14---samAsaH/02A---avyayiibhAvasamAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 367:
 
==== <big>'''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३)</big> ====
<big>अदन्तात् अव्ययीभावात्  सुप् प्रत्ययस्य लुक् न भवति, अपि तु पञ्चमीविभक्तिं विहाय अन्यासु विभक्तिषु सुप्प्रत्ययस्य स्थाने अमादेशः विधीयते | अस्मिन् सूत्रे निषेधः इति भागः अपि अस्ति येन सुपः लुक् निषिध्यते, विधिः इति भागः अपि अस्ति येन अमादेशः विधीयते, परन्तु पञ्चमीं विहाय | न अव्यययपदम्, अव्ययीभावात् पञ्चम्यन्तम्, अतः पञ्चम्यन्तम्, अम् प्रथमान्तं, तु अव्ययपदम्, अपञ्चम्याः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | '''अव्ययादाप्सुपः''' (२.४.८२) इत्यस्मात् सूत्रात् सुपः इत्यस्य अनुवृत्तिः|'''ण्यक्षत्रियार्षञितो यूनि लुगणिञोः''' ( २.४.५८) इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—'''अव्ययीभावाद् अतः तु न सुपः लुक् अपञ्चम्याः अम् |'''</big>
 
==== <big>'''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४)</big> ====
<big>अदन्तात् अव्ययीभावात् तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | बहुलम् इत्युक्ते बहून् अर्थान् लाति( गृह्णाति) इति बहुलम् | अत्र बहुलम् इति शब्दस्य प्रयोगेण कुत्रचित् विकल्पेन अम्-आदेशः भवति, कुत्रचित् अम् आदेशः नित्यः भवति | कुत्र विकल्पेन, कुत्र नित्यः इति निर्णयः प्रयोगं दृष्ट्वा करणीयः | सामान्यतया विकल्पेन इति स्वीकर्तुं शक्यते | यदि विकल्पार्थः इष्टः तर्हि विकल्पः अथवा वा इति शब्दस्य प्रयोगः भवति परन्तु अत्र बहुलम् इत्यनेन विशिष्टार्थः बुध्यते | तृतीया च सप्तमी च तयोः इतरेतरयोगद्वन्द्वः तृतीयासप्तम्यौ, तयोः | तृतीयासप्तम्योः षष्ठ्यन्तं, बहुलं प्रथमान्तं, द्विपदमिदं सूत्रम् | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यस्मात् सूत्रात् अव्ययीभावात्, अतः, अम् इत्येषाम् अनुवृत्तिः भवति | अनुवृत्ति-सहितसूत्रम्‌— '''तृतीयासप्तम्योः अव्ययीभावाद् अतः अम् बहुलम्''' |</big>
 
==== <big>'''अमि पूर्वः''' (६.१.१०५)</big> ====
Line 2,342:
<big>एवमेव -</big>
 
<big>शीतस्य अत्ययः = अतिशीतम् इति | पञ्चमीविभक्तौ = अतिशीतात् |</big>
 
<big>तृतीयाविभक्तौ = अतिशीतम्/ अतिशीतेन</big>
Line 2,354:
<big>तृतीयाविभक्तौ = निर्हिमम् / निर्हिमेण/ निर्हिमेन * |</big>
 
<big>निर्हिम + टा '''→ टाङसिङसामिनात्स्याः''' ( ७.१.१२) इति सूत्रेण अदन्तात् अङ्गात् परस्य टा, ङसिँ, ङस् प्रत्ययानां क्रमेण इन, आत्, स्य  इत्येते आदेशाः भवन्ति '''→''' अधुना टा इति प्रत्ययस्य स्थाने इन इति आदेशः भवति यतोहि निर्हिम इति अदन्तम् अङ्गम् अस्ति |अतः निर्हिम +इन इति भवति|अग्रे निर्हिम +इन '''→ आद्गुणः''' (६.१.८७) इति सूत्रेण गुणसन्धिः भवति → निर्हिमेन इति भवति | अधुना निर्हिमेन इत्यत्र णत्वं भवति वा इति प्रश्नः?</big>
 
<big>निर्हिमेन इत्यत्र '''अट्कुप्वाङ्नुम्व्यवायेऽपि''' ( ८.४.२) इति सूत्रेण णत्वं न भवति यतोहि समानपदं नास्ति | निर् इति पृथक् पदम् अस्ति हिमेन इति भिन्नं पदम् अस्ति, अतः निर्हिमेन इति समानपदं नास्ति | तर्हि केन सूत्रेण णत्वं भवति ?</big>
 
 
Line 2,362:
<big><nowiki>*</nowiki> '''प्रातिपदिकान्तनुम्‌विभक्तिषु च''' (८.४.११)</big>
 
<big>इति सूत्रेण पूर्वपदस्य निमित्तात्‌ परस्य नकारान्तप्रातिपदिकं (माष + वापिन्‌ ‌ + औ → माषवापिणौ), नुम्‌-सम्बद्ध-नकारः ('''नपुंसकस्य झलचः''' इति सूत्रेण प्रथमा-द्वितीया-बहुवचने नुम्‌ भवति यथा माष + वापा + न्‌ + इ → माषवापाणि), विभक्तिसम्बन्धी नकारः (तृतीया षष्ठी वा यथा हर्षभावेण, वारिवाहाणाम्‌) इत्येषु त्रिषु कश्चन उपस्थितोऽस्ति  चेत् नस्य णो वा स्यात्‌ | अस्मिन् सूत्रे '''अट्कुप्वाङ्नुम्व्यवायेऽपि''' ( ८.४.२) इति सूत्रस्य सम्पूर्णानुवृत्तिः |</big>
 
<big>निर्हिमेन '''→''' अत्र रेफः एव णत्वस्य निमित्तम् अस्ति | रेफनकारयोः मध्ये ह्,इ, म्, ए, एते वर्णाः सन्ति, तथापि इन इति विभक्तिसम्बन्धिनकारस्य णत्वं भवति '''प्रातिपदिकान्तनुम्‌विभक्तिषु च''' (८.४.११) इति सूत्रेण '''→ निर्हिमेण/ निर्हिमेन''' इति भवति |</big>
 
<big>सप्तमीविभक्तौ = निर्हिमम् / निर्हिमे |</big>
Line 2,388:
<blockquote>
=== <big><u>'''vii)'''  '''सूत्रे असम्प्रत्यर्थे(अयुक्तः) अव्ययम्–'''</u></big> ===
</blockquote><big>असम्प्रति नाम अयोग्यकाले इत्यर्थः|असम्प्रत्यर्थे अति इति अव्ययस्य प्रयोगः क्रियते |</big>
 
<big>निद्रा सम्प्रति न युज्यते = अतिनिद्रम् (निद्रा सम्प्रति न युज्यते) | प्रक्रिया यथा उपरि प्रदर्शिता आसीत् तथैव भवति |</big>
 
<big>अलौकिकविग्रहवाक्यं '''→''' निद्रा + ङस् + अति |</big>
 
<big>सर्वासु विभक्तिषु पञ्चमीं विहाय = अतिनिद्रम् | पञ्चमीविभक्तौ = अतिनिद्रात्</big>
 
<big>तृतीयाविभक्तौ = अतिनिद्रम् / अतिनिद्रेण</big>
Line 2,425:
{| class="wikitable"
|+
|<big><nowiki>शब्दप्रादुर्भावः इत्युक्ते शब्दस्य प्रकाशः इति | नाम यस्य शब्दस्य पुनः पुनः उच्चारणं भवति | अत्र ‘इति’  इति अव्ययस्य प्रयोगः क्रियते |</nowiki></big>
 
<big>हरि-शब्दस्य प्रकाशः = इतिहरि | हरि इति नाम्नः प्रसिद्धिः |</big>
 
<big>अलौकिकविग्रहवाक्यं '''→''' हरि + ङस् + इति'''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण | '''अव्ययीभावः''' (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति |  '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)   इति सूत्रेण इति इति अव्ययं समर्थेन हरि इति सुबन्तेन सह समस्यते |</big>
 
<big>हरि + ङस् + इति '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण|</big>
 
<big>हरि + ङस् + इति '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | अतः हरि + ङस् + इति '''→'''इत्यस्मिन्‌ ङस् इत्यस्य लुक्‌ → हरि +  इति इति  |</big>
 
 
 
<big>हरि +  इति '''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'इति' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण | अतः इति इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |</big>
 
<big>हरि + इति '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इति समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण  |अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र इति इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |</big>
 
 
 
<big>इतिहरि ''' →'''  '''अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | उपनदी इत्यस्य अव्ययसंज्ञा भवति|इदानीं लिङ्गस्य निर्णयः भवति | '''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् |अतः इतिहरि इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |</big>
 
<big>इतिहरि '''→ ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)''' इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति '''→''' अतः इतिहरि इति भवति |</big>
 
<big>इतिहरि + सु '''→''' इतिहरि इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति|अधुना प्रातिपदिकात् सुप् प्रत्ययस्य उत्पत्तिः भवति'''→''' '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण अव्ययात् सुप् प्रत्ययस्य लोपः भवति | '''इतिहरि''' इति समस्तपदं निष्पन्नम्|सर्वासु विभक्तिषु इतिहरि इत्येव समासः|</big>
 
<big>एवमेव पाणिनिशब्दस्य प्रकाशः = इतिपाणिनि | सर्वासु विभक्तिषु इतिपाणिनि इत्येव समासः |</big>
 
<big>ज्ञानशब्दस्य प्रकाशः = इतिज्ञानम्|सर्वासु विभक्तिषु  पञ्चमीं विहाय इतिज्ञानम् इत्येव समासः | पञ्चमीविभक्तौ = इतिज्ञानात्</big>
 
<big>तृतीयाविभक्तौ = इतिज्ञानम् / इतिज्ञानेन |</big>
Line 2,475:
पश्चात् इत्यस्य अनन्तरम् इत्यर्थः|अत्र अनु इति अव्ययस्य प्रयोगः क्रियते |</big>
 
<big>विष्णोः पश्चाद् = अनुविष्णु|प्रक्रिया यथा इतिहरि इत्यस्य आसीत् तथैव|सर्वासु विभक्तिषु अनुविष्णु इत्येव समासः |</big>
 
 
Line 2,513:
<big>'''अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इति सूत्रे यथार्थे -</big><blockquote>
=== <big><u>'''x)''' '''सूत्रे यथार्थे (योग्यता, वीप्सा, पदार्थानतिवृत्तिः, सादृश्यम्) अव्ययम् –'''</u></big> ===
</blockquote><big>योग्यता-वीप्सा-पदार्थानतिवृत्ति-सादृश्यानि यथार्थाः | अर्थात् '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)   इति सूत्रे यथा इति शब्दस्य चत्वारः अर्थाः सन्ति- योग्यता, वीप्सा, पदार्थानतिवृत्तिः अपि च सादृश्यम् | योग्यता इत्युक्ते उचितः, अर्हता इत्यर्थः | वीप्सा अर्थात् वारं वारं ( repetition) इत्यर्थः | पदार्थानतिवृत्तिः इत्युक्ते अर्थस्य अनुल्लङ्घनम् ( not exceeding) इति | सादृश्यम् इत्युक्ते  सदृशता, समानता इति | एतेषु अर्थेषु समासस्य उदाहरणानि प्रदर्श्यन्ते |</big>
 
 
Line 2,521:
==== <big>'''यथार्थे (योग्यता)'''</big> ====
|-
|<big><nowiki>a) योग्यार्थे – अनु इति अव्ययस्य प्रयोगः क्रियते | अनु इति अव्ययस्य बहवः अर्थाः सन्ति- पश्चात्, सादृश्यं, लक्षणे इति|</nowiki></big><big><nowiki>रूपस्य योग्यम् = अनुरूपम्|</nowiki></big>
 
 
 
<big>अलौकिकविग्रहवाक्यं '''→''' रूप+ ङस् + अनु'''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण|'''अव्ययीभावः''' (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति |  '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)   इति सूत्रेण अनु इति अव्ययं समर्थेन रूप इति सुबन्तेन सह समस्यते|</big>
 
<big>रूप+ ङस् + अनु '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण |</big>
 
<big>रूप+ ङस् + अनु '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | अतः रूप+ ङस् + अनु '''→'''इत्यस्मिन्‌ ङस् इत्यस्य लुक्‌ → रूप+  अनु इति |</big>
 
 
 
<big>रूप+  अनु '''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'अनु' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण | अतः अनु इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |</big>
 
 
 
<big>रूप+अनु '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इति समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण  | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र अनु इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |</big>
 
 
 
<big>अनु+रूप '''→'''  '''अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | निर्मक्षिका इत्यस्य अव्ययसंज्ञा भवति|इदानीं लिङ्गस्य निर्णयः भवति| '''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः अनुरूप इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |</big>
 
 
Line 2,549:
 
 
<big>अनुरूप+ सु '''→''' अनुरूप इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति|अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते|'''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय|पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति  '''अनुरूपात्''' | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
 
 
<big>अनुरूप  + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''अनुरूपम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- अनुरूपम्/ अनुरूपेण, अनुरूपम् /अनुरूपे, अन्यासु विभक्तिषु अनुरूपम्  इति रूपं सिद्धं भवति |</big>
 
<big>एवमेव गुणानां योग्यम् = अनुगुणम्|पञ्चमीविभक्तौ = अनुगुणात् |</big>
Line 2,565:
<big>लेखस्य योग्यम् = अनुलेखम्|</big>
 
<big>विद्यालयस्य योग्यम् = अनुविद्यालयम् |</big>
|}
 
Line 2,576:
|-
|<big>
b) वीप्सार्थे – वीप्सा नाम पौनः पुण्यम्, वारं वारम्  इति|अस्मिन् अर्थे प्रति इति अव्ययस्य प्रयोगः क्रियते| प्रति इति अव्ययस्य बहवः अर्थाः सन्ति, तेषु वीप्सा इति एकः अर्थः अस्ति | सामान्यतया प्रति इति शब्दस्य योगे द्वितीयाविभक्तिः भवति '''अभितः परितः'''</big> '''<big>समयानिकषाहाप्रतियोगेऽपि</big>''' <big>इति वार्तिकेन | अतः वीप्सार्थे विग्रहवाक्ये प्रति इति शब्दस्य योगे द्वितीयाविभक्तिः दृश्यते |</big>
 
<big>अर्थमर्थं प्रति = प्रत्यर्थम्|प्रक्रिया यथा अनुरूपम् इत्यस्य आसीत् तथैव|सर्वासु विभक्तिषु पञ्चमीं विहाय प्रत्यर्थम् इति समासः|पञ्चमीविभक्तौ प्रत्यर्थात् |</big>
Line 2,595:
<big>'''सर्वादीनि सर्वनामानि''' ( १.१.२७)</big>
 
<big>इति सूत्रेण सर्वादिगणे ये शब्दाः पठिताः तेषां 'सर्वनाम' इति संज्ञा भवति | सर्वादिगणे ३५ शब्दाः पठिताः सन्ति |</big>
 
<big>'''सर्वादिगणे एते शब्दाः पठिताः'''</big>
Line 2,606:
<big>प्रत्येक इति समासे उत्तरपदं सर्वनामशब्दः इति कारणेन पञ्चमीविभक्तौ, सप्तमीविभक्तौ च  रूपाणि सर्वशब्दवत् भवन्ति - प्रत्येकस्मात्, प्रत्येकस्मिन् इति |</big>
 
<big>एवमेव छात्रं छात्रं प्रति = प्रतिच्छात्रम् |</big>
 
===== <big>'''छे च''' (६.१.७३)</big> =====
<big>इत्यनेन छकारे परे संहितायां विषये ह्रस्व-स्वरस्य तुक्‌-आगमो भवति |'''आद्यन्तौ टकितौ''' १.१.४६ इत्यनेन तकारोत्तरवर्ती -इकारस्य अनन्तरं न तु पूर्वम्‌|तुक् इति आगमे ककारस्य इत्संज्ञा भूत्वा लोपः भवति, उकारः उच्चारणार्थः, अतः तकारः एव अवशिष्यति → प्रति+ ‌तुक् + छ् ‌ + आत्रम् → प्रति+ ‌त् + छ् ‌ + आत्रम् → '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन सकारस्य तवर्गीयस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन → प्रतिच् + छात्रम् → प्रतिच्छात्रम् इति भवति |</big>
 
<big>'''आद्यन्तौ टकितौ''' ( १.१.४६) = टित्-आगमः स्थानिनः आदौ आगच्छति, कित्-आगमः स्थानिनः अन्ते आगच्छति |</big>
Line 2,650:
<big>प्रति इति शब्दस्य योगे '''वृक्ष''' इति शब्दस्य द्वितीयाविभक्तिः विधीयते  '''कर्मप्रवचनीययुक्ते द्वितीया''' ( २.३.८) इति सूत्रेण  |</big>
 
<big>यदि प्रति इति अव्ययस्य योगे नित्यसमासः भवति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इति समासविधायकसूत्रेण, तर्हि कुत्रापि वाक्ये वीप्सार्थे प्रति इति शब्दस्य योगे द्वितीयाविभक्तिः कदापि न भवति | एवञ्चेत् कर्मप्रवचनीयसंज्ञायाः प्रयोजनं नैव सिद्ध्यति| अतः तन्निवारणाय अत्र समासः नित्यः न भवति अपि तु विकल्पेन| अनेन व्यस्तप्रयोगः अपि शक्यते, समस्तप्रयोगः अपि शक्यते | अर्थम् अर्थं प्रति इति वाक्ये अपि प्रयोक्तुं शक्नुमः | यथा - वाक्ये - '''वृक्षं वृक्षं प्रति सिञ्चति |''' नो चेत् समासे - '''प्रतिवृक्षं सिञ्चति इति |'''</big>
 
 
===== <big>'''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७)</big> =====
<big>इति सूत्रे ये शब्दाः शरदादिगणे उल्लेखिताः, तेषु विपाश् ( बन्धनम्, नदी ) इति शब्दः अपि अस्ति | यदि विपाश् इति शब्दः उत्तरपदे अस्ति तर्हि समासस्य प्रक्रिया चिन्तनीया |</big>
 
<big>विपाशं विपाशं ( विपाशायाः अभिमुखम्)  प्रति = प्रतिविपाशम् | विपाश् नाम नदी|अलौकिकविग्रहवाक्यम् — विपाश् +अम् + प्रति | प्रति इति शब्दस्य योगे उपपदद्वितीया विधीयते अतः विपाशम् इति पदम् विग्रहवाक्ये दृश्यते |सम्मुखम् इति अर्थे प्रति इति अव्ययं विद्यते |यदा प्रतिविपाश् इति प्रातिपदिकं सिद्ध्यति, तदा '''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) इति सूत्रेण टच् इति समासान्तप्रत्ययः विधीयते | प्रतिविपाश्+ टच् '''→''' प्रतिविपाश इति रूपं निष्पन्नं भवति|तत्पश्चात् सुप् प्रत्ययः विधीयते |सुब्लुक् अकृत्वा अमादेशः भूत्वा प्रतिविपाशम् इति समस्तपदं सिद्ध्यति सर्वासु विभक्तिषु पञ्चमीं विहाय |</big>
 
 
Line 2,662:
<big>'''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७)</big>
 
<big>शरदादिगणे विद्यमानेभ्यः शब्देभ्यः अव्ययीभावसमासे "टच्" इति समासान्तः तद्धितसंज्ञकप्रत्ययः भवति |  शरत् प्रभृतिर्येषां ते शरत्प्रभृतयः | अव्ययीभावे सप्तम्यन्तं, शरत्प्रभृतिभ्यः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्|'''राजाहस्सखिभ्यष्टच्‌''' ( ५.४.९१) इत्यस्मात् सूत्रात्  टच् इत्यस्य अनुवृत्तिः भवति|'''तद्धिताः''' ( ४.१.७६), '''समासान्ताः''' ( ५.४.६८), '''प्रत्ययः''' ( ३.१.१), '''परश्च''' ( ३.१.२), '''ङ्याप्प्रातिपदिकात्''' ( ४.१.१) इत्येतेषां अधिकारः|अनुवृत्ति-सहितसूत्रम्‌— '''अव्ययीभावे शरत्प्रभृतिभ्यः ङ्याप्प्रातिपदिकात्  परश्च तद्धितः समासान्तः टच् प्रत्ययः |'''</big>
 
<big>टच् इति प्रत्यये टकार-चकारयोः इत्संज्ञा भवति| टच् इत्यस्मिन् केवलं अकारः अवशिष्यते इति कारणेन, टच् इति प्रत्ययस्य योजनान्तरं सर्वे हलन्तशब्दाः अपि अजन्ताः भवन्ति |</big>
 
<big>शरदादिगणः इति एकः गणः अस्ति | अस्मिन् गणे एते शब्दाः अन्तर्गता: — '''शरद्, विपाश्, अनस्, मनस्, उपानह्, दिव्, हिमवत्, अनडुह्, दिश्, दृश्, विश्, चेतस्, सदृश्, चतुर्, त्यद्, तद्, यद्, कियत्, जरायाः जरस् च (गणसूत्रम्), प्रतिपरसमनुभ्योऽक्ष्णः (गणसूत्रम्), पथिनश्च (गणसूत्रम्) |'''</big>
 
 
Line 2,674:
==== <big>'''यथार्थे ( पदार्थानतिवृत्तिः)'''</big> ====
|-
|<big><nowiki>c) पदार्थानतिवृत्यर्थे – पदार्थस्य उल्लङ्घनं विना | अस्मिन् अर्थे यथा इति अव्ययस्य प्रयोगः क्रियते |</nowiki></big>
 
 
 
<big>शक्तिम् अनतिक्रम्य = यथाशक्ति | अर्थात् शक्तेः उल्लङ्घनं विना इत्यर्थः |</big>
 
<big>अलौकिकविग्रहवाक्यं '''→''' शक्ति + अम् + यथा'''→''' समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण|'''अव्ययीभावः''' (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)   इति सूत्रेण यथा इति अव्ययं समर्थेन शक्ति इति सुबन्तेन सह समस्यते |</big>
 
<big>शक्ति + अम् + यथा '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण |</big>
 
<big>शक्ति + अम् + यथा '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | अतः शक्ति + अम् + यथा '''→'''इत्यस्मिन्‌ अम् इत्यस्य लुक्‌ → शक्ति + यथा इति |</big>
 
<big>शक्ति + यथा'''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'इति' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण | अतः यथा इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |</big>
 
<big>शक्ति + यथा '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इति समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण  | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र यथा इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |</big>
 
<big>यथाशक्ति ''' →'''  '''अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति |यथाशक्ति इत्यस्य अव्ययसंज्ञा भवति|इदानीं लिङ्गस्य निर्णयः भवति|'''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम्|अतः यथाशक्ति इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |</big>
 
<big>यथाशक्ति '''→ ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)''' इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति '''→''' अतः यथाशक्ति इति भवति |</big>
 
<big>यथाशक्ति + सु '''→''' यथाशक्ति इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना प्रातिपदिकात् सुप् प्रत्ययस्य उत्पत्तिः भवति'''→''' '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण अव्ययात् सुप् प्रत्ययस्य लोपः भवति | यथाशक्ति इति समस्तपदं निष्पन्नम् |</big>
 
 
Line 2,707:
==== <big>'''यथार्थे ( सादृश्यम् )'''</big> ====
|-
|<big>d) सादृश्यर्थे '''-'''<nowiki> सादृशयं नाम औपम्यम् ( Similarity) | सह इति अव्ययस्य प्रयोगः क्रियते | सह इति अव्ययस्य बहवः अर्थाः सन्ति - तेषु सादृश्यम् इत्यर्थः अन्यतमः |</nowiki></big>
 
 
Line 2,713:
<big>हरेः सादृश्यं = सहरि|हरेः सदृशः|</big>
 
<big>अलौकिकविग्रहवाक्यं '''→''' हरि + ङस् + सह'''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण | '''अव्ययीभावः''' (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)   इति सूत्रेण यथा इति अव्ययं समर्थेन शक्ति इति सुबन्तेन सह समस्यते |</big>
 
<big>हरि + ङस् + सह '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण |</big>
 
 
Line 2,727:
 
 
<big>हरि + सह '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इति समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण  | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र सह इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |</big>
 
 
 
<big>सहहरि ''' → अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | यथाशक्ति इत्यस्य अव्ययसंज्ञा भवति|इदानीं लिङ्गस्य निर्णयः भवति | '''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः सहहरि इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |</big>
 
 
Line 2,737:
<big>सहहरि '''→ ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)''' इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति '''→''' अतः सहहरि इति भवति |</big>
 
<big>सहहरि '''→ अव्ययीभावे चाकाले''' (६.३.८१) इति सूत्रेण अव्ययीभावसमासे ‘सह’ इत्यस्य स्थाने ‘स’ इत्ययम् आदेशो भवति अकालवाचिनि उत्तरपदे | हरि इति अकालवाचिशब्दः अस्ति अतः '''अव्ययीभावे चाकाले''' (६.३.८१) इति सूत्रेण सह स्थाने स इति आदेशः भवति'''→''' अतः सहरि इति भवति |</big>
 
<big>सहरि + सु '''→''' सहरि इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना प्रातिपदिकात् सुप् प्रत्ययस्य उत्पत्तिः भवति'''→''' '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण अव्ययात् सुप् प्रत्ययस्य लोपः भवति | '''सहरि''' इति समस्तपदं निष्पन्नम् |</big>
|}
 
 
===== <big>'''अव्ययीभावे चाकाले''' (६.३.८१)</big> =====
<big>अव्ययीभावसमासे ‘सह’ इत्यस्य स्थाने ‘स’ इत्ययम् आदेशो भवति अकालवाचिनि उत्तरपदे | अव्ययीभावे सप्तम्यन्तं, च अव्ययपदम्, अकाले सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''सहस्य सः संज्ञायां''' (६.३.७८) इत्यस्मात् सूत्रात् सहस्य, सः, च अनयोः पदयो: अनुवृत्तिः भवति | '''अलुगुत्तरपदे''' (६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहितसूत्रम्‌— '''अव्ययीभावे च सहस्य सः अकाले उत्तरपदे |'''</big>
 
<big>अष्टाध्यायाः द्वितीयाध्यायस्य प्रथमपादे, द्वितीयपादे च समासविधायकसूत्राणि सन्ति | द्वितीयाध्यायस्य चतुर्थपादे स्थितैः सूत्रैः समासस्य लिङ्गवचननिर्धारणं क्रियते | पञ्चमाध्यायस्य चतुर्थपादे स्थितैः सूत्रैः केषुचित् समासेषु उत्तरपदस्य अन्ते समासान्तप्रत्ययाः विधीयन्ते इति अस्माभिः पूर्वमेव दृष्टम्|षष्ठाध्यायस्य तृतीयपादे यानि सूत्राणि सन्ति, तानि '''उत्तरपदे''' इत्यस्य अधिकारे सन्ति, तेषां ज्ञानं विना समासस्य सम्पूर्णज्ञानं न भवितुम् अर्हति| '''अव्ययीभावे चाकाले''' (६.३.८१) इति सूत्रं षष्ठाध्यायस्य तृतीयपादे अस्ति|तस्य प्रयोगः उपरि प्रदर्शितः एव |</big>
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
Line 2,762:
=== <big>'''xi)''' '''<u>सूत्रे आनुपूर्व्यार्थे अव्ययम् –</u>'''</big> ===
</blockquote><big><br />
आनुपूर्व्यः नाम अनुक्रमः, क्रमशः इति | अत्र अनु इति अव्ययस्य प्रयोगः क्रियते | आनुपूव्यार्थः इत्यनेन कश्चन क्रमः अपेक्षितः, यस्मिन् अर्थे अनु इति अव्ययं प्रयुज्यते अस्माभिः | यथा - माता अनुकनिष्ठं भोजनं परिवेषयति | अस्मिन् वाक्ये नियमः कः इत्युक्ते कनिष्ठम् आरभ्य परिवेषयति इत्यर्थ | अनुज्येष्ठं नमति |</big>
 
<big>ज्येष्ठस्य आनुपूर्व्येण = अनुज्येष्ठम् | अनुज्येष्ठं  प्रणमति मानवकः; अनुज्येष्ठं प्रविशन्तु भवन्तः इत्यादिवाक्यानि सिद्ध्यन्ति | यथा अनुरूपम् इत्यस्य प्रक्रिया आसीत् तथैव अत्रापि भवति |</big>
 
 
 
<big>ज्येष्ठस्य आनुपूर्व्येण इति विग्रहवाक्ये आनुपूर्व्येण इति पदस्य तृतीया किमर्थम् इति पृष्टे सति तस्य समाधानं नागेशभट्टः इति वैयाकरणेन उक्तं यत् अनुज्येष्ठं नमति इत्यादिषु वाक्येषु अनुज्येष्ठम् इति समस्तपदस्य करणरूपेण एव अन्वयः दृश्यते अतः तृतीयान्तस्य प्रयोगः क्रियते |</big>
 
 
Line 2,774:
<big>अलौकिकविग्रहवाक्यं '''→''' ज्येष्ठ + ङस् + अनु |</big>
 
<big>एवमेव वृद्धस्य आनुपूर्व्येण = अनुवृद्धम् |</big>
 
 
Line 2,788:
<big>'''अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इति सूत्रे यौगपद्यर्थे -</big><blockquote>
=== <big><u>'''xii)''' '''सूत्रे यौगपद्यर्थे अव्ययम् –'''</u></big> ===
</blockquote><big>यौग्यपद्यं नाम एककालता, युगपद् इति | युगपद् नाम समानकाले, एकत्र भवनम् इत्यर्थः | अत्र सह इति अव्ययस्य प्रयोगः क्रियते | सह इति अव्ययं यौगपद्यविशिष्टसाहित्यार्थे अस्ति |</big>
 
<big>यौगपद्यम् इति वदनेन अन्यस्य अपेक्षा वर्तते यतोहि द्वयोः एकस्मिन् काले अवस्थानम् आवश्यकम् |सचक्रं सशङ्कं विष्णुः वर्तते इति वाक्ये चक्रेण युगपत् शङ्खम् अपि वर्तते इति अर्थः अवबुद्ध्यते |</big>
Line 2,794:
 
 
<big>चक्रेण युगपत् = सचक्रम् |</big>
 
<big>अलौकिकविग्रहः भवति - चक्र+टा+सह इति | प्रक्रिया चिन्तनीया|प्रक्रिया यथा सहरि इत्यत्र आसीत् तथैव अत्रापि | सह इति पदस्य पूर्वनिपातः भवति|सह+चक्र इति भवति | इदानीम् अकाले उत्तरपदे परे, पूर्वपदे सह इत्यस्य स्थाने स इति आदेशः भवति | एतत् कार्यं भवति '''अव्ययीभावे चाकाले''' (६.३.८१) इति सूत्रेण | अतः सचक्रम् इति समस्तपदं निष्पन्नं भवति |</big>
 
===== <big>'''अव्ययीभावे चाकाले''' (६.३.८१)</big> =====
<big>अव्ययीभावसमासे ‘सह’ इत्यस्य स्थाने ‘स’ इत्ययम् आदेशो भवति अकालवाचिनि उत्तरपदे | अव्ययीभावे सप्तम्यन्तं, च अव्ययपदम्, अकाले सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''सहस्य सः संज्ञायां''' (६.३.७८) इत्यस्मात् सूत्रात् सहस्य, सः अनयोः पदयो: अनुवृत्तिः भवति | अलुगुत्तरपदे (६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहितसूत्रम्‌— '''अव्ययीभावे च सहस्य सः अकाले उत्तरपदे |'''</big>
 
 
 
<big>अस्मिन् सूत्रे उत्तरपदं कालवाचिनं पदं चेत् सह स्थाने स आदेशः न भवति |यथा सहपूर्वाह्णम् इति समासः |पूर्वाह्णः इति प्रथमा- तत्पुरुषसमासः अस्ति | तस्य विग्रहवाक्यं पूर्वम् अह्नः ( दिनम्) = पूर्वाह्णः | सम्पूर्णं पूर्वाह्णम् = सहपूर्वाह्णम् |</big>
 
<big>साकल्यार्थः अग्रे वक्ष्यमाणः अस्ति | साकल्यार्थे सह इति अव्ययसंज्ञकपदेन सह समासः भूत्वा सहपूर्वाह्णम् इति भवति | अत्र उत्तरपदे पूर्वाह्णः इति कालवाचकशब्दः अस्ति | नाम दिनस्य पूर्वभागः इत्यर्थः |अत्र सह स्थाने स इति आदेशः न भवति '''अव्ययीभावे चाकाले''' (६.३.८१) इति सूत्रेण अपितु सहपूर्वाह्णम् इति एव समासः सिद्ध्यति |</big>
 
 
Line 2,819:
<big>'''अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इति सूत्रे सादृश्यर्थः -</big><blockquote>
=== <big><u>'''xiii)'''  '''सूत्रे सादृश्यर्थे अव्ययम्'''</u></big> ===
</blockquote><big>सादृश्यं नाम तुल्यत्वं, गौणम् इति | अत्र सह इति अव्ययस्य प्रयोगः भवति |</big>
 
<big>सदृशः सख्या = ससखि | अलौकिकविग्रहः भवति - सखि+टा+सह इति | प्रक्रिया चिन्तनीया | प्रक्रिया यथा सहरि इत्यत्र आसीत् तथैव अत्रापि| सह इति पदस्य पूर्वनिपातः भवति | सह+सखि इति भवति| इदानीम् अकाले उत्तरपदे परे, पूर्वपदे सह इत्यस्य स्थाने स इति आदेशः भवति | एतत् कार्यं भवति '''अव्ययीभावे चाकाले''' (६.३.८१) इति सूत्रेण|ससखि इति समस्तपदम् |</big>
 
 
 
<big>काले तु सहपूर्वाह्नम्|'''अव्ययीभावे चाकाले''' (६.३.८१) इति सूत्रं कार्यं न करोति यतोहि उत्तरपदं पूर्वाह्नं कालविशेषवाची शब्दः अस्ति अतः सह स्थाने स आदेशः न भवति |</big>
 
 
 
<big>यथार्थत्वेन एव सिद्धे पुनः सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम् | अर्थात् आदौ यथा इति शब्दस्य चत्वारः अर्थाः उक्ताः, तेषु सादृश्यम् इति अर्थे समासः भवति इति पूर्वमेव उक्तम् | '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) अव्ययीभाव-समास-विधायकसूत्रे सादृशयर्थः पुनः उक्तः, किमर्थम्?  यथार्थ-सादृश्यम् अपि च सूत्रस्थं सादृश्यं, द्वयोः भेदः कः?</big>
 
 
 
<big>अस्य समाधानं यत् यत्र सादृश्यार्थः गौणः, अप्रधानः तत्र अपि समासः भवतु इति कृत्वा पुनः द्वितीयवारं सादृश्यं इति सूत्रे उक्तम् | यदि वयं वदामः एषः अस्माकं मित्रम् इव सदृशः अस्ति, तर्हि अत्र सादृश्यं गौणं, सादृश्यवान् पुरुषः प्रधानः अस्ति |यदि वयं वदामः तस्मिन् पुरुषे अस्माकं मित्रस्य समानता अस्ति तर्हि तत्र सादृश्यं प्रधानं, सदृशवान् पुरुषः अप्रधानः | एवञ्च सादृश्यं गौणम् अथवा प्रधानं भवति, द्वयोः अवस्थायां समासं कर्तुं सादृश्यार्थे पुनः समासस्य विधानः कृतः सूत्रे | सूत्रस्थं सादृश्यं गौणसादृश्यं सूचयति | यथार्थे सादृश्यं प्रधानसादृश्यं सूचयति |</big>
 
 
Line 2,839:
<big>एवञ्च सादृश्यं प्रधानं वा अप्रधानं वा, उभयत्र समाससाधनार्थं '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इति सूत्रे सादृश्यं द्विवारम् उक्तम् |</big>
 
<big>यथार्थे सादृश्यस्य प्राधान्यम् – प्रद्युम्ने सहरि दरीदृश्यते | दरिदृश्यते इति यङन्तरूपं दृश्-धातोः | अस्मिन् वाक्ये सादृश्यमेव कर्ता अस्ति | कर्ता एव वाक्ये प्रधानः भवति, अतः अत्र सादृश्यं प्रधानम् अस्ति, सदृशवान् पुरुषः अप्रधानः |</big>
 
<big>सूत्रे स्थितस्य सादृश्यस्य विषये तु सादृश्ययुक्तस्य प्राधान्यं – सहरि प्रद्युम्नः गुणवान् आसीत् | अस्मिन् वाक्ये प्रद्युम्नः यः कर्ता अस्ति सः एव प्रधानः अस्ति |प्रद्युम्नः हरि इव सदृशः अस्ति | सादृश्यं गौणं, प्रद्युम्नस्य प्रधानता अस्ति |</big>
 
 
Line 2,855:
=== <big><u>'''xiv)'''  '''सूत्रे सम्पत्त्यर्थे अव्ययम् –'''</u></big> ===
</blockquote><big>
सम्पत्तिः इत्युक्ते अनुरूपः, आत्मभावः इति|पुरुषेषु विद्यमानः मूलस्वभावः | अत्र सम्पत्तिः इत्युक्ते धनं नास्ति |</big>
 
<big>प्रश्नः उदेति यत् प्रकृतसूत्रे समृद्धिः इति उक्तं, तर्हि सम्पत्तिः इति पुनः कथनस्य का आवश्यकता अस्ति इति |</big>
 
<big>तस्य समाधानम् अस्ति यत् ऋद्धेः ( धनं धान्यम् इत्यादिकम्) आधिक्यं समृद्धिः;  अनुरूपः, आत्मभावः सम्पत्तिः इति | समृद्धिः, सम्पत्तिः च अनयोः भेदः वर्तते | धनस्य आधिक्यं समृद्धिः, अनुकूलः आत्मभावः (कर्म) सम्पत्तिः | अर्थात् स्वोचितभावः सम्पत्तिः इति |</big>
 
 
Line 2,865:
<big>अनेन कारणेन एव</big>
 
<big>'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)   इति सूत्रे समृद्धिः इति पृथक्तया उक्ता, सम्पत्तिः इत्यपि पुनः पृथक्तया उक्ता यतोहि तयोः अर्थभेदः विवक्षितः |</big>
{| class="wikitable"
|+
|<big><nowiki>क्षत्राणां सम्पत्तिः = सक्षत्रम्| क्षत्रियाणाम् अनुरूपम् आत्मभावस्य वृद्धिः (कर्मसम्पत्तिः) | सक्षत्रम् इत्यत्र क्षत्रियाणां योग्यं क्षत्रत्वम् इत्यर्थः |</nowiki></big> <big><nowiki>वाक्यम् - सक्षत्रं रामः रावणेन युद्धम् अकरोत् |</nowiki></big> <big><nowiki>सब्राह्मणं शिष्यः वेदम् अधीते |</nowiki></big>
 
 
 
<big>अलौकिकविग्रहवाक्यं '''→''' क्षत्र+ आम् + सह'''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण|'''अव्ययीभावः''' (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति |  '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)   इति सूत्रेण सह इति अव्ययं समर्थेन शक्ति इति सुबन्तेन सह समस्यते|</big>
 
<big>क्षत्र+ आम् + सह '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण |</big>
 
<big>क्षत्र+ आम् + सह '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन|अतः क्षत्र+ ङस् + सह '''→'''इत्यस्मिन्‌ आम् इत्यस्य लुक्‌ → क्षत्र+ सह इति |</big>
Line 2,880:
 
 
<big>क्षत्र+ सह '''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'सह' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण | अतः सह इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |</big>
 
 
 
<big>क्षत्र+ सह '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इति समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण  | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र सह इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |</big>
 
 
 
<big>सहक्षत्र '''→ अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | सहक्षत्र इत्यस्य अव्ययसंज्ञा भवति|इदानीं लिङ्गस्य निर्णयः भवति|'''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः सहक्षत्र इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |</big>
 
<big>सहक्षत्र '''→ ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)''' इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति '''→''' अतः सहक्षत्र इति भवति |</big>
 
<big>सहक्षत्र '''→ अव्ययीभावे चाकाले''' (६.३.८१) इति सूत्रेण अव्ययीभावसमासे ‘सह’ इत्यस्य स्थाने ‘स’ इत्ययम् आदेशो भवति अकालवाचिनि उत्तरपदे | क्षत्र इति अकालवाचिशब्दः अस्ति अतः '''अव्ययीभावे चाकाले''' (६.३.८१) इति सूत्रेण सह स्थाने स इति आदेशः भवति'''→''' अतः सक्षत्र इति भवति |</big>
 
<big>सक्षत्र+ सु '''→''' सक्षत्र इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति|अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय|पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति  '''सक्षत्रात्''' | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति|</big>
 
<big>सक्षत्र+ अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''सक्षत्रम्''' इति रूपं सिद्धं भवति|'''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- सक्षत्रम् / सक्षत्रेण, सक्षत्रम् / सक्षत्रे, अन्यासु विभक्तिषु सक्षत्रम् इति रूपं सिद्धं भवति |</big>
|}
 
===== <big>'''अव्ययीभावे चाकाले''' (६.३.८१)</big> =====
<big>अव्ययीभावसमासे ‘सह’ इत्यस्य स्थाने ‘स’ इत्ययम् आदेशो भवति अकालवाचिनि उत्तरपदे | अव्ययीभावे सप्तम्यन्तं, च अव्ययपदम्, अकाले सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''सहस्य सः संज्ञायां''' (६.३.७८) इत्यस्मात् सूत्रात् सहस्य, सः अनयोः पदयो: अनुवृत्तिः भवति |अलुगुत्तरपदे (६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहितसूत्रम्‌— '''अव्ययीभावे च सहस्य स अकाले उत्तरपदे |'''</big>
 
 
Line 2,914:
<big>'''अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इति सूत्रे साकल्यार्थः-</big><blockquote>
=== <big><u>'''xv)'''  '''सूत्रे साकल्यार्थे अव्ययम् –'''</u></big> ===
</blockquote><big>साकल्यं नाम अशेषता, सम्पूर्णः इत्यर्थः | अत्र सह इति अव्ययस्य प्रयोगः क्रियते |</big>
 
<big>कलं नाम अवयवः; कलाभिः सह वर्तते इति सकलम् , सकलस्य भावः साकल्यम् | साकल्यं नाम सम्पूर्णता, अशेषता|</big>
 
<big>तृणम् अपि अपरित्यज्य = '''सतृणम्''' अत्ति | सतृणम् इत्यस्य प्रयोगः सम्पूर्णार्थे अस्ति | अर्थात् यः सर्वं खादति, किमपि न त्यजति | लेशमात्रमपि अत्यक्तवा यः खादति|तृणम् अपि अपरित्यज्य, सतृणम् अत्ति इत्यर्थः|तृण + टा + सह इति अलौकिकविग्रहः |</big>
 
<big>वाक्यं = भिक्षुकः सतृणम् अत्ति | अत्र तृणं हरितकं नास्ति अपि तु अल्पांशं द्योतयति |</big>
 
<big>बुसम् अपि अपरित्यज्य = सबुसम् अत्ति | बुसम् नाम bran, waste.</big>
 
 
Line 2,937:
=== <big><u>'''xvi)'''  '''सूत्रे अन्तवचनार्थे अव्ययम् –'''</u></big> ===
</blockquote><big>
अन्तवचनं नाम समाप्तिः इत्यर्थः | अत्र सह इति अव्ययस्य प्रयोगः क्रियते|यस्य अन्तः, समाप्तिः भवति, तादृशवस्तु ग्राह्यम् |</big>
 
{| class="wikitable"
|+
|<big><nowiki>अग्निग्रन्थपर्यन्तम् अधीते =साग्नि | अग्नि-ग्रन्थस्य समाप्तेः पर्यन्तं यः पठति |</nowiki></big> <big>अलौकिकविग्रहवाक्यं '''→''' अग्नि + टा + सह'''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः'''<nowiki> (२.१.३) इति सूत्रेण | </nowiki>'''अव्ययीभावः'''<nowiki> (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | </nowiki>'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''<nowiki>  (२.१.६)   इति सूत्रेण सह इति अव्ययं समर्थेन शक्ति इति सुबन्तेन सह समस्यते |</nowiki></big>
 
 
 
<big>अग्नि + टा + सह '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण |</big>
 
<big>अग्नि + टा + सह '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | अतः अग्नि + टा + सह '''→'''इत्यस्मिन्‌ टा इत्यस्य लुक्‌ → अग्नि + सह इति |</big>
 
<big>अग्नि + सह'''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'सह' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण | अतः सह इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |</big>
 
 
 
<big>अग्नि + सह '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इति समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण  | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति|अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र सह इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |</big>
 
 
Line 2,959:
<big>सह+अग्नि '''→ अकः सर्वणे दीर्घः''' इत्यनेन सवर्णदीर्घसन्धिः → सहाग्नि |</big>
 
<big>सह+अग्नि '''→ अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | सहाग्नि इत्यस्य अव्ययसंज्ञा भवति|इदानीं लिङ्गस्य निर्णयः भवति | '''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः सहाग्नि इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |</big>
 
<big>सहाग्नि '''→ ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)''' इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति '''→''' अतः साग्नि इति भवति |</big>
Line 2,965:
 
 
<big>सहाग्नि '''→ अव्ययीभावे चाकाले''' (६.३.८१) इति सूत्रेण अव्ययीभावसमासे ‘सह’ इत्यस्य स्थाने ‘स’ इत्ययम् आदेशो भवति अकालवाचिनि उत्तरपदे | अग्नि इति अकालवाचिशब्दः अस्ति अतः '''अव्ययीभावे चाकाले''' (६.३.८१) इति सूत्रेण सह स्थाने स इति आदेशः भवति'''→''' अतः साग्नि इति भवति</big>
 
<big>साग्नि + सु '''→''' सहरि इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना प्रातिपदिकात् सुप् प्रत्ययस्य उत्पत्तिः भवति'''→''' '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण अव्ययात् सुप् प्रत्ययस्य लोपः भवति | '''साग्नि''' इति समस्तपदं निष्पन्नम् |</big>
 
<big>पशुबन्धग्रन्थपर्यन्तम् = सपशुबन्धम् | सः सपशुबन्धम् अधीते |</big>
|}
 
Line 2,975:
<big>एतावता अस्माभिः</big>
 
<big>'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)   इति सूत्रे उक्तानाम् अर्थानां विवरणं सोदाहरणं ज्ञातम् | स्मर्तव्यं यत्</big>
 
<big>'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)   इति सूत्रे अन्येऽपि अर्थाः स्वीकृताः सन्ति यतोहि तादृशप्रयोगाः बहवः दृश्यन्ते  काव्येषु, ग्रन्थेषु च |प्रकृतसूत्रे योगविभागं कृत्वा अथवा '''सह सुपा''' ( २.१.४) इति सूत्रेण शिष्टैः प्रयुक्तानां समासानां समर्थनं क्रियते |</big>
page_and_link_managers, Administrators
5,097

edits