ययस्य प्रयोगः क्रियते | यथा – हरिशब्दस्य प्रकाशः = इतिहरि |पणिनिशब्दस्य प्रकाशः = इतिपाणिनि | ज्ञानशब्दस्य प्रकाशः = इतिज्ञानम् | शङ्काराचर्यस्य कारणेन भारते इतीश्वरम् आरब्धम् | तिरुपत्याम् इतिगोविन्दं श्रवणेन सर्वे ध्यानमग्नाः भवन्ति |</big>
 
<big>९) <u>पश्चादर्थे (अनन्तरम्)</u> – 'अनु' इति अव्ययस्य प्रयोगः क्रियते|यथा – विष्णोः पश्चात् = अनुविष्णु | रथानां पश्चात् = अनुरथम् | पदानां पश्चात् = अनुपदम् | अनुशिष्यम्, अनुगोपालम् इत्यादीनि उदाहरणानि | रामः अनुमृगं धावति |अनुवृष्टि सस्यानि वर्धन्ते | अन्वर्चकं भक्ताः रामनाम जपन्ति स्म |</big>
 
<big>१०) यथा इत्यस्य चत्वारः अर्थाः सन्ति – योग्यता, वीप्सा, पदार्थानतिवृत्तिः, सादृश्यम् च | अत्र 'यथा' इति अव्ययस्य प्रयोगः क्रियते |</big>
 
<big>a. <u>योग्यता (अर्हता)</u> – अस्मिन् अर्थे 'अनु' इति अव्ययं समस्यते | यथा – रूपस्य योग्यम् = अनुरूपम् | गुणानां योग्यम् = अनुगुणम् | लेखस्य योग्यम् = अनुलेखम् |विद्यालयस्य योग्यम् = अनुविद्यालयम् | अनुरूपं सः युतकं क्रीणाति | एतानि उत्तराणि अनुप्रश्नं भवन्ति|</big>
Line 434:
<big>b. <u>वीप्सा (पौनः पुण्यः)</u> – 'प्रति' इति अव्ययस्य प्रयोगः क्रियते | यथा – अर्थमर्थं प्रति = प्रत्यर्थम् | प्रतिमासं, प्रतिगृहं, प्रत्येकम् इत्यादीनि उदाहरणानि | यथा प्रतिवृक्षं सिञ्चति इत्यस्य एकैकं वृक्षं सिञ्चति इत्यर्थः | रामः प्रतिदिनं कार्यालयं गच्छति |</big>
 
<big>c. <u>पदार्थानतिवृत्तिः (अनतिक्रमः – not exceeding)</u> – 'यथा' इति अव्ययस्य प्रयोगः क्रियते | यथा – शक्तिम् अनतिक्रम्य = यथाशक्ति | यथाशक्ति पठति इत्यस्य शक्तिम् अनतिक्रम्य पठति इत्यर्थः | यथाप्रीति | यथाबुद्धि, यथाज्ञानम् इत्यादीनि उदाहरणानि | छात्राः यथामति अध्ययनं कुर्वन्ति | शिष्यः आचर्यस्य वचनं यथोक्तम् अवगच्छति | यथासम्भवं विद्यार्थिभिः सह  सर्वोऽपि संलापः संस्कृतभाषैव कर्तव्यः | यथाकुलं पुरुषाः व्यापारं कुर्वन्ति |</big>
 
<big>  d. <u>सादृश्यम् (औपम्यम् -Similarity)</u> – 'सह' इति अव्ययस्य प्रयोगः क्रियते|यथा  हरेः सादृश्यम् = सहरि | सहरि प्रद्युम्ने दृश्यते | सादृश्यस्य प्राधान्यम् अस्ति |</big>
Line 442:
<big>१२) <u>यौगपद्यार्थे (युगपत्, समानकाले)</u> – 'सह' इति अव्ययस्य प्रयोगः क्रियते | चक्रेण युगपत् = सचक्रम् | सचक्रं शङ्खं धेहि | सरामं लक्ष्मणः, सीता च वनं गच्छतः |</big>
 
<big>१३) <u>सादृश्यार्थे (तुल्यत्वं, गौणम्)</u> – 'सह' इति अव्ययस्य प्रयोगः क्रियते | सह स्थाने 'स' आदेशः भवति | यथा – सदृशः सख्या = ससखि|ससखि रमा सुन्दरी आसीत् | प्रकृत्या ससखि रामः अस्ति | सकृष्णं प्रद्युम्नः गुणवान् आसीत् | अत्र सादृश्यस्य प्राधान्यं नास्ति |</big>
 
<big>१४) <u>सम्पत्त्यर्थे (अनुरूपः आत्मभावः, Appropriate)</u> – 'सह' इति अव्ययस्य प्रयोगः क्रियते | सह स्थाने 'स' आदेशः भवति | यथा क्षत्राणां सम्पत्तिः = सक्षत्रम् | सक्षत्रं रामः रावणेन युद्धम् अकरोत् | सबुद्धि बालकः पाठम् अवगच्छति |</big>
 
<big>१५) <u>साकल्यार्थे (सम्पूर्णता -Entirety, अशेषता)</u> – 'सह' इति अव्ययस्य प्रयोगः क्रियते | सह स्थाने 'स' आदेशः भवति | यथा – तृणम् अपि अपरित्यज्य अत्ति = सतृणम् | सः सतृणम् अत्ति | अर्थात् लेशमात्रम् अपि अपरित्यज्य खादति |</big>
 
<big>१६) <u>अन्तार्थे (समाप्ति:)</u> – 'सह' इति अव्ययस्य प्रयोगः क्रियते | सह स्थाने 'स' आदेशः भवति | यथा – अग्निग्रन्थपर्यन्तम् अधीते = साग्नि | साग्नि  अधीते |</big>
 
<big>उपरि उक्तान् अर्थान् विहाय अन्येषाम् अर्थानां प्रयोगः अपि काव्येषु दृश्यते |</big>
Line 476:
 
 
<big>वस्तुतस्तु योगविभागस्य आवश्यकता नास्ति परन्तु केचन वैयाकरणाः उच्यन्ते यत् एतेषां समासानां समर्थनं '''सह सुपा''' (२.१.४) इति सूत्रेण नास्ति परन्तु विधायकसूत्रे एव योगविभागं कृत्वा समर्थनं करणीयम् इति | तदर्थं योगविभागस्य विषये उक्तम् | यत् किमपि भवतु प्राचीनप्रयोगाणां समर्थनं कथञ्चित् करणीयम् –  योगविभागेन वा नो चेत् '''सह सुपा''' ( २.१.४) इति सूत्रेण वा | तादृशसमासान् कर्तुं  वयं न अर्हामः|वयं तु केवलं षोडशेषु अर्थेषु एव समासं कर्तुं शक्नुमः |</big>
 
<big>सामन्यतः समासः विकल्पेन भवति, नाम व्यस्तप्रयोगः अपि शक्यते, समस्तप्रयोगः अपि शक्यते | परन्तु अत्र अव्ययीभावः विकल्पेन न भवति अपि तु नित्यरूपेण भवति यतोहि '''विभाषा''' (२.१.११) इति सूत्रस्य अधिकारे इदम् अव्ययीभावसमासविधायाकं सूत्रं नास्ति | इदं सूत्रं '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् प्राक् अस्ति यतोहि अत्र अस्वपदविग्रहः एव सम्भवति | अत एव प्रकृतसूत्रे अव्ययीभावसमासः नित्यः इत्युच्यते | न  विद्यते स्वपदविग्रहः यस्य सः समासः अस्वपदविग्रहः | यस्य समासस्य अस्वपदविग्रहः, सः समासः नित्यसमासः | नाम समासस्य अर्थः समासघटकानि पदानि विहाय अन्यपदैः यदा वर्ण्यते तदा अस्वपदविग्रहः इति उच्यते | समास-घटक-पद-रहित-वाक्यम् अस्वपदविग्रहः इति उच्यते | यथा — उपकृष्णम् इति उदाहरणे विग्रहः कृष्णसय उप इति भवितुं न अर्हति | एतेन विग्रहेण अर्थबोधः न जायते | अतः अत्र अस्वपदविग्रहं प्रयुज्य कृष्णस्य समीपम् इति विग्रहवाक्यं वक्तव्यं भवति |</big>
 
----
Line 484:
<big>'''अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' ( २.१.६) इति सूत्रे अव्ययानाम् अर्थ: क्रमेण परिशील्यते -</big><blockquote>
===<big>'''i)'''  '''<u>सूत्रे विभक्त्यर्थे अव्ययम्</u> –'''</big>===
</blockquote><big>'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)- अस्मिन् सूत्रे '''<u>विभक्त्यर्थे</u>''' वर्तमानम् अव्ययं सुबन्तेन सह समस्यते, सोऽव्ययीभावः | विभक्त्यर्थः नाम कारकम् इति अर्थः | कारकेषु अपि अधिकरणकारकमेव अत्र इष्यते |  विभक्त्यर्थे अधि इति अव्ययं समस्यते | अधि इति अव्ययं सप्तम्यर्थे अस्ति | सप्तमीविभक्तेः अधिकरणम् इति अर्थः अस्ति | अस्य उदाहरणम् अस्ति अधिहरि | अधिहरि इति समस्तपदस्य प्रक्रिया अधः प्रदर्शिता अस्ति |</big>
 
====<big>'''अ)''' '''उत्तरपदम् अनदन्तं चेत्-'''</big>====
Line 562:
===== <big>'''सुपो धातुप्रातिपदिकयोः''' (२.४.७१)</big> =====
 
<big>धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्-प्रत्ययस्य लुक् भवति | यदि कश्चन सुप्-प्रत्ययः कस्यचित् धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानः अस्ति, तर्हि तस्य सुप्-प्रत्ययस्य लुक् भवति | धातुश्च प्रातिपदिकं च तयोरितरेतरयोगद्वन्द्वः, धातुप्रातिपदिके, तयोर्धातुप्रातिपदिकयोः | सुपः षष्ठ्यन्तं, धातुप्रातिपदिकयोः षष्ठीद्विवचनान्तम्|ण्यक्षत्रियार्षञितो यूनि लुगणिञोः ( २.४.५८) इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अस्ति|अनुवृत्ति-सहित-सूत्रम्‌— '''धातुप्रातिपदिकयोः सुपः लुक् |'''</big>
|-
|
Line 571:
|
===== <big>'''अव्ययादाप्सुपः''' (२.४.८२)</big> =====
<big>अव्ययात् परस्य आप्-प्रत्ययानां सुप्-प्रत्ययानां च लुक्-भवति |'''लुक्''' ( २.४.५८) इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं — '''अव्ययात् आप्-सुपः लुक्''' |</big>
|-
|
Line 585:
|
===== <big>'''अव्ययीभावश्च''' (१.१.४१)</big> =====
<big>अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | अव्ययीभावसमास-संज्ञायाः विधानानन्तरं सम्पूर्णं समस्तपदम् अव्ययं भवति | इदं सूत्रं संज्ञासूत्रम् अस्ति | अव्ययीभावः प्रथमान्तं, च अव्ययपदं द्विपदमिदं सूत्रम् | '''स्वरादिनिपातमव्ययम्''' ( १.१.३७) इत्यस्मात् सूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रं— '''अव्ययीभावः च अव्ययम् |'''</big>
|-
|
===== <big>'''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७)</big> =====
<big>नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात्|ह्रस्वः प्रथमान्तं, नपुंसके सप्तम्यन्तं, प्रातिपदिकस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | '''अचश्च''' (१.२.२८) इत्यनेन अचः एव ह्रस्वत्वम् | '''अलोऽन्तस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव ह्रस्वत्वम् (न तु प्रातिपदिकस्य) | अनुवृत्ति-सहितसूत्रम्‌— '''नपुंसकलिङ्गे अचः प्रातिपदिकस्य ह्रस्वः |'''</big>
|-
|
===== <big>'''एच इग्घ्रस्वादेशे''' ( १.१.४८)</big> =====
<big>एच्-वर्णस्य ह्रस्वादेशः क्रियते चेत्, एच्-वर्णस्य स्थाने इक्-वर्णः विधीयते | उच्चारणसाम्यवशात् एकारस्य, ऐकारस्य च स्थाने इकारः भवति, ओकारस्य औकारस्य च स्थाने उकारः भवति | इदं परिभाषासूत्रम् अस्ति | एचः षष्ठ्यन्तम् , इक् प्रथमान्तं , ह्रस्व-आदेशे सप्तम्यन्तम् | सूत्रं स्वयं सम्पूर्णम्  — '''एचः इक् ह्रस्वादेशे''' |</big>
|}
 
Line 634:
 
<big>गोपा + अधि '''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति | अत्र च 'अधि' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा इति | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण|अतः अधि इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः | यद्यपि प्रत्ययस्य लोपः जातः तथापि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव |</big>
 
<big>गोपा + अधि '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इति  समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति|अत्र अधि इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |</big>
Line 653:
 
 
<big>अधिगोप + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम् सम्बन्धी अच् परः चेत् पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमीविभक्तिं विहाय अपरासु विभक्तिषु '''अधिगोपम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयं सम्भवति'''→''' अधिगोपम् / अधिगोपेन, अधिगोपम् / अधिगोपे | अन्यासु विभक्तिषु अधिगोपम् इति रूपं सिद्धं भवति|</big>
 
 
Line 734:
 
===== <big>'''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४)</big> =====
<big>अदन्तात् अव्ययीभावात् तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति|अत्र बहुलम् इति शब्दस्य प्रयोगेण कुत्रचित् विकल्पेन अम्-आदेशः भवति, कुत्रचित् अम् आदेशः नित्यः भवति | कुत्र विकल्पेन, कुत्र नित्यः इति निर्णयः प्रयोगं दृष्ट्वा करणीयः | सामान्यतया विकल्पेन इति स्वीकर्तुं शक्यते |यदि विकल्पार्थः इष्टः तर्हि विकल्पः अथवा वा इति शब्दस्य प्रयोगः भवति परन्तु अत्र बहुलम् इत्यनेन विशिष्टार्थः बुध्यते | तृतीया च सप्तमी च तयोः इतरेतरयोगद्वन्द्वः तृतीयासप्तम्यौ, तयोः | तृतीयासप्तम्योः षष्ठ्यन्तं, बहुलं प्रथमान्तं, द्विपदमिदं सूत्रम् | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यस्मात् सूत्रात् अव्ययीभावात्, अतः, अम् इत्येषाम् अनुवृत्तिः भवति | अनुवृत्ति-सहितसूत्रम्‌— '''तृतीयासप्तम्योः अतः अव्ययीभावाद् अम् बहुलम्''' |</big>
 
 
Line 749:
|
===== <big>'''अमि पूर्वः''' (६.१.१०५)</big> =====
<big>अक् वर्णात्  अम्-सम्बन्धी अच् परः चेत् पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति | अमि सप्तम्यन्तं, पूर्वः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अकः सवर्णे दीर्घः''' ( ६.१.९९) इत्यस्मात् सूत्रात् '''अकः''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः| '''इको यणचि''' ( ६.१.७६) इत्यस्मात् सूत्रात् अचि इत्यस्य अनुवृत्तिः | '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन अचि अमि इत्युक्तौ अजादि-अमि | अनुवृत्ति सहितसूत्रम् — '''अकः अचि अमि पूर्वपरयोः एकः पूर्वः संहितायाम् |'''</big>
|}
 
Line 813:
<big>आत्मन् + ङि + अधि '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | अतःआत्मन् + ङि + अधि '''→'''इत्यस्मिन्‌ ङि इत्यस्य लुक्‌ भवति→ आत्मन् + अधि इति |</big>
 
<big>आत्मन् + अधि'''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति|अत्र च 'अधि' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा इति | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण | अतः अधि इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः | यद्यपि प्रत्ययस्य लोपः जातः तथापि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव |</big>
 
 
<big>आत्मन् + अधि '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इति  समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र अधि इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |</big>
 
<big>अधि + आत्मन् → '''अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति |</big>
Line 825:
<big>अध्यात्मन् '''→''' इदानीम् '''अनश्च''' (५.४.१०८) इति सूत्रेण अव्ययीभावसमासस्य अन्ते "अन्" इति विद्यते चेत् तस्मात् टच् इति समासान्तप्रत्ययः भवति |</big>
 
<big>अध्यात्मन् + टच् '''→''' टच् इति समासान्तप्रत्ययः समासस्य अवयवः भवति|टच् इति प्रत्यये इतसंज्ञकवर्णयोः लोपानन्तरम् अकारः अवशिष्यते | अध्यात्मन् + अ '''→''' आत्मन् इति पुंलिङ्गशब्दः अस्ति, अतः '''नपुंसकादन्यतरस्याम्''' (५.४.१०९) इति सूत्रस्य प्रसक्तिः नास्ति | '''नपुंसकादन्यतरस्याम्''' (५.४.१०९) इति सूत्रेण नपुंसकलिङ्गे अन्नन्तप्रातिपदिकात् टच् इति समासान्तप्रत्ययः विकल्पेन भवति |</big>
 
 
<big>अध्यात्मन् + अ '''→''' इदानीं '''नस्तद्धिते''' (६.४.१४४) इति सूत्रेण तद्धितप्रत्यये परे नकारान्तस्य भसंज्ञकस्य शब्दस्य टिसंज्ञकस्य लोपः भवति '''→ नस्तद्धिते''' (६.४.१४४) इति सूत्रेण अन् इति टि-भागस्य लोपानन्तरम् '''→''' अध्यात्म् + अ '''→''' अध्यात्म इति भवति |</big>
 
<big>अध्यात्म '''→''' इदानीं लिङ्गस्य निर्णयः क्रियते | '''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः अध्यात्म इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |</big>
 
 
Line 838:
<big>अध्यात्म + सु '''→  अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते|'''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय|पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति अध्यात्मात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
<big>अध्यात्म + अम् '''→'''  '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्|पञ्चमी-विभक्तिं विहाय अपरासु विभक्तिषु '''अध्यात्मम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयं सम्भवति '''→''' अध्यात्मम् / अध्यात्मेन, अध्यात्मम् / अध्यात्मे |अन्यासु विभक्तिषु अध्यात्मम् इति रूपं सिद्धं भवति | पञ्चमी-विभक्तौ अध्यात्मात् इति रूपं भवति |</big>
 
<big><br />पञ्चमीविभक्तौ सुप् लुक् न भवति इति उक्तम् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण | तर्हि प्रक्रिया अधो भागे प्रदर्शिता –</big>
 
<big>अध्यात्म + ङसि '''→ टाङसिङसामिनात्स्याः''' (७.१.१२) इत्यनेन सूत्रण अदन्तात् अङ्गात् परस्य टा, ङसि, ङस् च प्रत्ययानां स्थाने  क्रमेण इन, आत्, स्य इत्येते आदेशाः भवन्ति | अतः पञ्चमीविभक्तौ अदन्तात् अङ्गात् ङसि इत्यस्य स्थाने आत् इति आदेशः भवति |</big>
Line 854:
|
===== <big>'''अनश्च''' (५.४.१०८)</big> =====
<big>यस्य अव्ययीभावसमासस्य अन्ते "अन्" इति विद्यते तस्मात् टच् इति समासान्तप्रत्ययः भवति | अनः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''अव्ययीभावे शरत्प्रभृतिभ्यः''' ( ५.४.१०८) इत्यस्मात् सूत्रात् अव्ययीभावः इत्यस्य अनुवृत्तिः|अव्ययीभावः इति पदस्य विभक्तिपरिणामं कृत्वा अव्ययीभावात् इति भवति | '''राजाहस्सखिभ्यष्टच्‌''' (५.४.९१) इत्यस्मात् सूत्रात् टच् इति पदस्य अनुवृत्तिः | '''समासान्ताः''' (५.४.६८), '''तद्धिताः''' (४.१.७६) अनयोः सूत्रयोः अधिकारः | '''ङ्याप्प्रातिपदिकात्‌''' (४.१.१) इत्यस्य अधिकारः | '''प्रत्ययः, परश्च''' अनयोः सूत्रयोः अपि अधिकारः |अनुवृत्तिअ नुवृत्ति-सहितसूत्रम्‌— '''अनश्च अव्ययीभावात् प्रादिपदिकात् टच् प्रत्ययः परश्च तद्धितः समासान्तः |'''</big>
 
<big>राजन्, आत्मन्, ब्रह्मन्, अर्यमन् इत्येतानि पुंलिङ्गप्रातिपदिकानि, अन्नन्तानि च सन्ति | सीमन्, दामन् इत्यादयः स्त्रीलिङ्गे अन्नन्तशब्दाः सन्ति | अव्ययीभावसमासे यदि एतानि अन्नन्तानि प्रातिपदिकस्य अन्ते विद्यन्ते तर्हि '''अनश्च''' (५.४.१०८) इति सूत्रेण टच् इति प्रत्ययः नित्यं भवति | यदि अन्नन्तं प्रातिपदिकं नपुंसकलिङ्गे अस्ति तर्हि टच् इति समासान्तप्रत्ययः विकल्पेन भवति '''नपुंसकादन्यतरस्याम्''' (५.४.१०९) इति सूत्रेण | एतत् सूत्रम् अग्रे पठिष्यामः |</big>
 
 
Line 863:
===== <big>'''नस्तद्धिते''' (६.४.१४४)</big> =====
 
<big>तद्धितप्रत्यये परे नकारान्तस्य भसंज्ञकस्य अङ्गस्य टिसंज्ञकस्य लोपः भवति | नः षष्ठ्यन्तं, तद्धिते सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''टेः''' (६.४.१४३) इति सूत्रस्य सम्पूर्णतया अनुवृत्तिः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तादेशः | '''अल्लोपोऽनः''' (६.४.१३४) इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' ( ६.४.१) इत्यस्य अधिकारः | '''भस्य''' (६.४.१२९) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''भस्य अङ्गस्य नः तद्धिते टेः लोपः |'''</big>
 
 
Line 877:
|
===== <big>'''सुडनपुंसकस्य''' (१.१.४३)</big> =====
<big>सुट्‌-प्रत्याहारे सु-आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थान-संज्ञा भवति परन्तु नपुंसकलिङ्गे न | सुट्‌-प्रत्याहारे सु, औ, जस्‌, अम्‌, औट्‌ इतीमे प्रत्ययाः अन्तर्भूताः | न नपुंसकम्‌, अनपुंसकम्‌ नञ्तत्पुरुषः, तस्य अनपुंसकस्य | सुट्‌ प्रथमान्तम्‌, अनपुंसकस्य षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | '''शि सर्वनामस्थानम्'''‌ (१.१.४२) इत्यस्मात्‌ सर्वनामस्थानम्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''सुट् सर्वनामस्थानम्‌ अनपुंसकस्य |'''</big>
|-
|
===== <big>'''यचि भम्‌''' (१.४.१८)</big> =====
<big>सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तम्‌ ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परः अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति | य्‌ च, अच्‌ च यच्‌ समाहारद्वन्द्वः, तस्मिन्‌ यचि | यचि सप्तम्यन्तं, भम्‌ प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | '''स्वादिष्वसर्वनामस्थाने''' (१.४.१७) इत्यस्य पूर्णतया अनुवृतिः | अनुवृत्ति-सहितसूत्रम्‌— '''स्वादिषु असर्वनामस्थाने यचि भम्‌''' |</big>
|-
|
Line 952:
 
=== <big> '''ii)'''   '''<u>सूत्रे समीपार्थे अव्ययम्–</u>'''</big> ===
<big><br />समीपार्थे उप इति अव्ययं प्रयुज्यते |</big>
 
<big>यथा –</big>
Line 960:
'''<big>नद्याः समीपम् = उपनदम्/उपनदि</big>'''
 
<big>उपनदम् इति समस्तपदस्य रूपसाधनार्थं '''नदीपौर्णमास्याग्रहायणीभ्यः''' (५.४.११०) इति सूत्रेण टच् इति समासान्तप्रत्ययः विकल्पेन विधीयते | यस्मिन् पक्षे टच् इति समासान्तप्रत्ययः विधीयते तत्र उपनदम् इति रूपं निष्पन्नं भवति | यस्मिन् पक्षे टच् इति प्रत्ययः न विधीयते तत्र उपनदि इति रूपं सिद्ध्यति | उपनदम् / उपनदि इति समस्तपदस्य शास्त्रीय-प्रक्रिया अधो लिखिता वर्तते |</big>
 
{| class="wikitable mw-collapsible"
Line 978:
 
 
<big>नदी + ङस् + उप '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | अतः नदी + ङस् + उप '''→'''इत्यस्मिन्‌ ङस् इत्यस्य लुक्‌ → उप + नदी इति |</big>
 
 
Line 1,002:
<big><br /></big>
 
<big>उपनद→ इदानीं लिङ्गस्य निर्णयः भवति | '''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः उपनदि इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |</big>
 
 
Line 1,010:
 
 
<big>उपनद + सु '''→''' अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम्-आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथासामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति उपनदात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
 
 
<big>उपनद + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्-सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''उपनदम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीयाविभक्तौ अपि च सप्तमीविभक्तौ रूपद्वयम् सम्भवति- उपनदम् / उपनदेन, उपनदम् / उपनदे | अन्यासु विभक्तिषु उपनदम् इति रूपं सिद्धं भवति |</big>
 
 
Line 1,020:
<big>तृतीयाविभक्तौः उपनदम् / उपनदेन</big>
 
<big>सप्तमीविभक्तौः  उपनदम्  / उपनदे |</big>
 
<big>अन्यासु विभक्तिषु पञ्चमीविभक्तिं विहाय उपनदम् इति रूपं सिद्धं भवति | पञ्चमीविभक्तौ उपनदात् इति रूपं भवति |</big>
 
<big>नद्याः समीपम् = उपनदम् | अधः सर्वासु विभक्तिषु अव्ययपदस्य रूपाणि पश्यामः |</big>
 
 
Line 1,087:
|
===== <big>'''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३)</big> =====
<big>अदन्तात् अव्ययीभावात्  सुप् प्रत्ययस्य लुक् न भवति, अपि तु पञ्चमीविभक्तिं विहाय अन्यासु विभक्तिषु सुप्प्रत्ययस्य स्थाने अमादेशः विधीयते | अस्मिन् सूत्रे निषेधः इति भागः अपि अस्ति येन सुपः लुक् निषिध्यते, विधिः इति भागः अपि अस्ति येन अमादेशः विधीयते, परन्तु पञ्चमीं विहाय | न अव्यययपदम्, अव्ययीभावात् पञ्चम्यन्तम्, अतः पञ्चम्यन्तम्, अम् प्रथमान्तं, तु अव्ययपदम्, अपञ्चम्याः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम्|'''अव्ययादाप्सुपः''' (२.४.८२) इत्यस्मात् सूत्रात् सुपः इत्यस्य अनुवृत्तिः | '''ण्यक्षत्रियार्षञितो यूनि लुगणिञोः''' ( २.४.५८) इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अतः अव्ययीभावात् तु न सुपः लुक्, अपञ्चम्याः अम् |'''</big>
|-
|
===== <big>'''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४)</big> =====
 
<big>अदन्तात् अव्ययीभावात् तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति|अत्र बहुलम् इति शब्दस्य प्रयोगेण कुत्रचित् विकल्पेन अम्-आदेशः भवति, कुत्रचित् अम् आदेशः नित्यः भवति | कुत्र विकल्पेन, कुत्र नित्यः इति निर्णयः प्रयोगं दृष्ट्वा करणीयः | सामान्यतया विकल्पेन इति स्वीकर्तुं शक्यते | यदि विकल्पार्थः इष्टः तर्हि विकल्पः अथवा वा इति शब्दस्य प्रयोगः भवति परन्तु अत्र बहुलम् इत्यनेन विशिष्टार्थः बुध्यते|तृतीया च सप्तमी च तयोः इतरेतरयोगद्वन्द्वः तृतीयासप्तम्यौ, तयोः | तृतीयासप्तम्योः षष्ठ्यन्तं, बहुलं प्रथमान्तं, द्विपदमिदं सूत्रम् | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यस्मात् सूत्रात् अव्ययीभावात्, अतः, अम् इत्येषाम् अनुवृत्तिः भवति | अनुवृत्ति-सहितसूत्रम्‌— '''तृतीयासप्तम्योः अतः अव्ययीभावाद् अम् बहुलम्''' |</big>
|-
|
Line 1,101:
===== <big>'''नदीपौर्णमास्याग्रहायणीभ्यः''' (५.४.११०)</big> =====
 
<big>अव्ययीभावसमासस्य अन्ते "नदी", "पौर्णमासी (day of full moon)", "आग्रहायणी" (day of full moon in the month of आग्रहायणम्) इत्येतेषु कश्चन शब्दः विद्यते चेत्, तस्मात् विकल्पेन "टच्" इति समासान्तप्रत्ययः भवति | नदी च पौर्णमासी च आग्रहायणी च तासाम् इतरेतरयोगद्वन्द्वः , नदीपैर्णमास्यग्रहायण्यस्तेभ्यो नदीपौर्णमास्याग्रहायणीभ्यः| नदीपौर्णमास्याग्रहायणीभ्यः पञ्चम्यन्तम् एकपदमिदं सूत्रम्|'''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) इत्यस्मात् सूत्रात् अव्ययीभावे इत्यस्य अनुवृत्तिः भवति | '''नपुंसकादन्यतरस्याम्''' (५.४.१०९) इत्यस्मात् सूत्रात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः | '''राजाहस्सखिभ्यष्टच्‌''' ( ५.४.९१) इत्यस्मात् सूत्रात्  टच् इत्यस्य अनुवृत्तिः भवति|'''तद्धिताः''' ( ४.१.७६),  '''समासान्ताः''' ( ५.४.६८), '''प्रत्ययः''' ( ३.१.१), '''परश्च''' ( ३.१.२), '''ङ्याप्प्रातिपदिकात्''' ( ४.१.१) इत्येतेषां अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अव्ययीभावे ङ्याप्प्रातिपदिकेभ्यः नदीपौर्णमास्याग्रहायणीभ्यः परश्च तद्धितः समासान्तः टच् प्रत्ययः अन्यतरस्याम् |'''</big>
|-
|
===== <big>'''यस्येति च''' (६.४.१४८)</big> =====
 
<big>भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | इश्च अश्च,  समाहारद्वन्द्वः, तस्य यस्य | यस्य षष्ठ्यन्तम्, ईति सम्प्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | '''भस्य''' (६.४.१२९) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२), '''अलोऽन्त्यस्य''' (१.१.५२) च परिभाषासूत्रे प्रवर्तेते | '''ढे लोपोऽकद्र्वाः''' (६.४.१४७) इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः |'''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''नस्तद्धिते  '''(६.४.१४४) इत्यस्मात् सूत्रात् तद्धिते इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—  '''भस्य अङ्गस्य यस्य च लोपः ईति तद्धिते''' |    </big>
|-
|
===== <big>'''अमि पूर्वः''' (६.१.१०५)</big> =====
 
<big>अक् वर्णात्  अम् -सम्बन्धी अच् परः चेत् पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति | अमि सप्तम्यन्तं, पूर्वः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अकः सवर्णे दीर्घः''' ( ६.१.९९) इत्यस्मात् सूत्रात् '''अकः''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः| '''इको यणचि''' ( ६.१.७६) इत्यस्मात् सूत्रात् अचि इत्यस्य अनुवृत्तिः | '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन अचि अमि इत्युक्तौ अजादि-अमि | अनुवृत्ति सहितसूत्रम् — '''अकः अमि अचि पूर्वपरयोः एकः पूर्वः संहितायाम् |'''</big>
|}
 
Line 1,122:
<big><br />अलौकिकविग्रहवाक्यम्</big>
 
<big>नदी + ङस् + उप '''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण|'''अव्ययीभावः ('''२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)   इति सूत्रेण उप इति अव्ययं समर्थेन नदी इति सुबन्तेन सह समस्यते |</big>
 
 
 
<big>नदी + ङस् + उप '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण |</big>
 
 
 
<big>नदी + ङस् + उप'''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | अतः नदी + ङस् + उप '''→'''इत्यस्मिन्‌ ङस् इत्यस्य लुक्‌ → उप + नदी इति |</big>
 
 
 
<big>उप + नदी'''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'उप' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण | अतः उप इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |</big>
 
 
 
<big>नदी + उप '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति|अत्र '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इति समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण  | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र उप इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |</big>
 
 
 
<big>उपनदी '''→ अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | उपनदी इत्यस्य अव्ययसंज्ञा भवति|इदानीं लिङ्गस्य निर्णयः भवति | '''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः उपनदि इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |</big>
 
 
Line 1,150:
 
 
<big>उपनदि + सु '''→''' उपनदि इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति|अधुना प्रातिपदिकात् सुप् प्रत्ययस्य उत्पत्तिः भवति |'''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) इति सूत्रेण  '''→''' '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण अव्ययात् सुप् प्रत्ययस्य लोपः भवति | '''उपनदि''' इति समस्तपदं निष्पन्नम्|</big>
 
 
 
<big>आहत्य उपनदम् अथवा उपनदि इति रूपद्वयं भवति |</big>
 
<big><br /></big>
page_and_link_managers, Administrators
5,152

edits