14---samAsaH/02A---avyayiibhAvasamAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,414:
|+
|-
|<big><nowiki>जरायाः समीपम् = उपजरसम् | </nowiki>'''जरायाः जरस् च'''<nowiki> इति गणसूत्रम् अस्ति | जरा शब्दः शरदादिगणे पठितः, अतः </nowiki>'''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) इति सूत्रेण टच् इति प्रत्ययः भवति अपि च '''जरायाः जरस् च''' इति गणसूत्रेण</big> <big><nowiki>जरा स्थाने जरस् इति आदेशः अपि भवति |</nowiki></big>
 
 
<big>जरा स्थाने जरस् इति आदेशः अपि भवति |</big>
 
 
Line 1,427 ⟶ 1,424:
 
<big>जरा + ङस् + उप '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | जरा + ङस् + उप '''→'''इत्यस्मिन्‌ ङस् इत्यस्य लुक्‌ →जरा + उप इति |</big>
 
 
<big>जरा + उप '''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'उप' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण | अतः उप इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |</big>
 
 
 
Line 1,441 ⟶ 1,440:
 
<big>उपजरस् + अ'''→''' उपजरस'''→''' '''अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति इत्यतः उपजरस् इत्यस्य अव्ययसंज्ञा अस्ति |</big>
 
 
<big>उपजरस'''→''' इदानीं लिङ्गस्य निर्णयः क्रियते | '''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम्|अतः उपजरस इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |</big>
 
 
 
Line 1,454 ⟶ 1,455:
<big>सप्तमीविभक्तौ =उपजरसम् / उपजरसे |</big>
 
<big>अन्यासु विभक्तिषु पञ्चमीविभक्तिं विहाय उपजरसम् इति रूपं सिद्धं भवति | पञ्चमीविभक्तौ उपजरसात् इति रूपं भवति |</big>
|}
 
Line 1,667 ⟶ 1,668:
!<big>टच् इति प्रत्ययः <u>विकल्पेन</u> विधीयते '''नपुंसकादन्यतरस्याम्'''<nowiki> (५.४.१०९) इति सूत्रेण|</nowiki></big>
|-
|<big><nowiki>चर्मणः समीपम् = उपचर्मम् / उपचर्म | चर्मन् इति नपुंसकलिङ्गशब्दः |</nowiki></big>
<big>अलौकिकविग्रहवाक्यम्</big>
 
<big>चर्मन्+ ङस् + उप |चर्मन् इति अन्नन्तः शब्दः अस्ति, अतः अत्र टच् इति प्रत्ययः विकल्पेन विधीयते '''नपुंसकादन्यतरस्याम्''' (५.४.१०९) इति सूत्रेण|</big>
 
 
<big>चर्मणः समीपम् = उपचर्मम् / उपचर्म|चर्मन् इति नपुंसकलिङ्गशब्दः |</big>
 
<big>अलौकिकविग्रहवाक्यम्</big>
 
<big>चर्मन्+ ङस् + उप | चर्मन् इति अन्नन्तः शब्दः अस्ति, अतः अत्र टच् इति प्रत्ययः विकल्पेन विधीयते '''नपुंसकादन्यतरस्याम्''' (५.४.१०९) इति सूत्रेण |</big>
 
 
Line 1,688 ⟶ 1,684:
<big>यस्मिन् पक्षे टच् इति समासान्तप्रत्ययः विधीयते '''नपुंसकादन्यतरस्याम्''' (५.४.१०९) इति सूत्रेण तत्र प्रक्रिया एतादृशी भवति –</big>
 
<big>चर्मन् + उप →समाससंज्ञा→ समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण | '''अव्ययीभावः''' (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति|  '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)  इति सूत्रेण उप इति अव्ययं समर्थेन चर्मणः इति सुबन्तेन सह समस्यते |</big>
 
 
Line 1,695 ⟶ 1,691:
<big>चर्मन् + ङस् + उप → इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | अतः चर्मन् + ङस् + उप  '''→'''इत्यस्मिन्‌ ङस् इत्यस्य लुक्‌ → चर्मन् + उप इति |</big>
 
<big>चर्मन् + उप '''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'उप' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण|अतः उप इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |</big>
 
 
Line 1,701 ⟶ 1,697:
 
 
<big>उपचर्मन् + टच् '''→''' अत्र '''नपुंसकादन्यतरस्याम्''' (५.४.१०९) इत्यनेन टच् इति समासान्त प्रत्ययः विधीयते विकल्पेन | अव्ययीभावसमासस्य अन्ते अन्नन्तपदं नपुंसकलिङ्गे विद्यते चेत्, तस्मात् "टच्" इति समासान्तप्रत्ययः विकल्पेन भवति|टच् इति प्रत्यये टकार-चकारयोः इत्संज्ञा भवति, अकारः अवशिष्यते | टच् -प्रत्ययस्य विधानन्तरं सर्वे हलन्तशब्दाः अपि अजन्ताः भवन्ति | समासान्तप्रत्ययः समासस्य अवयवः अस्ति |</big>
 
 
Line 1,707 ⟶ 1,703:
 
 
<big>उपचर्म् + अ '''→''' उपचर्म '''→''' '''अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | उपचर्म इत्यस्य अव्ययसंज्ञा भवति यतोहि समासान्तप्रत्ययः समासस्य अवयवः भवति |</big>
 
<big>उपचर्म '''→''' इदानीं लिङ्गस्य निर्णयः भवति | '''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासः नपुंसकलिङ्गे भवति |</big>
 
 
Line 1,797 ⟶ 1,793:
 
<big>२) इदानीं सुप् प्रत्ययस्य लोपः जातः; तत्पश्चात् उपचर्मन् इति प्रातिपदिकान्तस्य पदस्य अन्ते विद्यमानस्य नकारस्य लोपः जातः '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इत्यनेन |</big>
 
<big>अधुना उपचर्म इति अदन्तम् इत्यतः '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रस्य प्रसक्तिः स्यात् इति चिन्तनं दोषपूर्णम्|</big>
 
<big>किमर्थम् इति चेत् उपचर्मन+सु इत्यत्र नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रस्य प्रसक्तिः नास्ति इत्यतः सुब्लुक् निषेधः न जातः, अमादेशः न जातः | अतः एव '''अव्ययादाप्सुपः''' (२.४.८२) इति उत्सर्गसूत्रेण सुप्प्रत्ययस्य लोपः जायते | सुप्प्रत्ययस्य लोपानन्तरं, उपचर्मन् इति प्रातिपदिकस्य पदस्य च अन्ते विद्यमानस्य नकारस्य लोपः कृतः '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इति सूत्रेण; उपचर्म इति अदन्तं पदं सिद्धम् | अधुना '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यस्य प्रसक्तिः अस्ति वा?</big>
teachers
810

edits