02A - अव्ययीभावसमासः

14---samAsaH/02A---avyayiibhAvasamAsaH
२०२० ध्वनिमुद्राणनि
१) avyayIbhAvasamAsaH --nipAtAH+avyayam_ 2020-06-06
२) avyayIbhAvasamAsaH-- avyaya, upasarga, gati samjNYA + samAsAnthAH _2020-06-13
३) avyayiibhAvasamAsaha -- samAsantapratyayaH+ prakriyAsambaddhasUtraNi + avyayam vibhakti-samIpam _2020-06-20
४) avayayiibhAvasamAsaH --- avyayam vibhakti samiipam samriddhi -- avyayAnAM arthAH _2020-06-27
५) avyayiibhAvasamAsaH-- avayayam vibhkati. samiipam + adhihari prakriyA _2020-07-11
६) avyayiibhAvassamAsaH -- vibhaktyarthe-- abhyAsaH _2020-07-18
७) avyayiibhAvasamAsah--vibhaktyarthe - adantam uttarapadam _2020-07-25
८) avyayiibhAvasamAsaH--vibhaktyarthe - uttarapadam annanta shabdaH_08-01-2020
९) avyayiibhAvasamAsaH--vibhakyarthe abhyAsaH_ 2020-08-08
१०) avyayiibhAvasamAsaH-- samiipArathE--nadIpauraNamasAgrahAyaNiibhyaH _2020-08-15
११) avyayiibhAvasamAsaH -- samiipArthE--nadipauraNamsAgrahAyaNibhyaH+ sharad shabdaH_ 2020-08-29
१२) avyayiibhAvasamAsaH--samiipArthE-- avayayibhAve sharatprabhrithibhyaH_ 2020-09-05
१३) avyayiibhAvasamAsaH -- gaNasUtrANi--avavyiibhAve sharatprabhritibhyAH_ 2020-09-12
१४) avyayiibhAvasamAsaH-- pathinashca + napumsakAdanyatarsyAm _ 2020-09-19
१५)  avyayiibhAvasamAsaH-- punasmaraNam + napumsakAdanyatarsyAm _2020-09-26
१६) avyayiibhAvasamAsaH-- upacharmam+upacharma rUpacintanam_ 2020-10-03
१७) avyayiibhAvasamAsaH-- upasamidham+upasamid, upasamit _2020-10-10
१८) avyayiibhAvasamAsaH-- upadriSHadam, upadriShad/t + girEshcha senakasya _2020-10-17
१९)  avyayiibhAvasamAsaH-- abhyAsaH_ 2020-10-31
२०) avyayiibhAvasamAsaH--samdridyarthE+ vriddhyarthE+ arthAbhArthE_ 2020-11-07
२१)  samAsaH-- punassmaraNam + avyayiibhAsamAsaH --- atyayArthE+ asampratyarthE_ 2020-11-21
२२) avyayiibhAvasamAsaH-- pratipadikAntanumvibhaktiShu ca + kumati ca+ yathArthE_2020-11-28
२३) avyayiibhAvasamAsaH--yathArthE - yogyatA, vIpsA, padarthAnativRiti, saadRishyam_ 2020-12-05
२४) avyayiibhAvasamAsaH-- yogapadyArthe+ sAdrishyArthe_ 2020-12-12
२५) avyayiibhAvasamAsaH-- sampathi+ sAkalya+antavachanE+ abhyAsaH_ 2020-12-19
२६) avyayiibhAvasamAssaH-- yathAsAdrishyE_2021-01-09
२७) avyayiibhAvasamAsaH--yAvadavadhAraNam+ sup pratina mAtrArthE_2021-01-16
२८) avyayiibhAvasamAsaH-- sup pratinA mAtrArthe_ 2021-01-23
२९)  avyayiibhAvasamAsaH-- sup pratinA mAtrArthe+ akSHa shalAkA sankhyAya pariNA_ 2021-01-30
३०)  avyayiibhAvasaMasaH-- apaparibahiraNycavaH panchamyA_ 2021-02-06
३१)   avyayiibhAvasamAsaH-- apa-pari-bahir-aNYcavaH panchamyA _ 2021-02-12


तिङन्तपदस्य निर्माणे मातॄणां पद्धति: वैज्ञानिकी, तर्कपूर्णा इति तु वयं जानीमः एव, किन्तु समासपाठ्यक्रमे अपि मातुः पद्धत्यां वैलक्ष्ण्यं वर्तते एव  | माता समासपाठस्य विज्ञानं, समग्रचिन्तनं च पाठयति यत् न वैयाकरणसिद्धान्तकौमुद्यां न वा लघुसिद्धान्तकौमुद्यां न वा अन्यत्र कुत्रापि लभ्यते  | समासप्रकरणस्य अध्यापनार्थं, छात्राणां सुखबोधनार्थं च मातृभिः समासप्रक्रियायां पञ्च उपाङ्गानि कृतानि, यैः उपाङ्गैः क्रमेण बोधः जायते समासे कीदृशकार्याणि भवितुम् अर्हन्ति अपि च तत्सम्बद्धसूत्राणि अष्टाध्याय्यां कुत्र वर्तन्ते इति अपि ज्ञायते  | समासप्रकरणस्य अध्ययने मातुः पाठ्यक्रमः न केवलं विलक्षणः, सरलः अपि अस्ति येन सुलभतया अर्थबोधः जायते | बहूनां विद्यार्थीनां भ्रमः जायते वैयाकरणसिद्धान्तकौमुदीं पठित्वा परन्तु मातुः पाठ्यक्रमे समासपाठः पठ्यते चेत् निश्चयेन बोधः भवत्येव   | मातुः पाठे समासप्रक्रियायां पञ्च उपाङ्गानि सन्ति इति उक्तम् | एतस्य विवरणम् अग्रे दीयते |


पञ्च उपाङ्गानि

आदौ समासः विधीयते केनचित् समासविधायकसूत्रेण |  तत्पश्चात् प्रक्रियायां समासस्य निर्माणे पञ्चोपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति  | इमानि पञ्च उपाङ्गनि सन्ति —

१) प्रातिपदिकसंज्ञा

समासस्य अलौकिकविग्रहात् समासप्रक्रिया आरभ्यते|समासस्य प्रातिपदिकसंज्ञा विधीयते कृत्तद्धितसमासाश्च (१.२.४६) इति सूत्रेण | प्रातिपदिकसंज्ञानन्तरं पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते सुपो धातुप्रातिपदिकयोः (२.४.७१) इति सूत्रेण | अष्टाध्याय्यां (६.३.१) इत्यस्मात् सूत्रात् आरभ्य (६.३.२४) इति सूत्रपर्यन्तं पूर्वपदस्य विभक्तेः अलुक् भवति | उत्तरपदे इति अधिकारे सुब्-अलुक् इति एकं कार्यम् अस्ति | पञ्चमे सोपाने सुबलुक् इत्यस्य विवरणम् अग्रे दीयते |


२) पूर्वनिपातः = प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३)

इति संज्ञासूत्रेण समासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति  | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण |


३) लिङ्गवचनयोः निर्णयः

समासस्य लिङ्गस्य, वचनस्य च निर्णयः |


४) समासान्तप्रत्ययाः

समासप्रक्रियायां कुत्रचित् समासान्तप्रत्ययः विधीयते इति स्मर्तव्यम् | अष्टाध्याय्यां समासान्ताधिकारः (५.४.६८) इत्यस्मात् सूत्रात् आरभ्य (५.४.१६०) इति सूत्रपर्यन्तम् अस्ति | अस्मिन् अधिकारे समासे कुत्रचित् समासान्तप्रत्ययाः विधीयन्ते |


५) उत्तरपदाधिकारः

कुत्रचित् उत्तरपदे इति अधिकारे स्थितस्य सूत्रस्य प्रभावेण पूर्वपदे किञ्चित् कार्यं भवति | अष्टाध्याय्याम् उत्तरपदाधिकारः ( ६.३.१) इत्यस्मात् सूत्रात् आरभ्य ( ६.३.१३९) इति सूत्रपर्यन्तम् अस्ति | अस्मिन् अधिकारे उत्तरपदे परे पूर्वपदस्य किञ्चित् कार्यं भवति  | यथा विश्वमित्रः इति समासे पूर्वपदस्य स्वरस्य दीर्घत्वं भूत्वा विश्वामित्रः इति भवति  | कुत्रचित् किञ्चित् उत्तरपदे परे पूर्वपदस्य विभक्तेः अलुक् अपि भवति | एतादृशकार्याणि उत्तरपदाधिकारे लभ्यन्ते |

मातुः पाठ्यक्रमम् अवलम्ब्य अग्रे अव्ययीभावसमासस्य विषये पठामः  |


उपरि गम्यताम्




अव्ययीभावासमासः

अव्ययीभावसमासे पूर्वपदम् अव्ययम्, उत्तरपदं च सुबन्तं पदं भवति | अनव्ययम् अव्ययं सम्पद्यते इति अव्ययीभावः  | अर्थात् यत् अव्ययं नास्ति तत् समासे अव्ययं भवति चेत्  अव्ययीभावसमासः इति उच्यते | अव्ययीभावसमासे प्रायेण पूर्वपदार्थस्य प्राधान्यम् अस्ति  | यथा- उपवृक्षम् इति अव्ययीभावसमासः, तस्य विग्रहवाक्यम् अस्ति वृक्षस्य समीपम् इति | अस्मिन् समासे ‘उप’ इति अव्ययस्य एव प्राधान्यम् अस्ति यतोहि तस्यैव अन्वयः क्रियया सह भवति | अतः एव अव्ययीभावसमासे प्रायेण पूर्वपदस्य प्राधान्यम् इति कथ्यते  | उपवृक्षम् इति समासस्य अव्ययसंज्ञा भवति अव्ययीभावश्च (१.१.४१) इति सूत्रेण | अव्ययीभावसमासः नपुंसकलिङ्गे भवति  | उपवृक्षम् इति अव्ययं, नपुंसकलिङ्गे अस्ति |


अव्ययीभावसमासाधिकारे यानि सूत्राणि सन्ति, तैः सूत्रैः यदा समासः क्रियते तदा अव्ययीभावः (२.१.५)  इति अधिकारसूत्रेण अव्ययीभावसमासः इति विशिष्टा समाससंज्ञा विधीयते |

अव्ययीभावः (२.१.५)

अधिकारसूत्रम् इदम्   | अस्मिन् अधिकारे अव्ययीभाव-समासः विधीयते  | नाम अस्मिन् अधिकारे यत् उच्यते तत् सर्वम् अव्ययीभावसमासः भवति | अव्ययीभाव-समास-सम्बद्धसूत्राणि (२.१.६) इत्यस्मात् सूत्रात् आरभ्य (२.१.२१) इति सूत्रपर्यन्तं सन्ति |  अव्ययीभावः प्रथमान्तम्, एकपदमिदं सूत्रम्  | सूत्रं स्वयं सम्पूर्णम्  |


अव्ययीभावश्च (१.१.४१)

अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | अव्ययीभावसमास-संज्ञायाः विधानानन्तरं सम्पूर्णं समस्तपदम् अव्ययं भवति |इदं सूत्रं संज्ञासूत्रम् अस्ति|अव्ययीभावः प्रथमान्तं, च अव्ययपदं द्विपदमिदं सूत्रम् | स्वरादिनिपातमव्ययम् ( १.१.३७) इत्यस्मात् सूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रं— अव्ययीभावः च अव्ययम् |

यथा  —

हरौ इति = अधिहरि | अव्ययीभावसमासः विधीयते अव्ययीभावः (२.१.५) इति सूत्रेण, तस्य अव्ययसंज्ञा भवति अव्ययीभावश्च (१.१.४१)  इति सूत्रेण |


अव्ययीभावसमासे पूर्वपदम् अव्ययम् इत्युक्तम्|तर्हि अव्ययं नाम किम् इति अवगन्तव्यम् |

अव्ययम्  —

अव्ययस्य लक्षणं कौमुद्यां दीयते यत् -

सदृशं त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु |

वचनेषु च सर्वेषु यन्न व्येति (परिवर्तते) तत् अव्ययम् ॥ इति


संस्कृतभाषायां बहूनि अव्ययपदानि सन्ति | कानिचन  प्रसिद्धानि अव्ययानि — अथ, अपि, इति, इव, एव, एवम्, च,यथा-तथा, यावत्-तावत्, नूनं, पुनः, किल, खलु इत्यादीनि | सर्वासु विभक्तिषु एतेषाम् अव्ययानां रूपाणि न परिवर्तन्ते |


व्याकरणे केषाञ्चन शब्दानाम् अव्ययसंज्ञा भवति | तेभ्यः यदा सुप्प्रत्ययाः विधीयन्ते तदा तेषां सुप्प्रत्ययानां लुक् (लोपः) भवति अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण | सुबन्तानां तिङन्तानां च पदसंज्ञा भवति सुप्तिङन्तं पदम्‌ (१.४.१४) इति सूत्रेण  इति ज्ञातम् | अव्ययानाम् अपि पदसंज्ञा भवति सुप्प्रत्ययस्य विधानेन | यद्यपि सुप्प्रत्ययाः लुप्यन्ते तथापि प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन प्रत्ययस्य लोपानान्तरम् अपि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव  | सर्वाणि अव्ययानि सुबान्तानि एव भवन्ति यतोहि तेभ्यः सुप्-प्रत्ययाः विधीयन्ते लुप्यन्ते च | अत एव अव्ययानां रूपाणि त्रिषु लिङ्गेषु, सर्वासु विभक्तिषु, सर्वेषु वचनेषु च समानानि भवन्ति |


अष्टाध्याय्यां केषां शब्दानाम् अव्ययसंज्ञा भवति इति अग्रे उच्यते —

प्राग्रीश्वरान्निपाताः (१.४.५६)

इदम् अधिकारसूत्रम् अस्ति | एतस्य सूत्रस्य अधिकारः अस्मात् सूत्रात् आरभ्य अधिरीश्वरे (१.४.९७) इति सूत्रपर्यन्तम् अस्ति  अत एव सूत्रे रीश्वरात् इति उक्तम् | अस्मिन् अधिकारे ये शब्दाः पठिताः, तेषां सर्वेषां निपातसंज्ञा भवति | चादयोऽसत्त्वे ( १.४.५७) इति सूत्रे एतस्य उदाहरणं दीयते | प्राक् इत्यव्ययं, रीशवरात् पञ्चम्यन्तं, निपाताः प्रथमान्तम् | सूत्रं स्वयं सम्पूर्णम् |


निपातसंज्ञा

चादयोऽसत्त्वे ( १.४.५७)

चादिगणे ये शब्दाः पठिताः तेषाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति | यदि कस्यचित् शब्दस्य लिङ्निर्देशः सङ्ख्यानिर्देशः वा भवितुम् अर्हति, तर्हि सः शब्दः द्रव्यवाची इति उच्यते | यथा पृथिवी, आपः, रामः, ज्ञानम् इत्यादयः | यदि एतादृशः निर्देशः न भवितुम् अर्हति, तर्हि सः शब्दः अद्रव्यवाची इति उच्यते | यथा च, वा, अपि, इत्यादयः | च आदिः येषां ते चादयः, बहुव्रीहिः | सत्वं लिङ्गसङ्ख्यान्वितं द्रव्यम् | न द्रव्यम् अद्रव्यम् तस्मिन्, अद्रव्ये | चादयः प्रथमान्तम्, असत्त्वे सप्तम्यन्तं द्विपदमिदं सूत्रम् | प्राग्रीश्वरान्निपाताः ( १.४.५६) इत्यस्मात् सूत्रात् निपाताः इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— चादयः असत्त्वे निपाताः |


'पशु' इति अपि  शब्दः चादिणे अस्ति | अस्य शब्दस्य अर्थद्वयम् अस्ति - 'सम्यक्', तथा 'प्राणी' इति | 'प्राणी' इत्यस्मिन् अर्थे अस्य शब्दस्य लिङ्गं, सङ्ख्या च  भवति | परन्तु 'सम्यक्' इत्यस्मिन् अर्थे अस्य शब्दयस्य लिङ्गं, सङ्ख्या च न भवति | 'सम्यक्' इत्यस्मिन् अर्थे अयं शब्दः अद्रव्यवाचकः, अतः निपातसंज्ञकः; परन्तु प्राणी इत्यस्मिन् अर्थे पशु-शब्दः द्रव्यवाचकः अतः निपातसंज्ञकः नास्ति |


चादिगणे बहवः शब्दाः सन्ति तेषु केचन अत्र दीयन्ते — च, एव, हि, आदह, नूनं, युगपत्, बत, उञ, मन्ये, अहो, धिक्, चेत्, तत्र, नञ्, पशु, सह, सत्यम्, इति, हाहा, तत्, पुरा, खलु इत्यादयः |


प्रादयः ( १.४.५८)

प्रादिगणे ये शब्दाः पठिताः तेषाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति| प्रादिगणे एते द्वाविंशतिः शब्दाः सन्ति - प्र-परा-अप-सम्-अनु-अव-निस्-निर्-दुस्-दुर्-वि-आङ्-नि-अधि-अपि-अति-सु-उत्-अभि-प्रति-परि-उप | एते एव प्रादयः इत्युच्यन्ते | प्रः आदिर्येषां ते प्रादयः, बहुव्रीहिः | चादयोऽसत्त्वे (१.४.५३) इत्यस्मात् सूत्रात् असत्त्वे इत्यस्य अनुवृत्तिः | असत्त्वे नाम अद्रव्यार्थाः इति | सत्त्वम् नाम द्रव्यम् | असत्त्वे नाम अद्रव्ये | प्राग्रीश्वरान्निपाताः ( १.४.५६) इत्यस्मात् सूत्रात् निपाताः इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— प्रादयः असत्त्वे निपाताः |


प्रादीनाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति | प्रादीनां निपातसंज्ञा अस्ति इति कारणेन तेषां स्वरादिनिपातमव्ययम् ( १.१.३७) इति सूत्रेण अव्ययसंज्ञा अपि भवति | यस्मिन् शब्दे लिङ्गस्य, सङ्ख्यायाः वा सम्बन्धः अस्ति, नो चेत् यस्मिन् शब्दे लिङ्गम् अथवा सङ्ख्या अस्ति सः शब्दः द्रव्यवाची इति वदामः | नाम यदि कस्यचित् शब्दस्य लिङ्निर्देशः सङ्ख्यानिर्देशः वा भवितुम् अर्हति, सः शब्दः द्रव्यवाची अस्ति इति उच्यते | यदि एतादृशः निर्देशः न भवितुम् अर्हति, तर्हि सः शब्दः अद्रव्यवाची इति उच्यते |

उपरि गम्यताम्

अव्ययसंज्ञा

स्वरादिनिपातमव्ययम् ( १.१.३७)

स्वरादिगणे ये शब्दाः पठिताः अपि च ये निपातसंज्ञकाः शब्दाः सन्ति ते सर्वेऽपि अव्ययसंज्ञकाः भवन्ति | प्राग्रीश्वरान्निपाताः( १.४.४६) इत्यस्मिन् अधिकारे सर्वे निपातसंज्ञकाः शब्दाः उच्यन्ते | स्वर् आदौ येषां ते स्वरादयः | स्वरादयश्च निपाताश्च तेषां समाहारद्वन्द्वः स्वरादिनिपातम् | स्वरादिनिपातं प्रथमान्तम्, अव्ययं प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहित-सूत्रं— स्वरादिनिपातम् अव्ययम् |


स्वरादिगणे बहवः शब्दाः सन्ति तेषु केचन शब्दाः अत्र उक्ताः = स्वर्,अन्‍तर्, प्रातर्, पुनर्,  उच्‍चैस्, नीचैस्, शनैस्, ऋते, युगपत्,  पृथक्, श्वस्, दिवा, रात्रौ, सायम्, चिरम्, ईषत्, तूष्‍णीम्, बहिस्, अवस्, समया, निकषा, स्‍वयम्, वृथा, नञ्, हेतौ, इद्धा, अद्धा,  तिरस्, अन्‍तरा, अन्‍तरेण, सहसा, विना, नाना, स्‍वस्‍ति, स्‍वधा, अलम्, वषट्, श्रौषट्, वौषट्, अन्‍यत्, अस्‍ति, प्रायस्, मुहुस्, साकम्, सार्धम्, नमस्,  धिक्, अथ, मा, माङ् इत्यादयः | अयं गणः आकृतिगणः इत्युच्यते यतोहि अस्मिन् गणे अन्ये शब्दाः अपि भवितुम् अर्हन्ति | शिष्टप्रयोगं दृष्ट्वा अन्येषां शब्दानां ज्ञानं भवति |


निपातानां कानिचन उदाहरणानि  — च, वा, ह, अह, एव, नूनं, युगपत्, भूयस्, चेत्, हन्त, नञ्, यावत्, तावत्, खलु, किल्, सुष्ठु इत्यादयः |


प्रादिगणे ये शब्दाः पठिताः, तेषां प्रयोगः धातुना सह भवति चेत् तेषाम् उपसर्गसंज्ञा अपि भवति उपसर्गाः क्रियायोगे (१.४.५९) इति सूत्रेण |  उपसर्गाणाम् अपि अव्ययसंज्ञा भवति | प्रादीनाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति इति कारणेन तेषाम् अव्ययसंज्ञा अपि भवति स्वरादिनिपातमव्ययम् ( १.१.३७) इति सूत्रेण |


उपसर्गसंज्ञा

उपसर्गाः क्रियायोगे (१.४.५९)

प्रादयः क्रियायोगे उपसर्गसज्ञाः स्युः | एते प्रादयः सन्ति  — प्र-परा-अप-सम्-अनु-अव-निस्-निर्-दुस्-दुर्-वि-आङ्-नि-अधि-अपि-अति-सु-उत्-अभि-प्रति- परि-उप | यदा प्रादीनां प्रयोगः धातुना सह क्रियते तदा तेषाम् उपसर्गसंज्ञा भवति | क्रियायाः योगः, क्रियायोगः तस्मिन्, क्रियायोगे, षष्ठीतत्पुरुषः | उपसर्गाः प्रथमान्तं, क्रियायोगे सप्तम्यन्तम् | प्रादयः ( १.४.५८) इत्यस्मात् सूत्रात् प्रादयः इत्यस्य अनुवृत्तिः | प्राग्रीश्वरान्निपाताः ( १.४.५६)  इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— प्रादयः क्रियायोगे उपसर्गाः |


गतिसंज्ञा

गतिश्च ( १.४.६०)

प्रादयः क्रियायोगे गतिसज्ञाः स्युः | प्र-परा-अप-सम्-अनु-अव-निस्-निर्-दुस्-दुर्-वि-आङ्-नि-अधि-अपि-अति-सु-उत्-अभि-प्रति- परि-उप एते प्रादयः सन्ति | यदा प्रादीनां प्रयोगः धातुना सह क्रियते तदा तेषाम् गतिसंज्ञा भवति | गतिः प्रथमान्तं, च अव्ययम् | प्राग्रीश्वरान्निपाताः ( १.४.५६)  इत्यस्य अधिकारः | उपसर्गाः क्रियायोगे (१.४.५९) इत्यस्मात् क्रियायोगे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— प्रादयः क्रियायोगे गतयः |



उपसर्गसंज्ञा, गतिसंज्ञा निपातसंज्ञा - त्रयाणामपि सहवासः

अर्थात् प्रादिगणे ये शब्दाः सन्ति, तेषाम् अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति प्रादयः ( १.४.५८) इति सूत्रेण | उपसर्गाः क्रियायोगे (१.४.५९),  गतिश्च ( १.४.६०) इति द्वाभ्यां सूत्राभ्यां तेषां शब्दानां क्रियायोगे उपसर्गसंज्ञा, गतिसंज्ञा च भवति | आहत्य एतेषां प्रादीनां तिस्रः संज्ञाः भवितुम् अर्हन्ति | एताः सर्वाः संज्ञाः आकडारादेका संज्ञा (१.४.१) इति क्षेत्रे  सन्ति तर्हि कथं एतासां सर्वासां संज्ञानाम् एकत्र सहवासः सम्भवति?

प्रादयः ( १.४.५८), उपसर्गाः क्रियायोगे (१.४.५९), गतिश्च (१.४.६०) इति  एतानि त्रीणि सूत्राणि  आकडारादेका संज्ञा (१.४.१) इति सूत्रस्य परिधौ एव सन्ति इत्यतः एकस्य रूपस्य एका एव संज्ञा अर्हा  इति चिन्तयामः, परन्तु गतिश्च ( १.४.६०) इति सूत्रे चकार-ग्रहणेन तिसृणां संज्ञानां समावेशः सम्भवति | गतिश्च ( १.४.६०)  इति सूत्रे चकारः स्वीकृतः अस्ति, स एव ज्ञापयति यत् अनेकसंज्ञानां समावेशः सम्भवति इति | अत एव एकस्य रूपस्य उपसर्गसंज्ञा, गतिसंज्ञा, निपातसंज्ञा च भवितुम् अर्हति |


आकडारादेका संज्ञा (१.४.१)

अस्मात सूत्रात्‌ आरभ्य कडारा कर्मधारये (२.२.३८) पर्यन्तम्‌ एकस्य रूपस्य एका एव संज्ञा अर्हा | तत्र सर्वत्र परस्य संज्ञासूत्रस्य बलं, विप्रतिषेधे परं कार्यम्‌ (१.४.२) इत्यनेन अथवा अपवादभूतत्वात्‌ |


अव्ययीभावश्च (२.४.१८) = अव्ययीभावसमासः नपुंसकलिङ्गे भवति | अव्ययीभावः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | स नपुंसकम् (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम् — अव्ययीभावः च नपुंसकम् |

उपरि गम्यताम्

अव्ययीभावसमासे अव्ययस्य प्रयोजनम्

अव्ययीभावसमासः अव्ययं भवति इति उक्तम् | तर्हि अव्ययसंज्ञायाः प्रयोजनं किम्?


अव्ययसंज्ञायाः प्रयोजनं यत् अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण सुप्प्रत्ययानां लुक् भवति | अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण अव्ययात् परस्य सुप् प्रत्ययाः लुप्यन्ते | अस्य सूत्रस्य कार्यानन्तरं  सर्वासु विभक्तिषु अव्ययीभावसमासस्य रूपाणि समानानि भवेयुः इति चिन्तयामः | तादृशचिन्तनं समीचीनमेव, परन्तु ततः परम् अन्यसूत्राणि प्रसक्तानि चेत्  अव्ययीभावसमासस्य सर्वाणि रूपाणि समानानि न भवन्ति | कासु विभक्तिषु रूपभेदाः भवितुम् अर्हन्ति इति अग्रे उच्यते | तदर्थं सूत्रद्वयं पठिष्यामः -  नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) , तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति |



अव्ययीभावश्च (२.४.१८) इति  सूत्रस्य प्रयोजनम्

अव्ययीभावसमासे प्रायेण प्रादीनाम् एव प्रयोगः दृश्यते| अव्ययीभावसमासः अव्ययं भवति, नपुंसकलिङ्गे च भवति इति उक्तम् | यत् पदम् अव्ययम् अस्ति तस्य लिङ्गवैशिष्ट्यं नास्ति यतोहि सु-प्रत्ययाः लुप्यन्ते | त्रिषु लिङ्गेषु, सर्वासु विभक्तिषु, सर्वेषु वचनेषु अव्ययानि न परिवर्तन्ते | लिङ्गवैशिष्ट्यं नास्ति चेत् किमर्थम् अव्ययीभावश्च (२.४.१८) इति सूत्रेण नपुंसकलिङ्गविधानं क्रियते? अव्ययीभावश्च (२.४.१८) इति  सूत्रस्य प्रयोजनं किम्?


अव्ययीभावस्य नपुंसकलिङ्गविधानस्य प्रयोजनम्

नपुंसकलिङ्गे प्रयुक्तानां कार्याणां प्राप्तिः एव अव्ययीभावश्च (२.४.१८) इति सूत्रस्य प्रयोजनम् | प्रक्रियाकाले अव्ययीभावसमासः नपुंसकलिङ्गे अस्ति चेत् अजन्तप्रातिपदिकस्य अन्तिमस्वरस्य ह्रस्वत्वं भवति ह्रस्वो नपुंसके प्रातिपदिकस्य (१,२.४७) इति सूत्रेण | एतदेव मुख्यप्रयोजनं नपुंसकलिङ्गस्य | ह्रस्वानन्तरं प्रातिपदिकम् अदन्तं चेत् सुप्-प्रत्ययस्य लुक् न भवति अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण परन्तु अमादेशः भवति नाव्ययीभावादतोऽम्त्वपञ्चम्याः ( २.४.८३) इत्यनेन | एतत् सर्वम् अग्रे पठिष्यामः | सारांशः यत् अव्ययीभावसमासः नपुंसकलिङ्गे अस्ति यतोहि लिङ्गम् अवलम्ब्य कानिचन कार्याणि प्रवर्तन्ते |



अव्ययीभावश्च इति सूत्रं द्विवारम् अस्ति अष्टाध्याय्याम्


वस्तुतस्तु अव्ययीभावश्च इति सूत्रं स्थलद्वये वर्तते | अव्ययीभावश्च (१.१.४१) इति एकं सूत्रं तु अव्ययप्रकरणे प्रथमाध्याये अस्ति यत्र अव्ययसंज्ञा क्रियते | अव्ययीभावश्च (२.४.१८) इति अपरसूत्रं द्वितीयाध्याये अस्ति यत्र अव्ययीभावसमासस्य नपुंसकलिङ्गविधानं क्रियते |



अव्ययीभावसमासस्य प्रसङ्गे समासान्तप्रत्ययाः

अव्ययीभावसमासस्य विषये केचन समासान्तप्रत्ययाः विधीयन्ते | समासान्ताधिकारे (५.४.६८ – ५.४.१६०) समासान्तप्रत्ययाः विधीयन्ते | समासान्तप्रत्ययाः तद्धिताधिकारे सन्ति | एते प्रत्ययाः तद्धितप्रत्ययाः एव परन्तु समासस्य प्रक्रियायां विधीयन्ते | तद्धितसंज्ञकाः समासान्तप्रत्ययाः समासस्य अन्ते आयान्ति, अपि च समासस्य अवयवाः भवन्ति | अत एव एते समासान्तप्रत्ययाः इति नाम्ना ज्ञायन्ते | समासान्ताः समासस्य अवयवाः सन्ति इत्यतः एव समासान्तानां योजनानन्तरं सम्पूर्णस्य समस्तपदस्य प्रातिपदिकसंज्ञा भवति | यद्यपि एतानि कार्याणि समस्तपदस्य निर्माणे भवन्ति तथापि प्रक्रिया तु तद्धितप्रक्रियाम् आश्रित्य एव भवति | नाम तद्धितप्रकरणे यानि सूत्राणि प्रसक्तानि भवन्ति तद्धितप्रक्रियायां, तानि समासप्रक्रियायाम् अपि प्रसक्तानि भवन्ति यतोहि समासान्ताः तद्धिताधिकारे सन्ति | अत एव पाणिनिना एते समासान्तप्रत्ययाः तद्धिताधिकारे स्थापिताः |


तद्धिताः (४.१.७६)

अधिकारसूत्रम् इदम् |अस्य सूत्रस्य अधिकारः अस्ति ४.१.७६ इति सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तं नाम ५.४.१७० इति पर्यन्तम् | अस्मिन् अधिकारे ये प्रत्ययाः विधीयन्ते ते सर्वे तद्धितसंज्ञकाः भवन्ति | सूत्रं स्वयं सम्पूर्णम् |


समासान्ताः (५.४.६८)

एतत् सूत्रम् अधिकारसूत्रम् अस्ति | अस्मात् सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तं ये तद्धितप्रत्ययाः पाठिताः ते समासप्रक्रियायां विधीयन्ते | अर्थात् समासान्तस्य अधिकारः ५.४.६८ इत्यस्मात् सूत्रात् आरभ्य ५.४.१६० इति सूत्रपर्यन्तम् | एते समासान्तप्रत्ययाः प्रातिपदिकात् विधीयन्ते यतोहि ङ्याप्प्रातिपदिकात् ( ४.१.१) इति सूत्रस्य अधिकारः अस्ति चतुर्थाध्ययात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तम् |


केचन समासान्तप्रत्ययाः सर्वेषु समासेषु विधीयन्ते | केचन केवलं विशिष्टसमासानां कृते एव यथा - अव्ययीभावसमासस्य कृते केचन समासान्तप्रत्ययाः विधीयन्ते, केचन केवलं तत्पुरुषसमासस्य कृते विधीयन्ते, केचन केवलं बहुव्रीहिसमासस्य कृते विधीयन्ते | सर्वेषां समासान्तप्रत्ययानाम् आवलिं प्राप्तुं परिशिष्टम् इति करपत्रं दृश्यताम् |



एते समासान्तप्रत्ययाः समासान्तावयवाः भवन्ति | समासान्तप्रत्यये कृते, तं प्रत्ययम् अपि योजयित्वा समासस्य व्यवहारः क्रियते येन अग्रे सुप्प्रत्ययस्य योजना सम्भवति | यदि समासान्तप्रत्ययाः समासस्य अवयवाः न सन्ति तर्हि सुप्प्रत्ययं योजयितुं न शक्यते यतोहि सुप्प्रत्ययः प्रातिपदिकात् एव विहितः भवति |


यथा  – अध्यात्मन् इति अव्ययीभावसमासे टच् इति समासान्तप्रत्ययः विधीयते अनश्च (५.४.१०८) इति सूत्रेण यतोहि आत्मन् इति अन्नन्तः पुंलिङ्गशब्दः अस्ति → अध्यात्मन् + टच् | अयं टच् इति प्रत्ययः समासस्य अन्तावयवः भवति इति कारणेन सम्पूर्णस्य ' अध्यात्मन्+टच् ' इत्यस्य समाससंज्ञा, प्रातिपदिकसंज्ञा च भवति | ततः अग्रे प्रक्रियायाम् अध्यात्म इति भवति, तस्मात् सु इति प्रत्ययस्य विधानानन्तरम् अध्यात्मम् इति रूपं सिद्ध्यति | प्रक्रिया अग्रे उल्लेखिता अस्ति |


यदि  टच् इति प्रत्ययः समासासस्य अवयवः न भवति तर्हि कः क्लेशः भवति?

टच् इति प्रत्ययः समासस्य अवयवः न भवति चेत् अस्माकं प्रातिपदिकं भवति अध्यात्मन् इति | तस्य अनन्तरं टच् इति प्रत्ययः पृथक् तिष्ठति | तर्हि अत्र कः क्लेशः इति चेत् – अधुना सुप्प्रत्ययानां विधानं न शक्यते यतोहि प्रातिपदिकात् एव सुप्प्रत्ययाः विधीयन्ते | परन्तु अत्र अध्यात्मन् + टच् इत्यस्ति | अध्यात्मन् + टच् इत्यस्मात् सुप्प्रत्ययस्य विधानं न शक्यते यतोहि अध्यात्मन् + टच्  इत्यस्य प्रातिपदिकसंज्ञा नास्ति, केवलं अध्यात्मन् इत्यस्यैव प्रातिपदिकसंज्ञा अस्ति | प्रातिपादिकात् एव सुप्प्रत्ययाः विधीयन्ते परन्तु अत्र तु प्रातिपदिकस्य अनन्तरं टच् इति प्रत्ययः अस्ति, अनेन कारणेन अध्यात्मन् इति प्रातिपदिकात् सुप्प्रत्ययस्य विधानं न सम्भवति | एतादृशस्य क्लेशस्य निवारणार्थम् एव समासान्ताः समासस्य अवयवाः भवन्ति | यदा समासान्तः समासस्य अवयवः भवति तदा 'अध्यात्मन् + टच् ' इत्यस्य सम्पूर्णस्य समाससंज्ञा, प्रतिपदिकसंज्ञा च भवति | अतः अधुना 'अध्यात्मन् + टच् ' इति प्रातिपदिकात् सुप्प्रत्ययस्य विधानं सम्भवति |

उपरि गम्यताम्


ङ्याप्प्रातिपदिकात्‌ (४.१.१)

[अधिकारः ४.१.१ – ५.४.१६०] | चतुर्थे पञ्चमे चाध्याययोः यावन्तः प्रत्यायाः विहिताः, ते सर्वे प्रातिपदिकेभ्यः, ङ्यन्तेभ्यः, आबन्तेभ्यः वा आयान्ति | ङ्यन्तरूपाणि आबन्तरूपाणि च स्त्रीलिङ्गरूपाणि इति | तर्हि आहत्य चतुर्थे पञ्चमे चाध्याययोः सर्वाणि सुबन्तविधायकसूत्राणि सन्ति; तेषु सर्वेषु यत्‌ किमपि विहितं, प्रत्ययः इत्यनेन यः विहितः, तस्य नाम प्रत्ययः | अपि च यः विहितः, सः सर्वत्र प्रातिपदिकात्‌, ङ्यन्तात्‌, आबन्तात्‌ वा विहितः भवति |


अव्ययीभावसमासे समासान्तप्रत्ययाः

अव्ययीभावसमासे यत्र समासान्तप्रत्ययः विधीयते तत्र टच् इति प्रत्ययः एव विधीयते| कुत्रचित् नित्यरूपेण विधीयते, कुत्रचित् विकल्पेन विधीयते | अव्ययीभावसमासे  समासान्ताधिकारात् एतानि सूत्राणि प्रसक्तानि भवन्ति | टच् इति प्रत्ययस्य विधानेन प्रक्रियायाम् अव्ययीभावसमासः अदन्तः भवति येन नाव्ययीभावादतोऽम्त्वपञ्चम्याः ( २.४.८३) इत्यनेन सुप्प्रत्ययस्य स्थाने अमादेशः सिद्ध्यति |


सूत्रक्रमाङ्कः सूत्रं प्रत्ययविधानम् उपप्रकरणम्
५.४.१०७ अव्ययीभावे शरत्प्रभृतिभ्यः टच् अव्ययीभावसमासः
५.४.१०८ अनश्च टच् अव्ययीभावसमासः
५.४.१०९ नपुंसकादन्यतरस्याम् वैकल्पिकः टच् अव्ययीभावसमासः
५.४.११० नदीपौर्णमास्याग्रहायणीभ्यः वैकल्पिकः टच् अव्ययीभावसमासः
५.४.१११ झयः वैकल्पिकः टच् अव्ययीभावसमासः
५.४.११२ गिरेश्च सेनकस्य वैकल्पिकः टच् अव्ययीभावसमासः


अव्ययीभावप्रसङ्गे समासान्तप्रत्ययः कदा विधीयते इत्यस्य सारांशः अत्र दीयते, सूत्राणां व्याख्यानम् अग्रे भविष्यति -

१) अव्ययीभावे शरत्प्रभृतिभ्यः (५.४.१०७) = शरदादिगणे ये शब्दाः पठिताः, ते शब्दाः उत्तरपदे विद्यन्ते चेत्, तस्मात् टच् इति समासान्तप्रत्ययः विधीयते अव्ययीभावे शरत्प्रभृतिभ्यः (५.४.१०७) इति सूत्रेण | यथा – शरद् इति प्रातिपदिकम् |

२) अनश्च (५.४.१०८)  = अन्नन्तः पुंलिङ्गशब्दः अथवा अन्नन्तः स्त्रीलिङ्गशब्दः उत्तरपदे विद्यते चेत्, तस्मात् टच् इति समासान्तप्रत्ययः विधीयते अनश्च (५.४.१०८) इति सूत्रेण | यथा – राजन् इति प्रातिपदिकम् |

३) नपुंसकादन्यतरस्याम् (५.४.१०९) = अन्नन्तः नपुंसकलिङ्गशब्दः उत्तरपदे विद्यते चेत्, तस्मात् टच् इति समासान्तप्रत्ययः विकल्पेन विधीयते नपुंसकादन्यतरस्याम् (५.४.१०९) इति सूत्रेण | यथा – चर्मन् इति प्रातिपदिकम् |

४) नदीपौर्णमास्याग्रहायणीभ्यः (५.४.११०) = अव्ययीभावसमासस्य उत्तरपदे "नदी", "पौर्णमासी", "आग्रहायणी" एतेषु कश्चन शब्दः   विद्यते चेत्, तस्मात् विकल्पेन टच् इति समासान्तप्रत्ययः विधीयते नदीपौर्णमास्याग्रहायणीभ्यः (५.४.११०) इति सूत्रेण |

५) झयः (५.४.१११) = झयन्तशब्दः उत्तरपदे चेत् तस्मात् टच् इति समासान्तप्रत्ययः विकल्पेन विधीयते झयः (५.४.१११) इति सूत्रेण | यथा – समिध् इति प्रातिपदिकम् |

६) गिरेश्च सेनकस्य ( ५.४.११२) =  उत्तरपदे गिरि इति शब्दः चेत्, तस्मात् टच् इति समासान्तप्रत्ययः विकल्पेन विधीयते गिरेश्च सेनकस्य (५.४.१११) इति सूत्रेण |

 


विभाषा

विभाषा (२.१.११) = एतद् अधिकारसूत्रम् अस्ति | एतस्य सूत्रस्य अधिकारः अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२) इति सूत्रात् आरभ्य कडाराः कर्मधारये (२.२.३८) इति सूत्रपर्यन्तम् अस्ति | एतस्मात् सूत्रात् समासविधिः विकल्पेन भवति | एषा विभाषा ‘महाविभाषा’ इति उच्यते यतोहि एतेन सूत्रेण यः विकल्पाधिकारः कृतः सः बृहान्नस्ति | एतस्य प्रसक्तिः सम्पूर्णसमासप्रकरणे अस्ति | विभाषा प्रथमान्तं, एकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम् |


विभाषा (२.१.११) इति सूत्रस्य अधिकारे यानि सूत्राणि पठितानि तानि सर्वाणि विकल्पेन विधीयन्ते इति अस्माभिः पूर्वमेव ज्ञातम् | समासः विकल्पेन विधीयते इति सामान्यः नियमः परन्तु कुत्रचित् विभाषा (२.१.११) इत्यस्य अधिकारः चेत् अपि  समासः नित्यरूपेण विधीयते | यत्र समासः नित्यः तत्र विभाषा (२.१.११) इति सूत्रस्य प्रसक्तिः न भवति | विभाषा (२.१.११) इत्यस्मात् सूत्रात् प्राक् यानि समासविधायकसूत्राणि सन्ति तत्र सर्वत्र समासः नित्यः भवति | अव्ययीभावाधिकारे (२.१.५) इत्यस्मात् सूत्रात् आरभ्य (२.१.१०) इति सूत्रपर्यन्तं षट् सूत्राणि सन्ति यत्र विभाषा (२.१.११) इत्यस्य अधिकारः नास्ति, अत एव तत्र सर्वत्र समासः विकल्पेन न भवति अपि तु नित्यरूपेण भवति |

उपरि गम्यताम्

अव्ययीभावसमास-सम्बद्ध-मुख्यसूत्राणि

अव्ययीभावसमासस्य प्रक्रियायाः प्रसङ्गे एतानि सूत्राणि सम्यक्तया ज्ञातव्यानि भवन्ति यतोहि एतेषां प्रयोगः मुहुर्मुहुः (वारं वारं) क्रियते –

अव्ययादाप्सुपः (२.४.८२)

अव्ययात् परस्य आप्-प्रत्ययानां सुप्-प्रत्ययानां च लुक्-भवति | आबन्तरूपाणि स्त्रीलिङ्गरूपाणि भवन्ति  | लुक् ( २.४.५८) इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं — अव्ययात् आप्-सुपः लुक् |


ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)

नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | ह्रस्वः प्रथमान्तं, नपुंसके सप्तम्यन्तं, प्रातिपदिकस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अचश्च (१.२.२८) इत्यनेन अचः एव ह्रस्वत्वम् | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव ह्रस्वत्वम् (न तु प्रातिपदिकस्य) | अनुवृत्ति-सहितसूत्रम्‌— नपुंसकलिङ्गे अचः प्रातिपदिकस्य ह्रस्वः |


अचश्च (१.२.२८)

यत्र यत्र ह्रस्वः, दीर्घः, प्लुतः च विधीयन्ते, तत्र तत्र अचः इति षष्ठ्यन्तं पदम्‌ आगत्य उपस्थितं भवति | परिभाषासूत्रम्‌ | अचः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | ऊकालोऽज्झ्रस्वदीर्घप्लुतः (१.२.२७) इत्यस्मात्‌ अच्‌, ह्रस्वदीर्घप्लुतः इत्यनयोः अनुवृत्तिः | तत्र विभक्तिपरिणामेन तृतीयान्तं भवति, ह्रस्वदीर्घप्लुतैः (शब्दैः) | अनुवृत्ति-सहितसूत्रम्‌— ह्रस्वदीर्घप्लुतैः अचः च अच्‌ |


नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३)

अदन्तात् अव्ययीभावात्  सुप् प्रत्ययस्य लुक् न भवति, अपि तु पञ्चमीविभक्तिं विहाय अन्यासु विभक्तिषु सुप्प्रत्ययस्य स्थाने अमादेशः विधीयते | अस्मिन् सूत्रे निषेधः इति भागः अपि अस्ति येन सुपः लुक् निषिध्यते, विधिः इति भागः अपि अस्ति येन अमादेशः विधीयते, परन्तु पञ्चमीं विहाय | न अव्यययपदम्, अव्ययीभावात् पञ्चम्यन्तम्, अतः पञ्चम्यन्तम्, अम् प्रथमान्तं, तु अव्ययपदम्, अपञ्चम्याः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | अव्ययादाप्सुपः (२.४.८२) इत्यस्मात् सूत्रात् सुपः इत्यस्य अनुवृत्तिः | ण्यक्षत्रियार्षञितो यूनि लुगणिञोः ( २.४.५८) इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—अव्ययीभावाद् अतः तु न सुपः लुक् अपञ्चम्याः अम् |


तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४)

अदन्तात् अव्ययीभावात् तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | बहुलम् इत्युक्ते बहून् अर्थान् लाति( गृह्णाति) इति बहुलम् | अत्र बहुलम् इति शब्दस्य प्रयोगेण कुत्रचित् विकल्पेन अम्-आदेशः भवति, कुत्रचित् अम् आदेशः नित्यः भवति | कुत्र विकल्पेन, कुत्र नित्यः इति निर्णयः प्रयोगं दृष्ट्वा करणीयः | सामान्यतया विकल्पेन इति स्वीकर्तुं शक्यते | यदि विकल्पार्थः इष्टः तर्हि विकल्पः अथवा वा इति शब्दस्य प्रयोगः भवति परन्तु अत्र बहुलम् इत्यनेन विशिष्टार्थः बुध्यते | तृतीया च सप्तमी च तयोः इतरेतरयोगद्वन्द्वः तृतीयासप्तम्यौ, तयोः | तृतीयासप्तम्योः षष्ठ्यन्तं, बहुलं प्रथमान्तं, द्विपदमिदं सूत्रम् | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इत्यस्मात् सूत्रात् अव्ययीभावात्, अतः, अम् इत्येषाम् अनुवृत्तिः भवति | अनुवृत्ति-सहितसूत्रम्‌— तृतीयासप्तम्योः अव्ययीभावाद् अतः अम् बहुलम् |


अमि पूर्वः (६.१.१०५)

अक् वर्णात् अम्-सम्बन्धि-अच् परः चेत् पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति | अमि सप्तम्यन्तं, पूर्वः प्रथमान्तं, द्विपदमिदं सूत्रम् | अकः सवर्णे दीर्घः ( ६.१.९९) इत्यस्मात् सूत्रात् अकः इत्यस्य अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८३), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | इको यणचि ( ६.१.७६) इत्यस्मात् सूत्रात् अचि इत्यस्य अनुवृत्तिः | यस्मिन्‌ विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम्‌ २९) इत्यनेन अचि अमि इत्युक्तौ अजादि-अमि | अनुवृत्ति सहितसूत्रम् — अकः अमि अचि पूर्वपरयोः एकः पूर्वः संहितायाम् |

उपरि गम्यताम्


सम्प्रति अष्टाध्यायीक्रमेण अव्ययीभाव-समास-सूत्राणि पठिष्यामः-


समासप्रकरणे बहूनि सूत्राणि वर्तन्ते अतः पाठनस्य पद्धतिः अत्यन्तं महत्त्वपूर्णा | प्रत्येकस्मिन्‌ स्तरे मातुः पाठ्यक्रमः पाणिनेः सूत्राणि अवलम्ब्य समायोजितः | मातुः पाठ्यक्रमे समासप्रकरणस्य सम्बन्धः अन्यैः प्रकरणै सह  स्पष्टतया प्रतिपाद्यते येन यत् किमपि समस्तपदं भवतु तस्य प्रक्रिया कथं भवति इति  ज्ञातुं शक्नुमः| यथा अव्यायीभावसमासस्य प्रसङ्गे समास-तद्धितयोः सम्बन्धः प्रक्रियास्तरे सम्यक्तया ज्ञायते | एवं च सर्वत्र सूत्राधारीकृत्य पाठ्यक्रमः व्यवस्थापितः चेत् पाठस्य मार्गः ह्रस्वः भवति;  ज्ञानं च दृढं भवति  |

अव्ययीभावसमासस्य विषये मुख्यं सूत्रम् अस्ति अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) इति | एतेन सूत्रेण अव्ययीभावसमासः षोडशेषु अर्थेषु विधीयते | अग्रे सूत्रस्य विवरणं दीयते |


अव्ययीभावसमासस्य विषये मुख्यं सूत्रम् अस्ति अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) इति | एतेन सूत्रेण अव्ययीभावसमासः षोडशेषु अर्थेषु विधीयते | अग्रे सूत्रस्य विवरणं दीयते |


1) अव्ययं सुबन्तेन सह नित्यं समस्यते, अव्ययीभावसमासः च भवति | अव्ययस्य बहवः अर्थाः भवन्ति | सूत्रे षोडश अर्थाः उक्ताः | परन्तु तदधिकाः अर्थाः अपि भवितुम् अर्हन्ति |


अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  ( २.१.६)  = विभक्ति - समीप - समृद्धि - व्यृद्धि (ऋद्धेः अभावः) - अर्थाभाव - अत्यय (नाशनम्) - असम्प्रति (अयोग्यं) - शब्दप्रादुर्भाव (शब्दस्य प्रसिद्धिः) - पश्चाद् - यथा (योग्यता, वीप्सा, पदार्थानतिवृत्ति अपि च सादृश्यम्) - आनुपूर्व्य (क्रमशः) - यौगपद्य (एकत्र भवनं) - सादृश्य  - सम्पत्ति - साकल्य (सम्पूर्णता) - अन्तवचनेषु (समाप्तिः) इत्यस्मिन् अर्थे विद्यमानस्य अव्ययस्य समर्थेन सुबन्तेन सह नित्यसमासः भवति, अव्ययीभावश्च समासः भवति | अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु | विभक्तिश्च समीपं च समृद्धिश्च  व्यृद्धिश्च  अर्थाभावश्च अत्ययश्च असम्प्रतिश्च शब्दप्रादुर्भावश्च पश्चाच्च  यथा च आनुपूर्व्यञ्च यौगपद्यञ्च सादृश्यञ्च सम्पत्तिश्च साकल्यञ्च अन्तावचनञ्च तेषाम् इतरेतरयोगद्वन्द्वः विभक्ति-समीप-समृद्धि-व्यृद्ध्यर्थाभावात्ययासम्प्रति-शब्दप्रादुर्भावपश्चाद्यथानुपूर्व्य-यौगपद्य- सादृश्य-सम्पत्ति-साकल्यान्तावचनानि, तेषु | अव्ययं प्रथमान्तं, विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  सप्तम्यन्तं, द्विपदमिदं सूत्रम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | सह सुपा (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्य अधिकारः अस्ति | समर्थः पदविधिः (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | अव्ययीभावः (२.१.५) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌—अव्ययं सुप् सुपा सह विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु अव्ययीभावः समासः |


अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरम् अव्ययम् इति पदस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण | अव्ययपदं समासे पूर्वं तिष्ठति इत्यर्थः निष्पन्नः| नाम अव्ययीभावसमासे अव्ययं पूर्वपदे भवति उत्तरपदं सुबन्तं पदं भवति | अयं समासः नित्यः, न तु वैकल्पिकः |



प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) = समासशास्त्रे प्रथमानिर्दिष्टम् उपसर्जनसंज्ञकं स्यात्| समासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति, तत् पदम् उपसर्जन-संज्ञकं स्यात् | समासशास्त्रे इत्यनेन समासविधायकसूत्रं, वार्तिकं वा स्यात् | इदं संज्ञा-सूत्रम् अस्ति | प्रथमानिर्दिष्टं प्रथमान्तं, उपसर्जनं प्रथमान्तं, समासे सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | अनुवृत्ति-सहित-सूत्रम्‌ — प्रथमानिर्दिष्टं समास उपसर्जनम् |


उपसर्जनं पूर्वम्‌ (२.२.३०) = समासे उपसर्जनसंज्ञकः पूर्वं प्रयोक्तव्यः | अनेन सूत्रेण यत् कार्यं भवति तस्य नाम पूर्वनिपातः अथवा पूर्वप्रयोगः इति कथ्यते | उपसर्जनं प्रथमान्तं, पूर्वं प्रथमान्तं, द्विपदमिदं सूत्रम् |



प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अनुवृत्तिः भवति | अत्र समासः इति शब्दस्य विभक्तिपरिणामं कृत्वा सप्तमीविभक्तौ भवति | अनुवृत्ति-सहित-सूत्रम्‌— समासे उपसर्जनं पूर्वम् |


अस्मिन् सूत्रे अव्ययस्य षोडश अर्थाः दृश्यन्ते | अव्ययानाम् इतोऽपि अधिकाः अर्थाः अपि भवितुम् अर्हन्ति इति उक्तमेव | अधुना एते अर्थाः दृश्यन्ते –


१) विभक्त्यर्थे – 'अधि' इति अव्ययं विभक्त्यर्थे प्रयुज्यते | अधि इति अव्ययं सप्तम्यर्थे अस्ति | सप्तम्याः अर्थः अधिकरणम् इति | विभक्त्यर्थे अधि, अन्तर् इति अव्ययम् लभ्यते | यथा – हरौ इति = अधिहरि | नाम हरेः विषये इति | वयम् अधिहरि वसामः | शिवः अधिकैलासं वसति |

२) समीपार्थे (निकटः) – 'उप' इति अव्ययं समीपार्थे प्रयुज्यते | यथा – कृष्णस्य समीपम् = उपकृष्णम् | धेनवः उपकृष्णं तिष्ठन्ति | उपकृष्णे स्थितः अर्जुनः | उपकृष्णात् आगतः दूतः | उपकृष्णं/ उपकृष्णेन विना न हि सुखम् |

३) समृद्ध्यर्थे (ऋद्धेः आधिक्यं - excessive prosperity) – 'सु' इति अव्ययस्य प्रयोगः क्रियते | यथा – मद्राणां समृद्धिः = सुमद्रम् | मद्रदेशवासिनां समृद्धिः | भिक्षाणां समृद्धिः = सुभिक्षम् |  सुमद्रं जनाः आनन्देन वसन्ति स्म |

४) व्यृद्ध्यर्थे (ऋद्धेः अभावः, वैकृत्यम्,  deterioration) –  विगता ऋद्धिः = व्यृद्धिः | 'दुर्' इति अव्ययस्य प्रयोगः क्रियते | यथा – यवनानां व्यृद्धिः = दुर्यवनम् | एवमेव शकानां व्यृद्धिः = दुःशकम् | दुर्यवनं प्रजाः दुखिताः अभवन् |

५) अर्थाभावार्थे (अभावार्थे, पदार्थस्य असत्ता ) – 'निर्' इति अव्ययस्य प्रयोगः क्रियते | यथा – मक्षिकाणाम् अभावः = निर्मक्षिकम् | विघ्नानाम् अभावः = निर्विघ्नम्|बालकः निर्मक्षिकम् आनन्देन शेते |

६) अत्ययार्थे (नाशः) – 'अति', निर्, निस् इत्येषाम् अव्ययानां प्रयोगः क्रियते | यथा – हिमस्य अत्ययः =अतिहिमम् | अतिशीतम्, निर्हिमम्  इत्यादयः | अतिहिमं परिसरस्य हानिः भवति | रामः अतिकोपात् शान्तिं प्राप्तवान् |

७) असम्प्रत्यर्थे (अयुक्तः, अयोग्यकाले इति) – 'अति' इति अव्ययस्य प्रयोगः क्रियते | असम्प्रति = न युज्यते इत्यर्थः | यथा – निद्रा सम्प्रति न युज्यते = अतिनिद्रम् | कम्बलं सम्प्रति न युज्यते इति अतिकम्बलम् | अतिनिद्रम् आरोग्याय न भवति | अतिनिद्रं पुरुषः उत्तिष्ठति |

८) शब्दप्रादुर्भावार्थे (शब्दस्य प्रसिद्धिः, शब्दस्य प्रकाशः, appearance of the word) – 'इति' इति अव्ययस्य प्रयोगः क्रियते | यथा – हरिशब्दस्य प्रकाशः = इतिहरि |पणिनिशब्दस्य प्रकाशः = इतिपाणिनि | ज्ञानशब्दस्य प्रकाशः = इतिज्ञानम् | शङ्काराचर्यस्य कारणेन भारते इतीश्वरम् आरब्धम् | तिरुपत्याम् इतिगोविन्दं श्रवणेन सर्वे ध्यानमग्नाः भवन्ति |

९) पश्चादर्थे (अनन्तरम्) – 'अनु' इति अव्ययस्य प्रयोगः क्रियते | यथा – विष्णोः पश्चात् = अनुविष्णु | रथानां पश्चात् = अनुरथम् | पदानां पश्चात् = अनुपदम् | अनुशिष्यम्, अनुगोपालम् इत्यादीनि उदाहरणानि | रामः अनुमृगं धावति |अनुवृष्टि सस्यानि वर्धन्ते | अन्वर्चकं भक्ताः रामनाम जपन्ति स्म |

१०) यथा इत्यस्य चत्वारः अर्थाः सन्ति – योग्यता, वीप्सा, पदार्थानतिवृत्तिः, सादृश्यम् च | अत्र 'यथा' इति अव्ययस्य प्रयोगः क्रियते |

a. योग्यता (अर्हता) – अस्मिन् अर्थे 'अनु' इति अव्ययं समस्यते | यथा – रूपस्य योग्यम् = अनुरूपम् | गुणानां योग्यम् = अनुगुणम् | लेखस्य योग्यम् = अनुलेखम् |विद्यालयस्य योग्यम् = अनुविद्यालयम् | अनुरूपं सः युतकं क्रीणाति | एतानि उत्तराणि अनुप्रश्नं भवन्ति |

b. वीप्सा (पौनः पुण्यः) – 'प्रति' इति अव्ययस्य प्रयोगः क्रियते | यथा – अर्थमर्थं प्रति = प्रत्यर्थम् | प्रतिमासं, प्रतिगृहं, प्रत्येकम् इत्यादीनि उदाहरणानि | यथा प्रतिवृक्षं सिञ्चति इत्यस्य एकैकं वृक्षं सिञ्चति इत्यर्थः | रामः प्रतिदिनं कार्यालयं गच्छति |

c. पदार्थानतिवृत्तिः (अनतिक्रमः – not exceeding) – 'यथा' इति अव्ययस्य प्रयोगः क्रियते | यथा – शक्तिम् अनतिक्रम्य = यथाशक्ति | यथाशक्ति पठति इत्यस्य शक्तिम् अनतिक्रम्य पठति इत्यर्थः | यथाप्रीति | यथाबुद्धि, यथाज्ञानम् इत्यादीनि उदाहरणानि | छात्राः यथामति अध्ययनं कुर्वन्ति | शिष्यः आचर्यस्य वचनं यथोक्तम् अवगच्छति | यथासम्भवं विद्यार्थिभिः सह  सर्वोऽपि संलापः संस्कृतभाषैव कर्तव्यः | यथाकुलं पुरुषाः व्यापारं कुर्वन्ति |

  d. सादृश्यम् (औपम्यम् -Similarity) – 'सह' इति अव्ययस्य प्रयोगः क्रियते|यथा  हरेः सादृश्यम् = सहरि | सहरि प्रद्युम्ने दृश्यते | सादृश्यस्य प्राधान्यम् अस्ति |

११) आनुपूर्व्यार्थे (क्रमशः -Sequentially) – 'अनु' इति अव्ययस्य प्रयोगः क्रियते | यथा – ज्येष्ठस्य आनुपूर्व्येण = अनुज्येष्ठम् | अनुज्येष्ठं मानवकः प्रणमति | अनुकनिष्ठं माता भोजनं परिवेषयति | वृद्धस्य आनुपूर्व्येण = अनुवृद्धम् |

१२) यौगपद्यार्थे (युगपत्, समानकाले) – 'सह' इति अव्ययस्य प्रयोगः क्रियते | चक्रेण युगपत् = सचक्रम् | सचक्रं शङ्खं धेहि | सरामं लक्ष्मणः, सीता च वनं गच्छतः |

१३) सादृश्यार्थे (तुल्यत्वं, गौणम्) – 'सह' इति अव्ययस्य प्रयोगः क्रियते | सह स्थाने 'स' आदेशः भवति | यथा – सदृशः सख्या = ससखि|ससखि रमा सुन्दरी आसीत् | प्रकृत्या ससखि रामः अस्ति | सकृष्णं प्रद्युम्नः गुणवान् आसीत् | अत्र सादृश्यस्य प्राधान्यं नास्ति |

१४) सम्पत्त्यर्थे (अनुरूपः आत्मभावः, Appropriate) – 'सह' इति अव्ययस्य प्रयोगः क्रियते | सह स्थाने 'स' आदेशः भवति | यथा क्षत्राणां सम्पत्तिः = सक्षत्रम् | सक्षत्रं रामः रावणेन युद्धम् अकरोत् | सबुद्धि बालकः पाठम् अवगच्छति |

१५) साकल्यार्थे (सम्पूर्णता -Entirety, अशेषता) – 'सह' इति अव्ययस्य प्रयोगः क्रियते | सह स्थाने 'स' आदेशः भवति | यथा – तृणम् अपि अपरित्यज्य अत्ति = सतृणम् | सः सतृणम् अत्ति | अर्थात् लेशमात्रम् अपि अपरित्यज्य खादति |

१६) अन्तार्थे (समाप्ति:) – 'सह' इति अव्ययस्य प्रयोगः क्रियते | सह स्थाने 'स' आदेशः भवति | यथा – अग्निग्रन्थपर्यन्तम् अधीते = साग्नि | साग्नि  अधीते |


उपरि उक्तान् अर्थान् विहाय अन्येषाम् अर्थानां प्रयोगः अपि काव्येषु दृश्यते | सूत्रे उक्तानां षोडशानाम् अर्थानां विवरणं, प्रक्रिया च अग्रे दीयेते |

उपरि गम्यताम्


प्रकृतसूत्रस्य योगविभागः

अस्मिन् सूत्रे अव्ययम् इति पदस्य षोडश अर्थाः सन्ति इति ज्ञातम् | परन्तु एतेषाम् अव्ययानाम् इतोऽपि अधिकाः अर्थाः अर्हन्ति | तेषाम् अर्थानां समर्थनार्थं सूत्रस्य योगविभागः क्रियते | सूत्रस्य अर्थं विकासयितुम् कौमुद्यां सूत्रस्य योगविभागः कृतः|योगविभागेन अव्ययम् इति एकः पृथग्भागः क्रियते, अवशिष्टभागः अन्यभागः भवति | योगविभागात् सूत्रस्य अर्थद्वयम् एवं भवति –

१) प्रथमभागस्य अर्थः = अव्ययम् इति पदं यत् सूत्रे अस्ति तस्य समासः भवति सुबन्तेन पदेन सह, अव्ययीभावसमासश्च भवति |

२) द्वितीयभागस्य अर्थः =  विभक्त्यादिषु अर्थेषु अव्ययस्य सुबन्तेन सह समासः भवति, अव्ययीभावसमासश्च भवति | एतादृशयोगविभागेन न केवलं षोडश अर्थाः स्वीक्रियन्ते अपि तु तस्मात् अधिकाः अर्थाः अपि स्वीक्रियन्ते |

एतादृशयोगविभागेन प्राचीनकाले अव्ययीभावसमासस्य विषये ये प्रयोगाः दृश्यन्ते , तेषां प्रयोगाणां समर्थनं शक्यते | पूर्वम् अस्माभिः पठितं यत् एतेषां केवलसमासानां समर्थनं सह सुपा (२.१.४) इति सामान्यसूत्रेण क्रियते इति | तर्हि अत्र प्रकृतसूत्रे योगविभागस्य का आवश्यकता?


वस्तुतस्तु योगविभागस्य आवश्यकता नास्ति परन्तु केचन वैयाकरणाः उच्यन्ते यत् एतेषां समासानां समर्थनं सह सुपा (२.१.४) इति सूत्रेण नास्ति परन्तु विधायकसूत्रे एव योगविभागं कृत्वा समर्थनं करणीयम् इति | तदर्थं योगविभागस्य विषये उक्तम् | यत् किमपि भवतु प्राचीनप्रयोगाणां समर्थनं कथञ्चित् करणीयम् –  योगविभागेन वा नो चेत् सह सुपा ( २.१.४) इति सूत्रेण वा | तादृशसमासान् कर्तुं  वयं न अर्हामः | वयं तु केवलं षोडशेषु अर्थेषु एव समासं कर्तुं शक्नुमः | सामन्यतः समासः विकल्पेन भवति, नाम व्यस्तप्रयोगः अपि शक्यते, समस्तप्रयोगः अपि शक्यते | परन्तु अत्र अव्ययीभावः विकल्पेन न भवति अपि तु नित्यरूपेण भवति यतोहि विभाषा (२.१.११) इति सूत्रस्य अधिकारे इदम् अव्ययीभावसमासविधायाकं सूत्रं नास्ति | इदं सूत्रं विभाषा (२.१.११) इत्यस्मात् सूत्रात् प्राक् अस्ति यतोहि अत्र अस्वपदविग्रहः एव सम्भवति | अत एव प्रकृतसूत्रे अव्ययीभावसमासः नित्यः इत्युच्यते | न  विद्यते स्वपदविग्रहः यस्य सः समासः अस्वपदविग्रहः | यस्य समासस्य अस्वपदविग्रहः, सः समासः नित्यसमासः | नाम समासस्य अर्थः समासघटकानि पदानि विहाय अन्यपदैः यदा वर्ण्यते तदा अस्वपदविग्रहः इति उच्यते | समास-घटक-पद-रहित-वाक्यम् अस्वपदविग्रहः इति उच्यते | यथा — उपकृष्णम् इति उदाहरणे विग्रहः कृष्णसय उप इति भवितुं न अर्हति | एतेन विग्रहेण अर्थबोधः न जायते | अतः अत्र अस्वपदविग्रहं प्रयुज्य कृष्णस्य समीपम् इति विग्रहवाक्यं वक्तव्यं भवति |


सामन्यतः समासः विकल्पेन भवति, नाम व्यस्तप्रयोगः अपि शक्यते, समस्तप्रयोगः अपि शक्यते | परन्तु अत्र अव्ययीभावः विकल्पेन न भवति अपि तु नित्यरूपेण भवति यतोहि विभाषा (२.१.११) इति सूत्रस्य अधिकारे इदम् अव्ययीभावसमासविधायाकं सूत्रं नास्ति | इदं सूत्रं विभाषा (२.१.११) इत्यस्मात् सूत्रात् प्राक् अस्ति यतोहि अत्र अस्वपदविग्रहः एव सम्भवति | अत एव प्रकृतसूत्रे अव्ययीभावसमासः नित्यः इत्युच्यते | न  विद्यते स्वपदविग्रहः यस्य सः समासः अस्वपदविग्रहः | यस्य समासस्य अस्वपदविग्रहः, सः समासः नित्यसमासः | नाम समासस्य अर्थः समासघटकानि पदानि विहाय अन्यपदैः यदा वर्ण्यते तदा अस्वपदविग्रहः इति उच्यते | समास-घटक-पद-रहित-वाक्यम् अस्वपदविग्रहः इति उच्यते | यथा — उपकृष्णम् इति उदाहरणे विग्रहः कृष्णसय उप इति भवितुं न अर्हति | एतेन विग्रहेण अर्थबोधः न जायते | अतः अत्र अस्वपदविग्रहं प्रयुज्य कृष्णस्य समीपम् इति विग्रहवाक्यं वक्तव्यं भवति |



अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु ( २.१.६) इति सूत्रे अव्ययानाम् अर्थ: क्रमेण परिशील्यते -

i)  सूत्रे विभक्त्यर्थे अव्ययम्

अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)- अस्मिन् सूत्रे विभक्त्यर्थे वर्तमानम् अव्ययं सुबन्तेन सह समस्यते, सोऽव्ययीभावः | विभक्त्यर्थः नाम कारकम् इति अर्थः | कारकेषु अपि अधिकरणकारकमेव अत्र इष्यते |  विभक्त्यर्थे अधि इति अव्ययं समस्यते | अधि इति अव्ययं सप्तम्यर्थे अस्ति | सप्तमीविभक्तेः अधिकरणम् इति अर्थः अस्ति | अस्य उदाहरणम् अस्ति अधिहरि | अधिहरि इति समस्तपदस्य प्रक्रिया अधः प्रदर्शिता अस्ति |


अ) उत्तरपदम् अनदन्तं चेत्-

हरौ इति = अधिहरि – अत्र अधि इति शब्दः सप्तमीविभक्त्यर्थे, अधिकरणर्थे प्रयुक्तः अस्ति | अधि शब्दः सप्तम्यर्थस्य बोधकः अस्ति |


 उत्तरपदम् अनदन्तं चेत्
अलौकिकविग्रहवाक्यम् -


हरि + ङि + अधि समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | अव्ययीभावः (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)   इति सूत्रेण अधि इति अव्ययं समर्थेन हरि इति सुबन्तेन सह समस्यते | एतेन सूत्रेण अव्ययीभावसमासः विधीयते |


हरि + ङि + अधि  समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |


हरि + ङि + अधि →  इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अतः हरि + ङि + अधि इत्यस्मिन्‌ ङि इत्यस्य लुक्‌ भवति हरि + अधि |


हरि + अधि सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति | अत्र च 'अधि' इत्यस्य अन्ते सुप्‌  न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा इति | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक् अभवत् अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण | अतः अधि इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण | यद्यपि प्रत्ययस्य लोपः जातः तथापि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव |


हरि + अधि → अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमाविभक्त्या यत्  पदं निर्दिश्यते समासविधायकसूत्रे तत् उपसर्जनसंज्ञकं भवति | अत्र अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इति  समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र अधि इति अव्ययम् अस्ति, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |


अधिहरि → अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | अधिहरि इति शब्दः अव्ययसंज्ञकः भवति |


अधिहरि इदानीं लिङ्गस्य निर्णयः क्रियते | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः अधिहरि इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |


अधिहरि → ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य हस्वः भवति | अतः अधिहरि इति भवति|

अधिहरि + सु अधिहरि इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः ङ्याप्प्रातिपदिकात्‌ ( ४.१.१),

स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ (४.१.२) इत्याभ्यां सूत्राभ्याम् |


अधिहरि + सु अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण अव्ययात् परस्य सु प्रत्ययस्य लोपः भवति | अव्ययीभावश्च (१.१.४१) इत्यनेन सूत्रेण अधिहरि इति अव्ययम् अस्ति इत्यतः सु प्रत्ययस्य लोपः भवति अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण | अधिहरि इति समस्तपदं निष्पन्नम् | अत्र अधिहरि इत्यस्य अदन्तम् अङ्गं नास्ति अतः नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३), तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) च, अनयोः सूत्रयोः प्रसक्तिः नास्ति | एतस्मिन् विषये अग्रे वक्ष्यते |

वयं सर्वे अधिहरि वसामः | अधिहरि जगतः सृष्टिः भवति |


सर्वासु विभक्तिषु अधिहरि इत्येव रूपं भवति |

उपरि गम्यताम्



अव्ययीभावसमासस्य प्रसङ्गे एतानि सूत्राणि अपेक्षितानि  –

कृत्तद्धितसमासाश्च (१.२.४६) ; सुपो धातुप्रातिपदिकयोः (२.४.७१) ; सुप्तिङन्तं पदम्‌ (१.४.१४) ; अव्ययादाप्सुपः (२.४.८२) ;प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) ;अव्ययीभावश्च (२.४.१८) ; ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) ; एच इग्घ्रस्वादेशे ( १.१.४८)
कृत्तद्धितसमासाश्च (१.२.४६)

कृदन्ताः, तद्धितान्ताः, समासाः च अपि प्रातिपदिकसंज्ञकाः | कृच्च, तद्धितश्च, समासश्च, कृत्तद्धितसमासाः इतरेतरद्वन्द्वः | कृत्तद्धितसमासाः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५) इत्यस्मात्‌ अर्थवत्‌, प्रातिपदिकम्‌ इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्— अर्थवन्तः कृत्तद्धितसमासाः च प्रातिपदिकानि |


सुपो धातुप्रातिपदिकयोः (२.४.७१)

धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्-प्रत्ययस्य लुक् भवति | यदि कश्चन सुप्-प्रत्ययः कस्यचित् धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानः अस्ति, तर्हि तस्य सुप्-प्रत्ययस्य लुक् भवति | धातुश्च प्रातिपदिकं च तयोरितरेतरयोगद्वन्द्वः, धातुप्रातिपदिके, तयोर्धातुप्रातिपदिकयोः | सुपः षष्ठ्यन्तं, धातुप्रातिपदिकयोः षष्ठीद्विवचनान्तम् | ण्यक्षत्रियार्षञितो यूनि लुगणिञोः ( २.४.५८) इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रम्‌— धातुप्रातिपदिकयोः सुपः लुक् |

सुप्तिङन्तं पदम्‌ (१.४.१४)

सुबन्तं च तिङन्तं च पदसज्ञकौ भवतः, इत्युक्ते सुबन्तानां तिङन्तानां च पदसंज्ञा भवति | सुप्तिङन्तं प्रथमान्तं, पदम्‌ प्रथमान्तम्‌ |


अव्ययादाप्सुपः (२.४.८२)

अव्ययात् परस्य आप्-प्रत्ययानां सुप्-प्रत्ययानां च लुक्-भवति |लुक् ( २.४.५८) इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं — अव्ययात् आप्-सुपः लुक् |

प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२)

प्रत्यये लुप्ते सति, प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्‌ | प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन्‌ प्रत्ययलोपे | प्रत्ययस्य लक्षणं निमित्तं यस्य तत्‌ प्रत्ययलक्षणम्‌, बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्— प्रत्ययलोपे प्रत्ययलक्षणम्‌ |

अव्ययीभावश्च (२.४.१८)

अव्ययीभावसमासः नपुंसकलिङ्गे भवति | अव्ययीभावः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | स नपुंसकम् (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रं— अव्ययीभावः च नपुंसकम् |

अव्ययीभावश्च (१.१.४१)

अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | अव्ययीभावसमास-संज्ञायाः विधानानन्तरं सम्पूर्णं समस्तपदम् अव्ययं भवति | इदं सूत्रं संज्ञासूत्रम् अस्ति | अव्ययीभावः प्रथमान्तं, च अव्ययपदं द्विपदमिदं सूत्रम् | स्वरादिनिपातमव्ययम् ( १.१.३७) इत्यस्मात् सूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रं— अव्ययीभावः च अव्ययम् |

ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)

नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात्|ह्रस्वः प्रथमान्तं, नपुंसके सप्तम्यन्तं, प्रातिपदिकस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अचश्च (१.२.२८) इत्यनेन अचः एव ह्रस्वत्वम् | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव ह्रस्वत्वम् (न तु प्रातिपदिकस्य) | अनुवृत्ति-सहितसूत्रम्‌— नपुंसकलिङ्गे अचः प्रातिपदिकस्य ह्रस्वः |

एच इग्घ्रस्वादेशे ( १.१.४८)

एच्-वर्णस्य ह्रस्वादेशः क्रियते चेत्, एच्-वर्णस्य स्थाने इक्-वर्णः विधीयते | उच्चारणसाम्यवशात् एकारस्य, ऐकारस्य च स्थाने इकारः भवति, ओकारस्य औकारस्य च स्थाने उकारः भवति | इदं परिभाषासूत्रम् अस्ति | एचः षष्ठ्यन्तम् , इक् प्रथमान्तं , ह्रस्व-आदेशे सप्तम्यन्तम् | सूत्रं स्वयं सम्पूर्णम्  — एचः इक् ह्रस्वादेशे |

उपरि गम्यताम्



अभ्यासः

एतेषां प्रकिया चिन्तनीया — १) भानौ इति = अधिभानु, २) पितरि इति = अधिपितृ;  ३) बुद्धौ इति = अधिबुद्धि, ४) नद्यां इति = अधिनदि ( विकल्पेन अन्यत् रूपम् अधिनदम् इत्यपि अस्ति यत्र समान्तप्रत्ययः विधीयते, तस्मिन् विषये अग्रे वक्ष्यते ), ५) कर्तरि इति = अधिकर्तृ, ६) गवि इति  = अधिगु |


आ) उत्तरपदम् अदन्तं चेत्

आ) उत्तरपदम् अदन्तं चेत्

गोपि इति = अधिगोपम् | गाः पाति इति गोपाः, तस्मिन् इति अधिगोपाः | पा-धातुः रक्षणार्थे अस्ति | गो-शब्दात् पा धातुतः विच् इति कृत्-प्रत्ययः क्रियते चेत् गोपाः इति आकारन्तपुलिङ्गशब्दः निष्पन्नः भवति ( गो + पा + विच् = गोपा इति प्रातिपदिकम्) | सर्वासु विभक्तिषु रूपाणि एवं भवन्ति - गोपाः, गोपौ, गोपाः,  गोपाम्, गोपौ, गोपः,  गोपा, गोपाभ्यां, गोपाभिः,  गोपे, गोपाभ्यां, गोपाभ्यः, गोपः गोपाभ्यां, गोपाभ्यः,  गोपः, गोपोः, गोपाम्,  गोपि, गोपोः, गोपासु इति |


अधि इति शब्दः सप्तमीविभक्त्यर्थे, अधिकरणार्थे प्रयुक्तः अस्ति | अधि शब्दः सप्तम्यर्थस्य बोधकः अस्ति |


अलौकिकविग्रहवाक्यम्

गोपा + ङि + अधि समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | अव्ययीभावः (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)   इति सूत्रेण अधि इति अव्ययं समर्थेन गोपा इति सुबन्तेन सह समस्यते | एतेन सूत्रेण अव्ययीभावसमासः विधीयते |


गोपा + ङि + अधि समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |


गोपा + ङि + अधि इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अतःगोपा + ङि + अधि इत्यस्मिन्‌ ङि इत्यस्य लुक्‌ भवति गोपा + अधि


गोपा + अधि सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति | अत्र च 'अधि' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा इति | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण | अतः अधि इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः | यद्यपि प्रत्ययस्य लोपः जातः तथापि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव |


गोपा + अधि अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) इति  समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र अधि इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |


अधिगोपा → अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | अधिगोपा इत्यस्य अव्ययसंज्ञा भवति |


अधिगोपा इदानीं लिङ्गस्य निर्णयः क्रियते | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः अधिगोपा इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |


अधिगोपा → ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति | अतः अधिगोप इति भवति |


अधिगोप + सु अधिगोप इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ (४.१.२) इति सूत्रेण |


अधिगोप + सु अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात्  सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति अधिगोपात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |


अधिगोप + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम् सम्बन्धी अच् परः चेत् पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमीविभक्तिं विहाय अपरासु विभक्तिषु अधिगोपम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयं सम्भवति अधिगोपम् / अधिगोपेन, अधिगोपम् / अधिगोपे | अन्यासु विभक्तिषु अधिगोपम् इति रूपं सिद्धं भवति |


पञ्चमीविभक्तौ सुप् लुक् न भवति इति उक्तम् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण | तर्हि प्रक्रिया अधो भागे प्रदर्शिता –


अधिगोप + ङसि → टाङसिङसामिनात्स्याः (७.१.१२) इत्यनेन सूत्रण अदन्तात् अङ्गात् परस्य टा, ङसि, ङस् च प्रत्ययानां स्थाने  क्रमेण इन, आत्, स्य इत्येते आदेशाः भवन्ति | अतः पञ्चमीविभक्तौ अदन्तात् अङ्गात् ङसि इत्यस्य स्थाने आत् इति आदेशः भवति |


अधिगोप + आत् → अकः सवर्णे दीर्घः (६.१.१०१) इति सूत्रस्य कार्यानन्तरम् अधिगोपात् इति रूपं निष्पन्नं भवति |

अधः सर्वासु विभक्तिषु रूपाणि प्रदर्शितानि |


विभक्तिः एकवचनं द्विवचनं बहुवचनम्
प्रथमा अधिगोपम् अधिगोपम् अधिगोपम्
द्वितीया अधिगोपम् अधिगोपम् अधिगोपम्
तृतीया अधिगोपम्/अधिगोपेन अधिगोपम्/ अधिगोपाभ्याम् अधिगोपम्/ अधिगोपैः
चतुर्थी अधिगोपम् अधिगोपम् अधिगोपम्
पञ्चमी अधिगोपात् अधिगोपाभ्याम् अधिगोपेभ्यः
षष्ठी अधिगोपम् अधिगोपम् अधिगोपम्
सप्तमी अधिगोपम्/अधिगोपे अधिगोपम्/ अधिगोपयोः अधिगोपम्/ अधिगोपेषु
सम्बोधने अधिगोपम् अधिगोपम् अधिगोपम्
अव्ययादाप्सुपः (२.४.८२); नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३); तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४); अमि पूर्वः (६.१.१०५)
अव्ययादाप्सुपः (२.४.८२)

अव्ययात् परस्य आप्-प्रत्ययानां सुप्-प्रत्ययानां च लुक्-भवति |


नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३)

अदन्तात् अव्ययीभावात्  सुप् प्रत्ययस्य लुक् न भवति, अपि तु पञ्चमीविभक्तिं विहाय अन्यासु विभक्तिषु सुप्प्रत्ययस्य स्थाने अमादेशः विधीयते | अस्मिन् सूत्रे निषेधः इति भागः अपि अस्ति येन सुपः लुक् निषिध्यते, विधिः इति भागः अपि अस्ति येन अमादेशः विधीयते, परन्तु पञ्चमीं विहाय | न अव्यययपदम्, अव्ययीभावात् पञ्चम्यन्तम्, अतः पञ्चम्यन्तम्, अम् प्रथमान्तं, तु अव्ययपदम्, अपञ्चम्याः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | अव्ययादाप्सुपः (२.४.८२) इत्यस्मात् सूत्रात् सुपः इत्यस्य अनुवृत्तिः | ण्यक्षत्रियार्षञितो यूनि लुगणिञोः ( २.४.५८) इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अतः अव्ययीभावात् तु न सुपः लुक्, अपञ्चम्याः अम् |


तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४)

अदन्तात् अव्ययीभावात् तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अत्र बहुलम् इति शब्दस्य प्रयोगेण कुत्रचित् विकल्पेन अम्-आदेशः भवति, कुत्रचित् अम् आदेशः नित्यः भवति | कुत्र विकल्पेन, कुत्र नित्यः इति निर्णयः प्रयोगं दृष्ट्वा करणीयः | सामान्यतया विकल्पेन इति स्वीकर्तुं शक्यते | यदि विकल्पार्थः इष्टः तर्हि विकल्पः अथवा वा इति शब्दस्य प्रयोगः भवति परन्तु अत्र बहुलम् इत्यनेन विशिष्टार्थः बुध्यते | तृतीया च सप्तमी च तयोः इतरेतरयोगद्वन्द्वः तृतीयासप्तम्यौ, तयोः | तृतीयासप्तम्योः षष्ठ्यन्तं, बहुलं प्रथमान्तं, द्विपदमिदं सूत्रम् | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इत्यस्मात् सूत्रात् अव्ययीभावात्, अतः, अम् इत्येषाम् अनुवृत्तिः भवति | अनुवृत्ति-सहितसूत्रम्‌— तृतीयासप्तम्योः अतः अव्ययीभावाद् अम् बहुलम् |


बहुलम् अपि च विकल्पने अनयोः शब्दयोः भेदः वर्तते|बहुलम् इत्यनेन क्वचित् प्रवृत्तिः, क्वचि अप्रवृत्तिः, क्वचित् विभाषा, क्वचित् अन्यदेव | अव्ययीभावासमासस्य सन्दर्भे बहुलम् इत्यस्य विकल्पेन इति अर्थः प्रायेण गृह्यते | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रे बहुलग्रह्णात् एव सुमद्रम्, उन्मत्तगङ्गम् इत्यादौ सप्तम्याः नित्यम् अम्भावः | अर्थात् तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रे बहुलम् इति शब्दस्य प्रयोगः भवति कुत्रचित् यथा सुमद्रम्, उन्मत्तगङ्गम् इत्यादौ | नाम कुत्रचित् विकल्पेन अम्भावः भवति कुत्रचित् नित्यं भवति | यदि विकल्पः इत्येव इष्यते तर्हि वा शब्दस्य पाठः स्यात् परन्तु अस्मिन् सूत्रे विशिष्टः अर्थः इष्टः अतः एव बहुलम् इति शब्दस्य प्रयोगः कृतः | मद्राणां समृद्धिः = सुमद्रम् | नित्यम् अम्भावः भवति सर्वासु विभक्तिषु पञ्चमीं विहाय |

मद्राणां समृद्धिः = सुमद्रम् | नित्यम् अम्भावः भवति सर्वासु विभक्तिषु पञ्चमीं विहाय |

उन्मत्ता गङ्गा यस्मिन् = उन्मत्तगङ्गम् | अत्रापि नित्यम् अम्भावः भवति सर्वासु विभक्तिषु पञ्चमीं विहाय |


अमि पूर्वः (६.१.१०५)

अक् वर्णात्  अम्-सम्बन्धी अच् परः चेत् पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति | अमि सप्तम्यन्तं, पूर्वः प्रथमान्तं, द्विपदमिदं सूत्रम् | अकः सवर्णे दीर्घः ( ६.१.९९) इत्यस्मात् सूत्रात् अकः इत्यस्य अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८३), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः| इको यणचि ( ६.१.७६) इत्यस्मात् सूत्रात् अचि इत्यस्य अनुवृत्तिः | यस्मिन्‌ विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम्‌ २९) इत्यनेन अचि अमि इत्युक्तौ अजादि-अमि | अनुवृत्ति सहितसूत्रम् — अकः अचि अमि पूर्वपरयोः एकः पूर्वः संहितायाम् |

उपरि गम्यताम्


अभ्यासः

एतेषां प्रक्रिया चिन्तनीया —


१) वृक्षे इति = अधिवृक्षम् सर्वासुविभक्तिषु पञ्चमीं विहाय,

पञ्चमीविभक्तौ अधिवृक्षात्,

तृतीयाविभक्तौ विकल्पेन अधिवृक्षेण, सप्तमीविभक्तौ  विकल्पेन अधिवृक्षे |


२) शालायाम् इति= अधिशालम् सर्वासुविभक्तिषु पञ्चमीं विहाय,

पञ्चमीविभक्तौ अधिशालात्

तृतीयाविभक्तौ विकल्पेन अधिशालेन, सप्तमीविभक्तौ  विकल्पेन अधिशाले |


३) नौकायाम् इति= अधिनौकम्, सर्वासुविभक्तिषु पञ्चमीं विहाय,

पञ्चमीविभक्तौ अधिनौकात्

तृतीयाविभक्तौ विकल्पेन अधिनौकेन, सप्तमीविभक्तौ  विकल्पेन अधिनौके |


४) आकाशे इति= अध्याकाशम्, सर्वासुविभक्तिषु पञ्चमीं विहाय,

पञ्चमीविभक्तौ अध्याकाशात्

तृतीयाविभक्तौ विकल्पेन अध्याकाशेन, सप्तमीविभक्तौ  विकल्पेन अध्याकाशे |


५) रमायाम् इति =अधिरमम्, सर्वासुविभक्तिषु पञ्चमीं विहाय,

पञ्चमीविभक्तौ अधिरमात्

तृतीयाविभक्तौ विकल्पेन अधिरमेण, सप्तमीविभक्तौ  विकल्पेन अधिरमे |



इ) उत्तरपदं हलन्तं चेत् —

इ) उत्तरपदं हलन्तं चेत्

आत्मनि इत्येव = अध्यात्मम्|


अलौकिकविग्रहवाक्यम्


आत्मन् + ङि + अधि समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | अव्ययीभावः (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)  इति सूत्रेण अधि इति अव्ययं समर्थेन आत्मनि इति सुबन्तेन सह समस्यते | एतेन सूत्रेण अव्ययीभावसमासः विधीयते |


आत्मन् + ङि + अधि समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |

आत्मन् + ङि + अधि इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अतःआत्मन् + ङि + अधि इत्यस्मिन्‌ ङि इत्यस्य लुक्‌ भवति→ आत्मन् + अधि इति |


आत्मन् + अधि सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति | अत्र च 'अधि' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा इति | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण | अतः अधि इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः | यद्यपि प्रत्ययस्य लोपः जातः तथापि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव |


आत्मन् + अधि अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इति  समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र अधि इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति | अधि + आत्मन् → अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति |

अधि + आत्मन् → अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति |

अधि + आत्मन् → अत्र इको यणचि (६.१.७६) इति सूत्रेण यण् सन्धिं कृत्वा → अध्यात्मन् इति भवति, तस्य अव्ययसंज्ञा भवति |


अध्यात्मन् इदानीम् अनश्च (५.४.१०८) इति सूत्रेण अव्ययीभावसमासस्य अन्ते "अन्" इति विद्यते चेत् तस्मात् टच् इति समासान्तप्रत्ययः भवति |


अध्यात्मन् + टच् टच् इति समासान्तप्रत्ययः समासस्य अवयवः भवति | टच् इति प्रत्यये इतसंज्ञकवर्णयोः लोपानन्तरम् अकारः अवशिष्यते | अध्यात्मन् + अ आत्मन् इति पुंलिङ्गशब्दः अस्ति, अतः नपुंसकादन्यतरस्याम् (५.४.१०९) इति सूत्रस्य प्रसक्तिः नास्ति | नपुंसकादन्यतरस्याम् (५.४.१०९) इति सूत्रेण नपुंसकलिङ्गे अन्नन्तप्रातिपदिकात् टच् इति समासान्तप्रत्ययः विकल्पेन भवति |


अध्यात्मन् + अ इदानीं नस्तद्धिते (६.४.१४४) इति सूत्रेण तद्धितप्रत्यये परे नकारान्तस्य भसंज्ञकस्य शब्दस्य टिसंज्ञकस्य लोपः भवति → नस्तद्धिते (६.४.१४४) इति सूत्रेण अन् इति टि-भागस्य लोपानन्तरम् अध्यात्म् + अ अध्यात्म इति भवति |


अध्यात्म इदानीं लिङ्गस्य निर्णयः क्रियते | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः अध्यात्म इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |


अध्यात्म + सु अध्यात्म इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः ङ्याप्प्रातिपदिकात्‌  (४.१.१), स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ (४.१.२) इत्याभ्यां सूत्राभ्याम् |


अध्यात्म + सु →  अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति अध्यात्मात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति | अध्यात्म + अम्  अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्|पञ्चमी-विभक्तिं विहाय अपरासु विभक्तिषु अध्यात्मम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयं सम्भवति अध्यात्मम् / अध्यात्मेन, अध्यात्मम् / अध्यात्मे | अन्यासु विभक्तिषु अध्यात्मम् इति रूपं सिद्धं भवति | पञ्चमी-विभक्तौ अध्यात्मात् इति रूपं भवति |


अध्यात्म + अम्  अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्|पञ्चमी-विभक्तिं विहाय अपरासु विभक्तिषु अध्यात्मम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयं सम्भवति अध्यात्मम् / अध्यात्मेन, अध्यात्मम् / अध्यात्मे | अन्यासु विभक्तिषु अध्यात्मम् इति रूपं सिद्धं भवति | पञ्चमी-विभक्तौ अध्यात्मात् इति रूपं भवति |


पञ्चमीविभक्तौ सुप् लुक् न भवति इति उक्तम् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण | तर्हि प्रक्रिया अधो भागे प्रदर्शिता –

अध्यात्म + ङसि → टाङसिङसामिनात्स्याः (७.१.१२) इत्यनेन सूत्रण अदन्तात् अङ्गात् परस्य टा, ङसि, ङस् च प्रत्ययानां स्थाने  क्रमेण इन, आत्, स्य इत्येते आदेशाः भवन्ति | अतः पञ्चमीविभक्तौ अदन्तात् अङ्गात् ङसि इत्यस्य स्थाने आत् इति आदेशः भवति | अध्यात्म+ आत् → अकः सवर्णे दीर्घः (६.१.१०१) इति सूत्रस्य कार्यानन्तरम् अध्यात्मात् इति रूपं निष्पन्नं भवति |

अध्यात्म+ आत् → अकः सवर्णे दीर्घः (६.१.१०१) इति सूत्रस्य कार्यानन्तरम् अध्यात्मात् इति रूपं निष्पन्नं भवति |

एवमेव राज्ञः समीपम् = उपराजम् इति भवति |


अनश्च (५.४.१०८)

यस्य अव्ययीभावसमासस्य अन्ते "अन्" इति विद्यते तस्मात् टच् इति समासान्तप्रत्ययः भवति | अनः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | अव्ययीभावे शरत्प्रभृतिभ्यः ( ५.४.१०८) इत्यस्मात् सूत्रात् अव्ययीभावः इत्यस्य अनुवृत्तिः|अव्ययीभावः इति पदस्य विभक्तिपरिणामं कृत्वा अव्ययीभावात् इति भवति | राजाहस्सखिभ्यष्टच्‌ (५.४.९१) इत्यस्मात् सूत्रात् टच् इति पदस्य अनुवृत्तिः | समासान्ताः (५.४.६८), तद्धिताः (४.१.७६) अनयोः सूत्रयोः अधिकारः | ङ्याप्प्रातिपदिकात्‌ (४.१.१) इत्यस्य अधिकारः | प्रत्ययः, परश्च अनयोः सूत्रयोः अपि अधिकारः |अनुवृत्ति-सहितसूत्रम्‌— अनश्च अव्ययीभावात् प्रादिपदिकात् टच् प्रत्ययः परश्च तद्धितः समासान्तः |


राजन्, आत्मन्, ब्रह्मन्, अर्यमन् इत्येतानि पुंलिङ्गप्रातिपदिकानि, अन्नन्तानि च सन्ति | सीमन्, दामन् इत्यादयः स्त्रीलिङ्गे अन्नन्तशब्दाः सन्ति | अव्ययीभावसमासे यदि एतानि अन्नन्तानि प्रातिपदिकस्य अन्ते विद्यन्ते तर्हि अनश्च (५.४.१०८) इति सूत्रेण टच् इति प्रत्ययः नित्यं भवति | यदि अन्नन्तं प्रातिपदिकं नपुंसकलिङ्गे अस्ति तर्हि टच् इति समासान्तप्रत्ययः विकल्पेन भवति नपुंसकादन्यतरस्याम् (५.४.१०९) इति सूत्रेण | एतत् सूत्रम् अग्रे पठिष्यामः |राजन्, आत्मन्, ब्रह्मन्, अर्यमन् इत्येतानि पुंलिङ्गप्रातिपदिकानि, अन्नन्तानि च सन्ति | सीमन्, दामन् इत्यादयः स्त्रीलिङ्गे अन्नन्तशब्दाः सन्ति | अव्ययीभावसमासे यदि एतानि अन्नन्तानि प्रातिपदिकस्य अन्ते विद्यन्ते तर्हि अनश्च (५.४.१०८) इति सूत्रेण टच् इति प्रत्ययः नित्यं भवति | यदि अन्नन्तं प्रातिपदिकं नपुंसकलिङ्गे अस्ति तर्हि टच् इति समासान्तप्रत्ययः विकल्पेन भवति नपुंसकादन्यतरस्याम् (५.४.१०९) इति सूत्रेण | एतत् सूत्रम् अग्रे पठिष्यामः |

नस्तद्धिते (६.४.१४४)

तद्धितप्रत्यये परे नकारान्तस्य भसंज्ञकस्य अङ्गस्य टिसंज्ञकस्य लोपः भवति | नः षष्ठ्यन्तं, तद्धिते सप्तम्यन्तं, द्विपदमिदं सूत्रम् | टेः (६.४.१४३) इति सूत्रस्य सम्पूर्णतया अनुवृत्तिः | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तादेशः | अल्लोपोऽनः (६.४.१३४) इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः | अङ्गस्य ( ६.४.१) इत्यस्य अधिकारः | भस्य (६.४.१२९) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— भस्य अङ्गस्य नः तद्धिते टेः लोपः |


अचोऽन्त्यादि टि (१.१.६४)

अचां मध्ये यः अन्त्यः, सः आदिः यस्य तत्‌ टि-संज्ञकं स्यात्‌ | अन्ते भवः अन्त्यः, अन्त्यः आदिर्यस्य सः अन्त्यादिः बहुव्रीहिः | अचः षष्ठ्यन्तम्‌, अन्त्यादिः प्रथमान्तं, टि प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | अत्र अचः एकवचने यतोहि अनेन अच्‌-जातिः इति इष्टम्‌ | आशयः बहुवचनं, निर्धारण-सप्तमी (बहुषु एकम्‌) |

जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्‌ (१.२.५८)

जाति-आख्यायाम्‌ एकस्मिन्‌ बहुवचनम्‌ अन्यतरस्याम्‌ | सूत्रं स्वयं सम्पूर्णम्— अचः अन्त्यादि टि |

सुडनपुंसकस्य (१.१.४३)

सुट्‌-प्रत्याहारे सु-आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थान-संज्ञा भवति परन्तु नपुंसकलिङ्गे न | सुट्‌-प्रत्याहारे सु, औ, जस्‌, अम्‌, औट्‌ इतीमे प्रत्ययाः अन्तर्भूताः | न नपुंसकम्‌, अनपुंसकम्‌ नञ्तत्पुरुषः, तस्य अनपुंसकस्य | सुट्‌ प्रथमान्तम्‌, अनपुंसकस्य षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | शि सर्वनामस्थानम्‌ (१.१.४२) इत्यस्मात्‌ सर्वनामस्थानम्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— सुट् सर्वनामस्थानम्‌ अनपुंसकस्य |

यचि भम्‌ (१.४.१८)

सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तम्‌ ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परः अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति | य्‌ च, अच्‌ च यच्‌ समाहारद्वन्द्वः, तस्मिन्‌ यचि | यचि सप्तम्यन्तं, भम्‌ प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | स्वादिष्वसर्वनामस्थाने (१.४.१७) इत्यस्य पूर्णतया अनुवृतिः | अनुवृत्ति-सहितसूत्रम्‌— स्वादिषु असर्वनामस्थाने यचि भम्‌ |

न लोपः प्रातिपदिकान्तस्य (८.२.७)

प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः | न लुप्तषष्ठीकं पदं, लोपः प्रथमान्तं, प्रातिपदिक लुप्तषष्ठीकं पदं, अन्तस्य षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— प्रातिपदिकस्य पदस्य अन्तस्य नः लोपः |


अभ्यासः

एतेषां प्रक्रिया चिन्तनीया —१) सीमनि इति , २) दामनि इति  ३) दण्डिनि इति (दण्डिन् इति पुंलिङ्गशब्दः) |

अधः सीमन् इति अन्नन्त-स्त्रीलिङ्गशब्दस्य रूपाणि प्रदर्शितानि | एवमेव दामन् इति स्त्रीलिङ्गशब्दस्य रूपाणि अपि |

विभक्तिः एकवचनं द्विवचनं बहुवचनम्
प्रथमा सीमा सीमानौ सीमानः
द्वितीया सीमानम् सीमानौ सीम्नः
तृतीया सीम्ना सीमभ्याम् सीमभिः
चतुर्थी सीम्ने सीमभ्याम् सीमभ्यः
पञ्चमी सीम्नः सीमभ्याम् सीमभ्यः
षष्ठी सीम्नः सीम्नोः सीम्नाम्
सप्तमी सीम्नि/ सीमनि सीम्नोः सीमसु
सम्बोधने हे सीमन् हे सीमानौ हे सीमानः
उपरि गम्यताम्




अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इति सूत्रे समीपार्थः -

ii)   सूत्रे समीपार्थे अव्ययम्–


समीपार्थे उप इति अव्ययं प्रयुज्यते |

यथा –

१) समीपार्थे प्रथमम् उदाहरणम्  -

नद्याः समीपम् = उपनदम्/उपनदि

उपनदम् इति समस्तपदस्य रूपसाधनार्थं नदीपौर्णमास्याग्रहायणीभ्यः (५.४.११०) इति सूत्रेण टच् इति समासान्तप्रत्ययः विकल्पेन विधीयते | यस्मिन् पक्षे टच् इति समासान्तप्रत्ययः विधीयते तत्र उपनदम् इति रूपं निष्पन्नं भवति | यस्मिन् पक्षे टच् इति प्रत्ययः न विधीयते तत्र उपनदि इति रूपं सिद्ध्यति | उपनदम् / उपनदि इति समस्तपदस्य शास्त्रीय-प्रक्रिया अधो लिखिता वर्तते |

टच् प्रत्ययस्य पक्षे प्रक्रिया

अलौकिकविग्रहवाक्यम्


नदी + ङस् +  उप → समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | अव्ययीभावः (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)   इति सूत्रेण उप इति अव्ययं समर्थेन नदी इति सुबन्तेन सह समस्यते |


नदी + ङस् + उप समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |


नदी + ङस् + उप इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अतः नदी + ङस् + उप इत्यस्मिन्‌ ङस् इत्यस्य लुक्‌ → उप + नदी इति |


उप + नदी सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'उप' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण | अतः उप इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |


नदी + उप अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र उप इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |


उपनदी → अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | उपनदी इत्यस्य अव्ययसंज्ञा भवति |


उपनदी अत्र नदीपौर्णमास्याग्रहायणीभ्यः (५.४.११०) इत्यनेन अव्ययीभावसमासस्य अन्ते "नदी" इति शब्दात् विकल्पेन "टच्" इति समासान्तप्रत्ययः भवति | उपनदी + टच् टच् इति प्रत्यये टकार-चकारयोः इत्संज्ञा भवति, अकारः अवशिष्यते | टच् इति प्रत्ययस्य योजनेन हलन्तशब्दाः अपि अजन्ताः भवन्ति; एतदेव टच् इति प्रत्ययस्य प्रयोजनम्|समासान्तप्रत्ययः समासस्य अवयवः अस्ति |


उपनदी + अ→ यचि भम्‌ (१.४.१८) इत्यनेन उपनदी इत्यस्य भसंज्ञा भवति टच् इति अजादि प्रत्यये परे | यस्येति च (६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | उपनदी इत्यस्य ईकारस्य लोपः भवति अत्र उपनद् + अ उपनद इति भवति |


उपनद→ इदानीं लिङ्गस्य निर्णयः भवति | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः उपनदि इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |


उपनद → उपनद इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः ङ्याप्प्रातिपदिकात्‌ (४.१.१), स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ (४.१.२) इत्याभ्यां सूत्राभ्याम् |


उपनद + सु अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम्-आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथासामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति उपनदात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |


उपनद + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्-सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु उपनदम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीयाविभक्तौ अपि च सप्तमीविभक्तौ रूपद्वयम् सम्भवति- उपनदम् / उपनदेन, उपनदम् / उपनदे | अन्यासु विभक्तिषु उपनदम् इति रूपं सिद्धं भवति |


तृतीयाविभक्तौः उपनदम् / उपनदेन

सप्तमीविभक्तौः  उपनदम्  / उपनदे |

अन्यासु विभक्तिषु पञ्चमीविभक्तिं विहाय उपनदम् इति रूपं सिद्धं भवति | पञ्चमीविभक्तौ उपनदात् इति रूपं भवति |

नद्याः समीपम् = उपनदम् | अधः सर्वासु विभक्तिषु अव्ययपदस्य रूपाणि पश्यामः |



विभक्तिः एकवचनं द्विवचनं बहुवचनम्
प्रथमा उपनदम् उपनदम् उपनदम्
द्वितीया उपनदम् उपनदम् उपनदम्
तृतीया उपनदम्/उपनदेन उपनदम्/ उपनदाभ्याम् उपनदम्/ उपनदैः
चतुर्थी उपनदम् उपनदम् उपनदम्
पञ्चमी उपनदात् उपनदाभ्याम् उपनदेभ्यः
षष्ठी उपनदम् उपनदम् उपनदम्
सप्तमी उपनदम्/उपनदे उपनदम्/ उपनदयोः उपनदम्/ उपनदेषु
सम्बोधने उपनदम् उपनदम् उपनदम्


अव्ययादाप्सुपः (२.४.८२); नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३); तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४); यचि भम्‌ (१.४.१८); नदीपौर्णमास्याग्रहायणीभ्यः (५.४.११०); यस्येति च (६.४.१४८); अमि पूर्वः (६.१.१०५)
अव्ययादाप्सुपः (२.४.८२)

अव्ययात् परस्य आप्-प्रत्ययानां सुप्-प्रत्ययानां च लुक्-भवति |

नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३)

अदन्तात् अव्ययीभावात्  सुप् प्रत्ययस्य लुक् न भवति, अपि तु पञ्चमीविभक्तिं विहाय अन्यासु विभक्तिषु सुप्प्रत्ययस्य स्थाने अमादेशः विधीयते | अस्मिन् सूत्रे निषेधः इति भागः अपि अस्ति येन सुपः लुक् निषिध्यते, विधिः इति भागः अपि अस्ति येन अमादेशः विधीयते, परन्तु पञ्चमीं विहाय | न अव्यययपदम्, अव्ययीभावात् पञ्चम्यन्तम्, अतः पञ्चम्यन्तम्, अम् प्रथमान्तं, तु अव्ययपदम्, अपञ्चम्याः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | अव्ययादाप्सुपः (२.४.८२) इत्यस्मात् सूत्रात् सुपः इत्यस्य अनुवृत्तिः | ण्यक्षत्रियार्षञितो यूनि लुगणिञोः ( २.४.५८) इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अतः अव्ययीभावात् तु न सुपः लुक्, अपञ्चम्याः अम् |

तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४)

अदन्तात् अव्ययीभावात् तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अत्र बहुलम् इति शब्दस्य प्रयोगेण कुत्रचित् विकल्पेन अम्-आदेशः भवति, कुत्रचित् अम् आदेशः नित्यः भवति | कुत्र विकल्पेन, कुत्र नित्यः इति निर्णयः प्रयोगं दृष्ट्वा करणीयः | सामान्यतया विकल्पेन इति स्वीकर्तुं शक्यते | यदि विकल्पार्थः इष्टः तर्हि विकल्पः अथवा वा इति शब्दस्य प्रयोगः भवति परन्तु अत्र बहुलम् इत्यनेन विशिष्टार्थः बुध्यते|तृतीया च सप्तमी च तयोः इतरेतरयोगद्वन्द्वः तृतीयासप्तम्यौ, तयोः | तृतीयासप्तम्योः षष्ठ्यन्तं, बहुलं प्रथमान्तं, द्विपदमिदं सूत्रम् | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इत्यस्मात् सूत्रात् अव्ययीभावात्, अतः, अम् इत्येषाम् अनुवृत्तिः भवति | अनुवृत्ति-सहितसूत्रम्‌— तृतीयासप्तम्योः अतः अव्ययीभावाद् अम् बहुलम् |

यचि भम्‌ (१.४.१८)

सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तम्‌ ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परे अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति | य्‌ च, अच्‌ च यच्‌ समाहारद्वन्द्वः, तस्मिन्‌ यचि | यचि सप्तम्यन्तं, भम्‌ प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | स्वादिष्वसर्वनामस्थाने (१.४.१७) इत्यस्य पूर्णतया अनुवृतिः | अनुवृत्ति-सहितसूत्रम्‌— स्वादिषु असर्वनामस्थाने यचि भम्‌ |

नदीपौर्णमास्याग्रहायणीभ्यः (५.४.११०)

अव्ययीभावसमासस्य अन्ते "नदी", "पौर्णमासी (day of full moon)", "आग्रहायणी" (day of full moon in the month of आग्रहायणम्) इत्येतेषु कश्चन शब्दः विद्यते चेत्, तस्मात् विकल्पेन "टच्" इति समासान्तप्रत्ययः भवति | नदी च पौर्णमासी च आग्रहायणी च तासाम् इतरेतरयोगद्वन्द्वः , नदीपैर्णमास्यग्रहायण्यस्तेभ्यो नदीपौर्णमास्याग्रहायणीभ्यः | नदीपौर्णमास्याग्रहायणीभ्यः पञ्चम्यन्तम् एकपदमिदं सूत्रम् | अव्ययीभावे शरत्प्रभृतिभ्यः (५.४.१०७) इत्यस्मात् सूत्रात् अव्ययीभावे इत्यस्य अनुवृत्तिः भवति | नपुंसकादन्यतरस्याम् (५.४.१०९) इत्यस्मात् सूत्रात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः | राजाहस्सखिभ्यष्टच्‌ ( ५.४.९१) इत्यस्मात् सूत्रात्  टच् इत्यस्य अनुवृत्तिः भवति | तद्धिताः ( ४.१.७६),  समासान्ताः ( ५.४.६८), प्रत्ययः ( ३.१.१), परश्च ( ३.१.२), ङ्याप्प्रातिपदिकात् ( ४.१.१) इत्येतेषां अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अव्ययीभावे ङ्याप्प्रातिपदिकेभ्यः नदीपौर्णमास्याग्रहायणीभ्यः परश्च तद्धितः समासान्तः टच् प्रत्ययः अन्यतरस्याम् |

यस्येति च (६.४.१४८)

भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | इश्च अश्च,  समाहारद्वन्द्वः, तस्य यस्य | यस्य षष्ठ्यन्तम्, ईति सम्प्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | भस्य (६.४.१२९) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२), अलोऽन्त्यस्य (१.१.५२) च परिभाषासूत्रे प्रवर्तेते | ढे लोपोऽकद्र्वाः (६.४.१४७) इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | नस्तद्धिते  (६.४.१४४) इत्यस्मात् सूत्रात् तद्धिते इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—  भस्य अङ्गस्य यस्य च लोपः ईति तद्धिते |    

अमि पूर्वः (६.१.१०५)

अक् वर्णात्  अम्-सम्बन्धी अच् परः चेत् पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति | अमि सप्तम्यन्तं, पूर्वः प्रथमान्तं, द्विपदमिदं सूत्रम् | अकः सवर्णे दीर्घः ( ६.१.९९) इत्यस्मात् सूत्रात् अकः इत्यस्य अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८३), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | इको यणचि ( ६.१.७६) इत्यस्मात् सूत्रात् अचि इत्यस्य अनुवृत्तिः | यस्मिन्‌ विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम्‌ २९) इत्यनेन अचि अमि इत्युक्तौ अजादि-अमि | अनुवृत्ति सहितसूत्रम् — अकः अमि अचि पूर्वपरयोः एकः पूर्वः संहितायाम् |


टच्-प्रत्ययापक्षे प्रक्रिया

टच्-प्रत्ययापक्षे उपनदि इति समस्तपदस्य प्रक्रिया अधो लिखिता अस्ति-


अलौकिकविग्रहवाक्यम्

नदी + ङस् + उप समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | अव्ययीभावः (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)   इति सूत्रेण उप इति अव्ययं समर्थेन नदी इति सुबन्तेन सह समस्यते |


नदी + ङस् + उप समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |


नदी + ङस् + उप इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अतः नदी + ङस् + उप इत्यस्मिन्‌ ङस् इत्यस्य लुक्‌ → उप + नदी इति |


उप + नदी सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'उप' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण | अतः उप इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |


नदी + उप अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इति समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण  | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र उप इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |


उपनदी → अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | उपनदी इत्यस्य अव्ययसंज्ञा भवति|इदानीं लिङ्गस्य निर्णयः भवति | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः उपनदि इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |


उपनदी→ ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य हस्वः भवति अतः उपनदि इति भवति |


उपनदि + सु उपनदि इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति|अधुना प्रातिपदिकात् सुप् प्रत्ययस्य उत्पत्तिः भवति | स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ (४.१.२) इति सूत्रेण   अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण अव्ययात् सुप् प्रत्ययस्य लोपः भवति | उपनदि इति समस्तपदं निष्पन्नम् |


आहत्य उपनदम् अथवा उपनदि इति रूपद्वयं भवति |



अव्ययादाप्सुपः (२.४.८२); ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७); अचश्च (१.२.२८)
अव्ययादाप्सुपः (२.४.८२)

अव्ययात् परस्य आप्-प्रत्ययानां सुप्-प्रत्ययानां च लुक्-भवति |

ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)

नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | ह्रस्वः प्रथमान्तं, नपुंसके सप्तम्यन्तं, प्रातिपदिकस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अचश्च (१.२.२८) इत्यनेन अचः एव ह्रस्वत्वम् | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव ह्रस्वत्वम् (न तु प्रातिपदिकस्य) | अनुवृत्ति-सहितसूत्रम्‌— नपुंसकलिङ्गे अचः प्रातिपदिकस्य ह्रस्वः |


अचश्च (१.२.२८)

यत्र यत्र ह्रस्वः, दीर्घः, प्लुतः च विधीयन्ते, तत्र तत्र अचः इति षष्ठ्यन्तं पदम्‌ आगत्य उपस्थितं भवति | परिभाषासूत्रम्‌ | अचः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | ऊकालोऽज्झ्रस्वदीर्घप्लुतः (१.२.२७) इत्यस्मात्‌ अच्‌, ह्रस्वदीर्घप्लुतः इत्यनयोः अनुवृत्तिः | तत्र विभक्तिपरिणामेन तृतीयान्तं भवति, ह्रस्वदीर्घप्लुतैः (शब्दैः) | अनुवृत्ति-सहितसूत्रम्‌— ह्रस्वदीर्घप्लुतैः अचः च अच्‌ |


एवमेव पौर्णमास्याः समीपम् = उपपौर्णमासम् / उपपौर्णमासि|प्रक्रिया चिन्तनीया |

अलौकिकविग्रहः पौर्णमासी + ङस् + उप |

आग्रहयण्याः समीपम् = उपाग्रहायणम् / उपाग्रहायणि|प्रक्रिया चिन्तनीया|

अलौकिकविग्रहः आग्रहायणी + ङस् + उप |


धेयं यत् समया, निकषा, आराद् इत्यादीनि यद्यपि समीपार्थक-अव्ययानि सन्ति तथापि अव्ययीभावसमासः न भवति | तस्य कारणम् अस्ति यत् समया, निकषा इत्यनयोः शब्दयोः योगे तु सामान्यतया द्वितीयाविभक्तिः भवति; अपि च आरात् इति शब्दस्य योगे तु पञ्चमीविभक्तिः भवति | अतः द्वितीयाविभक्तेः, पञ्चमीविभक्तेः च विधानसामर्थ्यात् समया ग्रामम्, निकषा लङ्काम्, आराद् वनात् इत्यादिषु उदाहरणेषु अव्ययीभावसमासः न भवति | समीपार्थे केवलम् उप इति अव्ययस्य एव अव्ययीभावसमासः सम्भवति, अन्येषाम् अव्ययानां न |

उपरि गम्यताम्


२) समीपार्थे  द्वितीयम् उदाहरणम् -

समीपार्थे  द्वितीयम् उदाहरणम्
गङ्गायाः समीपम् = उपगङ्गम्

अलौकिकविग्रहवाक्यम्


गङ्गा + ङस् + उपसमाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | अव्ययीभावः (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)   इति सूत्रेण उप इति अव्ययं समर्थेन गङ्गा इति सुबन्तेन सह समस्यते |


गङ्गा + ङस् + उप समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण|

गङ्गा + ङस् + उप इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अतः गङ्गा + ङस् +उप इत्यस्मिन्‌ ङस् इत्यस्य लुक्‌ → उप + गङ्गा इति |


उप + गङ्गा सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'उप' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण | अतः उप इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |


गङ्गा + उप अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र उप इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |


उपगङ्गा → अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | उपगङ्गा इत्यस्य अव्ययसंज्ञा भवति|इदानीं लिङ्गस्य निर्णयः भवति | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः उपगङ्गा इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |


उपगङ्गा → अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | उपगङ्गा इत्यस्य अव्ययसंज्ञा भवति | इदानीं लिङ्गस्य निर्णयः भवति | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः उपगङ्गा इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |


उपगङ्गा→ ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति अतः उपगङ्ग इति भवति

उपगङ्ग + सु उपगङ्ग इति प्रातिपदिकात् सुबुत्पत्तिः  स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ (४.१.२) इति सूत्रेण |


उपगङ्ग + सु अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात्  सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमीविभक्तिं विहाय | पञ्चमी विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुबन्तप्रक्रियानन्तरम् उपगङ्गगात् इति रूपं निष्पन्नं भवति | अपरासु विभक्तिषु नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३)  इति सुत्रेण सुप् प्रत्ययस्य लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |


उपगङ्ग + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमीविभक्तिं विहाय अपरासु विभक्तिषु उपगङ्गम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीयाविभक्तौ अपि च सप्तमीविभक्तौ रूपद्वयं सम्भवति-


तृतीयाविभक्तौ -उपगङ्गम्/ उपगङ्गेन,

सप्तमीविभक्तौ उपगङ्गम्/उपगङ्गे |

अन्यासु विभक्तिषु पञ्चमीविभक्तिं विहाय उपगङ्गम् इति रूपं सिद्धं भवति|पञ्चमीविभक्तौ उपगङ्गात् इति रूपं भवति |



गङ्गायाः समीपम् = उपगङ्गम् इति नपुंसकलिङ्ग-अव्ययपदस्य रूपाणि पश्यामः |

विभक्तिः एकवचनं द्विवचनं बहुवचनम्
प्रथमा उपगङ्गम् उपगङ्गम् उपगङ्गम्
द्वितीया उपगङ्गम् उपगङ्गम् उपगङ्गम्
तृतीया उपगङ्गम्/उपगङ्गगेन उपगङ्गम्/ उपगङ्गाभ्याम् उपगङ्गम्/ उपगङ्गैः
चतुर्थी उपगङ्गम् उपगङ्गम् उपगङ्गम्
पञ्चमी उपगङ्गात् उपगङ्गाभ्याम् उपगङ्गेभ्यः
षष्ठी उपगङ्गम् उपगङ्गम् उपगङ्गम्
सप्तमी उपगङ्गम्/उपगङ्गे उपगङ्गम्/ उपगङ्गयोः उपगङ्गम्/ उपगङ्गेषु
सम्बोधने उपगङ्गम् उपगङ्गम् उपगङ्गम्
नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) ; तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४)
नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३)

अदन्तात् अव्ययीभावात्  सुप् प्रत्ययस्य लुक् न भवति, अपि तु पञ्चमीविभक्तिं विहाय अन्यासु विभक्तिषु सुप्प्रत्ययस्य स्थाने अमादेशः विधीयते | अस्मिन् सूत्रे निषेधः इति भागः अपि अस्ति येन सुपः लुक् निषिध्यते, विधिः इति भागः अपि अस्ति येन अमादेशः विधीयते, परन्तु पञ्चमीं विहाय | न अव्यययपदम्, अव्ययीभावात् पञ्चम्यन्तम्, अतः पञ्चम्यन्तम्, अम् प्रथमान्तं, तु अव्ययपदम्, अपञ्चम्याः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | अव्ययादाप्सुपः (२.४.८२) इत्यस्मात् सूत्रात् सुपः इत्यस्य अनुवृत्तिः|ण्यक्षत्रियार्षञितो यूनि लुगणिञोः ( २.४.५८) इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अतः अव्ययीभावात् तु न सुपः लुक्, अपञ्चम्याः अम् |


तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४)

अदन्तात् अव्ययीभावात् तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अत्र बहुलम् इति शब्दस्य प्रयोगेण कुत्रचित् विकल्पेन अम्-आदेशः भवति, कुत्रचित् अम् आदेशः नित्यः भवति | कुत्र विकल्पेन, कुत्र नित्यः इति निर्णयः प्रयोगं दृष्ट्वा करणीयः | सामान्यतया विकल्पेन इति स्वीकर्तुं शक्यते | यदि विकल्पार्थः इष्टः तर्हि विकल्पः अथवा वा इति शब्दस्य प्रयोगः भवति परन्तु अत्र बहुलम् इत्यनेन विशिष्टार्थः बुध्यते|तृतीया च सप्तमी च तयोः इतरेतरयोगद्वन्द्वः तृतीयासप्तम्यौ, तयोः | तृतीयासप्तम्योः षष्ठ्यन्तं, बहुलं प्रथमान्तं, द्विपदमिदं सूत्रम् | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इत्यस्मात् सूत्रात् अव्ययीभावात्, अतः, अम् इत्येषाम् अनुवृत्तिः भवति | अनुवृत्ति-सहितसूत्रम्‌— तृतीयासप्तम्योः अतः अव्ययीभावाद् अम् बहुलम् |


उपरि गम्यताम्


३) समीपार्थे तृतीयम् उदाहरणम्

शरदः समीपम् = उपशरदम् | शरद् इत्युक्ते ऋतुः | शरद् इति शब्दः दकारान्तः शब्दः |

३) समीपार्थे तृतीयम् उदाहरणम्
अलौकिकविग्रहवाक्यम्


शरद् + ङस् + उप समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | अव्ययीभावः (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)  इति सूत्रेण उप इति अव्ययं समर्थेन शरदः इति सुबन्तेन सह समस्यते |


शरद् + ङस् + उप समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |


शरद् + ङस् + उप इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अतः शरद् + ङस् + उप इत्यस्मिन्‌ ङस् इत्यस्य लुक्‌ → शरद् + उप इति |


शरद् + उप सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'उप' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण|अतः उप इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |


शरद् + उप अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र उप इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |


उपशरद् अव्ययीभावे शरत्प्रभृतिभ्यः (५.४.१०७) इत्यनेन शरदादिगणे विद्यमानेभ्यः शब्देभ्यः अव्ययीभावसमासे "टच्" इति समासान्तः तद्धितसंज्ञकप्रत्ययः भवति | शरद् इति शब्दः शरादिगणे अस्ति अपि च उपशरद् इति अव्ययीभावसमाससंज्ञकः, अतः टच् इति समासान्तः प्रत्ययः विधीयते|उपशरद् + टच् टच् इति प्रत्यये टकार-चकारयोः इत्संज्ञा भवति, अकारः अवशिष्यते | टच् प्रत्ययस्य योजनानन्तरं हलन्तशब्दाः अपि अजन्ताः भवन्ति | समासान्तप्रत्ययाः समासस्य अवयवः भवन्ति | इदानीम् उपशरद्+अ इत्यस्य प्रातिपदिकसंज्ञा अस्ति |


उपशरद् + अ उपशरद अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति इत्यतः उपशरद इत्यस्य अव्ययसंज्ञा अस्ति |


उपशरद इदानीं लिङ्गस्य निर्णयः क्रियते | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः उपशरद इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |


उपशरद + सु उपशरद इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ (४.१.२) इति सूत्रेण | अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी विभक्तिं विहाय | पञ्चमी विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्बन्तप्रक्रियानन्तरं रूपं भवति उपशरदात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |


उपशरद + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु उपशरदम् इति रूपं सिद्धं भवति | अधुना तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीयाविभक्तौ अपि च सप्तमीविभक्तौ रूपद्वयं सम्भवति-


तृतीयाविभक्तौ= -उपशरदम् / उपशरदेन,

सप्तमीविभक्तौ =उपशरदम् / उपशरदे |

अन्यासु विभक्तिषु पञ्चमीविभक्तिं विहाय उपशरदम् इति रूपं सिद्धं भवति | पञ्चमीविभक्तौ उपशरदात् इति रूपं भवति |


अव्ययीभावे शरत्प्रभृतिभ्यः (५.४.१०७) ; नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) ; तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४)
अव्ययीभावे शरत्प्रभृतिभ्यः (५.४.१०७)

शरदादिगणे विद्यमानेभ्यः शब्देभ्यः अव्ययीभावसमासे "टच्" इति समासान्तः तद्धितसंज्ञकप्रत्ययः भवति |  शरत् प्रभृतिर्येषां ते शरत्प्रभृतयः | अव्ययीभावे सप्तम्यन्तं, शरत्प्रभृतिभ्यः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्|राजाहस्सखिभ्यष्टच्‌ ( ५.४.९१) इत्यस्मात् सूत्रात्  टच् इत्यस्य अनुवृत्तिः भवति|तद्धिताः ( ४.१.७६), समासान्ताः ( ५.४.६८), प्रत्ययः ( ३.१.१), परश्च ( ३.१.२), ङ्याप्प्रातिपदिकात् ( ४.१.१) इत्येतेषां अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अव्ययीभावे शरत्प्रभृतिभ्यः ङ्याप्प्रातिपदिकात्  परश्च तद्धितः समासान्तः टच् प्रत्ययः |


टच् इति प्रत्यये टकार-चकारयोः इत्संज्ञा भवति | टच् इत्यस्मिन् केवलं अकारः अवशिष्यते इति कारणेन, टच् इति प्रत्ययस्य योजनान्तरं सर्वे हलन्तशब्दाः अपि अजन्ताः भवन्ति |


शरदादिगणः इति एकः गणः अस्ति | अस्मिन् गणे एते शब्दाः अन्तर्गता: — शरद्, विपाश्, अनस्, मनस्, उपानह्, दिव्, हिमवत्, अनडुह्, दिश्, दृश्, विश्, चेतस्, सदृश्, चतुर्, त्यद्, तद्, यद्, कियत्, जरायाः जरस् च (गणसूत्रम्), प्रतिपरसमनुभ्योऽक्ष्णः (गणसूत्रम्), पथिनश्च (गणसूत्रम्) |


अस्मिन् सूत्रे एव जरायाः जरस् च इति गणसूत्रम् अस्ति | अनेन गणसूत्रेण अव्ययीभावसमासे विहितस्य "जरा" शब्दस्य "जरस्" आदेशः भवति तथा च तस्मात् "टच्" इति समासान्तप्रत्ययः विधीयते |


अस्मिन् सूत्रे एव  प्रतिपरसमनुभ्योऽक्ष्णः इति गणसूत्रम् अस्ति | अनेन गणसूत्रेण अव्ययीभावसमासे प्रति-पर-सम्-अनु इत्येतेभ्यः शब्देभ्यः परः यदि अक्षि शब्दः वर्तते, तर्हि तस्मात् शब्दात् टच्" इति समासान्तप्रत्ययः विधीयते |


पथिनश्च इति गणसूत्रेण अव्ययीभावसमासे "पथिन्" शब्दस्य विषये अपि "प्रति", "पर", "सम्", "अनु" एतेषां योगे "टच्" इति समासान्तप्रत्ययः भवति |पथिनश्च इति गणसूत्रेण अव्ययीभावसमासे "पथिन्" शब्दस्य विषये अपि "प्रति", "पर", "सम्", "अनु" एतेषां योगे "टच्" इति समासान्तप्रत्ययः भवति |

नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३)

अदन्तात् अव्ययीभावात्  सुप् प्रत्ययस्य लुक् न भवति, अपि तु पञ्चमीविभक्तिं विहाय अन्यासु विभक्तिषु सुप्प्रत्ययस्य स्थाने अमादेशः विधीयते | अस्मिन् सूत्रे निषेधः इति भागः अपि अस्ति येन सुपः लुक् निषिध्यते, विधिः इति भागः अपि अस्ति येन अमादेशः विधीयते, परन्तु पञ्चमीं विहाय | न अव्यययपदम्, अव्ययीभावात् पञ्चम्यन्तम्, अतः पञ्चम्यन्तम्, अम् प्रथमान्तं, तु अव्ययपदम्, अपञ्चम्याः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | अव्ययादाप्सुपः (२.४.८२) इत्यस्मात् सूत्रात् सुपः इत्यस्य अनुवृत्तिः| ण्यक्षत्रियार्षञितो यूनि लुगणिञोः ( २.४.५८) इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अतः अव्ययीभावात् तु न सुपः लुक्, अपञ्चम्याः अम् |


तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४)

अदन्तात् अव्ययीभावात् तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अत्र बहुलम् इति शब्दस्य प्रयोगेण कुत्रचित् विकल्पेन अम्-आदेशः भवति, कुत्रचित् अम् आदेशः नित्यः भवति|कुत्र विकल्पेन, कुत्र नित्यः इति निर्णयः प्रयोगं दृष्ट्वा करणीयः | सामान्यतया विकल्पेन इति स्वीकर्तुं शक्यते | यदि विकल्पार्थः इष्टः तर्हि विकल्पः अथवा वा इति शब्दस्य प्रयोगः भवति परन्तु अत्र बहुलम् इत्यनेन विशिष्टार्थः बुध्यते|तृतीया च सप्तमी च तयोः इतरेतरयोगद्वन्द्वः तृतीयासप्तम्यौ, तयोः|तृतीयासप्तम्योः षष्ठ्यन्तं, बहुलं प्रथमान्तं, द्विपदमिदं सूत्रम् | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इत्यस्मात् सूत्रात् अव्ययीभावात्, अतः, अम् इत्येषाम् अनुवृत्तिः भवति | अनुवृत्ति-सहितसूत्रम्‌— तृतीयासप्तम्योः अतः अव्ययीभावाद् अम् बहुलम् |

जरायाः समीपम् = उपजरसम् | जरायाः जरस् च इति गणसूत्रम् अस्ति | जरा शब्दः शरदादिगणे पठितः, अतः अव्ययीभावे शरत्प्रभृतिभ्यः (५.४.१०७) इति सूत्रेण टच् इति प्रत्ययः भवति अपि च जरायाः जरस् च इति गणसूत्रेण जरा स्थाने जरस् इति आदेशः अपि भवति |


जरा + ङस् + उप समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | अव्ययीभावः (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति |  अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)   इति सूत्रेण उप इति अव्ययं समर्थेन शरदः इति सुबन्तेन सह समस्यते |


जरा + ङस् + उप समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |


जरा + ङस् + उप इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | जरा + ङस् + उप इत्यस्मिन्‌ ङस् इत्यस्य लुक्‌ → जरा + उप इति |


जरा + उप सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'उप' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण | अतः उप इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |


जरा + उप अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र उप इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |


उपजरा अत्र अव्ययीभावे शरत्प्रभृतिभ्यः (५.४.१०७) इत्यनेन शरदादिगणे विद्यमानेभ्यः शब्देभ्यः अव्ययीभावसमासे "टच्" इति समासान्तः तद्धितसंज्ञकप्रत्ययः भवति | जरा इति शब्दः शरादिगणे अस्ति अपि च उपजरा इति अव्ययीभावसमाससंज्ञकः च अस्ति, अतः टच् इति समासान्तः प्रत्ययः विधीयते | जरायाः जरस् इति गणसूत्रेण जरा स्थाने जरस् इति आदेशः भवति |


उपजरस् + टच् टच् इति प्रत्यये टकार-चकारयोः इत्संज्ञा भवति, अकारः अवशिष्यते|टच् प्रत्ययस्य योजनानन्तरं हलन्तशब्दाः अपि अजन्ताः भवन्ति | समासान्तप्रत्ययाः समासस्य अवयवः भवति | इदानीम् उपजरस्+अ इत्यस्य प्रातिपदिकसंज्ञा अस्ति |


उपजरस् + अ उपजरस अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति इत्यतः उपजरस् इत्यस्य अव्ययसंज्ञा अस्ति |


उपजरस इदानीं लिङ्गस्य निर्णयः क्रियते | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम्|अतः उपजरस इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |


उपजरस + सु उपजरस इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ (४.१.२) इति सूत्रेण | अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी विभक्तिं विहाय | पञ्चमी विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्बन्तप्रक्रियानन्तरं रूपं भवति उपजरसात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |


उपजरस + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु उपजरसम् इति रूपं सिद्धं भवति | अधुना तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीयाविभक्तौ अपि च सप्तमीविभक्तौ रूपद्वयं सम्भवति-

तृतीयाविभक्तौ= -उपजरसम् / उपजरसेन,

सप्तमीविभक्तौ =उपजरसम् / उपजरसे |

अन्यासु विभक्तिषु पञ्चमीविभक्तिं विहाय उपजरसम् इति रूपं सिद्धं भवति | पञ्चमीविभक्तौ उपजरसात् इति रूपं भवति |


उपरि गम्यताम्




एतेषां प्रक्रिया वक्तव्या

१) विपाशः (नदी, बन्धनम्, पाशात् विमुक्तः)  समीपम्;  २) मनसः समीपम्; ३) हिमवतः समीपम्;  ४) अनडुहि (वृषभः) इति; ५) दिशि इति |

१) विपाशः समीपम् = उपविपाशम्

२) मनसः समीपम् = उपमनसम्

३) हिमवतः समीपम् = उपहिमवतम्

४) अनुडुहि इति = अध्यनडुहम्

५) दिशि इति = अधिदिशम् |




प्रतिपरसमनुभ्योऽक्ष्णः

इति गणसूत्रेण अव्ययीभावसमासे प्रति-पर-सम्-अनु इत्येतेभ्यः शब्देभ्यः परः यदि अक्षि शब्दः अस्ति तर्हि तस्मात् शब्दात् टच्" इति समासान्तप्रत्ययः विधीयते |

पथिनश्च

इति गणसूत्रेण अव्ययीभावसमासे- "पथिन्" शब्दस्य विषये अपि "प्रति", "पर", "सम्", "अनु" एतेषां योगे "टच्" इति समासान्तप्रत्ययः भवति |

अव्ययीभावे शरत्प्रभृतिभ्यः (५.४.१०७)

इति सूत्रस्य अन्तर्गते  प्रतिपरसमनुभ्योऽक्ष्णः इति गणसूत्रं वर्तते इति उक्तम् | गणसूत्रार्थः = प्रति, पर, सम् तथा अनु, एतेषु कश्चन शब्दः पूर्वपदे विद्यते चेत्  अपि च उत्तरपदे अक्षि इति शब्दः चेत्, तदन्तात् अव्ययीभावसमासात् टच् इति समासान्तप्रत्ययः विधीयते | अनेन प्रत्यक्षम्, परोक्षम्, समक्षम्, अन्वक्षम् इत्यादीनि समस्तपदानि सिद्ध्यन्ति |


अक्षि इति नपुंसकलिङ्गशब्दस्य रूपाणि

विभक्तिः एकवचनं द्विवचनं बहुवचनम्
प्रथमा अक्षि अक्षिणी अक्षीणि
द्वितीया अक्षि अक्षिणी अक्षीणि
तृतीया अक्ष्णा अक्षिभ्याम् अक्षिभिः
चतुर्थी अक्ष्णे अक्षिभ्याम् अक्षिभ्यः
पञ्चमी अक्ष्णः अक्षिभ्याम् अक्षिभ्यः
षष्ठी अक्ष्णः अक्ष्णोः अक्ष्णाम्
सप्तमी अक्षणि, अक्ष्णि अक्ष्णोः अक्षिषु
सम्बोधने हे अक्षे, अक्षि अक्षिणी अक्षीणी


अक्षिभ्यां परम् = परोक्षम् (beyond the range of sight /perception) | धेयं यत् यद्यपि पर इति अव्ययं नास्ति, परोक्षम् इति अव्ययीभावसमासं कर्तुं समासविधायकं सूत्रम् अपि नास्ति तथापि समासान्तविधानसामर्थ्यादव्ययीभाव: सिद्ध्यति|परोक्ष इत्यस्मात् टच् इति समासान्तप्रत्ययः विधीयते  प्रतिपरसमनुभ्योऽक्ष्णः इति गणसूत्रेण अतः अत्र अव्ययीभावसमासः सम्भवति | वयं जानीमः समस्तपदं परोक्षम् इत्यस्ति यतोहि पाणिनिना स्वयं स्वस्य सूत्रे परोक्षे लिट् ( ३.२.११५) इत्यत्र परोक्षम् इति पदं प्रयुक्तम् | परोक्षम् इति रूपसाधनार्थं पर इति पदस्य पूर्वनिपातः क्रियते अपि च तस्य अन्तिमस्य अकारस्य स्थाने ओकारः निपात्यते  प्रतिपरसमनुभ्योऽक्ष्णः इति गणसूत्रेण |


अलौकिकविग्रहवाक्यं अक्षि + भ्याम् + पर +सु |परशब्दस्य पूर्वनिपातनं क्रियते  प्रतिपरसमनुभ्योऽक्ष्णः इति गणसूत्रेण  यतोहि पर इति शब्दः अव्ययं नास्ति | अतः पर + अक्षि इति भवति | परोक्षे लिट् (३.२.११५) इति सूत्रे परोक्षे इति उक्तत्वात् पर इति शब्दस्य अन्ते यः अकारः अस्ति तस्य स्थाने ओकारः निपात्यते, अपि च ओ+अ इत्यत्र पूर्वरूपः अपि निपात्यते | निपातनं नाम साक्षात् रूपमुच्यते प्रक्रियां विना |यथा अत्र पर इत्यस्य अन्ते यः अकारः अस्ति तस्य स्थाने ओकारः निपात्यते, अपि च पूर्वरूपादेशः | पर् + ओ + अक्षि पूर्वरूपादेशः अपि निपात्यते अतः परोक्षि इति रूपं सिद्ध्यति |

अधुना प्रतिपरसम्नुभ्योऽक्ष्णः इति गणसूत्रेण  टच् इति प्रत्ययः विधीयते अतः परोक्षि + टच्  → परोक्षि + अ इति इत्संज्ञकवर्णानां लोपानन्तरम् | परोक्षि + अ → यस्येति च (६.४.१४८) इति भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | परोक्षि इत्यस्य इकारस्य लोपानन्तरं → परोक्ष् + अ  →  परोक्ष इति प्रातिपदिकं निष्पन्नं भवति | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी विभक्तिं विहाय|पञ्चमी विभक्तौ अम् आदेशः न भवति, तत्र  यथासामान्यं सुबन्तप्रक्रियानन्तरं रूपं भवति परोक्षात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |


परोक्ष + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु परोक्षम् इति रूपं सिद्धं भवति | पञ्चमीविभक्तौ परोक्षात् इति रूपं सिद्धं भवति | अधुना तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीयाविभक्तौ अपि च सप्तमीविभक्तौ रूपद्वयं सम्भवति- परोक्षं / परोक्षेण, परोक्षं / परोक्षे |


यद्यपि परोक्षम् इति अव्ययीभावसमासः नपुंसकलिङ्गे अस्ति तथापि परोक्षम् अस्य अस्ति इत्यर्थे परोक्ष इति शब्दात् मत्वर्थीयः अच् प्रत्ययः विधीयते अर्शादिभ्योऽच् ( ५.२.१२७) इति सूत्रेण|तत्पश्चात् तद्धितान्तस्य परोक्ष इति शब्दस्य रूपाणि त्रिषु लिङ्गेषु सिद्ध्यन्ति | अतः परोक्षः, परोक्षा, परोक्षम् इत्यादीनि रूपाणि प्राप्यन्ते |


एवमेव —

अक्षिणी प्रति = प्रत्यक्षम्|प्रति इति शब्दस्य योगे द्वितीयाविभक्तिः एव भवति | अतः अक्षिणी इति द्वितीयन्तं पदं अलौकिकविग्रहे दृश्यते | अक्षि इति प्रातिपदिकं नपुंसकलिङ्गे अस्ति | अत्र लक्षणेनाभिप्रती आभिमुख्ये ( २.१.१४) इति सूत्रेण समासः विधीयते | सूत्रस्य विवरणं, प्रक्रिया च अग्रे वक्ष्यते |

अलौकिकविग्रहः अक्षि + औट् + प्रति | प्रक्रिया यथापूर्वम्|प्रत्यक्षि + टच् |


अक्ष्णोः योग्यं ( Visibly- ‘close to the eyes’ or ‘fit/appropriate for the eyes’) = समक्षम् ( नेत्रयोः योग्यः) | गणसूत्रेण टच् प्रत्ययः विधीयते |

अलौकिकविग्रहः अक्षि + ओस् + सम् | धेयं यत् यद्यपि समक्षम् इति अव्ययीभावसमासं कर्तुं समासविधायकं सूत्रम् नास्ति तथापि समासान्तविधानसामर्थ्यादव्ययीभाव: सिद्ध्यति | प्रतिपरसमनुभ्योऽक्ष्णः इति गणसूत्रेण टच् विधीयते, प्रक्रिया यथापूर्वम् |


अक्ष्णोः पश्चात् ( immediately after) = अन्वक्षम्|अत्र तु समासः विधीयते अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) इति सूत्रेण यतो पश्चादर्थे अनु इति अव्ययं प्रयुङ्क्ते |

अलौकिकविग्रहः अक्षि + ओस् + अनु | प्रतिपरसमनुभ्योऽक्ष्णः इति गणसूत्रेण टच् विधीयते, प्रक्रिया यथापूर्वम् |


एवमेव —

१) पन्थानं पन्थानं प्रति = प्रतिपथम् ( along the road) | अलौकिकविग्रहः = पथिन् + अम् + प्रति | पथिन् इत्युक्ते मार्गः इत्यर्थः | प्रतिपथिन् इति प्रातिपदिकं प्राप्यते | पथिनश्च इति गणसूत्रेण अव्ययीभावसमासे टच् इति समासान्तप्रत्ययः विधीयते | अतः प्रतिपथिन् + टच् इति भवति → प्रतिपथिन् + अ | इदानीं नस्तद्धिते (६.४.१४४) इति सूत्रेण तद्धितप्रत्यये परे नकारान्तस्य भसंज्ञकस्य अङ्गस्य टिसंज्ञकस्य लोपः भवति → नस्तद्धिते (६.४.१४४) इति सूत्रेण इन् इति टि-भागस्य लोपानन्तरम् प्रतिपथ् + अ प्रतिपथ इति भवति | अधुना अमादेशं कृत्वा प्रतिपथम् इति समासः सिद्ध्यति | पञ्चमीविभक्तौ प्रतिपथात् इति रूपम् | तृतीयासप्तम्योः विकल्पेन रूपद्वयं सिद्ध्यति |

२)  पथः परम् = परपथम् | अलौकिकविग्रहः = पथिन् + ङसि + पर + सु | प्रक्रिया यथा पूर्वम् |

३)  पथः योग्यम् = सम्पथम् |अलौकिकविग्रहः = पथिन् + ङस् + सम् | प्रक्रिया यथा पूर्वम् | अत्र वा पदान्तस्य ( ८.४.५९) इत्यनने सम् इत्यस्य मकारस्य स्थाने परसर्वणादेशः भवति विकल्पेन अतः रूपद्वय्ं सिद्ध्यति - सम्पथम्/ संपथम् | पञ्चमीविभक्तौ सम्पथात्/ संपथात् |

४)  पथः पश्चात् ( following the road) = अनुपथम् |अलौकिकविग्रहः = पथिन् + ङस् + अनु | प्रक्रिया यथा पूर्वम् |


पथिन् इति पुंलिङ्गशब्दस्य रूपाणि

विभक्तिः एकवचनं द्विवचनं बहुवचनम्
प्रथमा पन्थाः पन्थानौ पन्थानः
द्वितीया पन्थानम् पन्थानौ पथः
तृतीया पथा पथिभ्याम् पथिभिः
चतुर्थी पथे पथिभ्याम् पथिभ्यः
पञ्चमी पथः पथिभ्याम् पथिभ्यः
षष्ठी पथः पथोः पथाम्
सप्तमी पथि पथोः पथिषु
सम्बोधने हे पन्थाः हे पन्थानौ हे पन्थानः
रषाभ्यां नो णः समानपदे (८.४.१) ; अट्कुप्वाङ्‌नुम्व्यवायेऽपि (८.४.२)
रषाभ्यां नो णः समानपदे (८.४.१)

रेफषकाराभ्यामुत्तरस्य नकारस्य णकारादेशो भवति, समानपदस्थौ चेदेव निमित्तनिमित्तिनौ भवतः |

अट्कुप्वाङ्‌नुम्व्यवायेऽपि (८.४.२)

अट्‌, कवर्गः, पवर्गः, आङ्‌, नुम्‌ इत्येतैः यथासम्भवं मिलितैः व्यवधानेऽपि नस्य णः स्यात्‌ समानपदे | रषाभ्यां नो णः समानपदे इति सूत्रस्य पूर्णतया अनुवृत्तिः |

  • कुत्र निर्दिष्टं यत्‌ चु, टु, तु इत्येतेषु कश्चन मध्ये अस्ति चेत् रषाभ्यां नो णः समानपदे इत्यस्य प्रसक्तिर्नास्ति ?‌ रषाभ्यां नो णः समानपदे इत्यस्य प्रसङ्गः अव्यवहितस्थित्याम्‌ |
  • आङ्‌ किमर्थम्‌ ? आ = आ-रूपः उपसर्गः | नाम अन्ये उपसर्गाः मध्ये चेत्‌ णत्वं न भवति | पर्याणद्ध (adj)‌ = परि + आ + नद्धम्‌ | covered | नद्ध = joined, tied, bound |


उपरि गम्यताम्


४) समीपार्थे चतुर्थम् उदाहरणम्

४) समीपार्थे चतुर्थम् उदाहरणम्
टच् इति प्रत्ययः विकल्पेन विधीयते नपुंसकादन्यतरस्याम् (५.४.१०९) इति सूत्रेण |
चर्मणः समीपम् = उपचर्मम् / उपचर्म | चर्मन् इति नपुंसकलिङ्गशब्दः |


अलौकिकविग्रहवाक्यम्

चर्मन् + ङस् + उप | चर्मन् इति अन्नन्तः शब्दः अस्ति, अतः अत्र टच् इति प्रत्ययः विकल्पेन विधीयते नपुंसकादन्यतरस्याम् (५.४.१०९) इति सूत्रेण |


सामान्यतया उत्तरपदं अन्नन्तम् अस्ति चेत् टच् इति समासान्तप्रत्ययः नित्यं विधीयते अनश्च (५.४.१०८) इति सूत्रेण | अनश्च (५.४.१०८) इति सूत्रं वदति  यस्य अव्ययीभावसमासस्य अन्ते "अन्" इति विद्यते तस्मात् टच् इति समासान्तप्रत्ययः भवति | राजन्, आत्मन्, सोमन्, दामन् इत्येतानि अन्नन्तानि च सन्ति | अनश्च (५.४.१०८) इति सूत्रम् उत्सर्गसूत्रम् अस्ति, तस्य प्रसक्तिः भवति यत्र यत्र उत्तरपदम् अन्नन्तं विद्यते | परन्तु अन्नन्तं प्रातिपदिकं नपुंसकलिङ्गे अस्ति तर्हि तत्र टच् इति समासान्तप्रत्ययः विकल्पेन विधीयते नपुंसकादन्यतरस्याम् (५.४.१०९) इत्यनेन |


नपुंसकादन्यतरस्याम् (५.४.१०९) इति सूत्रम् अनश्च (५.४.१०८) इति सूत्रस्य अपवादः अस्ति | यत्र यत्र नपुंसकादन्यतरस्याम् (५.४.१०९) इत्यस्य प्रसक्तिः भवति तत्र तत्र अनश्च (५.४.१०८) इत्यस्यापि प्रसक्तिः अस्ति | यदि सर्वत्र अनश्च (५.४.१०८) इति सूत्रमेव कार्यं करोति तर्हि नपुंसकादन्यतरस्याम् (५.४.१०९) इति सूत्रस्य अवसरः कदापि न लभ्यते, सूत्रं व्यर्थं भविष्यति|अतः अन्नन्तम् उत्तरपदं नपुंसकलिङ्गे अस्ति चेत्, अनश्च (५.४.१०८) इति सूत्रं प्रबाध्य नपुंसकादन्यतरस्याम् (५.४.१०९) इति सूत्रस्य अवसरः सिद्ध्यति अपवादबलेन |


यस्मिन् पक्षे टच् इति समासान्तप्रत्ययः विधीयते नपुंसकादन्यतरस्याम् (५.४.१०९) इति सूत्रेण तत्र प्रक्रिया एतादृशी भवति –

चर्मन् + उप → समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | अव्ययीभावः (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति|  अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)  इति सूत्रेण उप इति अव्ययं समर्थेन चर्मणः इति सुबन्तेन सह समस्यते |


चर्मन् + ङस् + उप समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |

चर्मन् + ङस् + उप → इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अतः चर्मन् + ङस् + उप  इत्यस्मिन्‌ ङस् इत्यस्य लुक्‌ → चर्मन् + उप इति |

चर्मन् + उप सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'उप' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण | अतः उप इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |


चर्मन् + उप अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र उप इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |


उपचर्मन् + टच् अत्र नपुंसकादन्यतरस्याम् (५.४.१०९) इत्यनेन टच् इति समासान्त प्रत्ययः विधीयते विकल्पेन | अव्ययीभावसमासस्य अन्ते अन्नन्तपदं नपुंसकलिङ्गे विद्यते चेत्, तस्मात् "टच्" इति समासान्तप्रत्ययः विकल्पेन भवति|टच् इति प्रत्यये टकार-चकारयोः इत्संज्ञा भवति, अकारः अवशिष्यते | टच् -प्रत्ययस्य विधानन्तरं सर्वे हलन्तशब्दाः अपि अजन्ताः भवन्ति | समासान्तप्रत्ययः समासस्य अवयवः अस्ति |


उपचर्मन् + अ → यचि भम्‌ (१.४.१८) इत्यनेन उपचर्मन् इत्यस्य भसंज्ञा भवति अजादि-प्रत्यये परे | नस्तद्धिते (६.४.१४४) इति सूत्रेण तद्धितप्रत्यये परे नकारान्तस्य भसंज्ञकस्य अङ्गस्य टिसंज्ञकस्य लोपः भवति | अन् इति टि भागस्य लोपः भवति|


उपचर्म् + अ उपचर्म अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | उपचर्म इत्यस्य अव्ययसंज्ञा भवति यतोहि समासान्तप्रत्ययः समासस्य अवयवः भवति |

उपचर्म इदानीं लिङ्गस्य निर्णयः भवति | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासः नपुंसकलिङ्गे भवति |


उपचर्म + सु उपचर्म इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमीविभक्तिं विहाय | पञ्चमी विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति उपचर्मात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |


उपचर्म + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्|पञ्चमीविभक्तिं विहाय अपरासु विभक्तिषु उपचर्मम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभावात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति|अनेन तृतीयाविभक्तौ अपि च सप्तमीविभक्तौ रूपद्वयं सम्भवति- उपचर्मम् / उपचर्मेण, उपचर्मम् / उपचर्मे | उपचर्मेण इत्यत्र णत्वं भवति अट्कुप्वाङ्‌नुम्व्यवायेऽपि (८.४.२) इति सूत्रेण |

तृतीयाविभक्तौ= उपचर्मम् / उपचर्मेण |

सप्तमीविभक्तौ = उपचर्मम् / उपचर्मे |

अन्यासु विभक्तिषु पञ्चमीविभक्तिं विहाय उपचर्मम् इति रूपं सिद्धं भवति|पञ्चमीविभक्तौ उपचर्मात्, उपचर्माभ्याम्, उपचर्मेभ्यः इति रूपाणि भवन्ति |


नस्तद्धिते (६.४.१४४) ; यचि भम्‌ (१.४.१८) ; रषाभ्यां नो णः समानपदे (८.४.१) ; अट्कुप्वाङ्‌नुम्व्यवायेऽपि (८.४.२)
नस्तद्धिते (६.४.१४४)

तद्धितप्रत्यये परे नकारान्तस्य भसंज्ञकस्य अङ्गस्य टिसंज्ञकस्य लोपः भवति | नः षष्ठ्यन्तं, तद्धिते सप्तम्यन्तं, द्विपदमिदं सूत्रम् | टेः (६.४.१४३) इति सूत्रस्य सम्पूर्णतया अनुवृत्तिः | अल्लोपोऽनः (६.४.१३४) इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः | भस्य (६.४.१२९) इत्यस्य अधिकारः| अनुवृत्ति-सहितसूत्रम्‌— नः तद्धिते भस्य टेः लोपः |

यचि भम्‌ (१.४.१८)

सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तम्‌ ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परे अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति | य्‌ च, अच्‌ च यच्‌ समाहारद्वन्द्वः, तस्मिन्‌ यचि | यचि सप्तम्यन्तं, भम्‌ प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | स्वादिष्वसर्वनामस्थाने (१.४.१७) इत्यस्य पूर्णतया अनुवृतिः | अनुवृत्ति-सहितसूत्रम्‌— स्वादिषु असर्वनामस्थाने यचि भम्‌ |

रषाभ्यां नो णः समानपदे (८.४.१)

रेफषकाराभ्यामुत्तरस्य नकारस्य णकारादेशो भवति, समानपदस्थौ चेदेव निमित्तनिमित्तिनौ भवतः |

अट्कुप्वाङ्‌नुम्व्यवायेऽपि (८.४.२)

अट्‌, कवर्गः, पवर्गः, आङ्‌, नुम्‌ इत्येतैः यथासम्भवं मिलितैः व्यवधानेऽपि नस्य णः स्यात्‌ समानपदे | रषाभ्यां नो णः समानपदे इति सूत्रस्य पूर्णतया अनुवृत्तिः |


नपुंसकादन्यतरस्याम् (५.४.१०९) - इत्यनेन टच् न विधीयते -

यस्मिन् पक्षे नपुंसकादन्यतरस्याम् (५.४.१०९) इत्यनेन टच् इति समासान्तप्रत्ययः न विधीयते -


अलौकिकविग्रहवाक्यं चर्मन् + ङस् + उप


चर्मन् + उप →समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण|अव्ययीभावः (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति |  अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)   इति सूत्रेण उप इति अव्ययं समर्थेन चर्मणः इति सुबन्तेन सह समस्यते |

चर्मन् + ङस् + उप → समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |

चर्मन् +ङस् + उप → इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अतःचर्मन् + ङस् + उप  इत्यस्मिन्‌ ङस् इत्यस्य लुक्‌ → चर्मन् + उप


चर्मन् + उप सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'उप' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण|अतः उप इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |


चर्मन् + उप  → अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र उप इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |


उपचर्मन्→ अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | उपचर्म इत्यस्य अव्ययसंज्ञा भवति|


उपचर्मन् इदानीं लिङ्गस्य निर्णयः भवति | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् |


उपचर्मन् + सु उपचर्मन् इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति|अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण सु प्रत्ययस्य लोपः भवति | सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'उपचर्मन्' इत्यस्य अन्ते सुप्‌ नास्ति; तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन प्रत्ययस्य लोपानन्तरमपि प्रत्ययस्य लक्षणं तिष्ठति | पदसंज्ञा अस्त्येव |


उपचर्मन् → न लोपः प्रातिपदिकान्तस्य (८.२.७) इत्यनेन प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति | उपचर्म इति समस्तपदं सिद्धयते | उपचर्म इत्येव रूपं भवति सर्वासु विभक्तिषु |


अधुना प्रश्नः उदेति यत् उपचर्म इति अदन्तम् अस्ति अतः नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रस्य प्रसक्तिः स्यात् ?


अत्र वार्ता द्वयम् अस्ति  --

१) नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रस्य चिन्तनं कदा भवति?  

यदा अव्ययीभावसमासस्य अन्ते अदन्तम् अस्ति तदा नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति  सूत्रं कार्यं करोति येन सुब्लोपः निषिध्यते अपि तु अमादेशः विधीयते पञ्चमीं विहाय | अत्र परिस्थितिः तादृशी अस्ति वा?


उपचर्मन् + सु इत्यत्र तु अङ्गम् अदन्तमेव नास्ति इत्यतः नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रस्य चिन्तनमेव न कार्यम् इति कृत्वा अव्ययीभावसमासात् सुप् प्रत्ययस्य लुक् भवति अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण |


२) इदानीं सुप् प्रत्ययस्य लोपः जातः; तत्पश्चात् उपचर्मन् इति प्रातिपदिकान्तस्य पदस्य अन्ते विद्यमानस्य नकारस्य लोपः जातः न लोपः प्रातिपदिकान्तस्य (८.२.७) इत्यनेन |

अधुना उपचर्म इति अदन्तम् इत्यतः नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रस्य प्रसक्तिः स्यात् इति चिन्तनं दोषपूर्णम् |


किमर्थम् इति चेत् उपचर्मन + सु इत्यत्र नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रस्य प्रसक्तिः नास्ति इत्यतः सुब्लुक् निषेधः न जातः, अमादेशः न जातः | अतः एव अव्ययादाप्सुपः (२.४.८२) इति उत्सर्गसूत्रेण सुप्प्रत्ययस्य लोपः जायते | सुप्प्रत्ययस्य लोपानन्तरं, उपचर्मन् इति प्रातिपदिकस्य पदस्य च अन्ते विद्यमानस्य नकारस्य लोपः कृतः न लोपः प्रातिपदिकान्तस्य (८.२.७) इति सूत्रेण; उपचर्म इति अदन्तं पदं सिद्धम् | अधुना नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इत्यस्य प्रसक्तिः अस्ति वा?


अत्र नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रं कथं वा सुब्लुक् निषेधयितुं शक्नोति यतोहि सुब्लुक् तु जातः एव | सर्वदा स्मर्तव्यं यत् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रस्य प्रथमं कार्यं किम्?


१) सुप्प्रत्ययस्य लोपनिषेधः एव प्रथमं कार्यं यने अव्ययादाप्सुपः (२.४.८२) इति सूत्रं बाधितं भवति |


२) तदन्तरं द्वितीयं कार्यं अमादेशः सर्वासु विभक्तिषु पञ्चमीं विहाय | यदा अव्ययादाप्सुपः (२.४.८२) इति कार्यमेव जातं तत्पश्चात् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रस्य चिन्तनमेव न कार्यम् |


यद्यपि अव्ययादाप्सुपः (२.४.८२) इति  सूत्रेण सुब्लुक् जातः तथापि  प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन प्रत्ययस्य लोपानन्तरमपि प्रत्ययस्य लक्षणं तिष्ठति इत्यस्य आधारेण अधुना अपि सु इति प्रत्ययः अस्ति इति मत्वा  नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रस्य प्रस्क्तिः भवेत् इति चिन्तयामः चेत् --

एतादृशचिन्तनेऽपि नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रस्य कार्यं न भवति यतोहि पूर्वत्रासिद्धम्‌ (८.२.१) इत्यनेन अमादेशः बाधितः | पूर्वत्रासिद्धम्‌ (८.२.१) इत्यस्य द्विविधं कार्यम्‌ अस्माभिः अधीतं— शास्त्रासिद्धं, कार्यासिद्धञ्च | शास्त्रासिद्धं भवति यत्र सूत्रद्वयं युगपत्‌ प्रसक्तं; तत्र पूर्वसूत्रं प्रति त्रिपाद्यां स्थितं परसूत्रम्‌ असिद्धिम्‌ | अपि च त्रिपाद्यां स्थितस्य परसूत्रस्य कार्यं पूर्वमेव जातमिति चेत्‌, तत्र पूर्वसूत्रं प्रति तच्च कार्यम्‌ असिद्धम्‌ | अत्र पूर्वत्रासिद्धस्य द्विविधकार्ये कीदृशं कार्यम् अस्ति ? अत्र कार्यासिद्धम् अस्ति , किमर्थम् इति अग्रे उच्यते -


स्मर्तव्यं यत् न लोपः प्रातिपदिकान्तस्य (८.२.७) इति सूत्रं त्रिपाद्याम् अस्ति,  नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रं तु सपादसप्ताध्यायाम् अस्ति | अत्र नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अमादेशः भवति इति चिन्तयामः;  परन्तु पूर्वत्रासिद्धम्‌ (८.२.१) इत्यनेन उपचर्मन् इत्यत्र  न लोपः प्रातिपदिकान्तस्य (८.२.७) इति सूत्रेण यत् कार्यं कारितं तत् असिद्धम् अस्ति नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रस्य दृष्ट्या | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रं तु इदानीमपि उपचर्मन् इति पदमेव पश्यति इत्यतः तस्य कार्यमेव न सिद्ध्यति | अत्र तु त्रिपाद्यां स्थितस्य  न लोपः प्रातिपदिकान्तस्य (८.२.७) इति परसूत्रस्य कार्यं पूर्वमेव जातमिति चेत्‌, तत्र पूर्वसूत्रं नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) प्रति परत्रिपादिसूत्रस्य न लोपः प्रातिपदिकान्तस्य (८.२.७) इत्यस्य कार्यम्‌ असिद्धम्‌ | अतः अत्र कार्यासिद्धम् इति उच्यते |

पूर्वत्रासिद्धम्‌ (८.२.१) इत्यनेन कार्यासिद्धम् अस्ति इति कृत्वा नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३)  इत्यस्य कार्यं न प्रवर्तते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३)  इत्यस्य कार्यमेव न प्रवर्तते इत्यतः तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इत्यस्यापि कार्यं न प्रवर्तते | आहत्य उपचर्म इति एकमेव रूपं सर्वासु विभक्तिषु |


आहत्य रूपद्वयं भवति – उपचर्मम् / उपचर्म | उपचर्मम् इति रूपं सर्वासु विभक्तिषु पञ्चमीं विहाय|पञ्चमी विभक्तौ तु उपचर्मणात्|सप्तमीविभक्तौ, तृतीयाविभक्तौ विकल्पेन उपचर्मे, उपचर्मेण इत्यपि अन्यत् रूपं भवति |

नपुंसकादन्यतरस्याम् (५.४.१०९) , न लोपः प्रातिपदिकान्तस्य (८.२.७) , प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२), पूर्वत्रासिद्धम्‌ (८.२.१)
नपुंसकादन्यतरस्याम् (५.४.१०९)

यस्य अव्ययीभावसमासस्य अन्ते अन्नन्तः शब्दः नपुंसकलिङ्गे विद्यते, तस्मात् "टच्" इति समासान्तप्रत्ययः विकल्पेन भवति | नपुंसकात् पञ्चम्यन्तम्, अन्यतरस्यां सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अनश्च (५.४.१०८) इत्यस्मात् सूत्रात् अनः इत्यस्य अनुवृत्तिः | अव्ययीभावे शरत्प्रभृतिभ्यः (५.४.१०७) इत्यस्मात् सूत्रात् अव्ययीभावे इत्यस्य विभक्तिपरिणामं कृत्वा अव्ययीभावात् इत्यस्य अनुवृत्तिः भवति | राजाहस्सखिभ्यष्टच्‌ ( ५.४.९१) इत्यस्मात् सूत्रात्  टच् इत्यस्य अनुवृत्तिः भवति | तद्धिताः ( ४.१.७६), समासान्ताः ( ५.४.६८), प्रत्ययः ( ३.१.१), परश्च ( ३.१.२), ङ्याप्प्रातिपदिकात् ( ४.१.१) इत्येतेषां अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— नपुंसकाद् अनः अव्ययीभावात् ङ्याप्प्रातिपदिकात्  परश्च टच् तद्धितः समासान्तः प्रत्ययः अन्यतरस्याम् |

न लोपः प्रातिपदिकान्तस्य (८.२.७)

प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः | न लुप्तषष्ठीकं पदं, लोपः प्रथमान्तम, प्रातिपदिक लुप्तषष्ठीकं पदं, अन्तस्य षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— प्रातिपदिकस्य पदस्य अन्तस्य नः लोपः |

प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२)

प्रत्यये लुप्ते सति, प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्‌ | प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन्‌ प्रत्ययलोपे | प्रत्ययस्य लक्षणं निमित्तं यस्य तत्‌ प्रत्ययलक्षणम्‌, बहुव्रीहिः |सूत्रं स्वयं सम्पूर्णम्— प्रत्ययलोपे प्रत्ययलक्षणम्‌ |

पूर्वत्रासिद्धम्‌ (८.२.१)

अनेन सूत्रेण अष्टाध्याय्यी इति ग्रन्थः भागद्वये विभजितः | प्रथमाध्यायस्य आरम्भतः अष्टमाध्यायस्य प्रथमपादस्य अन्तपर्यन्तं प्रथमभागः; अष्टमाध्यायस्य द्वितीयः, तृतीयः, चतुर्थश्च पादाः मिलित्वा द्वितीयभागः | प्रथमभागस्य नाम सपादसप्ताध्यायी; द्वितीयभागस्य नाम त्रिपादी | अनेन सूत्रेण यानि सूत्राणि सपादसप्ताध्याय्यां सन्ति, तानि प्रति त्रिपाद्यां स्थितानि सूत्राणि असिद्धानि | अपि च त्रिपाद्यां यानि सूत्राणि पूर्वं सन्ति, तानि प्रति परं स्थितानि सूत्राणि असिद्धानि | सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम् | त्रयाणां पादानां समाहारः त्रिपादी (द्विगुसमासः) | सप्तानाम्‌ अध्यायानां समाहारः सप्ताधायी; पादेन सहिता, सपादसप्ताध्यायी | पूर्वस्मिन्‌ इति पूर्वत्र | न सिद्धम्‌, असिद्धम्‌ | पूर्वत्र अव्ययम्‌, असिद्धं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | इदं सूत्रम्‌ अधिकारसूत्रम्‌; अष्टाध्याय्याः अन्तपर्यन्तं प्रवर्तते |


पूर्वत्रासिद्धम्‌ इत्यस्य कार्यं द्विविधं— शास्त्रासिद्धं, कार्यासिद्धं च | द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत्‌, परत्रिपादिसूत्रं स्वयम्‌ असिद्धम्‌ इति कारणात्‌ शास्त्रासिद्धम्‌ इत्युच्यते | पूर्वमेव त्रिपादिसूत्रस्य कार्यं कारितं चेत्, तर्हि तत्पश्चात्‌ सपादसप्ताध्यायिसूत्रं वा पूर्वत्रिपादिसूत्रं वा आयाति चेत्‌, तयोः मनसि परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यते एव यतः तेन परत्रिपादिसूत्रेण यत्‌ किमपि क्रियते तत्‌ पूर्वत्रासिद्धम्‌ इत्यनेन असिद्धम्‌; इदं कार्यासिद्धम्‌ इत्युच्यते |


उपरि गम्यताम्


५) समीपार्थे पञ्चमम् उदाहरणम् -उत्तरपदं झयन्तं चेत् -

समिधः (fuel, holy stick) समीपम् = उपसमिधम् / उपसमित् /उपसमिद्


अलौकिकविग्रहवाक्यं समिध् + ङस् + उप


समिध् + ङस् + उप →समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | अव्ययीभावः (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६)  इति सूत्रेण उप इति अव्ययं समर्थेन समिधः इति सुबन्तेन सह समस्यते |


समिध् + ङस् + उप → समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |


समिध् + ङस्+ उप → इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अतः समिध् + ङस् + उप इत्यस्मिन्‌ ङस् इत्यस्य लुक्‌ → समिध् + उप इति |


समिध् + उप सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'उप' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण|अतः उप इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |


समिध् + उप अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति|अत्र समासविधायकसूत्रम् अस्ति अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र उप इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |


उपसमिध् + टच् → झयः (५.४.१११) इति सूत्रेण अव्ययीभावसमासस्य अन्तिमवर्णः झय्-प्रत्याहारस्य वर्णः अस्ति चेत् तस्मात् विकल्पेन "टच्" इति समासान्तप्रत्ययः भवति | उपसमिध् इति अव्ययीभावसमासस्य अन्ते धकारः झय् -प्रत्याहारस्थः वर्णः अतः विकल्पेन टच् इति समासान्तप्रत्ययः विधीयते | समासान्तप्रत्ययः समासस्य अवयवः अस्ति |


उपसमिध् + टच् टच् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरम् अकारः एव अवशिष्यते → उपसमिध् + अ उपसमिध |


उपसमिध → अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | उपसमिध इत्यस्य अव्ययसंज्ञा भवति | उपसमिध इदानीं लिङ्गस्य निर्णयः भवति | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् |

उपसमिध इदानीं लिङ्गस्य निर्णयः भवति | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् |

उपसमिध उपसमिध इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः

स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ (४.१.२) इति सूत्रेण |


उपसमिध + सु अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमीविभक्तिं विहाय | पञ्चमीविभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति उपसमिधात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |



उपसमिध + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु उपसमिधम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभावात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति|अनेन तृतीयाविभक्तौ अपि च सप्तमीविभक्तौ रूपद्वयं सम्भवति- उपसमिधम्/ उपसमिधेन, उपसमिधम्/उपसमिधे |

तृतीयाविभक्तौ= उपसमिधम्/ उपसमिधेन,

सप्तमीविभक्तौ =उपसमिधम्/उपसमिधे |


अन्यासु विभक्तिषु पञ्चमीविभक्तिं विहाय उपसमिधम् इति रूपं सिद्धं भवति | पञ्चमीविभक्तौ उपसमिधात्, उपसमिधाभ्याम्, उपसमिधेभ्यः इति रूपाणि भवन्ति |


यस्मिन् पक्षे झयः (५.४.१११) इति सूत्रेण विकल्पेन टच् इति प्रत्ययः न विधीयते, तस्मिन् पक्षे प्रक्रिया अधः प्रदर्शिता अस्ति –


उपसमिध् उपसमिध् इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना प्रातिपदिकात् सुप् प्रत्ययस्य उत्पत्तिः भवति स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ (४.१.२) इति सूत्रेण |


उपसमिध्+सु अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण अव्ययात् परस्य सुप् प्रत्ययस्य लोपः भवति | उपसमिध् इत्यस्मिन् झलां जशोऽन्ते (८.२.३९) इत्यनेन पदान्ते जश्त्वम्‌ → उपसमिद् → वाऽवसाने (८.४.५६) इत्यनेन विकल्पेन पदान्ते चर्त्वम्‌ → उपसमिद्/उपसमित् इति रूपद्वयं निष्पन्नं भवति |


आहत्य त्रीणि रूपाणि– उपसमिधम् / उपसमिद् / उपसमित् |आहत्य त्रीणि रूपाणि– उपसमिधम् / उपसमिद् / उपसमित् |


झयः (५.४.१११) ; झलां जशोऽन्ते (८.२.३९) ; वाऽवसाने (८.४.५६) ;विरामोऽवसानम्‌ (१.४.११०)
झयः (५.४.१११)

यस्य अव्ययीभावसमासस्य अन्तिमवर्णः झय्-प्रत्याहारस्य वर्णः अस्ति तस्मात् विकल्पेन "टच्" इति समासान्तप्रत्ययः भवति | झयः पञ्चम्यन्तमेकपदं सूत्रम् | येन विधिस्तदन्तस्य (१.१.७२) इति परिभाषासूत्रं प्रवर्तते | अव्ययीभावे शरत्प्रभृतिभ्यः (५.४.१०७) इत्यस्मात् सूत्रात् विभक्तिविपरिणामं कृत्वा अव्ययीभावात् अपि च राजाहः सखिभ्यष्टच् (५.४.९१) इत्यस्मात् सूत्रात् टच् इत्यस्य अनुवृत्तिः भवति | नपुंसकादन्यतरस्याम् ( ५.४.१०९) इत्यस्यमात् सूत्रात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः भवति | प्रत्ययः (३.१.१) इति सूत्रस्य अधिकारः | परश्च (३.१.२) इति सूत्रस्य अधिकारः | ङ्याप्प्रातिपदिकात्‌ ( ४.४.१) इति सूत्रस्य अधिकारः | तद्धिताः (४.१.७६) इति सूत्रस्य अधिकारः |  समासान्ताः (५.४.६८) इति सूत्रस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌—  झयः अव्ययीभावात् प्रातिपदिकात् प्रत्ययः परश्च टच् तद्धितः समासान्तः अन्यतरस्याम् |

झलां जशोऽन्ते (८.२.३९)

पदान्ते झलः स्थाने जशादेशो भवति | पदात्‌ परे कोऽपि वर्णः स्यात्‌ वा न वा, सूत्रस्य प्रसक्तिः अस्ति एव | पदात्‌ परे अच्‌ स्यात्‌ हल्‌ स्यात्‌ वा, सूत्रस्य प्रसक्तिः अस्ति एव | बाधकसूत्रम्‌ अस्ति चेत्‌ अन्या वार्ता | झल्‌ प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्‌, ष्‌, स्‌, ह्‌ | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश्‌ प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्‌, ब्‌, ग्‌, ड्‌, द्‌ इति | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति | तर्हि पदस्य अन्ते झल्‌-प्रत्याहारे कश्चन वर्णः अस्ति चेत्‌, स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति | अयं जश्त्वसन्धिः इत्युच्यते | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, अन्ते सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— पदस्य अन्ते झलां जशः |

वाऽवसाने (८.४.५६)

अवसाने झलः विकल्पेन चर्-आदेशो भवति | अनेन अवसानावस्थायां विकल्पेन जश्त्वं चर्त्वं वा | वा अव्ययपदम्‌, अवसाने सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | झलां जश्‌ झशि (८.४.५३) इत्यस्मात्‌ झलां इत्यस्य अनुवृत्तिः | अभ्यासे चर्च (८.४.५४) इत्यस्मात्‌ चर् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अवसाने झलां चरो वा |

वदनावसरे लेखनावसरे च अग्रे कोऽपि शब्दः एव नास्ति चेत्‌ 'अवसानम्‌' इत्युच्यते | वाक्यस्य अन्ते पूर्णविरामः भवति, अतः तत्र 'अवसान'-संज्ञा भवति | तदर्थं संज्ञासूत्रम्‌ अस्ति—

विरामोऽवसानम्‌ (१.४.११०)

वर्णानाम्‌ अभावः अवसानसंज्ञकः | विरामः प्रथमान्तम्‌, अवसानं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— विरामः अवसानम्‌ |

उपरि गम्यताम्




एवमेव - दृषदः ( stone) समीपम् = उपदृषदम् / उपदृषत् / उपदृषद् |


अलौकिकविग्रहः दृषद् + ङस् + उप |


स्रुचः (A sort of ladle or long spoon used to pour ghee upon the sacrificial fire) समीपम् = उपस्रुचम् / उपस्रुग् / उपस्रुक् |


अलौकिकविग्रहः → स्रुच्+ ङस् + उप | झयः (५.४.१११) इति सूत्रेण टच्-प्रत्ययः विकल्पेन विधीयते चेत् उपस्रुचम् इति रूपं निष्पन्नं भवति |

यस्मिन् पक्षे टच् प्रत्ययः न भवति - उपस्रुच् इति प्रातिपदिकं निष्पन्नं भवति |

उपस्रुच् इति प्रातिपदिकं निष्पन्नं भवति |

उपस्रुच् → उपस्रुच् इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति|अधुना सुप् प्रत्ययस्य उत्पत्तिः स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ (४.१.२) इति सूत्रेण |

उपस्रुच् + सु → अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् भवति | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रस्य प्रसक्तिः नास्ति यतोहि अङ्गम् अदन्तं नास्ति | उपस्रुच् इति पदं निष्पन्नं भवति |

उपस्रुच् → अधुना चोः कुः (८.२.३०) इत्यनेन चवर्गस्य स्थाने कवर्गादेशो भवति पदान्ते | चकारस्य स्थाने ककारः आदिष्टः भवति | उपस्रुक् इति |

उपस्रुक् → झलां जशोऽन्ते (८.२.३९) इत्यनेन पदान्ते जश्त्वम्‌ → उपस्रुग् → वाऽवसाने (८.४.५६) इत्यनेन विकल्पेन पदान्ते चर्त्वम्‌ → उपस्रुक् / उपस्रुग् इति रूपद्वयं निष्पन्नं भवति |

संहत्य त्रीणि रूपाणि भवन्ति - उपस्रुचम् / उपस्रुक् / उपस्रुग्


चोः कुः (८.२.३०)

चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— चोः कुः झलि पदस्य अन्ते च |




गिरेश्च सेनकस्य (५.४.११२) - विकल्पेन टचप्रत्यस्य

६) समीपार्थे षष्टम् उदाहरणम् - उत्तरपदं गिरि इति अस्ति चेत् गिरेश्च सेनकस्य (५.४.११२) इति सूत्रेण विकल्पेन टचप्रत्यस्य विधानम्
गिरेः समीपम् = उपगिरम्/ उपगिरि |


अलौकिकविग्रहवाक्यं गिरि + ङस् + उप


गिरि + ङस् + उप →समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण| अव्ययीभावः (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति |  अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) इति सूत्रेण उप इति अव्ययं समर्थेन गिरेः इति सुबन्तेन सह समस्यते |


गिरि + ङस् + उप → समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण|


गिरि + ङस् + उप → इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अतः गिरि + ङस् + उप इत्यस्मिन्‌ ङस् इत्यस्य लुक्‌ → गिरि + उप


गिरि + उप सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'उप' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण | अतः उप इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |


गिरि + उप अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६)|अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र उप इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |


उपगिरि → गिरेश्च सेनकस्य (५.४.११२) इति सूत्रेण गिरि इति शब्दान्तात् अव्ययीभावसमासात् "टच्" इति समासान्तप्रत्ययः विकल्पेन भवति | समासान्तप्रत्ययः समासस्य अवयवः अस्ति |


उपगिरि + टच् टच् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरम् अकारः एव अवशिष्यते → उपगिरि + अ |


उपगिरि + अ → यस्येति च (६.४.१४८) इति भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | उपगिरि इति अङ्गस्य भ-संज्ञा अस्ति अजादिप्रत्यये परे यचि भम् (१.४.१८) इति सूत्रेण|अतः उपगिरि इति भसंज्ञकस्य अङ्गस्य इ-वर्णस्य लोपः भवति तद्धितप्रत्यये परे → उपगिर् + अ→ उपगिर इति भवति |


उपगिर → अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | उपगिर इत्यस्य अव्ययसंज्ञा भवति |

उपगिर इदानीं लिङ्गस्य निर्णयः भवति | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गं | अतः उपगिर इत्यस्य लिङ्गं भवति नपुंसकलिङ्गम् |


उपगिर   उपगिर इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति|अधुना सुप् प्रत्ययस्य उत्पत्तिः स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ (४.१.२) इति सूत्रेण |


उपगिर + सु  अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमीविभक्तिं विहाय | पञ्चमीविभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति उपगिरात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |


उपगिर + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्|पञ्चमीविभक्तिं विहाय अपरासु विभक्तिषु उपगिरम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीयाविभक्तौ अपि च सप्तमीविभक्तौ रूपद्वयं सम्भवति- उपगिरम्/ उपगिरेण, उपगिरम् / उपगिरे |


तृतीयाविभक्तौ= उपगिरम्/ उपगिरेण

सप्तमीविभक्तौ = उपगिरम् / उपगिरे |

अन्यासु विभक्तिषु पञ्चमीविभक्तिं विहाय उपगिरम् इति रूपं सिद्धं भवति|पञ्चमीविभक्तौ उपगिरात्, उपगिराभ्याम्, उपगिरेभ्यः इति रूपाणि भवन्ति |


यस्मिन् पक्षे गिरेश्च सेनकस्य (५.४.११२) इति सूत्रेण विकल्पेन टच् इति प्रत्ययः न भवति तस्मिन् पक्षे प्रक्रिया अधः प्रदर्शिता –


उपगिरि उपगिरि इत्यत्र ह्रस्वो नपुंसके प्रातिपदिकस्य ( १.२.४७) इत्यनेन अजन्तस्य नपुंसकस्य प्रातिपदिकस्य हस्वः भवति |


उपगिरि+सु उपगिरि इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना प्रातिपदिकात् सुप् प्रत्ययस्य उत्पत्तिः भवति अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण अव्ययात् सुप् प्रत्ययस्य लोपः भवति | उपगिरि इति समस्तपदं निष्पन्नम्

आहत्य द्वे रूपे स्तः– उपगिरम् / उपगिरि इति |


गिरेश्च सेनकस्य (५.४.११२) ; यचि भम्‌ (१.४.१८) ; यस्येति च (६.४.१४८)
गिरेश्च सेनकस्य (५.४.११२)

सेनकस्य मतेन गिरि इति शब्दान्तात् अव्ययीभावसमासात् "टच्" इति समासान्तप्रत्ययः विकल्पेन भवति | गिरेः पञ्चम्यन्तम्, चाव्ययं, सेनकस्य षष्ठ्यन्तम् | अव्ययीभावे शरत्प्रभृतिभ्यः (५.४.१०७) इत्यस्मात् सूत्रात् अव्ययीभावे अपि च राजाहः सखिभ्यष्टच् (५.४.९१) इत्यस्मात् सूत्रात् टच् इत्यस्य अनुवृत्तिः भवति | नपुंसकादन्यतरस्याम् ( ५.४.१०९) इत्यस्यमात् सूत्रात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः भवति | प्रत्ययः (३.१.१) इति सूत्रस्य अधिकारः| परश्च (३.१.२) इति सूत्रस्य अधिकारः | तद्धिताः (४.१.७६) इति सूत्रस्य अधिकारः |  समासान्ताः (५.४.६८) इति सूत्रस्य अधिकारः| ङ्याप्प्रातिपदिकात्‌ ( ४.४.१) इति सूत्रस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— सेनकस्य गिरेः अव्ययीभावात् प्रातिपदिकात् प्रत्ययः परश्च टच् तद्धितः समासान्तः च अन्यतरस्याम् |

अस्मिन् सूत्रे सेनकस्य इत्युक्ते सेनकः इति कश्चन वैयाकरणः, तस्य निर्देशार्थं सेनकस्य इति शब्दः प्रयुक्तः | अयं निर्देशः केवलम् आदरार्थं / पूजार्थम् अस्ति, विकल्पार्थं न, यतः विकल्पः तु "अन्यतरस्याम्" इत्यस्य अनुवृत्त्या एव लभ्यते |

यचि भम्‌ (१.४.१८)

सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तम्‌ ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परः अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति | य्‌ च, अच्‌ च यच्‌ समाहारद्वन्द्वः, तस्मिन्‌ यचि | यचि सप्तम्यन्तं, भम्‌ प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | स्वादिष्वसर्वनामस्थाने (१.४.१७) इत्यस्य पूर्णतया अनुवृतिः | अनुवृत्ति-सहितसूत्रम्‌— स्वादिषु असर्वनामस्थाने यचि भम्‌ |

यस्येति च (६.४.१४८)

भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | इश्च अश्च यम्, समाहारद्वन्द्वः तस्य यस्य | यस्य षष्ठ्यन्तम्, ईति सम्प्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | भस्य (६.४.१२९) इत्यस्य अधिकारः |ढे लोपोऽकद्र्वाः   ( ६.४.१४७) इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | नस्तद्धिते  (६.४.१४४) इत्यस्मात् सूत्रात् तद्धिते इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—  भस्य अङ्गस्य यस्यच लोपः ईति तद्धिते |  


उपरि गम्यताम्




एतेषां प्रक्रिया चिन्तनीया - १) रमेशस्य समीपम्, २) रमायाः समीपम्, ३) सीम्नः समीपम् ४) राज्ञः समीपम्  ५) अनसि ( cart)  इति; ६) नावः ( नौ इति प्रातिपदिकम् ) समीपम् ; ७ सुहृदः समीपम् ; ८) भिषजः समीपम् ( भिषज् इति प्रातिपदिकम् ) ९) धीमति इति ; १०) विदुषः समीपम् ( विद्वस् इति प्रातिपदिकम् ) |



एच इग्घ्रस्वादेशे ( १.१.४८) ; ससजुषो रुः (८.२.६६) ; खरवसानयोर्विसर्जनीयः (८.३.१५)
एच इग्घ्रस्वादेशे ( १.१.४८)

एच्-वर्णस्य ह्रस्वादेशः क्रियते चेत्, एच्-वर्णस्य स्थाने इक्-वर्णः विधीयते | उच्चारणसाम्यवशात् एकारस्य, ऐकारस्य च स्थाने इकारः भवति, ओकारस्य औकारस्य च स्थाने उकारः भवति | इदं परिभाषासूत्रम् अस्ति | एचः षष्ठ्यन्तम् , इक् प्रथमान्तं , ह्रस्व-आदेशे सप्तम्यन्तम् | सूत्रं स्वयं सम्पूर्णम्  — एचः इक् ह्रस्वादेशे |

ससजुषो रुः (८.२.६६)

पदान्त-सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन न केवलं यत्‌ पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— ससजुषोः पदस्य रुः |

खरवसानयोर्विसर्जनीयः (८.३.१५)

पदान्त-रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च | खर् च अवसानं च खरवसाने तयोरितरेतरद्वन्द्वः, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | रो रि (८.३.१४) इत्यस्मात् रः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | रः 'पदस्य' इत्यस्य विशेषणम्‌; येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम्‌ पदं यस्य अन्ते रेफः अस्ति; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात् संहितायाम्‌ इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— रः पदस्य विसर्जनीयः खरवसानयोः संहितायाम्‌ |


उपरि गम्यताम्





अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) इति सूत्रे समृद्ध्यर्थः

iii)  सूत्रे समृद्ध्यर्थे अव्ययम् –

समृद्धिः इत्युक्ते ऋद्धेः आधिक्यम् | समृद्ध्यर्थे सु इति अव्ययस्य प्रयोगः क्रियते |

१) समृद्ध्यर्थे प्रथमम् उदाहरणम्

भिक्षाणां समृद्धिः = सुभिक्षम् |


भिक्ष + आम् + सु → समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | अव्ययीभावः (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति |  अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) इति सूत्रेण सु इति अव्ययं समर्थेन भिक्ष इति सुबन्तेन सह समस्यते |


भिक्ष + आम् + सु समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |

भिक्ष + आम् + सु इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अतः भिक्ष + आम् + सु इत्यस्मिन्‌ आम् इत्यस्य लुक्‌ → भिक्ष + सु इति |


भिक्ष + सु सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'सु' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण | अतः सु इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |


भिक्ष + सु अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र सु इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |


सुभिक्ष अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | सुभिक्ष इत्यस्य अव्ययसंज्ञा भवति |


सुभिक्ष इदानीं लिङ्गस्य निर्णयः भवति | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः सुभिक्ष इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |


सुभिक्ष + सु  सुभिक्ष इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय|पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति  सुभिक्षात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |


सुभिक्ष + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु सुभिक्षम् इति रूपं सिद्धं भवति |


तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- सुभिक्षम्/ सुभिक्षेण, सुभिक्षम्/ सुभिक्षे, अन्यासु विभक्तिषु सुभिक्षम् इति रूपं सिद्धं भवति |

तृतीयाविभक्तौ - सुभिक्षम्/ सुभिक्षेण,

सप्तमीविभक्तौ - सुभिक्षम्/ सुभिक्षे

अन्यासु विभक्तिषु पञ्चमीविभक्तिं विहाय सुभिक्षम् इति रूपं सिद्धं भवति|पञ्चमीविभक्तौ सुभिक्षात् इति रूपं भवति |


२) समृद्ध्यर्थे द्वितीयम् उदाहरणम्

मद्राणां समृद्धिः = सुमद्रम् | मद्रदेशवासिनां समृद्धिः इति अर्थः | प्रक्रिया तु यथापूर्वं भवति  | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रे बहुलग्रह्णात् एव सुमद्रम्, उन्मत्तगङ्गम् इत्यादौ सप्तम्याः नित्यम् अम्भावः| अर्थात् तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रे बहुलम् इति शब्दस्य प्रयोगः अस्ति इति कारणेन सर्वत्र विकल्पेन कार्यं न भवति | नाम कुत्रचित् विकल्पेन अम्भावः ; कुत्रचित् नित्यं भवति|यदि विकल्पः इत्येव इष्यते तर्हि वा इति शब्दस्य पाठः अभविष्यत् | अस्मिन् सूत्रे विशिष्टः अर्थः इष्टः अतः एव बहुलम् इति शब्दस्य प्रयोगः कृतः दृश्यते |

मद्राणां समृद्धिः = सुमद्रम् | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४)  इत्यनेन अम्भावः नित्यरूपेण भवति |

अलौकिविग्रहवाक्यं – मद्र+आम् + सु | सु इति अव्ययम् |अतः सर्वासु विभक्तिषु सुमद्रम् इत्येव रूपं भवति, पञ्चमीं विहाय|पञ्चमीविभक्तौ सुमद्रात् इति रूपम् |


उपरि गम्यताम्






अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) इति सूत्रे व्यृद्ध्यर्थे -

iv)  सूत्रे व्यृद्ध्यर्थे (विगतः ऋद्धिः) अव्ययम् –

व्यृद्धिः इत्युक्ते ऋद्धेः अभावः इति | व्यृद्ध्यर्थे दुस् अथवा दुर् अनयोः अव्ययोः प्रयोगः क्रियते |

प्रश्नः उदेति प्रकृतसूत्रे व्यृद्धिः इति अर्थस्य आवश्यकता नास्ति यतोहि अर्थाभावार्थे एव सर्वाणि उदाहरणानि सिद्ध्यन्ति | परन्तु एतादृशचिन्तनं असमीचीनम् अस्ति किमर्थम् इति चेत् अर्थाभावार्थे कस्यचित् अव्ययस्य  येन पदार्थेन सह समासः भवति तत्र पदार्थस्य अभावः इष्टः | यथा निर्मक्षिकम् इत्यत्र मक्षिकाणाम् अभावः इष्टः | परन्तु व्यृद्ध्यर्थे पदार्थस्य अभावः नेष्टः परन्तु समृद्धेः न्यून्ता विवक्षितः | दुर्यवनम् इत्यत्र यवनानाम् अभावः नेष्टः अपि तु यवनानाम् समृद्धेः न्यून्ता इष्टा | अत एव प्रकृतसूत्रे समृद्धिः, अर्थाभावः इति द्वयोः अर्थयोः पृथक् उल्लेखः दृश्यते |


a) यवनानां व्यृद्धिः = दुर्यवनम्|सुभिक्षम् इत्यत्र यथा प्रक्रिया आसीत् तथैव अत्रापि|

यवन + आम् + दुर् इति अलौकिकविग्रहः |

दुर्यवनम् इति समस्तपदं सर्वासु विभक्तिषु पञ्चमीं विहाय | पञ्चमीविभक्तौ दुर्यवनात् |

तृतीयाविभक्तौ = दुर्यवनेन

सप्तमीविभक्तौ = दुर्यवने



b) शकानां व्यृद्धिः = दुःशकम् / दुश्शकम् | प्रक्रिया यथा सुभिक्षम् इत्यत्र तथैव |

शक + आम् + दुस् इति अलौकिकविग्रहः |

दुस् + शकम् → ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५) इति द्वाभ्यां सूत्राभ्यां रुत्वविसर्गौ कृत्वा → दुःशकम् इति भवति → वा शरि (८.३.३६) इत्यनेन शरि परे विसर्गस्य विकल्पेन विसर्गादेशः → दुःशकम् → यस्मिन्‌ पक्षे विसर्गादेशः न भवति, विसर्जनीयस्य सः (८.३.३४) इत्यनेन खरि परे विसर्जनीयस्य स्थाने सकारादेशः → दुस्शकम् →  स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन श्चुत्वम् →  दुश्शकम् इति रूपं सिद्ध्यति |

आहत्य रूपद्वयम् - दुःशकम् / दुश्शकम् | पञ्चमीविभक्तौ दुःशकात्/दुश्शकात् | तृतीयाविभक्तौ - दुःशकम्/दुःशकेन, दुश्शकम्/दुश्शकेन | सप्तमीविभक्तौ - दुःशकम्/दुःशके, दुश्शकम्/दुश्शके |

प्रातिपदिकान्तनुम्‌विभक्तिषु च (८.४.११) ; कुमति च (८.४.१३)
प्रातिपदिकान्तनुम्‌विभक्तिषु च (८.४.११)

पूर्वपदस्य निमित्तात्‌ परस्य एषु स्थितस्य नस्य णो वा स्यात्‌ | अत्र धेयं यत्‌ समासस्य प्रसङ्गोऽयम्‌ | सामान्यतया समासे णत्वं न भवति, परन्तु अत्र भवति विकल्पेन यदि नकारान्तप्रातिपदिकं (माष + वापिन्‌ ‌ + औ → माषवापिणौ, माषवापिनौ), नुम्‌-सम्बद्ध-नकारः (नपुंसकस्य झलचः इति सूत्रेण प्रथमा-द्वितीया-बहुवचने नुम्‌ भवति यथा माष + वापा + न्‌ + इ → माषवापाणि, माषावापानि), विभक्तिसम्बन्धी नकारः (तृतीया षष्ठी वा यथा हर्षभावेण, हर्षभावेन, वारिवाहाणाम्‌, वारिवाहानाम्) इत्येषु त्रिषु कश्चन उपस्थितोऽस्ति | भ्रमः उदेति यत्‌ किमर्थम्‌ अस्मिन्‌ प्रसङ्गे अस्माभिः चिन्तनीयं यत्‌ के के वर्णाः मध्ये सन्ति यतः अट्कुप्वाङ्‌नुम्व्यवायेऽपि इति सूत्रे रषाभ्यां नो णः समानपदे इति सूत्रस्य पूर्णतया अनुवृत्तिः—नाम अट्कुप्वाङ्‌नुम्व्यवायेऽपि केवलं समानपदे कार्यं करोति | परन्तु प्रातिपदिकान्तनुम्‌विभक्तिषु च इत्यस्मिन्‌ इमानि पदानि अनुवृत्तानि—वा, पूर्वपदात्‌, अट्कुप्वाङ्‌नुम्व्यवायेऽपि, रषाभ्यां नो णः, संहितायाम्‌ इति | अत्र समानपदे इत्यस्य अनुवृत्तिर्नास्ति | अनुवृत्ति-सहितसूत्रम्‌— पूर्वपदात् रषाभ्याम्  प्रातिपदिकान्त-नुम्‌-विभक्तिषु च  नो णः वा अट्कुप्वाङ्‌नुम्व्यवायेऽपि संहितायाम्  |

कुमति च (८.४.१३)

कवर्गवति उत्तरपदे (प्रातिपदिकान्तनुम्‌विभक्तिषु) नित्यं णत्वं स्यात्‌ | दौर्भाग्येण इत्यस्य उत्तरपदे गकारः (कवर्गीयः) अस्ति, अतः ण्त्वं नित्यम्‌ अत्र न तु वैकल्पिकः | वर्षभोग्येण अपि तथा | अनुवृत्ति-सहितसूत्रम्‌— पूर्वपदात् रषाभ्याम् प्रातिपदिकान्त-नुम्‌-विभक्तिषु  कुमति च  नो णःअट्कुप्वाङ्‌नुम्व्यवायेऽपि संहितायाम्  |


उपरि गम्यताम्






अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) इति सूत्रे अर्थाभावार्थे -

v) सूत्रे अर्थाभावार्थे अव्ययम् –


अर्थाभावः नाम पदार्थस्य असत्ता अथवा अभावः | अर्थाभावार्थे निर् इति अव्ययस्य प्रयोगः क्रियते |

मक्षिकाणाम् अभावः = निर्मक्षिकम् |


अलौकिकविग्रहवाक्यं मक्षिका + आम् + निर् समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण|अव्ययीभावः (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)   इति सूत्रेण निर् इति अव्ययं समर्थेन मक्षिका इति सुबन्तेन सह समस्यते |


मक्षिका + आम् + निर् समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |


मक्षिका + आम् + निर् इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अतः मक्षिका + आम् + निर् इत्यस्मिन्‌ आम् इत्यस्य लुक्‌ → मक्षिका + निर् इति |


मक्षिका + निर् सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'निर्' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण | अतः निर् इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |


मक्षिका + निर् अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इति समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण  | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र निर् इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |


निर्मक्षिका  → अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | निर्मक्षिका इत्यस्य अव्ययसंज्ञा भवति | इदानीं लिङ्गस्य निर्णयः भवति | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् |अतः निर्मक्षिका इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |


निर्मक्षिका → ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति अतः निर्मक्षिक इति भवति |


निर्मक्षिक + सु निर्मक्षिक इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति  निर्मक्षिकात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |


निर्मक्षिक + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्|पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु निर्मक्षिकम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति-निर्मक्षिकम् / निर्मक्षिकेण, निर्मक्षिकम् / निर्मक्षिके, अन्यासु विभक्तिषु निर्मक्षिकम्,  इति रूपं सिद्धं भवति |

तृतीयाविभक्तौ- निर्मक्षिकम् / निर्मक्षिकेण,

सप्तमीविभक्तौ - निर्मक्षिकम् / निर्मक्षिके

अन्यासु विभक्तिषु पञ्चमीविभक्तिं विहाय निर्मक्षिकम् इति रूपं सिद्धं भवति|पञ्चमीविभक्तौ निर्मक्षिकात् इति रूपं भवति |


एवमेव विघ्नानाम् अभावः = निर्विघ्नम् |

तृतीयाविभक्तौ = निर्विघ्नम् / निर्विघ्नेन | अत्र निर्विघ्न इति प्रातिपदिकस्य णत्वं न भवति प्रातिपदिकान्तनुम्‌विभक्तिषु च (८.४.११) इति सूत्रेण यतोहि नकारः न वा प्रातिपदिकान्तनकारः अस्ति न वा नुम्सम्बन्धी नकारः न वा विभक्तिसम्बन्धनकारः |

सप्तमीविभक्तौ = निर्विघ्नम्/ निर्विघ्ने



अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) इति सूत्रे अत्ययार्थे -

vi)  सूत्रे अत्ययार्थे (नाशः, ध्वंसः) अव्ययम् –

अत्ययः नाम नाशः इत्यर्थः | अत्ययार्थे अति, निर्, निस् इति अव्ययानां प्रयोगः क्रियते | हिमस्य अत्ययः = अतिहिमम् | अर्थात् हिमस्य ध्वंसः, नाशः|

अलौकिकविग्रहवाक्यं हिम + ङस् + अतिसमाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | अव्ययीभावः (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)   इति सूत्रेण अति इति अव्ययं समर्थेन हिमस्य इति सुबन्तेन सह समस्यते |


हिम + ङस् + अति समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |

हिम + ङस् + अति इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन| अतः हिम + ङस् + अति इत्यस्मिन्‌ ङस् इत्यस्य लुक्‌ → हिम +  अति इति |

हिम +  अति सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'अति' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण|अतः अति इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |


हिम +  अति अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इति समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण  | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र अति इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |


अतिहिम  → अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | अतिहिम इत्यस्य अव्ययसंज्ञा भवति | इदानीं लिङ्गस्य निर्णयः भवति | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् |अतः अतिहिम इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |


अतिहिम → ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति अतः अतिहिम इति भवति |



अतिहिम + सु अतिहिम इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति  अतिहिमात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |


अतिहिम  + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्|पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु अतिहिमम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति - अतिहिमम् / अतिहिमेन, अतिहिमम् / अतिहिमे, अन्यासु विभक्तिषु  पञ्चमीविभक्तिं विहाय अतिहिमम् इति रूपं सिद्धं भवति | पञ्चमीविभक्तौ अतिहिमात् इति रूपं भवति |


एवमेव -

शीतस्य अत्ययः = अतिशीतम् इति | पञ्चमीविभक्तौ = अतिशीतात् |

तृतीयाविभक्तौ = अतिशीतम्/ अतिशीतेन |

सप्तमीविभक्तौ = अतिशीतम्/ अतिशीते |


हिमस्य अत्ययः = निर्हिमम् इति |पञ्चमीविभक्तौ = निर्हिमात् |

तृतीयाविभक्तौ = निर्हिमम् / निर्हिमेण/ निर्हिमेन * |


निर्हिम + टा → टाङसिङसामिनात्स्याः ( ७.१.१२) इति सूत्रेण अदन्तात् अङ्गात् परस्य टा, ङसिँ, ङस् प्रत्ययानां क्रमेण इन, आत्, स्य  इत्येते आदेशाः भवन्ति अधुना टा इति प्रत्ययस्य स्थाने इन इति आदेशः भवति यतोहि निर्हिम इति अदन्तम् अङ्गम् अस्ति | अतः निर्हिम +इन इति भवति|अग्रे निर्हिम + इन → आद्गुणः (६.१.८७) इति

सूत्रेण गुणसन्धिः भवति → निर्हिमेन इति भवति | अधुना निर्हिमेन इत्यत्र णत्वं भवति वा इति प्रश्नः?

निर्हिमेन इत्यत्र अट्कुप्वाङ्नुम्व्यवायेऽपि ( ८.४.२) इति सूत्रेण णत्वं न भवति यतोहि समानपदं नास्ति | निर् इति पृथक् पदम् अस्ति हिमेन इति भिन्नं पदम् अस्ति, अतः निर्हिमेन इति समानपदं नास्ति | तर्हि केन सूत्रेण णत्वं भवति ?


* प्रातिपदिकान्तनुम्‌विभक्तिषु च (८.४.११)

इति सूत्रेण पूर्वपदस्य निमित्तात्‌ परस्य नकारान्तप्रातिपदिकं (माष + वापिन्‌ ‌ + औ → माषवापिणौ), नुम्‌-सम्बद्ध-नकारः (नपुंसकस्य झलचः इति सूत्रेण प्रथमा-द्वितीया-बहुवचने नुम्‌ भवति यथा माष + वापा + न्‌ + इ → माषवापाणि), विभक्तिसम्बन्धी नकारः (तृतीया षष्ठी वा यथा हर्षभावेण, वारिवाहाणाम्‌) इत्येषु त्रिषु कश्चन उपस्थितोऽस्ति  चेत् नस्य णो वा स्यात्‌ | अस्मिन् सूत्रे अट्कुप्वाङ्नुम्व्यवायेऽपि ( ८.४.२) इति सूत्रस्य सम्पूर्णानुवृत्तिः | निर्हिमेन अत्र रेफः एव णत्वस्य निमित्तम् अस्ति | रेफनकारयोः मध्ये ह्,इ, म्, ए, एते वर्णाः सन्ति, तथापि इन इति विभक्तिसम्बन्धिनकारस्य णत्वं भवति प्रातिपदिकान्तनुम्‌विभक्तिषु च (८.४.११) इति सूत्रेण → निर्हिमेण/ निर्हिमेन इति भवति |


निर्हिमेन अत्र रेफः एव णत्वस्य निमित्तम् अस्ति | रेफनकारयोः मध्ये ह्,इ, म्, ए, एते वर्णाः सन्ति, तथापि इन इति विभक्तिसम्बन्धिनकारस्य णत्वं भवति प्रातिपदिकान्तनुम्‌विभक्तिषु च (८.४.११) इति सूत्रेण → निर्हिमेण/ निर्हिमेन इति भवति |

सप्तमीविभक्तौ = निर्हिमम् / निर्हिमे |


शीतस्य अत्ययः = निःशीतम् / निश्शीतम् | पञ्चमीविभक्तौ = निःशीतात्/ निश्शीतात् |

तृतीयाविभक्तौ = निःशीतम्/ निश्शीतम्/ निःशीतेन / निश्शीतेन |

सप्तमीविभक्तौ = निःशीतम्/ निश्शीतम्/ निःशीते / निश्शीते |

उपरि गम्यताम्




अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) इति सूत्रे असम्प्रत्यर्थे -

vii)  सूत्रे असम्प्रत्यर्थे(अयुक्तः) अव्ययम्–

असम्प्रति नाम अयोग्यकाले इत्यर्थः | असम्प्रत्यर्थे अति इति अव्ययस्य प्रयोगः क्रियते |

निद्रा सम्प्रति न युज्यते = अतिनिद्रम् (निद्रा सम्प्रति न युज्यते) | प्रक्रिया यथा उपरि प्रदर्शिता आसीत् तथैव भवति |

अलौकिकविग्रहवाक्यं निद्रा + ङस् + अति |

सर्वासु विभक्तिषु पञ्चमीं विहाय = अतिनिद्रम् | पञ्चमीविभक्तौ = अतिनिद्रात्

तृतीयाविभक्तौ = अतिनिद्रम् / अतिनिद्रेण

सप्तमीविभक्तौ = अतिनिद्रम् /अतिनिद्रे |


कम्बलं सम्प्रति न युज्यते = अतिकम्बलम् ( कम्बलं सम्प्रति न युज्यते ) |

सर्वासु विभक्तिषु पञ्चमीं विहाय = अतिकम्बलम् | पञ्चमीविभक्तौ = अतिकम्बलात्

तृतीयाविभक्तौ = अतिकम्बलम् / अतिकम्बलेन |

सप्तमीविभक्तौ = अतिकम्बलम् /अतिकम्बले |


उपरि गम्यताम्


अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) इति सूत्रे शब्दप्रादुर्भावे -

viii)  सत्रे शब्दप्रादुर्भावार्थे (शब्दस्य प्रसिद्धिः) अव्ययस्य उदाहरणानि –

शब्दप्रादुर्भावः इत्युक्ते शब्दस्य प्रकाशः इति | नाम यस्य शब्दस्य पुनः पुनः उच्चारणं भवति | अत्र ‘इति’  इति अव्ययस्य प्रयोगः क्रियते |

हरि-शब्दस्य प्रकाशः = इतिहरि | हरि इति नाम्नः प्रसिद्धिः |

अलौकिकविग्रहवाक्यं हरि + ङस् + इतिसमाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | अव्ययीभावः (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति |  अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)   इति सूत्रेण इति इति अव्ययं समर्थेन हरि इति सुबन्तेन सह समस्यते |

हरि + ङस् + इति समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण|

हरि + ङस् + इति इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अतः हरि + ङस् + इति इत्यस्मिन्‌ ङस् इत्यस्य लुक्‌ → हरि +  इति |


हरि +  इति सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'इति' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण | अतः इति इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |

हरि + इति अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) इति समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण  |अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र इति इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |


इतिहरि  →  अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | उपनदी इत्यस्य अव्ययसंज्ञा भवति | इदानीं लिङ्गस्य निर्णयः भवति | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः इतिहरि इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |

इतिहरि → ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति अतः इतिहरि इति भवति |

इतिहरि + सु इतिहरि इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना प्रातिपदिकात् सुप् प्रत्ययस्य उत्पत्तिः भवति अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण अव्ययात् सुप् प्रत्ययस्य लोपः भवति | इतिहरि इति समस्तपदं निष्पन्नम्|सर्वासु विभक्तिषु इतिहरि इत्येव समासः|

एवमेव पाणिनिशब्दस्य प्रकाशः = इतिपाणिनि | सर्वासु विभक्तिषु इतिपाणिनि इत्येव समासः |

ज्ञानशब्दस्य प्रकाशः = इतिज्ञानम् | सर्वासु विभक्तिषु  पञ्चमीं विहाय इतिज्ञानम् इत्येव समासः | पञ्चमीविभक्तौ = इतिज्ञानात्

तृतीयाविभक्तौ = इतिज्ञानम् / इतिज्ञानेन |

सप्तमीविभक्तौ =  इतिज्ञानम् / इतिज्ञाने |



उपरि गम्यताम्




अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) इति सूत्रे पश्चादर्थे -

ix)  सूत्रे पश्चादर्थे (अनन्तरम्) अव्ययम् –


पश्चात् इत्यस्य अनन्तरम् इत्यर्थः | अत्र अनु इति अव्ययस्य प्रयोगः क्रियते |

विष्णोः पश्चाद् = अनुविष्णु | प्रक्रिया यथा इतिहरि इत्यस्य आसीत् तथैव|सर्वासु विभक्तिषु अनुविष्णु इत्येव समासः |


एवमेव -

रथस्य पश्चाद् = अनुरथम् |

पञ्चमीविभक्तौ = अनुरथात्

तृतीयाविभक्तौ = अनुरथम् / अनुरथेन |

सप्तमीविभक्तौ =  अनुरथम् /अनुरथे


शिष्यस्य पश्चाद् = अनुशिष्यम् | पञ्चमीविभक्तौ = अनुशिष्यात्

तृतीयाविभक्तौ =  अनुशिष्यम् / अनुशिष्येण |

सप्तमीविभक्तौ =  अनुशिष्यम्/ अनुशिष्ये |


गोपालस्य पश्चाद् = अनुगोपालम् | पञ्चमीविभक्तौ = अनुगोपालात् |

तृतीयाविभक्तौ = अनुगोपालम् / अनुगोपालेन |

सप्तमीविभक्तौ = अनुगोपालम् / अनुगोपाले |

उपरि गम्यताम्




अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) इति सूत्रे यथार्थे -

x) सूत्रे यथार्थे (योग्यता, वीप्सा, पदार्थानतिवृत्तिः, सादृश्यम्) अव्ययम् –

योग्यता-वीप्सा-पदार्थानतिवृत्ति-सादृश्यानि यथार्थाः | अर्थात् अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)   इति सूत्रे यथा इति शब्दस्य चत्वारः अर्थाः सन्ति- योग्यता, वीप्सा, पदार्थानतिवृत्तिः अपि च सादृश्यम् | योग्यता इत्युक्ते उचितः, अर्हता इत्यर्थः | वीप्सा अर्थात् वारं वारं ( repetition) इत्यर्थः | पदार्थानतिवृत्तिः इत्युक्ते अर्थस्य अनुल्लङ्घनम् ( not exceeding) इति | सादृश्यम् इत्युक्ते  सदृशता, समानता इति | एतेषु अर्थेषु समासस्य उदाहरणानि प्रदर्श्यन्ते |


यथार्थे (योग्यता)

a) योग्यार्थे – अनु इति अव्ययस्य प्रयोगः क्रियते | अनु इति अव्ययस्य बहवः अर्थाः सन्ति- पश्चात्, सादृश्यं, लक्षणे इति|रूपस्य योग्यम् = अनुरूपम् |


अलौकिकविग्रहवाक्यं रूप+ ङस् + अनुसमाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण|अव्ययीभावः (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति |  अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)   इति सूत्रेण अनु इति अव्ययं समर्थेन रूप इति सुबन्तेन सह समस्यते |

रूप + ङस् + अनु समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |

रूप + ङस् + अनु इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अतः रूप + ङस् + अनु इत्यस्मिन्‌ ङस् इत्यस्य लुक्‌ → रूप + अनु इति |


रूप +  अनु सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'अनु' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण | अतः अनु इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |


रूप + अनु अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इति समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण  | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र अनु इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |


अनु + रूप  अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | निर्मक्षिका इत्यस्य अव्ययसंज्ञा भवति | इदानीं लिङ्गस्य निर्णयः भवति | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः अनुरूप इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |


अनुरूप → ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति अतः अनुरूप इति भवति |


अनुरूप + सु अनुरूप इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय|पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति  अनुरूपात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |


अनुरूप  + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु अनुरूपम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- अनुरूपम्/ अनुरूपेण, अनुरूपम् /अनुरूपे, अन्यासु विभक्तिषु अनुरूपम्  इति रूपं सिद्धं भवति |

एवमेव गुणानां योग्यम् = अनुगुणम् | पञ्चमीविभक्तौ = अनुगुणात् |

तृतीयाविभक्तौ = अनुगुणम् / अनुगुणेन |

सप्तमीविभक्तौ =  अनुगुणम् / अनुगुणे |


लेखस्य योग्यम् = अनुलेखम् |

विद्यालयस्य योग्यम् = अनुविद्यालयम् |



यथार्थे ( वीप्सा )

b) वीप्सार्थे – वीप्सा नाम पौनः पुण्यम्, वारं वारम्  इति|अस्मिन् अर्थे प्रति इति अव्ययस्य प्रयोगः क्रियते | प्रति इति अव्ययस्य बहवः अर्थाः सन्ति, तेषु वीप्सा इति एकः अर्थः अस्ति | सामान्यतया प्रति इति शब्दस्य योगे द्वितीयाविभक्तिः भवति अभितः परितः समयानिकषाहाप्रतियोगेऽपि इति वार्तिकेन | अतः वीप्सार्थे विग्रहवाक्ये प्रति इति शब्दस्य योगे द्वितीयाविभक्तिः दृश्यते |

अर्थमर्थं प्रति = प्रत्यर्थम् | प्रक्रिया यथा अनुरूपम् इत्यस्य आसीत् तथैव | सर्वासु विभक्तिषु पञ्चमीं विहाय प्रत्यर्थम् इति समासः | पञ्चमीविभक्तौ प्रत्यर्थात् |

तृतीयाविभक्तौ = प्रत्यर्थम् / प्रत्यर्थेन

सप्तमीविभक्तौ =  प्रत्यर्थम् / प्रत्यर्थे |

एकम् एकं प्रति = प्रत्येकम् | सर्वासु विभक्तिषु पञ्चमीं विहाय प्रत्येकम् इति समासः | पञ्चमीविभक्तौ प्रत्येकस्मात् |

तृतीयाविभक्तौ = प्रत्येकम् / प्रत्येकेन

सप्तमीविभक्तौ =  प्रत्येकम् /प्रेत्येकस्मिन्


सर्वादीनि सर्वनामानि ( १.१.२७)

इति सूत्रेण सर्वादिगणे ये शब्दाः पठिताः तेषां 'सर्वनाम' इति संज्ञा भवति | सर्वादिगणे ३५ शब्दाः पठिताः सन्ति |


सर्वादिगणे एते शब्दाः पठिताः

सर्व, विश्व, उभ, उभय, डतर, डतम, अन्य, अन्यतर, इतर, त्वत्, त्व, नेम, सम, सिम, पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् (गणसूत्रम्), स्वमज्ञातिधनाख्यायाम् (गणसूत्रम्), अन्तरं बहिर्योगोपसंव्यानयोः (गणसूत्रम्), त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतुँ, किम् |


सर्वादीनि सर्वनामानि ( १.१.२७)

इति सूत्रेण "एक" इति शब्दस्य सर्वनामसंज्ञा भवति | यथा "सर्व" इति सर्वनामशब्दस्य रूपाणि भवन्ति पञ्चमीविभक्तौ, सप्तमीविभक्तौ च तथैव "एक" इति शब्दस्य अपि रूपाणि भवन्ति | ङसिङ्योः स्मात्स्मिनौ ( ७.१.१५) इति सूत्रेण अदन्तसर्वनामशब्दात् ङसि इति प्रत्ययस्य स्थाने स्मात् इति आदेशः भवति, ङि इति प्रत्ययस्य स्थाने स्मिन् इति आदेशः भवति |

प्रत्येक इति समासे उत्तरपदं सर्वनामशब्दः इति कारणेन पञ्चमीविभक्तौ, सप्तमीविभक्तौ च  रूपाणि सर्वशब्दवत् भवन्ति - प्रत्येकस्मात्, प्रत्येकस्मिन् इति |

एवमेव छात्रं छात्रं प्रति = प्रतिच्छात्रम् |


छे च (६.१.७३)

इत्यनेन छकारे परे संहितायां विषये ह्रस्व-स्वरस्य तुक्‌-आगमो भवति | आद्यन्तौ टकितौ १.१.४६ इत्यनेन तकारोत्तरवर्ती - इकारस्य अनन्तरं न तु पूर्वम्‌|तुक् इति आगमे ककारस्य इत्संज्ञा भूत्वा लोपः भवति, उकारः उच्चारणार्थः, अतः तकारः एव अवशिष्यति → प्रति + ‌तुक् + छ् ‌ + आत्रम् → प्रति + ‌त् + छ् ‌ + आत्रम् → स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन सकारस्य तवर्गीयस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन → प्रतिच् + छात्रम् → प्रतिच्छात्रम् इति भवति |


आद्यन्तौ टकितौ ( १.१.४६) = टित्-आगमः स्थानिनः आदौ आगच्छति, कित्-आगमः स्थानिनः अन्ते आगच्छति |


सर्वासु विभक्तिषु पञ्चमीं विहाय प्रतिच्छात्रम् इति समासः|पञ्चमीविभक्तौ प्रतिच्छात्रात् |

तृतीयाविभक्तौ = प्रतिच्छात्रम् / प्रतिच्छात्रेण

सप्तमीविभक्तौ =  प्रतिच्छात्रम् / प्रतिच्छात्रे |


छे च (६.१.७२) = छकारे परे ह्रस्वस्वरस्य तुक्‌-आगमो भवति | तुक्‌ कित्‌ अस्ति अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन यस्य आगमः अस्ति (अत्र 'ह्रस्वस्वरस्य'), तस्य अन्ते आयाति | छे सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | ह्रस्वस्य पिति कृति तुक्‌ (६.१.७०) इत्यस्मात्‌ ह्रस्वस्य, तुक्‌ इत्यनयोः अनुवृतिः | संहितायाम्‌ (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ह्रस्वस्य तुक्‌ छे च संहितायाम्‌ |


जनं जनं प्रति = प्रतिजनम्|सर्वासु विभक्तिषु पञ्चमीं विहाय प्रतिजनम् इति समासः | पञ्चमीविभक्तौ प्रतिजनात् |

तृतीयाविभक्तौ = प्रतिजनम् / प्रतिजनेन

सप्तमीविभक्तौ =  प्रतिजनम् / प्रतिजने


गृहं गृहं प्रति = प्रतिगृहम् | सर्वासु विभक्तिषु पञ्चमीं विहाय प्रतिगृहम् इति समासः | पञ्चमीविभक्तौ प्रतिगृहात् |

तृतीयाविभक्तौ = प्रतिगृहम् / प्रतिगृहेण

सप्तमीविभक्तौ =  प्रतिगृहम् / प्रतिगृहे


सामान्यतया अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इति समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण | कारकप्रकरणे प्रति इति शब्दस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः ( १.४.९०) इति सूत्रेण |अस्मिन् सूत्रे वीप्सार्थे प्रति इत्यस्य कर्मप्रवचनीयसंज्ञा भवति, अनेन कारणेन प्रति इति शब्दस्य योगे अन्यशब्दस्य कर्मप्रवचनीययुक्ते द्वितीया ( २.३.८) इति सूत्रेण द्वितीयाविभक्तिः भवति | कर्मप्रवचनीयसंज्ञायाः प्रयोजनम् अस्ति यत् यस्य कर्मप्रवचनीयसंज्ञा भवति, तस्य योगे अन्यशब्दस्य द्वितीया भवति कर्मप्रवचनीययुक्ते द्वितीया ( २.३.८) इति सूत्रेण |


यथा -

वृक्षं वृक्षं प्रति सिञ्चति | सर्वान् वृक्षान् एकैकं सिञ्चति इत्यर्थः | अस्मिन् वाक्ये प्रति इत्यस्य प्रयोगः वीप्सार्थे दृश्यते इति कारणेन

प्रति इति शब्दस्य योगे वृक्ष इति शब्दस्य द्वितीयाविभक्तिः विधीयते  कर्मप्रवचनीययुक्ते द्वितीया ( २.३.८) इति सूत्रेण  |


यदि प्रति इति अव्ययस्य योगे नित्यसमासः भवति अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इति समासविधायकसूत्रेण, तर्हि कुत्रापि वाक्ये वीप्सार्थे प्रति इति शब्दस्य योगे द्वितीयाविभक्तिः कदापि न भवति | एवञ्चेत् कर्मप्रवचनीयसंज्ञायाः प्रयोजनं नैव सिद्ध्यति | अतः तन्निवारणाय अत्र समासः नित्यः न भवति अपि तु विकल्पेन | अनेन व्यस्तप्रयोगः अपि शक्यते, समस्तप्रयोगः अपि शक्यते | अर्थम् अर्थं प्रति इति वाक्ये अपि प्रयोक्तुं शक्नुमः | यथा - वाक्ये - वृक्षं वृक्षं प्रति सिञ्चति | नो चेत् समासे - प्रतिवृक्षं सिञ्चति इति |


अव्ययीभावे शरत्प्रभृतिभ्यः (५.४.१०७)

इति सूत्रे ये शब्दाः शरदादिगणे उल्लेखिताः, तेषु विपाश् ( बन्धनम्, नदी ) इति शब्दः अपि अस्ति | यदि विपाश् इति शब्दः उत्तरपदे अस्ति तर्हि समासस्य प्रक्रिया चिन्तनीया |

विपाशं विपाशं ( विपाशायाः अभिमुखम्)  प्रति = प्रतिविपाशम् | विपाश् नाम नदी | अलौकिकविग्रहवाक्यम् — विपाश् +अम् + प्रति | प्रति इति शब्दस्य योगे उपपदद्वितीया विधीयते अतः विपाशम् इति पदम् विग्रहवाक्ये दृश्यते | सम्मुखम् इति अर्थे प्रति इति अव्ययं विद्यते | यदा प्रतिविपाश् इति प्रातिपदिकं सिद्ध्यति, तदा अव्ययीभावे शरत्प्रभृतिभ्यः (५.४.१०७) इति सूत्रेण टच् इति समासान्तप्रत्ययः विधीयते | प्रतिविपाश् + टच् प्रतिविपाश इति रूपं निष्पन्नं भवति | तत्पश्चात् सुप् प्रत्ययः विधीयते | सुब्लुक् अकृत्वा अमादेशः भूत्वा प्रतिविपाशम् इति समस्तपदं सिद्ध्यति सर्वासु विभक्तिषु पञ्चमीं विहाय |


अव्ययीभावे शरत्प्रभृतिभ्यः (५.४.१०७)

शरदादिगणे विद्यमानेभ्यः शब्देभ्यः अव्ययीभावसमासे "टच्" इति समासान्तः तद्धितसंज्ञकप्रत्ययः भवति |  शरत् प्रभृतिर्येषां ते शरत्प्रभृतयः | अव्ययीभावे सप्तम्यन्तं, शरत्प्रभृतिभ्यः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | राजाहस्सखिभ्यष्टच्‌ ( ५.४.९१) इत्यस्मात् सूत्रात्  टच् इत्यस्य अनुवृत्तिः भवति | तद्धिताः ( ४.१.७६), समासान्ताः ( ५.४.६८), प्रत्ययः ( ३.१.१), परश्च ( ३.१.२), ङ्याप्प्रातिपदिकात् ( ४.१.१) इत्येतेषां अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अव्ययीभावे शरत्प्रभृतिभ्यः ङ्याप्प्रातिपदिकात्  परश्च तद्धितः समासान्तः टच् प्रत्ययः |

टच् इति प्रत्यये टकार-चकारयोः इत्संज्ञा भवति | टच् इत्यस्मिन् केवलं अकारः अवशिष्यते इति कारणेन, टच् इति प्रत्ययस्य योजनान्तरं सर्वे हलन्तशब्दाः अपि अजन्ताः भवन्ति |

शरदादिगणः इति एकः गणः अस्ति | अस्मिन् गणे एते शब्दाः अन्तर्गता: — शरद्, विपाश्, अनस्, मनस्, उपानह्, दिव्, हिमवत्, अनडुह्, दिश्, दृश्, विश्, चेतस्, सदृश्, चतुर्, त्यद्, तद्, यद्, कियत्, जरायाः जरस् च (गणसूत्रम्), प्रतिपरसमनुभ्योऽक्ष्णः (गणसूत्रम्), पथिनश्च (गणसूत्रम्) |


यथार्थे ( पदार्थानतिवृत्तिः)

c) पदार्थानतिवृत्यर्थे – पदार्थस्य उल्लङ्घनं विना | अस्मिन् अर्थे यथा इति अव्ययस्य प्रयोगः क्रियते |


शक्तिम् अनतिक्रम्य = यथाशक्ति | अर्थात् शक्तेः उल्लङ्घनं विना इत्यर्थः |

अलौकिकविग्रहवाक्यं शक्ति + अम् + यथा समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | अव्ययीभावः (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)   इति सूत्रेण यथा इति अव्ययं समर्थेन शक्ति इति सुबन्तेन सह समस्यते |

शक्ति + अम् + यथा समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |

शक्ति + अम् + यथा इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अतः शक्ति + अम् + यथा इत्यस्मिन्‌ अम् इत्यस्य लुक्‌ → शक्ति + यथा इति |

शक्ति + यथा सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'इति' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण | अतः यथा इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |

शक्ति + यथा अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) इति समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण  | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र यथा इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |

यथाशक्ति  →  अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | यथाशक्ति इत्यस्य अव्ययसंज्ञा भवति|इदानीं लिङ्गस्य निर्णयः भवति | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् |अतः यथाशक्ति इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |

यथाशक्ति → ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति अतः यथाशक्ति इति भवति |

यथाशक्ति + सु यथाशक्ति इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना प्रातिपदिकात् सुप् प्रत्ययस्य उत्पत्तिः भवति अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण अव्ययात् सुप् प्रत्ययस्य लोपः भवति | यथाशक्ति इति समस्तपदं निष्पन्नम् |


एवमेव बुद्धिम् अनतिक्रम्य = यथाबुद्धि |

ज्ञानम् अनतिक्रम्य = यथाज्ञानम् |

यथार्थे ( सादृश्यम् )

d) सादृश्यर्थे - सादृशयं नाम औपम्यम् ( Similarity) | सह इति अव्ययस्य प्रयोगः क्रियते | सह इति अव्ययस्य बहवः अर्थाः सन्ति - तेषु सादृश्यम् इत्यर्थः अन्यतमः |


हरेः सादृश्यं = सहरि | हरेः सदृशः |

अलौकिकविग्रहवाक्यं हरि + ङस् + सहसमाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | अव्ययीभावः (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)   इति सूत्रेण यथा इति अव्ययं समर्थेन शक्ति इति सुबन्तेन सह समस्यते |

हरि + ङस् + सह समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |


हरि + ङस् + सह इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अतः हरि + ङस् + सह इत्यस्मिन्‌ ङस् इत्यस्य लुक्‌ → हरि + सह इति |


हरि + सह सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'इति' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण | अतः सह इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |


हरि + सह अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इति समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र सह इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |


सहहरि  → अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | यथाशक्ति इत्यस्य अव्ययसंज्ञा भवति | इदानीं लिङ्गस्य निर्णयः भवति | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः सहहरि इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |


सहहरि → ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति अतः सहहरि इति भवति |

सहहरि → अव्ययीभावे चाकाले (६.३.८१) इति सूत्रेण अव्ययीभावसमासे ‘सह’ इत्यस्य स्थाने ‘स’ इत्ययम् आदेशो भवति अकालवाचिनि उत्तरपदे | हरि इति अकालवाचिशब्दः अस्ति अतः अव्ययीभावे चाकाले (६.३.८१) इति सूत्रेण सह स्थाने स इति आदेशः भवति अतः सहरि इति भवति |

सहरि + सु सहरि इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना प्रातिपदिकात् सुप् प्रत्ययस्य उत्पत्तिः भवति अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण अव्ययात् सुप् प्रत्ययस्य लोपः भवति | सहरि इति समस्तपदं निष्पन्नम् |


अव्ययीभावे चाकाले (६.३.८१)

अव्ययीभावसमासे ‘सह’ इत्यस्य स्थाने ‘स’ इत्ययम् आदेशो भवति अकालवाचिनि उत्तरपदे | अव्ययीभावे सप्तम्यन्तं, च अव्ययपदम्, अकाले सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | सहस्य सः संज्ञायां (६.३.७८) इत्यस्मात् सूत्रात् सहस्य, सः, च अनयोः पदयो: अनुवृत्तिः भवति | अलुगुत्तरपदे (६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहितसूत्रम्‌— अव्ययीभावे च सहस्य सः अकाले उत्तरपदे |

अष्टाध्याय्याः द्वितीयाध्यायस्य प्रथमपादे, द्वितीयपादे च समासविधायकसूत्राणि सन्ति | द्वितीयाध्यायस्य चतुर्थपादे स्थितैः सूत्रैः समासस्य लिङ्गवचननिर्धारणं क्रियते | पञ्चमाध्यायस्य चतुर्थपादे स्थितैः सूत्रैः केषुचित् समासेषु उत्तरपदस्य अन्ते समासान्तप्रत्ययाः विधीयन्ते इति अस्माभिः पूर्वमेव दृष्टम्|षष्ठाध्यायस्य तृतीयपादे यानि सूत्राणि सन्ति, तानि उत्तरपदे इत्यस्य अधिकारे सन्ति, तेषां ज्ञानं विना समासस्य सम्पूर्णज्ञानं न भवितुम् अर्हति| अव्ययीभावे चाकाले (६.३.८१) इति सूत्रं षष्ठाध्यायस्य तृतीयपादे अस्ति|तस्य प्रयोगः उपरि प्रदर्शितः एव |

उपरि गम्यताम्





अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) इति सूत्रे आनुपूर्व्यार्थः -

xi) सूत्रे आनुपूर्व्यार्थे अव्ययम् –


आनुपूर्व्यः नाम अनुक्रमः, क्रमशः इति | अत्र अनु इति अव्ययस्य प्रयोगः क्रियते | आनुपूव्यार्थः इत्यनेन कश्चन क्रमः अपेक्षितः, यस्मिन् अर्थे अनु इति अव्ययं प्रयुज्यते अस्माभिः | यथा - माता अनुकनिष्ठं भोजनं परिवेषयति | अस्मिन् वाक्ये नियमः कः इत्युक्ते कनिष्ठम् आरभ्य परिवेषयति इत्यर्थ | अनुज्येष्ठं नमति |

ज्येष्ठस्य आनुपूर्व्येण = अनुज्येष्ठम् | अनुज्येष्ठं  प्रणमति मानवकः; अनुज्येष्ठं प्रविशन्तु भवन्तः इत्यादिवाक्यानि सिद्ध्यन्ति | यथा अनुरूपम् इत्यस्य प्रक्रिया आसीत् तथैव अत्रापि भवति |


ज्येष्ठस्य आनुपूर्व्येण इति विग्रहवाक्ये आनुपूर्व्येण इति पदस्य तृतीया किमर्थम् इति पृष्टे सति तस्य समाधानं नागेशभट्टः इति वैयाकरणेन उक्तं यत् अनुज्येष्ठं नमति इत्यादिषु वाक्येषु अनुज्येष्ठम् इति समस्तपदस्य करणरूपेण एव अन्वयः दृश्यते अतः तृतीयान्तस्य प्रयोगः क्रियते |


अलौकिकविग्रहवाक्यं ज्येष्ठ + ङस् + अनु |

एवमेव वृद्धस्य आनुपूर्व्येण = अनुवृद्धम् |


उपरि गम्यताम्




अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) इति सूत्रे यौगपद्यर्थे -

xii) सूत्रे यौगपद्यर्थे अव्ययम् –

यौग्यपद्यं नाम एककालता, युगपद् इति | युगपद् नाम समानकाले, एकत्र भवनम् इत्यर्थः | अत्र सह इति अव्ययस्य प्रयोगः क्रियते | सह इति अव्ययं यौगपद्यविशिष्टसाहित्यार्थे अस्ति |

यौगपद्यम् इति वदनेन अन्यस्य अपेक्षा वर्तते यतोहि द्वयोः एकस्मिन् काले अवस्थानम् आवश्यकम् | सचक्रं सशङ्कं विष्णुः वर्तते इति वाक्ये चक्रेण युगपत् शङ्खम् अपि वर्तते इति अर्थः अवबुद्ध्यते |


चक्रेण युगपत् = सचक्रम् |

अलौकिकविग्रहः भवति - चक्र + टा + सह इति | प्रक्रिया चिन्तनीया | प्रक्रिया यथा सहरि इत्यत्र आसीत् तथैव अत्रापि | सह इति पदस्य पूर्वनिपातः भवति | सह + चक्र इति भवति | इदानीम् अकाले उत्तरपदे परे, पूर्वपदे सह इत्यस्य स्थाने स इति आदेशः भवति | एतत् कार्यं भवति अव्ययीभावे चाकाले (६.३.८१) इति सूत्रेण | अतः सचक्रम् इति समस्तपदं निष्पन्नं भवति |

अव्ययीभावे चाकाले (६.३.८१)

अव्ययीभावसमासे ‘सह’ इत्यस्य स्थाने ‘स’ इत्ययम् आदेशो भवति अकालवाचिनि उत्तरपदे | अव्ययीभावे सप्तम्यन्तं, च अव्ययपदम्, अकाले सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | सहस्य सः संज्ञायां (६.३.७८) इत्यस्मात् सूत्रात् सहस्य, सः अनयोः पदयो: अनुवृत्तिः भवति | अलुगुत्तरपदे (६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहितसूत्रम्‌ — अव्ययीभावे च सहस्य सः अकाले उत्तरपदे |


अस्मिन् सूत्रे उत्तरपदं कालवाचिनं पदं चेत् सह स्थाने स आदेशः न भवति | यथा सहपूर्वाह्णम् इति समासः | पूर्वाह्णः इति प्रथमा- तत्पुरुषसमासः अस्ति | तस्य विग्रहवाक्यं पूर्वम् अह्नः ( दिनम्) = पूर्वाह्णः | सम्पूर्णं पूर्वाह्णम् = सहपूर्वाह्णम् |

साकल्यार्थः अग्रे वक्ष्यमाणः अस्ति | साकल्यार्थे सह इति अव्ययसंज्ञकपदेन सह समासः भूत्वा सहपूर्वाह्णम् इति भवति | अत्र उत्तरपदे पूर्वाह्णः इति कालवाचकशब्दः अस्ति | नाम दिनस्य पूर्वभागः इत्यर्थः | अत्र सह स्थाने स इति आदेशः न भवति अव्ययीभावे चाकाले (६.३.८१) इति सूत्रेण अपितु सहपूर्वाह्णम् इति एव समासः सिद्ध्यति |


उपरि गम्यताम्




अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) इति सूत्रे सादृश्यर्थः -

xiii)  सूत्रे सादृश्यर्थे अव्ययम्

सादृश्यं नाम तुल्यत्वं, गौणम् इति | अत्र सह इति अव्ययस्य प्रयोगः भवति |

सदृशः सख्या = ससखि | अलौकिकविग्रहः भवति - सखि + टा + सह इति | प्रक्रिया चिन्तनीया | प्रक्रिया यथा सहरि इत्यत्र आसीत् तथैव अत्रापि | सह इति पदस्य पूर्वनिपातः भवति | सह + सखि इति भवति | इदानीम् अकाले उत्तरपदे परे, पूर्वपदे सह इत्यस्य स्थाने स इति आदेशः भवति | एतत् कार्यं भवति अव्ययीभावे चाकाले (६.३.८१) इति सूत्रेण | ससखि इति समस्तपदम् |


काले तु सहपूर्वाह्नम् | अव्ययीभावे चाकाले (६.३.८१) इति सूत्रं कार्यं न करोति यतोहि उत्तरपदं पूर्वाह्नं कालविशेषवाची शब्दः अस्ति अतः सह स्थाने स आदेशः न भवति |


यथार्थत्वेन एव सिद्धे पुनः सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम् | अर्थात् आदौ यथा इति शब्दस्य चत्वारः अर्थाः उक्ताः, तेषु सादृश्यम् इति अर्थे समासः भवति इति पूर्वमेव उक्तम् | अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) अव्ययीभाव-समास-विधायकसूत्रे सादृशयर्थः पुनः उक्तः, किमर्थम् ?  यथार्थ-सादृश्यम् अपि च सूत्रस्थं सादृश्यं, द्वयोः भेदः कः ?


अस्य समाधानं यत् यत्र सादृश्यार्थः गौणः, अप्रधानः तत्र अपि समासः भवतु इति कृत्वा पुनः द्वितीयवारं सादृश्यं इति सूत्रे उक्तम् | यदि वयं वदामः एषः अस्माकं मित्रम् इव सदृशः अस्ति, तर्हि अत्र सादृश्यं गौणं, सादृश्यवान् पुरुषः प्रधानः अस्ति | यदि वयं वदामः तस्मिन् पुरुषे अस्माकं मित्रस्य समानता अस्ति तर्हि तत्र सादृश्यं प्रधानं, सदृशवान् पुरुषः अप्रधानः | एवञ्च सादृश्यं गौणम् अथवा प्रधानं भवति, द्वयोः अवस्थायां समासं कर्तुं सादृश्यार्थे पुनः समासस्य विधानः कृतः सूत्रे | सूत्रस्थं सादृश्यं गौणसादृश्यं सूचयति | यथार्थे सादृश्यं प्रधानसादृश्यं सूचयति |


एवञ्च सादृश्यं प्रधानं वा अप्रधानं वा, उभयत्र समाससाधनार्थं अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इति सूत्रे सादृश्यं द्विवारम् उक्तम् |

यथार्थे सादृश्यस्य प्राधान्यम् – प्रद्युम्ने सहरि दरीदृश्यते | दरिदृश्यते इति यङन्तरूपं दृश्-धातोः | अस्मिन् वाक्ये सादृश्यमेव कर्ता अस्ति | कर्ता एव वाक्ये प्रधानः भवति, अतः अत्र सादृश्यं प्रधानम् अस्ति, सदृशवान् पुरुषः अप्रधानः |

सूत्रे स्थितस्य सादृश्यस्य विषये तु सादृश्ययुक्तस्य प्राधान्यं – सहरि प्रद्युम्नः गुणवान् आसीत् | अस्मिन् वाक्ये प्रद्युम्नः यः कर्ता अस्ति सः एव प्रधानः अस्ति | प्रद्युम्नः हरि इव सदृशः अस्ति | सादृश्यं गौणं, प्रद्युम्नस्य प्रधानता अस्ति |


उपरि गम्यताम्


अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) इति सूत्रे सम्पत्त्यर्थः -

xiv)  सूत्रे सम्पत्त्यर्थे अव्ययम् –

सम्पत्तिः इत्युक्ते अनुरूपः, आत्मभावः इति|पुरुषेषु विद्यमानः मूलस्वभावः | अत्र सम्पत्तिः इत्युक्ते धनं नास्ति |

प्रश्नः उदेति यत् प्रकृतसूत्रे समृद्धिः इति उक्तं, तर्हि सम्पत्तिः इति पुनः कथनस्य का आवश्यकता अस्ति इति |

तस्य समाधानम् अस्ति यत् ऋद्धेः ( धनं धान्यम् इत्यादिकम्) आधिक्यं समृद्धिः;  अनुरूपः, आत्मभावः सम्पत्तिः इति | समृद्धिः, सम्पत्तिः च अनयोः भेदः वर्तते | धनस्य आधिक्यं समृद्धिः, अनुकूलः आत्मभावः (कर्म) सम्पत्तिः | अर्थात् स्वोचितभावः सम्पत्तिः इति |


अनेन कारणेन एव

अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)   इति सूत्रे समृद्धिः इति पृथक्तया उक्ता, सम्पत्तिः इत्यपि पुनः पृथक्तया उक्ता यतोहि तयोः अर्थभेदः विवक्षितः |

क्षत्राणां सम्पत्तिः = सक्षत्रम् | क्षत्रियाणाम् अनुरूपम् आत्मभावस्य वृद्धिः (कर्मसम्पत्तिः) | सक्षत्रम् इत्यत्र क्षत्रियाणां योग्यं क्षत्रत्वम् इत्यर्थः | वाक्यम् - सक्षत्रं रामः रावणेन युद्धम् अकरोत् | सब्राह्मणं शिष्यः वेदम् अधीते |


अलौकिकविग्रहवाक्यं क्षत्र + आम् + सहसमाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | अव्ययीभावः (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति |  अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)   इति सूत्रेण सह इति अव्ययं समर्थेन शक्ति इति सुबन्तेन सह समस्यते |

क्षत्र + आम् + सह समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |

क्षत्र + आम् + सह इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अतः क्षत्र+ ङस् + सह इत्यस्मिन्‌ आम् इत्यस्य लुक्‌ → क्षत्र + सह इति |


क्षत्र + सह सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'सह' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण | अतः सह इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |


क्षत्र + सह अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इति समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण  | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र सह इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |


सहक्षत्र → अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | सहक्षत्र इत्यस्य अव्ययसंज्ञा भवति | इदानीं लिङ्गस्य निर्णयः भवति | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः सहक्षत्र इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |


सहक्षत्र → ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति अतः सहक्षत्र इति भवति |


सहक्षत्र → अव्ययीभावे चाकाले (६.३.८१) इति सूत्रेण अव्ययीभावसमासे ‘सह’ इत्यस्य स्थाने ‘स’ इत्ययम् आदेशो भवति अकालवाचिनि उत्तरपदे | क्षत्र इति अकालवाचिशब्दः अस्ति अतः अव्ययीभावे चाकाले (६.३.८१) इति सूत्रेण सह स्थाने स इति आदेशः भवति अतः सक्षत्र इति भवति |


सक्षत्र+ सु सक्षत्र इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति  सक्षत्रात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |


सक्षत्र + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु सक्षत्रम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- सक्षत्रम् / सक्षत्रेण, सक्षत्रम् / सक्षत्रे, अन्यासु विभक्तिषु सक्षत्रम् इति रूपं सिद्धं भवति |

अव्ययीभावे चाकाले (६.३.८१)

अव्ययीभावसमासे ‘सह’ इत्यस्य स्थाने ‘स’ इत्ययम् आदेशो भवति अकालवाचिनि उत्तरपदे | अव्ययीभावे सप्तम्यन्तं, च अव्ययपदम्, अकाले सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | सहस्य सः संज्ञायां (६.३.७८) इत्यस्मात् सूत्रात् सहस्य, सः अनयोः पदयो: अनुवृत्तिः भवति | अलुगुत्तरपदे (६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहितसूत्रम्‌— अव्ययीभावे च सहस्य स अकाले उत्तरपदे |


उपरि गम्यताम्




अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) इति सूत्रे साकल्यार्थः-

xv)  सूत्रे साकल्यार्थे अव्ययम् –

साकल्यं नाम अशेषता, सम्पूर्णः इत्यर्थः | अत्र सह इति अव्ययस्य प्रयोगः क्रियते |

कलं नाम अवयवः; कलाभिः सह वर्तते इति सकलम् , सकलस्य भावः साकल्यम् | साकल्यं नाम सम्पूर्णता, अशेषता |

तृणम् अपि अपरित्यज्य = सतृणम् अत्ति | सतृणम् इत्यस्य प्रयोगः सम्पूर्णार्थे अस्ति | अर्थात् यः सर्वं खादति, किमपि न त्यजति | लेशमात्रमपि अत्यक्तवा यः खादति | तृणम् अपि अपरित्यज्य, सतृणम् अत्ति इत्यर्थः | तृण + टा + सह इति अलौकिकविग्रहः |

वाक्यं = भिक्षुकः सतृणम् अत्ति | अत्र तृणं हरितकं नास्ति अपि तु अल्पांशं द्योतयति |

बुसम् अपि अपरित्यज्य = सबुसम् अत्ति | बुसम् नाम bran, waste.


उपरि गम्यताम्




अव्ययं-विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) इति सूत्रे अन्तवचनार्थः -

xvi)  सूत्रे अन्तवचनार्थे अव्ययम् –

अन्तवचनं नाम समाप्तिः इत्यर्थः | अत्र सह इति अव्ययस्य प्रयोगः क्रियते | यस्य अन्तः, समाप्तिः भवति, तादृशवस्तु ग्राह्यम् |

अग्निग्रन्थपर्यन्तम् अधीते =साग्नि | अग्नि-ग्रन्थस्य समाप्तेः पर्यन्तं यः पठति | अलौकिकविग्रहवाक्यं अग्नि + टा + सहसमाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | अव्ययीभावः (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)   इति सूत्रेण सह इति अव्ययं समर्थेन शक्ति इति सुबन्तेन सह समस्यते |


अग्नि + टा + सह समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |

अग्नि + टा + सह इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अतः अग्नि + टा + सह इत्यस्मिन्‌ टा इत्यस्य लुक्‌ → अग्नि + सह इति |

अग्नि + सह सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'सह' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण | अतः सह इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |


अग्नि + सह अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इति समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र सह इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |



सह+अग्नि → अकः सर्वणे दीर्घः इत्यनेन सवर्णदीर्घसन्धिः → सहाग्नि |

सह+अग्नि → अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | सहाग्नि इत्यस्य अव्ययसंज्ञा भवति | इदानीं लिङ्गस्य निर्णयः भवति | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः सहाग्नि इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |

सहाग्नि → ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति अतः साग्नि इति भवति |


सहाग्नि → अव्ययीभावे चाकाले (६.३.८१) इति सूत्रेण अव्ययीभावसमासे ‘सह’ इत्यस्य स्थाने ‘स’ इत्ययम् आदेशो भवति अकालवाचिनि उत्तरपदे | अग्नि इति अकालवाचिशब्दः अस्ति अतः अव्ययीभावे चाकाले (६.३.८१) इति सूत्रेण सह स्थाने स इति आदेशः भवति अतः साग्नि इति भवति

साग्नि + सु सहरि इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना प्रातिपदिकात् सुप् प्रत्ययस्य उत्पत्तिः भवति अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण अव्ययात् सुप् प्रत्ययस्य लोपः भवति | साग्नि इति समस्तपदं निष्पन्नम् |

पशुबन्धग्रन्थपर्यन्तम् = सपशुबन्धम् | सः सपशुबन्धम् अधीते |


एतावता अस्माभिः

अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)   इति सूत्रे उक्तानाम् अर्थानां विवरणं सोदाहरणं ज्ञातम् | स्मर्तव्यं यत्

अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)   इति सूत्रे अन्येऽपि अर्थाः स्वीकृताः सन्ति यतोहि तादृशप्रयोगाः बहवः दृश्यन्ते  काव्येषु, ग्रन्थेषु च | प्रकृतसूत्रे योगविभागं कृत्वा अथवा सह सुपा ( २.१.४) इति सूत्रेण शिष्टैः प्रयुक्तानां समासानां समर्थनं क्रियते |


उपरि गम्यताम्

Vidhya - March 2020