14---samAsaH/02A---avyayiibhAvasamAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 190:
 
 
<big>प्रादिगणे ये शब्दाः पठिताः, तेषां प्रयोगः धातुना सह भवति चेत् तेषाम् उपसर्गसंज्ञा अपि भवति '''उपसर्गाः क्रियायोगे''' (१.४.५९) इति सूत्रेण |  उपसर्गाणाम् अपि अव्ययसंज्ञा भवति | प्रादीनाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति इति कारणेन तेषाम् अव्ययसंज्ञा अपि भवति '''स्वरादिनिपातमव्ययम्''' ( १.१.३७) इति सूत्रेण |</big>
 
----
Line 210:
 
==== '''<big><u>उपसर्गसंज्ञा, गतिसंज्ञा निपातसंज्ञा - त्रयाणामपि सहवासः</u></big>''' ====
<big>अर्थात् प्रादिगणे ये शब्दाः सन्ति, तेषाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति '''प्रादयः''' ( १.४.५८) इति सूत्रेण | '''उपसर्गाः क्रियायोगे''' (१.४.५९)''',  गतिश्च''' ( १.४.६०) इति द्वाभ्यां सूत्राभ्यां तेषां शब्दानां क्रियायोगे उपसर्गसंज्ञा, गतिसंज्ञा च भवति | आहत्य एतेषां प्रादीनां तिस्रः संज्ञाः भवितुम् अर्हन्ति | एताः सर्वाः संज्ञाः '''आकडारादेका संज्ञा''' (१.४.१) इति क्षेत्रे  सन्ति तर्हि कथं एतासां सर्वासां संज्ञानाम् एकत्र सहवासः सम्भवति?</big>
 
<big>'''प्रादयः''' ( १.४.५८), '''उपसर्गाः क्रियायोगे''' (१.४.५९), '''गतिश्च''' (१.४.६०) इति  एतानि त्रीणि सूत्राणि  '''आकडारादेका संज्ञा''' (१.४.१) इति सूत्रस्य परिधौ एव सन्ति इत्यतः एकस्य रूपस्य एका एव संज्ञा अर्हा  इति चिन्तयामः, परन्तु '''गतिश्च''' ( १.४.६०) इति सूत्रे चकार-ग्रहणेन तिसृणां संज्ञानां समावेशः सम्भवति | '''गतिश्च''' ( १.४.६०)  इति सूत्रे चकारः स्वीकृतः अस्ति, स एव ज्ञापयति यत् अनेकसंज्ञानां समावेशः सम्भवति इति | अत एव एकस्य रूपस्य उपसर्गसंज्ञा, गतिसंज्ञा, निपातसंज्ञा च भवितुम् अर्हति |</big>
Line 219:
 
 
<big>'''अव्ययीभावश्च''' (२.४.१८) = अव्ययीभावसमासः नपुंसकलिङ्गे भवति | अव्ययीभावः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''स नपुंसकम्''' (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम् — '''अव्ययीभावः च नपुंसकम् |'''</big>
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
Line 229:
 
===='''<big><u>अव्ययीभावसमासे अव्ययस्य प्रयोजनम्</u></big>'''====
<big>अव्ययीभावसमासः अव्ययं भवति इति उक्तम् | तर्हि अव्ययसंज्ञायाः प्रयोजनं किम्?</big>
 
<big><br />अव्ययसंज्ञायाः प्रयोजनं यत् '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण सुप्प्रत्ययानां लुक् भवति | '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण अव्ययात् परस्य सुप् प्रत्ययाः लुप्यन्ते | अस्य सूत्रस्य कार्यानन्तरं  सर्वासु विभक्तिषु अव्ययीभावसमासस्य रूपाणि समानानि भवेयुः इति चिन्तयामः | तादृशचिन्तनं समीचीनमेव, परन्तु ततः परम् अन्यसूत्राणि प्रसक्तानि चेत्  अव्ययीभावसमासस्य सर्वाणि रूपाणि समानानि न भवन्ति | कासु विभक्तिषु रूपभेदाः भवितुम् अर्हन्ति इति अग्रे उच्यते | तदर्थं सूत्रद्वयं पठिष्यामः -  '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) , '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति |</big>
Line 248:
----
==== '''<big><u>अव्ययीभावसमासस्य प्रसङ्गे समासान्तप्रत्ययाः</u></big>''' ====
<big>अव्ययीभावसमासस्य विषये केचन समासान्तप्रत्ययाः विधीयन्ते | समासान्ताधिकारे (५.४.६८ – ५.४.१६०) समासान्तप्रत्ययाः विधीयन्ते | समासान्तप्रत्ययाः तद्धिताधिकारे सन्ति | एते प्रत्ययाः तद्धितप्रत्ययाः एव परन्तु समासस्य प्रक्रियायां विधीयन्ते | तद्धितसंज्ञकाः समासान्तप्रत्ययाः समासस्य अन्ते आयान्ति, अपि च समासस्य अवयवाः भवन्ति | अत एव एते समासान्तप्रत्ययाः इति नाम्ना ज्ञायन्ते | समासान्ताः समासस्य अवयवाः सन्ति इत्यतः एव समासान्तानां योजनानन्तरं सम्पूर्णस्य समस्तपदस्य प्रातिपदिकसंज्ञा भवति | यद्यपि एतानि कार्याणि समस्तपदस्य निर्माणे भवन्ति तथापि प्रक्रिया तु तद्धितप्रक्रियाम् आश्रित्य एव भवति | नाम तद्धितप्रकरणे यानि सूत्राणि प्रसक्तानि भवन्ति तद्धितप्रक्रियायां, तानि समासप्रक्रियायाम् अपि प्रसक्तानि भवन्ति यतोहि समासान्ताः तद्धिताधिकारे सन्ति | अत एव पाणिनिना एते समासान्तप्रत्ययाः तद्धिताधिकारे स्थापिताः |</big>
===== <big>'''तद्धिताः''' (४.१.७६)</big> =====
<big>अधिकारसूत्रम् इदम् |अस्य सूत्रस्य अधिकारः अस्ति ४.१.७६ इति सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तं नाम ५.४.१७० इति पर्यन्तम् | अस्मिन् अधिकारे ये प्रत्ययाः विधीयन्ते ते सर्वे तद्धितसंज्ञकाः भवन्ति | '''सूत्रं स्वयं सम्पूर्णम्''' |</big>
Line 367:
 
==== <big>'''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३)</big> ====
<big>अदन्तात् अव्ययीभावात्  सुप् प्रत्ययस्य लुक् न भवति, अपि तु पञ्चमीविभक्तिं विहाय अन्यासु विभक्तिषु सुप्प्रत्ययस्य स्थाने अमादेशः विधीयते | अस्मिन् सूत्रे निषेधः इति भागः अपि अस्ति येन सुपः लुक् निषिध्यते, विधिः इति भागः अपि अस्ति येन अमादेशः विधीयते, परन्तु पञ्चमीं विहाय | न अव्यययपदम्, अव्ययीभावात् पञ्चम्यन्तम्, अतः पञ्चम्यन्तम्, अम् प्रथमान्तं, तु अव्ययपदम्, अपञ्चम्याः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | '''अव्ययादाप्सुपः''' (२.४.८२) इत्यस्मात् सूत्रात् सुपः इत्यस्य अनुवृत्तिः | '''ण्यक्षत्रियार्षञितो यूनि लुगणिञोः''' ( २.४.५८) इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—'''अव्ययीभावाद् अतः तु न सुपः लुक् अपञ्चम्याः अम् |'''</big>
 
==== <big>'''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४)</big> ====
Line 391:
 
 
<big>1) अव्ययं सुबन्तेन सह '''<u>नित्यं</u>''' समस्यते, अव्ययीभावसमासः च भवति | अव्ययस्य बहवः अर्थाः भवन्ति | सूत्रे षोडश अर्थाः उक्ताः | परन्तु तदधिकाः अर्थाः अपि भवितुम् अर्हन्ति |</big></blockquote>
<big><br />'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  ( २.१.६)  = विभक्ति - समीप - समृद्धि - व्यृद्धि (ऋद्धेः अभावः) - अर्थाभाव - अत्यय (नाशनम्) - असम्प्रति (अयोग्यं) - शब्दप्रादुर्भाव (शब्दस्य प्रसिद्धिः) - पश्चाद् - यथा (योग्यता, वीप्सा, पदार्थानतिवृत्ति अपि च सादृश्यम्) - आनुपूर्व्य (क्रमशः) - यौगपद्य (एकत्र भवनं) - सादृश्य  - सम्पत्ति - साकल्य (सम्पूर्णता) - अन्तवचनेषु (समाप्तिः) इत्यस्मिन् अर्थे विद्यमानस्य अव्ययस्य समर्थेन सुबन्तेन सह <u>नित्यसमासः</u> भवति, अव्ययीभावश्च समासः भवति | अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु | विभक्तिश्च समीपं च समृद्धिश्च  व्यृद्धिश्च  अर्थाभावश्च अत्ययश्च असम्प्रतिश्च शब्दप्रादुर्भावश्च पश्चाच्च  यथा च आनुपूर्व्यञ्च यौगपद्यञ्च सादृश्यञ्च सम्पत्तिश्च साकल्यञ्च अन्तावचनञ्च तेषाम् इतरेतरयोगद्वन्द्वः विभक्ति-समीप-समृद्धि-व्यृद्ध्यर्थाभावात्ययासम्प्रति-शब्दप्रादुर्भावपश्चाद्यथानुपूर्व्य-यौगपद्य- सादृश्य-सम्पत्ति-साकल्यान्तावचनानि, तेषु | अव्ययं प्रथमान्तं, विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌—'''अव्ययं सुप् सुपा सह''' '''विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु अव्ययीभावः समासः |'''</big>
 
<big>अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरम् अव्ययम् इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | अव्ययपदं समासे पूर्वं तिष्ठति इत्यर्थः निष्पन्नः| नाम अव्ययीभावसमासे अव्ययं पूर्वपदे भवति उत्तरपदं सुबन्तं पदं भवति | अयं समासः नित्यः, न तु वैकल्पिकः |</big>
Line 410:
<big>अस्मिन् सूत्रे अव्ययस्य षोडश अर्थाः दृश्यन्ते | अव्ययानाम् इतोऽपि अधिकाः अर्थाः अपि भवितुम् अर्हन्ति इति उक्तमेव | अधुना एते अर्थाः दृश्यन्ते –</big>
 
<big>१) <u>विभक्त्यर्थे</u> – 'अधि' इति अव्ययं विभक्त्यर्थे प्रयुज्यते | अधि इति अव्ययं सप्तम्यर्थे अस्ति | सप्तम्याः अर्थः अधिकरणम् इति | <u>विभक्त्यर्थे अधि इति एकमेव अव्ययम् लभ्यते</u> | यथा – हरौ इति = अधिहरि | नाम हरेः विषये इति | वयम् अधिहरि वसामः | शिवः अधिकैलासं वसति |</big>
 
<big>२) <u>समीपार्थे (निकटः)</u> – 'उप' इति अव्ययं समीपार्थे प्रयुज्यते | यथा – कृष्णस्य समीपम् = उपकृष्णम् | धेनवः उपकृष्णं तिष्ठन्ति | उपकृष्णे स्थितः अर्जुनः | उपकृष्णात् आगतः दूतः | उपकृष्णं/ उपकृष्णेन विना न हि सुखम् |</big>
 
<big>३) <u>समृद्ध्यर्थे (ऋद्धेः आधिक्यं - excessive prosperity)</u> – 'सु' इति अव्ययस्य प्रयोगः क्रियते | यथा – मद्राणां समृद्धिः = सुमद्रम् | मद्रदेशवासिनां समृद्धिः | भिक्षाणां समृद्धिः = सुभिक्षम् |  सुमद्रं जनाः आनन्देन वसन्ति स्म |</big>
 
<big>४) <u>व्यृद्ध्यर्थे (ऋद्धेः अभावः, वैकृत्यम्,  deterioration)</u> –  विगता ऋद्धिः = व्यृद्धिः | 'दुर्' इति अव्ययस्य प्रयोगः क्रियते | यथा – यवनानां व्यृद्धिः = दुर्यवनम् | एवमेव शकानां व्यृद्धिः = दुःशकम् | दुर्यवनं प्रजाः दुखिताः अभवन् |</big>
 
<big>५) <u>अर्थाभावार्थे (अभावार्थे, पदार्थस्य असत्ता )</u> – 'निर्' इति अव्ययस्य प्रयोगः क्रियते | यथा – मक्षिकाणाम् अभावः = निर्मक्षिकम् | विघ्नानाम् अभावः = निर्विघ्नम्|बालकः निर्मक्षिकम् आनन्देन शेते |</big>
 
<big>६) <u>अत्ययार्थे (नाशः)</u> – 'अति', निर्, निस् इत्येषाम् अव्ययानां प्रयोगः क्रियते | यथा – हिमस्य अत्ययः =अतिहिमम् | अतिशीतम्, निर्हिमम्  इत्यादयः | अतिहिमं परिसरस्य हानिः भवति | रामः अतिकोपात् शान्तिं प्राप्तवान् |</big>
Line 426:
<big>८) <u>शब्दप्रादुर्भावार्थे (शब्दस्य प्रसिद्धिः, शब्दस्य प्रकाशः, appearance of the word)</u> – 'इति' इति अव्ययस्य प्रयोगः क्रियते | यथा – हरिशब्दस्य प्रकाशः = इतिहरि |पणिनिशब्दस्य प्रकाशः = इतिपाणिनि | ज्ञानशब्दस्य प्रकाशः = इतिज्ञानम् | शङ्काराचर्यस्य कारणेन भारते इतीश्वरम् आरब्धम् | तिरुपत्याम् इतिगोविन्दं श्रवणेन सर्वे ध्यानमग्नाः भवन्ति |</big>
 
<big>९) <u>पश्चादर्थे (अनन्तरम्)</u> – 'अनु' इति अव्ययस्य प्रयोगः क्रियते | यथा – विष्णोः पश्चात् = अनुविष्णु | रथानां पश्चात् = अनुरथम् | पदानां पश्चात् = अनुपदम् | अनुशिष्यम्, अनुगोपालम् इत्यादीनि उदाहरणानि | रामः अनुमृगं धावति |अनुवृष्टि सस्यानि वर्धन्ते | अन्वर्चकं भक्ताः रामनाम जपन्ति स्म |</big>
 
<big>१०) यथा इत्यस्य चत्वारः अर्थाः सन्ति – योग्यता, वीप्सा, पदार्थानतिवृत्तिः, सादृश्यम् च | अत्र 'यथा' इति अव्ययस्य प्रयोगः क्रियते |</big>
Line 476:
 
 
<big>वस्तुतस्तु योगविभागस्य आवश्यकता नास्ति परन्तु केचन वैयाकरणाः उच्यन्ते यत् एतेषां समासानां समर्थनं '''सह सुपा''' (२.१.४) इति सूत्रेण नास्ति परन्तु विधायकसूत्रे एव योगविभागं कृत्वा समर्थनं करणीयम् इति | तदर्थं योगविभागस्य विषये उक्तम् | यत् किमपि भवतु प्राचीनप्रयोगाणां समर्थनं कथञ्चित् करणीयम् –  योगविभागेन वा नो चेत् '''सह सुपा''' ( २.१.४) इति सूत्रेण वा | तादृशसमासान् कर्तुं  वयं न अर्हामः | वयं तु केवलं षोडशेषु अर्थेषु एव समासं कर्तुं शक्नुमः |</big>
 
<big>सामन्यतः समासः विकल्पेन भवति, नाम व्यस्तप्रयोगः अपि शक्यते, समस्तप्रयोगः अपि शक्यते | परन्तु अत्र अव्ययीभावः विकल्पेन न भवति अपि तु नित्यरूपेण भवति यतोहि '''विभाषा''' (२.१.११) इति सूत्रस्य अधिकारे इदम् अव्ययीभावसमासविधायाकं सूत्रं नास्ति | इदं सूत्रं '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् प्राक् अस्ति यतोहि अत्र अस्वपदविग्रहः एव सम्भवति | अत एव प्रकृतसूत्रे अव्ययीभावसमासः नित्यः इत्युच्यते | न  विद्यते स्वपदविग्रहः यस्य सः समासः अस्वपदविग्रहः | यस्य समासस्य अस्वपदविग्रहः, सः समासः नित्यसमासः | नाम समासस्य अर्थः समासघटकानि पदानि विहाय अन्यपदैः यदा वर्ण्यते तदा अस्वपदविग्रहः इति उच्यते | समास-घटक-पद-रहित-वाक्यम् अस्वपदविग्रहः इति उच्यते | यथा — उपकृष्णम् इति उदाहरणे विग्रहः कृष्णसय उप इति भवितुं न अर्हति | एतेन विग्रहेण अर्थबोधः न जायते | अतः अत्र अस्वपदविग्रहं प्रयुज्य कृष्णस्य समीपम् इति विग्रहवाक्यं वक्तव्यं भवति |</big>
Line 496:
 
 
<big>हरि + ङि + अधि '''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण | '''अव्ययीभावः''' (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)   इति सूत्रेण अधि इति अव्ययं समर्थेन हरि इति सुबन्तेन सह समस्यते | एतेन सूत्रेण अव्ययीभावसमासः विधीयते |</big>
 
 
Line 508:
 
 
<big>हरि + अधि '''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति | अत्र च 'अधि' इत्यस्य अन्ते सुप्‌  न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा इति | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक् अभवत् '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण | अतः अधि इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण | यद्यपि प्रत्ययस्य लोपः जातः तथापि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव |</big>
 
 
 
<big>हरि + अधि→ अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमाविभक्त्या यत्  पदं निर्दिश्यते समासविधायकसूत्रे तत् उपसर्जनसंज्ञकं भवति | अत्र '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इति  समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र अधि इति अव्ययम् अस्ति, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |</big>
 
 
Line 520:
 
 
<big>अधिहरि'''→''' इदानीं लिङ्गस्य निर्णयः क्रियते | '''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः अधिहरि इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |</big>
 
 
 
 
Line 532 ⟶ 530:
<big>'''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) इत्याभ्यां सूत्राभ्याम् |</big>
 
<big>अधिहरि + सु '''→''' अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण अव्ययात् परस्य सु प्रत्ययस्य लोपः भवति | '''अव्ययीभावश्च''' (१.१.४१) इत्यनेन सूत्रेण अधिहरि इति अव्ययम् अस्ति इत्यतः सु प्रत्ययस्य लोपः भवति '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण | '''अधिहरि''' इति समस्तपदं निष्पन्नम् | अत्र अधिहरि इत्यस्य अदन्तम् अङ्गं नास्ति अतः '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३), '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) च, अनयोः सूत्रयोः प्रसक्तिः नास्ति | एतस्मिन् विषये अग्रे वक्ष्यते |</big>
 
<big>'''वयं सर्वे अधिहरि वसामः''' | '''अधिहरि जगतः सृष्टिः भवति |'''</big>
Line 562 ⟶ 560:
===== <big>'''सुपो धातुप्रातिपदिकयोः''' (२.४.७१)</big> =====
 
<big>धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्-प्रत्ययस्य लुक् भवति | यदि कश्चन सुप्-प्रत्ययः कस्यचित् धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानः अस्ति, तर्हि तस्य सुप्-प्रत्ययस्य लुक् भवति | धातुश्च प्रातिपदिकं च तयोरितरेतरयोगद्वन्द्वः, धातुप्रातिपदिके, तयोर्धातुप्रातिपदिकयोः | सुपः षष्ठ्यन्तं, धातुप्रातिपदिकयोः षष्ठीद्विवचनान्तम् | ण्यक्षत्रियार्षञितो यूनि लुगणिञोः ( २.४.५८) इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रम्‌— '''धातुप्रातिपदिकयोः सुपः लुक् |'''</big>
|-
|
Line 606 ⟶ 604:
'''<big>अभ्यासः</big>'''
 
<big>एतेषां प्रकिया चिन्तनीया — १) भानौ इति = अधिभानु, २) पितरि इति = अधिपितृ;  ३) बुद्धौ इति = अधिबुद्धि, ४) नद्यां इति = अधिनदि ( विकल्पेन अन्यत् रूपम् अधिनदम् इत्यपि अस्ति यत्र समान्तप्रत्ययः विधीयते, तस्मिन् विषये अग्रे वक्ष्यते ), ५) कर्तरि इति = अधिकर्तृ, ६) गवि इति  = अधिगु |</big>
----
 
Line 616 ⟶ 614:
|-
|
<big>गोपि इति = अधिगोपम् | गाः पाति इति गोपाः, तस्मिन् इति अधिगोपाः |पा-धातुः रक्षणार्थे अस्ति | गो-शब्दात् पा धातुतः विच् इति कृत्-प्रत्ययः क्रियते चेत् गोपाः इति आकारन्तपुलिङ्गशब्दः निष्पन्नः भवति ( गो + पा + विच् = गोपा इति प्रातिपदिकम्) | सर्वासु विभक्तिषु रूपाणि एवं भवन्ति - गोपाः, गोपौ, गोपाः,  गोपाम्, गोपौ, गोपः,  गोपा, गोपाभ्यां, गोपाभिः,  गोपे, गोपाभ्यां, गोपाभ्यः, गोपः गोपाभ्यां, गोपाभ्यः,  गोपः, गोपोः, गोपाम्,  गोपि, गोपोः, गोपासु इति |</big>
 
 
 
<big>अधि इति शब्दः सप्तमीविभक्त्यर्थे, अधिकरणार्थे प्रयुक्तः अस्ति | अधि शब्दः सप्तम्यर्थस्य बोधकः अस्ति |</big>
 
 
<big>अलौकिकविग्रहवाक्यम्</big>
 
<big>गोपा + ङि + अधि '''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण | '''अव्ययीभावः''' (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)   इति सूत्रेण अधि इति अव्ययं समर्थेन गोपा इति सुबन्तेन सह समस्यते | एतेन सूत्रेण अव्ययीभावसमासः विधीयते |</big>
 
 
Line 634 ⟶ 632:
 
<big>गोपा + अधि '''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति | अत्र च 'अधि' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा इति | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण | अतः अधि इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः | यद्यपि प्रत्ययस्य लोपः जातः तथापि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव |</big>
 
<big>गोपा + अधि '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इति  समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र अधि इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |</big>
 
 
Line 647 ⟶ 645:
 
 
<big>अधिगोप + सु '''→''' अधिगोप इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः '''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) इति सूत्रेण |</big>
 
 
<big>अधिगोप + सु '''→''' अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात्  सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति अधिगोपात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
 
<big>अधिगोप + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम् सम्बन्धी अच् परः चेत् पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमीविभक्तिं विहाय अपरासु विभक्तिषु '''अधिगोपम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयं सम्भवति'''→''' अधिगोपम् / अधिगोपेन, अधिगोपम् / अधिगोपे | अन्यासु विभक्तिषु अधिगोपम् इति रूपं सिद्धं भवति |</big>
 
 
<big>पञ्चमीविभक्तौ सुप् लुक् न भवति इति उक्तम् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण | तर्हि प्रक्रिया अधो भागे प्रदर्शिता –</big>
 
 
Line 727 ⟶ 725:
|
=====<big> '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३)</big>=====
<big>अदन्तात् अव्ययीभावात्  सुप् प्रत्ययस्य लुक् न भवति, अपि तु पञ्चमीविभक्तिं विहाय अन्यासु विभक्तिषु सुप्प्रत्ययस्य स्थाने अमादेशः विधीयते | अस्मिन् सूत्रे निषेधः इति भागः अपि अस्ति येन सुपः लुक् निषिध्यते, विधिः इति भागः अपि अस्ति येन अमादेशः विधीयते, परन्तु पञ्चमीं विहाय | न अव्यययपदम्, अव्ययीभावात् पञ्चम्यन्तम्, अतः पञ्चम्यन्तम्, अम् प्रथमान्तं, तु अव्ययपदम्, अपञ्चम्याः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | '''अव्ययादाप्सुपः''' (२.४.८२) इत्यस्मात् सूत्रात् सुपः इत्यस्य अनुवृत्तिः | '''ण्यक्षत्रियार्षञितो यूनि लुगणिञोः''' ( २.४.५८) इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अतः अव्ययीभावात् तु न सुपः लुक्, अपञ्चम्याः अम् |'''</big>
 
 
Line 734 ⟶ 732:
 
===== <big>'''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४)</big> =====
<big>अदन्तात् अव्ययीभावात् तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अत्र बहुलम् इति शब्दस्य प्रयोगेण कुत्रचित् विकल्पेन अम्-आदेशः भवति, कुत्रचित् अम् आदेशः नित्यः भवति | कुत्र विकल्पेन, कुत्र नित्यः इति निर्णयः प्रयोगं दृष्ट्वा करणीयः | सामान्यतया विकल्पेन इति स्वीकर्तुं शक्यते | यदि विकल्पार्थः इष्टः तर्हि विकल्पः अथवा वा इति शब्दस्य प्रयोगः भवति परन्तु अत्र बहुलम् इत्यनेन विशिष्टार्थः बुध्यते | तृतीया च सप्तमी च तयोः इतरेतरयोगद्वन्द्वः तृतीयासप्तम्यौ, तयोः | तृतीयासप्तम्योः षष्ठ्यन्तं, बहुलं प्रथमान्तं, द्विपदमिदं सूत्रम् | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यस्मात् सूत्रात् अव्ययीभावात्, अतः, अम् इत्येषाम् अनुवृत्तिः भवति | अनुवृत्ति-सहितसूत्रम्‌— '''तृतीयासप्तम्योः अतः अव्ययीभावाद् अम् बहुलम्''' |</big>
 
 
 
<big>बहुलम् अपि च विकल्पने अनयोः शब्दयोः भेदः वर्तते|बहुलम् इत्यनेन क्वचित् प्रवृत्तिः, क्वचि अप्रवृत्तिः, क्वचित् विभाषा, क्वचित् अन्यदेव | अव्ययीभावासमासस्य सन्दर्भे बहुलम् इत्यस्य विकल्पेन इति अर्थः प्रायेण गृह्यते | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रे बहुलग्रह्णात् एव सुमद्रम्, उन्मत्तगङ्गम् इत्यादौ सप्तम्याः नित्यम् अम्भावः | अर्थात् '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रे बहुलम् इति शब्दस्य प्रयोगः भवति कुत्रचित् यथा सुमद्रम्, उन्मत्तगङ्गम् इत्यादौ | नाम कुत्रचित् विकल्पेन अम्भावः भवति कुत्रचित् नित्यं भवति | यदि विकल्पः इत्येव इष्यते तर्हि वा शब्दस्य पाठः स्यात् परन्तु अस्मिन् सूत्रे विशिष्टः अर्थः इष्टः अतः एव बहुलम् इति शब्दस्य प्रयोगः कृतः |</big>
 
<big>मद्राणां समृद्धिः = सुमद्रम् | नित्यम् अम्भावः भवति सर्वासु विभक्तिषु पञ्चमीं विहाय |</big>
Line 806 ⟶ 804:
<big>अलौकिकविग्रहवाक्यम्</big>
 
<big>आत्मन् + ङि + अधि '''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण | '''अव्ययीभावः''' (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)  इति सूत्रेण अधि इति अव्ययं समर्थेन आत्मनि इति सुबन्तेन सह समस्यते | एतेन सूत्रेण अव्ययीभावसमासः विधीयते |</big>
 
 
Line 813 ⟶ 811:
<big>आत्मन् + ङि + अधि '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | अतःआत्मन् + ङि + अधि '''→'''इत्यस्मिन्‌ ङि इत्यस्य लुक्‌ भवति→ आत्मन् + अधि इति |</big>
 
<big>आत्मन् + अधि'''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति | अत्र च 'अधि' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा इति | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण | अतः अधि इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः | यद्यपि प्रत्ययस्य लोपः जातः तथापि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव |</big>
 
 
Line 825 ⟶ 823:
<big>अध्यात्मन् '''→''' इदानीम् '''अनश्च''' (५.४.१०८) इति सूत्रेण अव्ययीभावसमासस्य अन्ते "अन्" इति विद्यते चेत् तस्मात् टच् इति समासान्तप्रत्ययः भवति |</big>
 
<big>अध्यात्मन् + टच् '''→''' टच् इति समासान्तप्रत्ययः समासस्य अवयवः भवति | टच् इति प्रत्यये इतसंज्ञकवर्णयोः लोपानन्तरम् अकारः अवशिष्यते | अध्यात्मन् + अ '''→''' आत्मन् इति पुंलिङ्गशब्दः अस्ति, अतः '''नपुंसकादन्यतरस्याम्''' (५.४.१०९) इति सूत्रस्य प्रसक्तिः नास्ति | '''नपुंसकादन्यतरस्याम्''' (५.४.१०९) इति सूत्रेण नपुंसकलिङ्गे अन्नन्तप्रातिपदिकात् टच् इति समासान्तप्रत्ययः विकल्पेन भवति |</big>
 
 
Line 836 ⟶ 834:
 
 
<big>अध्यात्म + सु '''→  अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति अध्यात्मात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
<big>अध्यात्म + अम् '''→'''  '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्|पञ्चमी-विभक्तिं विहाय अपरासु विभक्तिषु '''अध्यात्मम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयं सम्भवति '''→''' अध्यात्मम् / अध्यात्मेन, अध्यात्मम् / अध्यात्मे | अन्यासु विभक्तिषु अध्यात्मम् इति रूपं सिद्धं भवति | पञ्चमी-विभक्तौ अध्यात्मात् इति रूपं भवति |</big>
 
<big><br />पञ्चमीविभक्तौ सुप् लुक् न भवति इति उक्तम् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण | तर्हि प्रक्रिया अधो भागे प्रदर्शिता –</big>
Line 893 ⟶ 891:
<big>एतेषां प्रक्रिया चिन्तनीया —१) सीमनि इति , २) दामनि इति  ३) दण्डिनि इति (दण्डिन् इति पुंलिङ्गशब्दः) |</big>
 
<big>अधः सीमन् इति अन्नन्त-स्त्रीलिङ्गशब्दस्य रूपाणि प्रदर्शितानि | एवमेव दामन् इति स्त्रीलिङ्गशब्दस्य रूपाणि अपि |</big>
{| class="wikitable"
|'''<big>विभक्तिः</big>'''
Line 1,087 ⟶ 1,085:
|
===== <big>'''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३)</big> =====
<big>अदन्तात् अव्ययीभावात्  सुप् प्रत्ययस्य लुक् न भवति, अपि तु पञ्चमीविभक्तिं विहाय अन्यासु विभक्तिषु सुप्प्रत्ययस्य स्थाने अमादेशः विधीयते | अस्मिन् सूत्रे निषेधः इति भागः अपि अस्ति येन सुपः लुक् निषिध्यते, विधिः इति भागः अपि अस्ति येन अमादेशः विधीयते, परन्तु पञ्चमीं विहाय | न अव्यययपदम्, अव्ययीभावात् पञ्चम्यन्तम्, अतः पञ्चम्यन्तम्, अम् प्रथमान्तं, तु अव्ययपदम्, अपञ्चम्याः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | '''अव्ययादाप्सुपः''' (२.४.८२) इत्यस्मात् सूत्रात् सुपः इत्यस्य अनुवृत्तिः | '''ण्यक्षत्रियार्षञितो यूनि लुगणिञोः''' ( २.४.५८) इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अतः अव्ययीभावात् तु न सुपः लुक्, अपञ्चम्याः अम् |'''</big>
|-
|
Line 1,106 ⟶ 1,104:
===== <big>'''यस्येति च''' (६.४.१४८)</big> =====
 
<big>भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | इश्च अश्च,  समाहारद्वन्द्वः, तस्य यस्य | यस्य षष्ठ्यन्तम्, ईति सम्प्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | '''भस्य''' (६.४.१२९) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२), '''अलोऽन्त्यस्य''' (१.१.५२) च परिभाषासूत्रे प्रवर्तेते | '''ढे लोपोऽकद्र्वाः''' (६.४.१४७) इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''नस्तद्धिते  '''(६.४.१४४) इत्यस्मात् सूत्रात् तद्धिते इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—  '''भस्य अङ्गस्य यस्य च लोपः ईति तद्धिते''' |    </big>
|-
|
Line 1,122 ⟶ 1,120:
<big><br />अलौकिकविग्रहवाक्यम्</big>
 
<big>नदी + ङस् + उप '''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण | '''अव्ययीभावः ('''२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)   इति सूत्रेण उप इति अव्ययं समर्थेन नदी इति सुबन्तेन सह समस्यते |</big>
 
 
Line 1,169 ⟶ 1,167:
|
===== <big>'''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७)</big> =====
<big>नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | ह्रस्वः प्रथमान्तं, नपुंसके सप्तम्यन्तं, प्रातिपदिकस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | '''अचश्च''' (१.२.२८) इत्यनेन अचः एव ह्रस्वत्वम् | '''अलोऽन्तस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव ह्रस्वत्वम् (न तु प्रातिपदिकस्य) | अनुवृत्ति-सहितसूत्रम्‌— '''नपुंसकलिङ्गे अचः प्रातिपदिकस्य ह्रस्वः''' |</big>
 
 
Line 1,209 ⟶ 1,207:
<big>गङ्गा + ङस् +उप '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण|</big>
 
<big>गङ्गा + ङस् + उप '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | अतः गङ्गा + ङस् +उप '''→'''इत्यस्मिन्‌ ङस् इत्यस्य लुक्‌ → उप + गङ्गा इति |</big>
 
 
Line 1,224 ⟶ 1,222:
 
 
<big>उपगङ्गा '''→ अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | उपगङ्गा इत्यस्य अव्ययसंज्ञा भवति | इदानीं लिङ्गस्य निर्णयः भवति | '''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः उपगङ्गा इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |</big>
 
 
Line 1,232 ⟶ 1,230:
 
 
<big>उपगङ्ग+ सु '''→'''अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात्  सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमीविभक्तिं विहाय | पञ्चमी विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुबन्तप्रक्रियानन्तरम् '''उपगङ्गगात्''' इति रूपं निष्पन्नं भवति | अपरासु विभक्तिषु '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३)  इति सुत्रेण सुप् प्रत्ययस्य लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
 
<big>उपगङ्ग + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमीविभक्तिं विहाय अपरासु विभक्तिषु '''उपगङ्गम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीयाविभक्तौ अपि च सप्तमीविभक्तौ रूपद्वयं सम्भवति-</big>
 
 
Line 1,311 ⟶ 1,309:
 
===== <big>'''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४)</big> =====
<big>अदन्तात् अव्ययीभावात् तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अत्र बहुलम् इति शब्दस्य प्रयोगेण कुत्रचित् विकल्पेन अम्-आदेशः भवति, कुत्रचित् अम् आदेशः नित्यः भवति | कुत्र विकल्पेन, कुत्र नित्यः इति निर्णयः प्रयोगं दृष्ट्वा करणीयः | सामान्यतया विकल्पेन इति स्वीकर्तुं शक्यते | यदि विकल्पार्थः इष्टः तर्हि विकल्पः अथवा वा इति शब्दस्य प्रयोगः भवति परन्तु अत्र बहुलम् इत्यनेन विशिष्टार्थः बुध्यते|तृतीया च सप्तमी च तयोः इतरेतरयोगद्वन्द्वः तृतीयासप्तम्यौ, तयोः | तृतीयासप्तम्योः षष्ठ्यन्तं, बहुलं प्रथमान्तं, द्विपदमिदं सूत्रम् | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यस्मात् सूत्रात् अव्ययीभावात्, अतः, अम् इत्येषाम् अनुवृत्तिः भवति | अनुवृत्ति-सहितसूत्रम्‌— '''तृतीयासप्तम्योः अतः अव्ययीभावाद् अम् बहुलम्''' |</big>
 
|}
Line 1,326 ⟶ 1,324:
 
==== '''<big><u>३) समीपार्थे तृतीयम् उदाहरणम्</u></big>''' ====
<big>शरदः समीपम् = उपशरदम् | शरद् इत्युक्ते ऋतुः | शरद् इति शब्दः दकारान्तः शब्दः |</big>
{| class="wikitable mw-collapsible"
!'''<big>३) समीपार्थे तृतीयम् उदाहरणम्</big>'''
Line 1,348 ⟶ 1,346:
 
 
<big>शरद् + उप '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र उप इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |</big>
 
 
<big>उपशरद् '''→''' '''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) इत्यनेन शरदादिगणे विद्यमानेभ्यः शब्देभ्यः अव्ययीभावसमासे "टच्" इति समासान्तः तद्धितसंज्ञकप्रत्ययः भवति | शरद् इति शब्दः शरादिगणे अस्ति अपि च उपशरद् इति अव्ययीभावसमाससंज्ञकः, अतः टच् इति समासान्तः प्रत्ययः विधीयते|उपशरद् + टच् '''→''' टच् इति प्रत्यये टकार-चकारयोः इत्संज्ञा भवति, अकारः अवशिष्यते | टच् प्रत्ययस्य योजनानन्तरं हलन्तशब्दाः अपि अजन्ताः भवन्ति | समासान्तप्रत्ययाः समासस्य अवयवः भवन्ति | इदानीम् उपशरद्+अ इत्यस्य प्रातिपदिकसंज्ञा अस्ति |</big>
 
 
Line 1,361 ⟶ 1,359:
 
 
<big>उपशरद + सु '''→''' उपशरद इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः '''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) इति सूत्रेण | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी विभक्तिं विहाय | पञ्चमी विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्बन्तप्रक्रियानन्तरं रूपं भवति '''उपशरदात्''' | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
 
Line 1,373 ⟶ 1,371:
<big>सप्तमीविभक्तौ =उपशरदम् / उपशरदे |</big>
 
<big>अन्यासु विभक्तिषु पञ्चमीविभक्तिं विहाय उपशरदम् इति रूपं सिद्धं भवति | पञ्चमीविभक्तौ उपशरदात् इति रूपं भवति |</big>
|}
 
Line 1,403 ⟶ 1,401:
 
 
<big>अदन्तात् अव्ययीभावात्  सुप् प्रत्ययस्य लुक् न भवति, अपि तु पञ्चमीविभक्तिं विहाय अन्यासु विभक्तिषु सुप्प्रत्ययस्य स्थाने अमादेशः विधीयते | अस्मिन् सूत्रे निषेधः इति भागः अपि अस्ति येन सुपः लुक् निषिध्यते, विधिः इति भागः अपि अस्ति येन अमादेशः विधीयते, परन्तु पञ्चमीं विहाय | न अव्यययपदम्, अव्ययीभावात् पञ्चम्यन्तम्, अतः पञ्चम्यन्तम्, अम् प्रथमान्तं, तु अव्ययपदम्, अपञ्चम्याः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | '''अव्ययादाप्सुपः''' (२.४.८२) इत्यस्मात् सूत्रात् सुपः इत्यस्य अनुवृत्तिः| '''ण्यक्षत्रियार्षञितो यूनि लुगणिञोः''' ( २.४.५८) इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अतः अव्ययीभावात् तु न सुपः लुक्, अपञ्चम्याः अम् |'''</big>
|-
|
Line 1,410 ⟶ 1,408:
 
 
<big>अदन्तात् अव्ययीभावात् तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अत्र बहुलम् इति शब्दस्य प्रयोगेण कुत्रचित् विकल्पेन अम्-आदेशः भवति, कुत्रचित् अम् आदेशः नित्यः भवति|कुत्र विकल्पेन, कुत्र नित्यः इति निर्णयः प्रयोगं दृष्ट्वा करणीयः | सामान्यतया विकल्पेन इति स्वीकर्तुं शक्यते | यदि विकल्पार्थः इष्टः तर्हि विकल्पः अथवा वा इति शब्दस्य प्रयोगः भवति परन्तु अत्र बहुलम् इत्यनेन विशिष्टार्थः बुध्यते|तृतीया च सप्तमी च तयोः इतरेतरयोगद्वन्द्वः तृतीयासप्तम्यौ, तयोः|तृतीयासप्तम्योः षष्ठ्यन्तं, बहुलं प्रथमान्तं, द्विपदमिदं सूत्रम् | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यस्मात् सूत्रात् अव्ययीभावात्, अतः, अम् इत्येषाम् अनुवृत्तिः भवति | अनुवृत्ति-सहितसूत्रम्‌— '''तृतीयासप्तम्योः अतः अव्ययीभावाद् अम् बहुलम्''' |</big>
|}
 
Line 1,422 ⟶ 1,420:
 
 
<big>जरा + ङस् + उप '''→''' समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण | '''अव्ययीभावः''' (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति |  '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)   इति सूत्रेण उप इति अव्ययं समर्थेन शरदः इति सुबन्तेन सह समस्यते |</big>
 
 
Line 1,430 ⟶ 1,428:
<big>जरा + ङस् + उप '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | जरा + ङस् + उप '''→'''इत्यस्मिन्‌ ङस् इत्यस्य लुक्‌ →जरा + उप इति |</big>
 
<big>जरा + उप '''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'उप' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण | अतः उप इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |</big>
 
 
<big>जरा + उप '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र उप इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |</big>
 
 
Line 1,439 ⟶ 1,437:
 
 
<big>उपजरस् + टच् '''→''' टच् इति प्रत्यये टकार-चकारयोः इत्संज्ञा भवति, अकारः अवशिष्यते|टच् प्रत्ययस्य योजनानन्तरं हलन्तशब्दाः अपि अजन्ताः भवन्ति | समासान्तप्रत्ययाः समासस्य अवयवः भवति | इदानीम् उपजरस्+अ इत्यस्य प्रातिपदिकसंज्ञा अस्ति |</big>
 
 
Line 1,447 ⟶ 1,445:
 
 
<big>'''उपजरस''' + सु '''→''' उपजरस इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः '''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) इति सूत्रेण | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी विभक्तिं विहाय | पञ्चमी विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्बन्तप्रक्रियानन्तरं रूपं भवति '''उपजरसात्''' | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
 
Line 1,482 ⟶ 1,480:
<big>४) अनुडुहि इति = अध्यनडुहम्</big>
 
<big>५) दिशि इति = अधिदिशम् |</big>
 
 
Line 1,495 ⟶ 1,493:
 
===== <big>'''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७)</big> =====
<big>इति सूत्रस्य अन्तर्गते ''' प्रतिपरसमनुभ्योऽक्ष्णः''' इति गणसूत्रं वर्तते इति उक्तम् | गणसूत्रार्थः = प्रति, पर, सम् तथा अनु, एतेषु कश्चन शब्दः पूर्वपदे विद्यते चेत्  अपि च उत्तरपदे अक्षि इति शब्दः चेत्, तदन्तात् अव्ययीभावसमासात् टच् इति समासान्तप्रत्ययः विधीयते | अनेन प्रत्यक्षम्, परोक्षम्, समक्षम्, अन्वक्षम् इत्यादीनि समस्तपदानि सिद्ध्यन्ति |</big>
 
<big><br />
Line 1,547 ⟶ 1,545:
 
 
<big>अक्षिभ्यां परम् = परोक्षम् (beyond the range of sight /perception) | धेयं यत् यद्यपि पर इति अव्ययं नास्ति, परोक्षम् इति अव्ययीभावसमासं कर्तुं समासविधायकं सूत्रम् अपि नास्ति तथापि समासान्तविधानसामर्थ्यादव्ययीभाव: सिद्ध्यति|परोक्ष इत्यस्मात् टच् इति समासान्तप्रत्ययः विधीयते ''' प्रतिपरसमनुभ्योऽक्ष्णः''' इति गणसूत्रेण अतः अत्र अव्ययीभावसमासः सम्भवति | वयं जानीमः समस्तपदं परोक्षम् इत्यस्ति यतोहि पाणिनिना स्वयं स्वस्य सूत्रे '''परोक्षे लिट्''' ( ३.२.११५) इत्यत्र परोक्षम् इति पदं प्रयुक्तम् | परोक्षम् इति रूपसाधनार्थं पर इति पदस्य पूर्वनिपातः क्रियते अपि च तस्य अन्तिमस्य अकारस्य स्थाने ओकारः निपात्यते ''' प्रतिपरसमनुभ्योऽक्ष्णः''' इति गणसूत्रेण |</big>
 
 
Line 1,553 ⟶ 1,551:
<big>अलौकिकविग्रहवाक्यं '''→''' अक्षि + भ्याम् + पर +सु |परशब्दस्य पूर्वनिपातनं क्रियते ''' प्रतिपरसमनुभ्योऽक्ष्णः''' इति गणसूत्रेण  यतोहि पर इति शब्दः अव्ययं नास्ति | अतः पर+अक्षि इति भवति |'''परोक्षे लिट्''' (३.२.११५) इति सूत्रे परोक्षे इति उक्तत्वात् पर इति शब्दस्य अन्ते यः अकारः अस्ति तस्य स्थाने ओकारः निपात्यते, अपि च ओ+अ इत्यत्र पूर्वरूपः अपि निपात्यते | निपातनं नाम साक्षात् रूपमुच्यते प्रक्रियां विना |यथा अत्र पर इत्यस्य अन्ते यः अकारः अस्ति तस्य स्थाने ओकारः निपात्यते, अपि च पूर्वरूपादेशः | पर्+ओ +अक्षि '''→''' पूर्वरूपादेशः अपि निपात्यते अतः परोक्षि इति रूपं सिद्ध्यति |</big>
 
<big>अधुना '''प्रतिपरसम्नुभ्योऽक्ष्णः''' इति गणसूत्रेण  टच् इति प्रत्ययः विधीयते अतः परोक्षि+ टच्  → परोक्षि +अ इति इत्संज्ञकवर्णानां लोपानन्तरम् | परोक्षि +अ → '''यस्येति च''' (६.४.१४८) इति भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | परोक्षि इत्यस्य इकारस्य लोपानन्तरं → परोक्ष् +अ  →  परोक्ष इति प्रातिपदिकं निष्पन्नं भवति | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी विभक्तिं विहाय|पञ्चमी विभक्तौ अम् आदेशः न भवति, तत्र  यथासामान्यं सुबन्तप्रक्रियानन्तरं रूपं भवति '''परोक्षात्''' | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
 
<big>परोक्ष+ अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''परोक्षम्''' इति रूपं सिद्धं भवति | पञ्चमीविभक्तौ परोक्षात् इति रूपं सिद्धं भवति | अधुना '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीयाविभक्तौ अपि च सप्तमीविभक्तौ रूपद्वयं सम्भवति- '''परोक्षं / परोक्षेण, परोक्षं / परोक्षे |'''</big>
 
 
Line 1,581 ⟶ 1,579:
<big>एवमेव —</big>
 
<big>१) पन्थानं पन्थानं प्रति = प्रतिपथम् ( along the road) | अलौकिकविग्रहः = पथिन्+अम्+ प्रति | पथिन् इत्युक्ते मार्गः इत्यर्थः | प्रतिपथिन् इति प्रातिपदिकं प्राप्यते | '''पथिनश्च''' इति गणसूत्रेण अव्ययीभावसमासे टच् इति समासान्तप्रत्ययः विधीयते | अतः प्रतिपथिन् + टच् इति भवति → प्रतिपथिन्+ अ | इदानीं '''नस्तद्धिते''' (६.४.१४४) इति सूत्रेण तद्धितप्रत्यये परे नकारान्तस्य भसंज्ञकस्य अङ्गस्य टिसंज्ञकस्य लोपः भवति '''→ नस्तद्धिते''' (६.४.१४४) इति सूत्रेण इन् इति टि-भागस्य लोपानन्तरम् '''→''' प्रतिपथ् + अ '''→''' प्रतिपथ इति भवति | अधुना अमादेशं कृत्वा '''प्रतिपथम्''' इति समासः सिद्ध्यति | पञ्चमीविभक्तौ प्रतिपथात् इति रूपम् | तृतीयासप्तम्योः विकल्पेन रूपद्वयं सिद्ध्यति |</big>
 
<big>२)  पथः परम् = परपथम् | अलौकिकविग्रहः = पथिन्+ङसि+ पर+सु | प्रक्रिया यथा पूर्वम् |</big>
 
<big>३)  पथः योग्यम् = सम्पथम् |अलौकिकविग्रहः = पथिन्+ङस्+ सम् | प्रक्रिया यथा पूर्वम् | अत्र वा पदान्तस्य ( ८.४.५९) इत्यनने सम् इत्यस्य मकारस्य स्थाने परसर्वणादेशः भवति विकल्पेन अतः रूपद्वय्ं सिद्ध्यति - सम्पथम्/ संपथम्|पञ्चमीविभक्तौ सम्पथात्/ संपथात् |</big>
page_and_link_managers, Administrators
5,097

edits