14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 3,864:
 
 
<big>'''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रे उक्तं यत् उभयप्राप्तिः यस्मिन् कृति तत्र कर्मणि एव षष्ठी स्यात् | अस्मिन् सूत्रे कर्तुः षष्ठी न स्यात् इति यः प्रतिषेधः वर्तते, सः प्रतिषेधः समीपवर्तिनः अव्यवहितस्यैव भवति न तु व्यवहितस्य इति | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रम् '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रस्य अनन्तरं वर्तते, अतः '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इत्यस्मिन् यः प्रतिषेधः वर्तते सः प्रतिषेधः समीपवर्तिनः अव्यवहितस्य सूत्रस्य एव बाधां करोति | अतः '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रम् '''कर्तृकर्मणोः कृति''' ( २.३.६५) , '''क्तस्य च वर्तमाने''' ( २.३. ६७) इति सूत्रद्वयमेव बाधते | फलितार्थः एवं यत् '''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषायाः आधारेण '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रेण '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रस्य प्रतिषेधः न स्यात् | एवञ्चेत् '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रम् '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रं न बाधते इत्यतः कर्तुः कर्मणः च षष्ठीविभक्तिः भवितुम् अर्हति '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रेण | |</big>
 
 
 
२) <big>'''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषा | अनया परिभाषया सूत्रपाठे सामान्यशास्त्रमध्ये पठितानि विशेषसूत्राणि (अपवादसूत्राणि) स्वापेक्षया पूर्वाणि एव तानि बाधन्ते न तु पराणि इति परिभाषार्थः | मध्ये पठिता:पठिताः अपवादाः पूवस्यैव विधेः बाधकाः भवन्ति, उत्तरस्य विधेः बाधकाः न भवन्ति इत्यर्थः |</big>
 
 
<big>सामान्यशास्त्रम् अस्ति '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रं, विशेषशास्त्रम् अस्ति '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति विशेषसूत्रं '''कर्तृकर्मणोः कृति''' ( २.३.६५)''',''' '''क्तस्य च वर्तमाने''' ( २.३. ६७), '''अधिकरणवाचिनश्च''' (२.३.६८), '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३. ६९) इति सूत्राणां मध्ये पठितं वर्तते इति कारणात् इदं'''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रं केवलं '''कर्तृकर्मणोः कृति (''' ( २.३.६५''')''' इति अव्यवहितं पूर्वसूत्रम् एव बाधते न तु पराणि सूत्राणि | अनया परिभाषया '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रं केवलं '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति पूर्वसूत्रस्य एव बाधकम् अस्ति न तु अन्येषां परसूत्राणाम्परसूत्राणां '''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः बलेन | अतः '''अधिकरणवाचिनश्च''' (२.३.६८) इति सूत्रेण कर्तृकर्मणोद्वयोरपि षष्ठी भवितुम् अर्हति न तु केवलं कर्तुः एव | अतः एव इदमेषां भुक्तमोदनस्य इति उदाहरणं सम्भवति |</big>
 
 
 
<big>आहत्य यत्र कर्ता, कर्म च द्वयमपि अनुक्तं एकस्मिन्नेव वाक्ये अपि च क्तप्रत्ययः अधिकरणार्थे विहितः तत्र द्वयोः षष्ठीविभक्तिः भवति '''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः बलेन अथवा '''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषायाः बलेन | कथञ्चित् अपि वयं समर्थयितुं शक्नुमः |</big>
 
 
Line 3,882:
 
 
<big>तेन अव + एहि (आ + इहि ) इति स्थितिः | महाभाष्ये उक्तं उअत् धातूपसर्गयोः अन्तरङ्गत्वात्‌ आ + इहि इति प्रथमं कार्यम्‌ | आ + इहि इत्यत्र आङ्-उपसर्गस्य 'इहि' इत्यस्य इकारेण सह गुणैकादेशे कृते '''आद्गुणः''' (६.१.८७) इत्यनेन सूत्रेण '''एहि''' इति रूपं प्राप्यते |अव + एहि इति स्थिते, '''वृद्धिरेचि''' (६.१.८८) इति सूत्रं बाधित्वा '''एत्येधत्यूठ्सु''' (६.१.८९) इत्यनेन वृद्ध्येकादेशः प्राप्तः अस्ति | परन्तु अत्र '''एत्येधत्यूठ्सु''' (६.१.८९) इति विशेषसूत्रम् '''एङि पररूपं''' ( ६.१.९४) इति अव्यवहितस्य सामान्यसूत्रस्य बाधां करोति न तु व्यवहितस्य '''ओमाङोश्च''' (६.१.९५) इति सूत्रस्य कार्यम् | '''पुर�तादपवादाः अनन्तरान् �विधीन् बाधन्ते नोत्तरान्''' इति पारिभाषायाः बलेन अत्र '''ओमाङोश्च''' (६.१.९५) इत्यनेन पररूपमेव भवति न तु वृद्धिः '''एत्येधत्यूठ्सु''' (६.१.८९) इति सूत्रेण | अतः अवेहि इति रूपं लभ्यते |</big>
 
<big>अव + एहि इति स्थितौ बहूनि सूत्राणि प्रसक्तानि | अत्र सूत्रक्रमः एवमसति -</big>
{| class="wikitable"
|+
!<big>सूत्रक्रमः</big>
!<big>सूत्रार्थः</big>
!<big>सम्बन्धः</big>
|-
|<big>'''वृद्धिरेचि''' (६.१.८८)</big>
|<big>'''ओमाङोश्च''' ( ६.१.९५) = अवर्णात् ओम्एच्-शब्दे परे आङ्-शब्दे चवर्णे परे संहितायाम् पूर्वपरयोः एकः पररूपवृद्धि-एकादेशः भवति |</big>
|<big>उत्सर्गसूत्रम्</big>
|-
|<big>'''एत्येधत्यूठ्सु''' (६.१.८९)</big>
|<big>'''एत्येधत्यूठसु''' (६.१.८९) = अवर्णात् इण्-धातोः एध्-धातोः च एच्-वर्णे परे तथा ऊठ्-शब्दे परे संहितायाम् पूर्वपरयोः एकः वृद्धि-आदेशः भवति |</big>
|<big>इदं सूत्रम् '''एङि पररूपं''' ( ६.१.९४) इत्यस्य अपवादः ।</big>
|-
|<big>'''एङि पररूपं''' ( ६.१.९४)</big>
|<big>'''एङि पररूपम्''' (६.१.९४) = अवर्णान्तात् उपसर्गात् एकारादि/ओकारादि-धातुरूपे परे पूर्वपरयोः एकः पररूपः आदेशः भवति |</big>
|<big>इदं सूत्रं '''वृद्धिरेचि''' (६.१.८८) इत्यस्य अपवादः ।</big>
|-
|<big>'''ओमाङोश्च''' (६.१.९५)</big>
|<big>अवर्णात् ओम्-शब्दे परे आङ्-शब्दे च परे संहितायाम् पूर्वपरयोः एकः पररूप-एकादेशः भवति ।</big>
|<big>इदं सूत्रं '''वृद्धिरेचि''' (६.१.८८) इत्यस्य अपवादः ।</big>
|}
 
<big>अव + एहि इति स्थितौ '''वृद्धिरेचि''' (६.१.८८) इति सूत्रम् आदौ प्रसक्तम् अस्ति किन्तु तत्सूत्रं प्रबाध्य '''एङि पररूपं''' (६.१.९४) इत्यनेन पररूपादेशः प्राप्तः अस्ति | किन्तु '''एङि पररूपं''' (६.१.९४) इति सूत्रं बाधित्वा '''एत्येधत्यूठ्सु''' (६.१.८९) इत्यनेन वृद्ध्येकादेशः प्राप्तः अस्ति | अधुना '''ओमाङोश्च''' (६.१.९५) इत्यनेन पररूपादेशः अपि प्राप्तः अस्ति यतोहि '''अन्तादिवच्च''' (६.१.८४) इत्यनेन एहि इत्यत्र यः एकारः 'आ + इ' इत्यनयोः प्रतिनिधिः, तस्माच्च आङ्त्वं स्वीक्रियते | '''अन्तादिवच्च''' (६.१.८४) इत्यनेन 'एकः पूर्वपरयोः' अस्मिन् अधिकारे उक्तः एकादेशः पूर्वशब्दस्य अन्तिमवर्णवत्, तथा परशब्दस्य आदिवर्णवत् भवति | '''एत्येधत्यूठ्सु''' (६.१.८९) इति सूत्रं यथा '''एङि पररूपं''' (६.१.९४) इति सूत्रस्य अपवादः तथा '''ओमाङोश्च''' (६.१.९५) इत्यस्यापि अपवादः अस्ति वा?</big>
<big>'''एत्येधत्यूठसु''' (६.१.८९) = अवर्णात् इण्-धातोः एध्-धातोः च एच्-वर्णे परे तथा ऊठ्-शब्दे परे संहितायाम् पूर्वपरयोः एकः वृद्धि-आदेशः भवति |</big>
 
 
<big>'''एङि पररूपम्''' (६.१.९४) = अवर्णान्तात् उपसर्गात् एकारादि/ओकारादि-धातुरूपे परे पूर्वपरयोः एकः पररूपः आदेशः भवति |</big>
 
 
<big>'''ओमाङोश्च''' ( ६.१.९५) = अवर्णात् ओम्-शब्दे परे आङ्-शब्दे च परे संहितायाम् पूर्वपरयोः एकः पररूप-एकादेशः भवति |</big>
 
 
<big>'''एत्येधत्यूठ्सु''' (६.१.८९) इति विशेषसूत्रम् '''एङि पररूपं''' (६.१.९४) इति सामान्यशास्त्रम् अस्ति | अतः '''एत्येधत्यूठ्सु''' (६.१.८९) इति विशेषसूत्रम् स्वस्मात् अव्यवहितस्य परस्य '''एङि पररूपं''' (६.१.९४) इति सामान्यसूत्रस्य बाधां करोति न तु व्यवहितस्य '''ओमाङोश्च''' (६.१.९५) इति सूत्रस्य कार्यम् | '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्''' इति पारिभाषायाः बलेन अतः अत्र '''ओमाङोश्च''' (६.१.९५) इत्यनेन पररूपमेव भवति न तु वृद्धिः '''एत्येधत्यूठ्सु''' (६.१.८९) इति सूत्रेण | अतः अवेहि इति रूपं लभ्यते |</big>
 
<big>प्रकृतस्थितौ</big> '''<big>पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्</big>''' <big>इति पारिभाषायाः बलेन '''क्तस्य च वर्तमाने''' ( २.३.६७), '''अधिकरणवाचिनश्च''' ( २.३.६८) चेति द्वे विशेषसूत्रे (अपवादसूत्रे) तयोः अनन्तरं विद्यमानस्य सामान्यसूत्रस्य '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रस्य बाधां करोति |</big>
page_and_link_managers, Administrators
5,097

edits