14---samAsaH/02A---avyayiibhAvasamAsaH: Difference between revisions

no edit summary
(उत्तरपदाधिकारः ( ६.३.१) इत्यस्मात् सूत्रात् आरभ्य ( ६.३.१३९) sutra number fixed)
No edit summary
Line 852:
|
===== <big>'''अनश्च''' (५.४.१०८)</big> =====
<big>यस्य अव्ययीभावसमासस्य अन्ते "अन्" इति विद्यते तस्मात् टच् इति समासान्तप्रत्ययः भवति | अनः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''अव्ययीभावे शरत्प्रभृतिभ्यः''' ( ५.४.१०८) इत्यस्मात् सूत्रात् अव्ययीभावः इत्यस्य अनुवृत्तिः|अव्ययीभावः इति पदस्य विभक्तिपरिणामं कृत्वा अव्ययीभावात् इति भवति | '''राजाहस्सखिभ्यष्टच्‌''' (५.४.९१) इत्यस्मात् सूत्रात् टच् इति पदस्य अनुवृत्तिः | '''समासान्ताः''' (५.४.६८), '''तद्धिताः''' (४.१.७६) अनयोः सूत्रयोः अधिकारः | '''ङ्याप्प्रातिपदिकात्‌''' (४.१.१) इत्यस्य अधिकारः | '''प्रत्ययः, परश्च''' अनयोः सूत्रयोः अपि अधिकारः |अ नुवृत्तिअनुवृत्ति-सहितसूत्रम्‌— '''अनश्च अव्ययीभावात् प्रादिपदिकात् टच् प्रत्ययः परश्च तद्धितः समासान्तः |'''</big>
 
<big>राजन्, आत्मन्, ब्रह्मन्, अर्यमन् इत्येतानि पुंलिङ्गप्रातिपदिकानि, अन्नन्तानि च सन्ति | सीमन्, दामन् इत्यादयः स्त्रीलिङ्गे अन्नन्तशब्दाः सन्ति | अव्ययीभावसमासे यदि एतानि अन्नन्तानि प्रातिपदिकस्य अन्ते विद्यन्ते तर्हि '''अनश्च''' (५.४.१०८) इति सूत्रेण टच् इति प्रत्ययः नित्यं भवति | यदि अन्नन्तं प्रातिपदिकं नपुंसकलिङ्गे अस्ति तर्हि टच् इति समासान्तप्रत्ययः विकल्पेन भवति '''नपुंसकादन्यतरस्याम्''' (५.४.१०९) इति सूत्रेण | एतत् सूत्रम् अग्रे पठिष्यामः |</big>
teachers
810

edits