14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
(11 intermediate revisions by the same user not shown)
Line 975:
 
 
<big>यत्र द्वन्द्वतत्पुरुषसमासे उत्तरपदे रात्र,अहन्, अह च भवति तत्र युग्पत् '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६), '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति एतयोः सूत्रयोः प्रसक्तिः भवति, तर्हि किं सूत्रं कार्यं कुर्यात् इति प्रश्नः उदेति | अत्र एका परिभाषा प्रवर्तते - '''अनन्तरस्यपुरस्तादपवादाः विधिर्वाअनन्तरान् प्रतिषेधोविधीन् वाबाधन्ते नोत्तरान् इति''' | अस्यांअर्थात् परिभाषायांपूर्वमेव वायः इतिअपवादः शब्दःअस्ति सः इत्यस्मिन्अनन्तरस्य अर्थेविधिं प्रयुक्तःबाधते न तु उत्तरस्य अस्ति | अर्थात्अपवादसूत्रं यः विधिःसमीपवर्तिनं बाधते | '''सः नपुंसकम्''' ( २.४.१७) इति अपवादसूत्रं पूर्वमस्ति, निषेधःअतः तत् अनन्तरम्समीपवर्तिनं सूत्रं बाधते | अत्र समीपवर्तिसूत्रम् अस्ति '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति | अतः अस्याः परिभाषायाः बलेन '''सः विधिः,नपुंसकम्''' निषेधः( २.४.१७) समीपवर्तिनं इति सूत्रं '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति परसूत्रेण या परवल्लिङ्गता विधीयते, ताम् अपवादत्वात् बाधते | विधिः'''सः वानपुंसकम्''' प्रतिषेधः( वा२.४.१७) अनन्तरस्यैवइति अव्यवहितस्यैवसूत्रं भवति'''रात्राह्नाहाः पुंसि''' तु( व्यवहितस्य२.४.२९) इति परिभाषार्थःसूत्रस्य अपवादः नास्ति यतोहि तत् समीपवर्ति नास्ति | '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रम् अनन्तरविधिःअपवादसूत्रेण इतिरात्राह्नाहान्तः कारणेनद्वन्द्वतत्पुरुषः समीपवर्तिनंपुंल्लिङ्गे सूत्रंभवति | रात्राह्नाहान्तद्वन्द्वतत्पुरुषाः पुंसीत्यर्थः | अनन्तरत्वात्परवल्लिङ्गतापवादोऽप्ययं परत्वात्समाहारनपुंसकतां बाधते | '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रं '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति पूर्वसूत्रेण या परवल्लिङ्गता विधीयते, तं बाधित्वा '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति अपवादसूत्रेण पुंस्त्वं विधीयते | अत्रअनन्तरस्य समीपवर्तिसूत्रम्विधिः अस्तिसमीपवर्तिनं बाधते अतः '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रमेव बाधते | अतः अस्याःअहश्च परिभाषायाःरात्रिश्च बलेनइति इतरेतरद्वन्द्वे '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रेण समासस्य स्त्रीलिङ्गत्वं प्राप्तम् अस्ति, तं बाधित्वा '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रंअपवादसूत्रेण पुंस्त्वं विधीयते | अहश्च रात्रिश्च अनयोः समाहारद्वन्द्वे '''स नपुंसकम्''' ( २.४.१७) इति सूत्रम् '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति पूर्वसूत्रेणसूत्रस्य याअपवादः परवल्लिङ्गता विधीयतेअस्ति, ताम्अतः अपवादत्वात्समासः बाधतेनपुंसकलिङ्गे स्यात् | किन्तु अत्र '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रम्सूत्रमपि अपवादसूत्रेणप्राप्तम् रात्राह्नाहान्तःअस्ति द्वन्द्वतत्पुरुषः| पुंल्लिङ्गे '''स नपुंसकम्''' ( २.४.१७), '''रात्राह्नाहाः पुंसि''' ( २.४.२९) च इति अनयोः मध्ये परत्वात् '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रेण पुंस्त्वं भवति समासस्य अतः अहोरात्रः इति समासः पुंलिङ्गे भवति | समाहारद्वन्द्वे '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रं '''स नपुंसकम्''' ( २.४.१७) इति सूत्रं न बाधते '''अनन्तरस्य विधिर्वा प्रतिषेधो वा इति''' परिभाषायाः बलेन यतोहि '''स नपुंसकम्''' ( २.४.१७) इति सूत्रं समीपवर्तिनं नास्ति |</big>
 
<big>यत्र द्वन्द्वतत्पुरुषसमासे उत्तरपदे रात्र,अहन्, अह च भवति तत्र युग्पत् '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६), '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति एतयोः सूत्रयोः प्रसक्तिः भवति, तर्हि किं सूत्रं कार्यं कुर्यात् इति प्रश्नः उदेति | अत्र एका अन्यापि परिभाषा प्रवर्तते - '''अनन्तरस्य विधिर्वा प्रतिषेधो वा इति''' | अस्यां परिभाषायां वा इति शब्दः च इत्यस्मिन् अर्थे प्रयुक्तः अस्ति | अर्थात् यः विधिः, निषेधः च अनन्तरम् अस्ति सः विधिः, निषेधः च समीपवर्तिनं बाधते | विधिः वा प्रतिषेधः वा अनन्तरस्यैव अव्यवहितस्यैव भवति न तु व्यवहितस्य इति परिभाषार्थः | '''रात्राह्नाहाः''' पुंसि ( २.४.२९) इति सूत्रम् अनन्तरविधिः इति कारणेन समीपवर्तिनं सूत्रं बाधते | अत्र समीपवर्तिसूत्रम् अस्ति '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति | अतः अस्याः परिभाषायाः बलेन '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रं '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति पूर्वसूत्रेण या परवल्लिङ्गता विधीयते, ताम् अपवादत्वात् बाधते | '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रम् अपवादसूत्रेण रात्राह्नाहान्तः द्वन्द्वतत्पुरुषः पुंल्लिङ्गे भवति | '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रम् '''स नपुंसकम्''' ( २.४.१७) इति सूत्रं न बाधते यतोहि '''स नपुंसकम्''' ( २.४.१७) इति सूत्रम् अव्यवहितपूर्वं नास्ति | परन्तु परतत्वात् बाधयितुं शक्यते |</big>
 
<big>'''संख्यापूर्वं रात्रं क्लीबम्''' | इदं वार्तिकं नास्ति अपि तु लिङ्गानुशासनस्य सूत्रम् | यस्मिन् समासे संख्यावाचकं पदम् पूर्वपदे अस्ति अपि च उत्तरपदं रात्रशब्दः अस्ति तर्हि समासः नपुंसकलिङ्गे भवति | अयं नियमः '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इत्यस्य अपवादः अस्ति | यथा - द्वयोः रात्र्योः समाहारः = द्विरात्रम् | एवमेव त्रिरात्रं, चतूरात्रम् |</big>
----
Line 3,751 ⟶ 3,754:
 
 
<big>५)     षष्ठ्यन्तं समर्थं सुबन्तम् अधिकरणार्थे विहितस्य क्तप्रत्ययस्य, तदन्तेन सुबन्तेन सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते |</big>
 
 
Line 3,757 ⟶ 3,760:
 
 
<big>षष्ठ्यन्तं समर्थं सुबन्तम् अधिकरणार्थे विहितः क्तप्रत्ययः, तदन्तेन सुबन्तेन षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते  | अधिकरणार्थे '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण क्तप्रत्ययः विधीयते  | तादृशस्य क्तप्रत्ययान्तस्य एव अधिकरणवाचिना इति शब्दस्य द्वारा ग्रहणं भवति | अधिकरणं वक्ति इति अधिकरणवाची, तेन, अधिकरणवाचिना | अधिकरणवाचिना तृतीयान्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''क्तेन च पूजायाम्''' (२.२.१२) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् अधिकरणवाचिना क्तेन सुपा सह  न तत्पुरुषः समासः च |'''</big>
 
 
Line 3,775 ⟶ 3,778:
 
 
<big>इदम् एषाम् आसितम् इत्यत्र आस् इति अकर्मकधातुः ध्रौव्यार्थे अस्ति इति कृत्वा '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण अधिकरणार्थे क्तप्रत्ययः विधीयते, अतः आसितम् इति रूपं लभ्यते | अत्र क्तप्रत्ययः अधिकरणार्थे विहितः इत्यतः अधिकरणम् उक्तं भवति येन अधिकरणस्य प्रथमाविभक्तिः एव जायते | इदम् इति अधिकरणवाचिशब्दः , आसितम् इति क्तान्तेन उक्तः इति कृत्वा इदम् इति प्रथमाविभक्तौ अस्ति | सामान्यतया अधिकरणस्य सप्तमीविभक्तिः जायते यदि अधिकरणं प्रत्ययेन अनुक्तं भवति | परन्तु अत्र क्तप्रत्ययेन अधिकरणम् उक्तम् इत्यतः अधिकरणस्य प्रथमा जायते | आसितम् इत्यनेन इदम् इति अधिकरणम् उक्तम् परन्तु इमे इति कर्तारः तु अनुक्ताः सन्ति | तर्हि आसितम् इति क्तप्रत्ययान्तस्य योगे इमे इति कर्तॄणां षष्ठी प्राप्ता अस्ति '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण | तस्याः षष्ठेः निषेधः क्रियते '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण | पुनः '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे कर्तुः षष्ठी विभक्तिर्भवति | आसितम् इति क्तान्तस्य योगे अनुक्तकर्तरि षष्ठी विभक्तिः जायते | अतः एषाम् इति षष्ठ्यन्तं जायते | वाक्यं भवति एषांएषाम् इदम् आसितम् इति |</big>
 
 
Line 3,782 ⟶ 3,785:
 
<big>इदम् एषां गतं – गम् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, गत इति प्रातिपदिकं निष्पन्नम् | अधिकरणार्थे गतम् इति क्तप्रत्ययान्तस्य शब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्तः आसीत् तस्य निषेधः क्रियते '''अधिकरणवाचिना च''' (२.२.१३) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषां गतम् |</big>
 
 
 
<big>इदम् एषां भुक्तम् – भुज् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, भुक्त इति प्रातिपदिकं निष्पन्नम् | अधिकरणार्थे भुक्तम् इति क्तप्रत्ययान्तस्य शब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्त आसीत् तस्य निषेधः क्रियते '''अधिकरणवाचिना च''' (२.२.१३) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषां भुक्तम् |</big>
 
 
 
 
 
 
 
 
<big><u>'''एकस्मिन् वाक्ये कर्तुः कर्मणः च द्वयोः प्राप्तिः चेत्'''</u></big> -
Line 3,790 ⟶ 3,801:
 
 
<big>यदि '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण अधिकरणार्थे क्तप्रत्ययः विहितः तर्हि एकस्मिन्नेव वाक्ये कर्तृकर्मणी द्वे अपि अनुक्ते भवितुम् अर्हतः | एवं चेत् '''अधिकरणवाचिनश्च''' ( २.३. ६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे अनुक्तकर्तुः षष्ठी विभक्तिर्भवति वा नो चेत् अनुक्तकर्मणः भवति वा नो चेत् द्वयोः अपि भवति वा ?</big>
 
 
<big>अस्य प्रश्नस्य समाधानार्थं किञ्चित् सूत्रक्रमविषये चिन्तनीयं भवति | क्तप्रत्ययान्तशब्दः तु कृदन्तः वर्तते इति कारणेन '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण कृद्योगे अनुक्ते कर्तरि कर्मणि च षष्ठी स्यात् | किन्तु अस्य सूत्रस्य नियमनं क्रियते '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इत्यनेन | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रेण कर्तृकर्मणोः उभयोः प्राप्तिः यस्मिन् कृति वर्तते तत्र कर्मण्येव षष्ठी विभक्तिर्भवति, न तु कर्तरि | पुनः '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण '''कर्तृकर्मणोः कृति''' (२.३.६५) इति प्राप्तासूत्रेण षष्ठीप्राप्तायाः प्रतिषिध्यतेषष्ठ्याः प्रतिषेधः | अनेन ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति | पुनः '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति इत्युक्तम् | '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रं तु '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इत्यस्य अपवादः अस्ति |</big>
 
 
Line 3,808 ⟶ 3,819:
|-
|'''<big>उभयप्राप्तौ कर्मणि ( २.३.६६)</big>'''
|<big>'''कर्तृकर्मणोः कृति'''<nowiki> (२.३.६५) इत्यस्य नियमनम् | उभयप्राप्तौ कर्मणि एव षष्ठी</nowiki></big>
|<big>नियमसूत्रं</big>
|-
|'''<big>क्तस्य च वर्तमाने ( २.३. ६७)</big>'''
|<big>'''मतिबुद्धिपूजार्थेभ्यश्'''च ( ३.२.१८८) इत्यनेन वर्तमानार्थे विहितस्य क्तस्य योगे षष्ठी भवति कर्तुः '''क्तस्य च वर्तमाने''' इत्यनेन सूत्रेण ।</big>
|<big>अपवादसूत्रम्अपवादसूत्रं</big> <big>'''(न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३. ६९) इत्यस्य)'''</big>
|-
|'''<big>अधिकरणवाचिनश्च ( २.३.६८)</big>'''
|<big>'''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः'''<nowiki>( ३.४.७६) इत्यनेन अधिकरणार्थे विहितस्य क्तस्य योगे षष्ठी भवति '''अधिकरणवाचिनश्च'''<nowiki> इत्यनेन |</nowiki></big>
|<big>अपवादसूत्रम्अपवादसूत्रं</big> <big>'''(न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३. ६९) इत्यस्य)'''</big>
|-
|'''<big>न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३. ६९)</big>'''
|<big>'''कर्तृकर्मणोः कृति''' (२.३.६५) इति प्राप्ता षष्ठी प्रतिषिध्यते</big>
|<big>निषेधकसूत्रं</big> <big>'''(कर्तृकर्मणोः कृति''' ( २.३.६५) इत्यस्य )'''</big>
|}
 
Line 3,840 ⟶ 3,851:
 
 
<big>'''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रस्य न्यासव्याख्यायामेवम्</big> <big>उक्तं यत् यत्र कर्ता एव संभवति तत्र कर्तरि</big> <big>षष्ठी</big> <big>भवति, यथा – इदम् एषाम् आसितमिति | अस्य एव लटि वाक्यम् अस्ति - अस्मिन् इमे आसते | अत्र आसेः (आस्-धातोः) अकर्मकत्वात् कर्ता एव सम्भवति, न कर्म | यत्र तु कर्म, कर्ता द्वयमपि सम्भवति तत्र उभयत्रापि षष्ठी भवति, यथा – इदम् एषां भुक्तम् ओदनस्य इति | भुजेः ( भुज्-धातोः) सकर्मकत्वात् कर्म अपि अस्ति एव ओदनः | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति नियमः कस्मात् न भवति? '''कर्त्तृकर्मणोःकर्तृकर्मणोः कृति''' ( २.३.६५ ) इत्यस्याः षष्ठ्याः प्राप्तेः एव नियमो विज्ञायते | `'''अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या।प।१९) इति, `मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्`''' (व्या।प।१०) इति वा |</big>
 
 
Line 3,850 ⟶ 3,861:
 
 
१) <big>'''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषा | अनन्तरस्यैव विधिः वा प्रतिषेधः वा अनन्तरस्यैव अव्यवहितस्यैव भवति न तु व्यवहितस्य इति परिभाषार्थः | अस्यां परिभाषायां वा इति शब्दः '''<u>च</u>''' इत्यस्मिन् अर्थे प्रयुक्तः अस्ति |</big>
 
 
<big>'''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रे उक्तं यत् उभयप्राप्तिः यस्मिन् कृति तत्र कर्मणि एव षष्ठी स्यात् | अस्मिन् सूत्रे कर्तुः षष्ठी न स्यात् इति यः प्रतिषेधः वर्तते, सः प्रतिषेधः अनन्तरस्यैवसमीपवर्तिनः अव्यवहितस्यैव भवति न तु व्यवहितस्य इति | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रस्यसूत्रम् साक्षात्'''कर्तृकर्मणोः परंकृति ('''क्तस्य २.३.६५''')''' वर्तमाने इति सूत्रस्य अनन्तरं वर्तते, अतः '''उभयप्राप्तौ कर्मणि''' ( २.३. ६७६६) इतिइत्यस्मिन् सूत्रम्यः प्रतिषेधः वर्तते सः प्रतिषेधः समीपवर्तिनः अव्यवहितस्य सूत्रस्य एव अस्तिबाधां करोति | अतः यदि '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रेणसूत्रम् उक्तस्य'''कर्तृकर्मणोः प्रतिषेधस्यकृति''' कार्यम्( अनन्तरस्य२.३.६५) अव्यवहितस्य, '''क्तस्य च वर्तमाने''' ( २.३. ६७) इति सूत्रेसूत्रद्वयमेव एवबाधते भवितुम्| अर्हति अस्याःफलितार्थः एवं यत् '''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषायाः आधारेण तर्हि'''उभयप्राप्तौ अस्यकर्मणि''' ( २.३.६६) इति सूत्रेण '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रस्य निषेधःप्रतिषेधःभवतिस्यात् | एवञ्चेत् '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रम् '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रेसूत्रं न बाधते इत्यतः कर्तुः कर्मणः च षष्ठीविभक्तिः भवितुम् अर्हति '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रेण | |</big>
 
 
 
२) <big>'''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषा | अनया परिभाषया सूत्रपाठे सामान्यशास्त्रमध्ये पठितानि विशेषसूत्राणि (अपवादसूत्राणि) स्वापेक्षया पूर्वाणि एव तानि बाधन्ते न तु पराणि इति परिभाषार्थः | मध्ये पठिता:पठिताः अपवादाः पूवस्यैव विधेः बाधकाः भवन्ति, उत्तरस्य विधेः बाधकाः न भवन्ति इत्यर्थः |</big>
 
 
<big>सामान्यशास्त्रम् अस्ति '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रं, विशेषशास्त्रम् अस्ति '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति विशेषसूत्रं '''कर्तृकर्मणोः कृति''' ( २.३.६५)''',''' '''क्तस्य च वर्तमाने''' ( २.३. ६७), '''अधिकरणवाचिनश्च''' (२.३.६८), '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३. ६९) इति सूत्राणां मध्ये पठितं वर्तते इति कारणात् इदं'''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रं केवलं '''कर्तृकर्मणोः कृति (''' ( २.३.६५''')''' इति अव्यवहितं पूर्वसूत्रम् एव बाधते न तु पराणि सूत्राणि | अनया परिभाषया '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रं केवलं '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति पूर्वसूत्रस्य एव बाधकम् अस्ति न तु अन्येषां परसूत्राणाम्परसूत्राणां '''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः बलेन | अतः '''अधिकरणवाचिनश्च''' (२.३.६८) इति सूत्रेण कर्तृकर्मणोद्वयोरपि षष्ठी भवितुम् अर्हति न तु केवलं कर्तुः एव | अतः एव इदमेषां भुक्तमोदनस्य इति उदाहरणं सम्भवति |</big>
 
 
 
<big>आहत्य यत्र कर्ता, कर्म च द्वयमपि अनुक्तं एकस्मिन्नेव वाक्ये अपि च क्तप्रत्ययः अधिकरणार्थे विहितः तत्र द्वयोः षष्ठीविभक्तिः भवति '''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः बलेन अथवा '''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषायाः बलेन | कथञ्चित् अपि वयं समर्थयितुं शक्नुमः |</big>
 
 
 
<big>अत्र अन्यापि परिभाषा वर्तते - '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्''' इति | अस्याः परिभाषायाः अर्थः एवमस्ति - सूत्रपाठक्रमे पूर्वपठितानि विशेषशास्त्राणि स्व-अव्यवहितानि सामान्यशास्त्राणि एव बाधन्ते न तु व्यवहितानि | यथा सूत्रपाठक्रमे '''एत्येधत्यूठसु''' ( ६.१.८९) इति विशेषशास्त्रं, तदव्यवहितसामान्यशास्त्रं '''एङि पररूपं''' ( ६.१.९४), अतः तदेव बाधते न तु व्यवहितम् '''ओमाङोश्च''' (६.१.९५) इति पररूपम् |</big>
 
 
<big>तेन अव + एहि (आ + इहि ) इति स्थितिः | महाभाष्ये उक्तं उअत् धातूपसर्गयोः अन्तरङ्गत्वात्‌ आ + इहि इति प्रथमं कार्यम्‌ | आ + इहि इत्यत्र आङ्-उपसर्गस्य 'इहि' इत्यस्य इकारेण सह गुणैकादेशे कृते '''आद्गुणः''' (६.१.८७) इत्यनेन सूत्रेण '''एहि''' इति रूपं प्राप्यते |</big>
 
<big>अव + एहि इति स्थितौ बहूनि सूत्राणि प्रसक्तानि | अत्र सूत्रक्रमः एवमसति -</big>
{| class="wikitable"
|+
!<big>सूत्रक्रमः</big>
!<big>सूत्रार्थः</big>
!<big>सम्बन्धः</big>
|-
|<big>'''वृद्धिरेचि''' (६.१.८८)</big>
|<big>अवर्णात् एच्-वर्णे परे संहितायाम् पूर्वपरयोः एकः वृद्धि-एकादेशः भवति ।</big>
|<big>उत्सर्गसूत्रम्</big>
|-
|<big>'''एत्येधत्यूठ्सु''' (६.१.८९)</big>
|<big>अवर्णात् इण्-धातोः एध्-धातोः च एच्-वर्णे परे तथा ऊठ्-शब्दे परे संहितायाम् पूर्वपरयोः एकः वृद्धि-आदेशः भवति ।</big>
|<big>इदं सूत्रम् '''एङि पररूपं''' ( ६.१.९४) इत्यस्य अपवादः ।</big>
|-
|<big>'''एङि पररूपं''' ( ६.१.९४)</big>
|<big>अवर्णान्तात् उपसर्गात् एकारादि/ओकारादि-धातुरूपे परे पूर्वपरयोः एकः पररूपः आदेशः भवति ।</big>
|<big>इदं सूत्रं '''वृद्धिरेचि''' (६.१.८८) इत्यस्य अपवादः ।</big>
|-
|<big>'''ओमाङोश्च''' (६.१.९५)</big>
|<big>अवर्णात् ओम्-शब्दे परे आङ्-शब्दे च परे संहितायाम् पूर्वपरयोः एकः पररूप-एकादेशः भवति ।</big>
|<big>इदं सूत्रं '''वृद्धिरेचि''' (६.१.८८) इत्यस्य अपवादः ।</big>
|}
 
<big>अव + एहि इति स्थितौ '''वृद्धिरेचि''' (६.१.८८) इति सूत्रम् आदौ प्रसक्तम् अस्ति किन्तु तत्सूत्रं प्रबाध्य '''एङि पररूपं''' (६.१.९४) इत्यनेन पररूपादेशः प्राप्तः अस्ति | किन्तु '''एङि पररूपं''' (६.१.९४) इति सूत्रं बाधित्वा '''एत्येधत्यूठ्सु''' (६.१.८९) इत्यनेन वृद्ध्येकादेशः प्राप्तः अस्ति | अधुना '''ओमाङोश्च''' (६.१.९५) इत्यनेन पररूपादेशः अपि प्राप्तः अस्ति यतोहि '''अन्तादिवच्च''' (६.१.८४) इत्यनेन एहि इत्यत्र यः एकारः 'आ + इ' इत्यनयोः प्रतिनिधिः, तस्माच्च आङ्त्वं स्वीक्रियते | '''अन्तादिवच्च''' (६.१.८४) इत्यनेन 'एकः पूर्वपरयोः' अस्मिन् अधिकारे उक्तः एकादेशः पूर्वशब्दस्य अन्तिमवर्णवत्, तथा परशब्दस्य आदिवर्णवत् भवति | '''एत्येधत्यूठ्सु''' (६.१.८९) इति सूत्रं यथा '''एङि पररूपं''' (६.१.९४) इति सूत्रस्य अपवादः तथा '''ओमाङोश्च''' (६.१.९५) इत्यस्यापि अपवादः अस्ति वा?</big>
 
<big>'''एत्येधत्यूठ्सु''' (६.१.८९) इति विशेषसूत्रम् '''एङि पररूपं''' (६.१.९४) इति सामान्यशास्त्रम् अस्ति | अतः '''एत्येधत्यूठ्सु''' (६.१.८९) इति विशेषसूत्रम् स्वस्मात् अव्यवहितस्य परस्य '''एङि पररूपं''' (६.१.९४) इति सामान्यसूत्रस्य बाधां करोति न तु व्यवहितस्य '''ओमाङोश्च''' (६.१.९५) इति सूत्रस्य कार्यम् | '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्''' इति पारिभाषायाः बलेन अतः अत्र '''ओमाङोश्च''' (६.१.९५) इत्यनेन पररूपमेव भवति न तु वृद्धिः '''एत्येधत्यूठ्सु''' (६.१.८९) इति सूत्रेण | अतः अवेहि इति रूपं लभ्यते |</big>
<big>सामान्यशास्त्रम् अस्ति '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रं, विशेषशास्त्रम् अस्ति '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति विशेषसूत्रं '''कर्तृकर्मणोः कृति''' ( २.३.६५)''',''' '''क्तस्य च वर्तमाने''' ( २.३. ६७), '''अधिकरणवाचिनश्च''' (२.३.६८), '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३. ६९) इति सूत्राणां मध्ये पठितं वर्तते इति कारणात् इदं सूत्रं केवलं '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति अव्यवहितं पूर्वसूत्रम् एव बाधते न तु पराणि सूत्राणि | अनया परिभाषया '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रं केवलं '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति पूर्वसूत्रस्य एव बाधकम् अस्ति न तु अन्येषां परसूत्राणाम् | अतः '''अधिकरणवाचिनश्च''' (२.३.६८) इति सूत्रेण कर्तृकर्मणोद्वयोरपि षष्ठी भवितुम् अर्हति न तु केवलं कर्तुः एव | अतः एव इदमेषां भुक्तमोदनस्य इति उदाहरणं सम्भवति |</big>
 
<big>प्रकृतस्थितौ</big> '''<big>पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्</big>''' <big>इति पारिभाषायाः बलेन '''क्तस्य च वर्तमाने''' ( २.३.६७), '''अधिकरणवाचिनश्च''' ( २.३.६८) चेति द्वे विशेषसूत्रे (अपवादसूत्रे) तयोः अनन्तरं विद्यमानस्य सामान्यसूत्रस्य '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रस्य बाधां करोति |</big>
<big>आहत्य यत्र कर्ता कर्म च द्वयमपि अनुक्तं एकस्मिन्नेव वाक्ये अपि च क्तप्रत्ययः अधिकरणार्थे विहितः तत्र द्वयोः षष्ठीविभक्तिः भवति '''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः बलेन अथवा '''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषायाः बलेन | कथञ्चित् अपि वयं समर्थयितुं शक्नुमः |</big>
 
 
 
<big>'''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) =  ध्रौव्यागतिप्रत्यवसानार्थेभ्यःध्रौव्यगतिप्रत्यवसानार्थेभ्यः यः क्तो विहितः सः अधिकरणे भवति | ध्रौव्यार्थकेभ्यः ( स्थिरतावाचकेभ्यः) , गत्यर्थकेभ्यः, प्रत्यवसानार्थकेभ्यः( भोजनार्थकेभ्यः) च धातुभ्यः अधिकरणर्थे क्तप्रत्ययः विधीयते | '''चाद्यथाप्राप्तम्''' - अस्मिन् सूत्रे अधिकरणार्थे क्तप्रत्ययः विधीयते इत्यतः कर्मार्थे, भावार्थे तस्य निषेधः न स्यात्, एतदर्थं सूत्रे चकारग्रहणम् अस्ति | अतः यथाप्राप्तं कर्त्रर्थे, कर्मार्थे, भावार्थे च क्तप्रत्ययस्य समुच्चयः क्रियते | सूत्रे चकारग्रहणेन यथाप्राप्तं कर्त्रर्थे, कर्मार्थे ,भावार्थे च क्तप्रत्ययः विधीयते | ध्रौव्यार्थाः अकर्मकाः, प्रत्यवसानार्थाः अभ्यवहारार्थाः ( food) इति स्वनिकायप्रसिद्धिः |  निकाय इत्युक्ते विषयः इत्यर्थः | ध्रौव्यं नाम स्थैर्यम्, स्थिरता | सूत्रे ध्रौव्यशब्देन स्थिरता इत्यस्मिन् अर्थे ये धातवः सन्ति तेषां सर्वेषां ग्रहणं भवति | एवमेव गत्यर्थकानां प्रत्यवसानार्थकानां च ग्रहणं भवति | ध्रौव्यं च गतिश्च प्रत्यवसानं च तेषाम् इतरेतरयोगद्वन्द्वः ध्रौव्यगतिप्रत्यवसानानि, तानि अर्थः येषां ते ध्रौव्यगतिप्रत्यवसानार्थाः, तेभ्यः ध्रौव्यगतिप्रत्यवसानार्तेभ्यः '''|''' क्त प्रथमान्तम् अधिकरणे सप्तम्यन्तं, चाव्ययं, ध्रौव्यगतिप्रत्यवसानार्तेभ्यः पञ्चम्यन्तम् '''|''' '''कृदतिङ्''' ( ३.१.९३) इत्यस्य अधिकारः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अधिकरणे ध्रौव्यगतिप्रत्यवसानार्थेभ्यः कृत् क्त च |'''</big>
 
 
Line 3,880 ⟶ 3,930:
 
 
<big>'''मुकुन्दस्यासितमिति इदम्''' - एतत् श्रीकृष्णस्य उपवेशनस्थानम् | आसितम् = आस्यते अस्मिन् इति आसनस्थानम् इत्यर्थः | ध्रौव्योदाहरणमिदम् | आस उपवेशने इति ध्रौव्यर्थकधातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण | आस इति धातुः सेट् इति कृत्वा इडागमः भूत्वा आसितम् इति रूपं लभ्यते | पक्षे आसेः अकर्मकत्वात् कर्तरि भावे च अपि क्तप्रत्ययान्तं रूपं लभ्यते | '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रे चकारग्रहणात् कर्त्रर्थे, कर्मार्थे, भावार्थे च क्तप्रत्ययः विधीयते | आस इति धातुः अकर्मकः इति कारणेन क्तप्रत्ययः कर्त्रर्थे, भावार्थे च भवति | '''गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च''' ( ३.४.७२) इति सूत्रेण गत्यर्थकेभ्यः अकर्मकेभ्यः च धातुभ्यः क्तप्रत्ययः कर्त्रर्थे भवति | '''तयोरेव कृत्यक्तखलर्थाः''' ( ३.४.७०) इति सूत्रेण क्तप्रत्ययः कर्मार्थे भावार्थे च भवति | कर्तरि प्रयोगे वाक्यं भवति मुकुन्दः अस्मिन् आसितः इति | भावे प्रयोगे वाक्यं भवति तेन अस्मिन् आसितम् इति |</big>
 
 
<big>'''इदं यातं रमापतेः''' = इदं रमापतेः गमनागमनस्य मार्गः इत्यर्थः | यातम् = गम्यते अत्र इति यातं, मार्गः इत्यर्थः | गत्यर्थोदाहरणमिदम् | या गतिप्रापणयोः इति गत्यर्थकधातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण | '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रे चकारग्रहणात् कर्त्रर्थे, कर्मार्थे, भावार्थे च क्तप्रत्ययः विधीयते यथाप्राप्तम् | गत्यर्थकेभ्यः धातुभ्यः क्तप्रत्ययः कर्त्रर्थे, भावार्थे च भवति | कर्त्रर्थे '''गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च''' ( ३.४.७२) इति सूत्रेण क्तप्रत्ययः विधीयते, अतः वाक्यं भवति रमापतिः इदंअस्मिन् यातः | कमार्थेभावार्थे क्तप्रत्ययः विधीयते '''तयोरेव कृत्यक्तखलर्थाः''' ( ३.४.७०) इति सूत्रेण, अतः वाक्यं भवति तेन इदंअस्मिन् यातम् इति |</big>
 
 
<big>'''एतत् अनन्तस्य भुक्तम्''' = एतत् श्रीकृष्णस्य भोजनस्थानम् इत्यर्थः | भुक्तं = भुज्यते अस्मिन् इति भुक्तम् | प्रत्यवसानोदहरणमिदम् | भुज पालनाभ्यवहारयोः इति प्रत्यवसानार्थकधातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण | '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रे चकारग्रहणात् कर्त्रर्थे, कर्मार्थे, भावार्थे च क्तप्रत्ययः विधीयते | भुज् इति धातुः प्रत्यवसानार्थकः, अतः कर्मार्थेभावार्थे अपि क्तप्रत्ययः विधीयते, अतः वाक्यं भवति तेन इदंअस्मिन् भुक्तम् इति |</big>
 
Line 3,892 ⟶ 3,942:
 
<big>'''अधिकरणवाचिनश्च''' ( २.३. ६८) = अधिकरणवाचिनः क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति | '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण अधिकरणार्थे यः क्तप्रत्ययः विधीयते तस्य ग्रहणं भवति प्रकृतसूत्रे | क्तप्रत्ययः निष्ठासंज्ञकः इति कृत्वा तस्य योगे कर्तुः, कर्मणः षष्ठी न भवति '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण | प्रकृतसूत्रं '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रस्य अपवादः अस्ति | अधिकरणं वक्ति इति अधिकरणवाची, तस्य अधिकरणवाचिनः | अधिकरणवाचिनः षष्ठ्यन्तं, चाव्ययम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् षष्ठी इत्यस्य अनुवृत्तिः | '''क्तस्य च वर्तमाने''' ( २.३.६७) इति सूत्रात् क्तस्य इत्यस्य अनुवृत्तिः | '''अनभिहिते''' ( २.३.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अधिकरणवाचिनः''' '''क्तस्य च षष्ठी अनभिहिते''' '''|''' यथा इदम् एषाम् आसितम् | इदम् एषां शयितम् | इदम् अहेः सुप्तम् | इदं वनकपेः यातम् | इदम् एषां भुक्तम् | इदम् एषाम् अशितम् | इदम् एषां गतम् |</big>
 
 
page_and_link_managers, Administrators
5,097

edits