14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions
14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH (view source)
Revision as of 11:15, 12 August 2021
, 2 years agono edit summary
Vamsisudha (talk | contribs) No edit summary |
Vamsisudha (talk | contribs) No edit summary |

Line 986:

===== '''पञ्चमीतत्पुरुषसमासः''' =====
पञ्चमी-तत्पुरुषस्य विषये त्रीणि सूत्राणि सन्ति |क्रमेण अलोकयाम।
Line 1,050 ⟶ 1,048:
3) स्तोकार्थे, अन्तिकार्थे, दूरार्थे, कृच्छ्रशब्दः च, यानि पञ्चम्यन्त-पदानि सन्ति, तेषां क्तप्रत्ययान्तेन सुबन्तेन सह पञ्चमी-तत्पुरुषसमासः भवति |
====== '''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.२.३९) ======
Line 1,097 ⟶ 1,093:

===== '''e) सप्तमीत्पुरुषसमासः''' =====

अष्टाध्यायां पञ्चमी-तत्पुरुषस्य विषये सूत्राणि उक्त्वा तदनन्तरं सप्तमीतत्पुरुषसमासः एव उक्तः न तु षष्ठीतत्पुरुषसमासः |द्विगुसमासस्य, कर्मधार्यसमासस्य च विषये उक्त्वा तदनन्तरमेव षष्ठीतत्पुरुषस्य विषये उच्यते |अतः एव वयमपि प्रथमं सप्तमी-तत्पुरुषसमासस्य विषये पठित्वा तत्पश्चात् षष्ठीतत्पुरुषस्य विषये पठिष्याम |सप्तमीतत्पुरुषस्य विषये नवसूत्राणि सन्ति |२.१.४० इत्यस्मात् सूत्रात् आरभ्य २.१.४८ इति सूत्रपर्यन्तम् |क्रमेण परिशीलयाम।
1) सप्तम्यन्तं पदं शौण्डादिगणे पठितैः शब्दैः सह समस्यते, सप्तमीतत्पुरुषः च भवति |
Line 1,149 ⟶ 1,144:
अलौकिकविग्रहः – ईश्वर+ङि +अधि | '''सप्तमी शौण्डैः''' (२.१.४०) इति सूत्रेण समासे कृते, प्रातिपदिकसंज्ञां कृत्वा, सुप् प्रत्यययोः लुक् भवति |ईश्वरः इति सप्तम्यन्तस्य पूर्वनिपातः भूत्वा ईश्वराधि इति भवति |अधुना '''अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् खः''' ( ५.४.७) इति सूत्रेण 'अषडक्ष', 'आशितङ्गु', 'अलङ्कर्म', 'अलम्पुरुषः' एतेभ्यः शब्देभ्यः, तथा च 'अधि' यस्य उत्तरपदम् अस्ति तादृशात् शब्दात् स्वार्थे ख-प्रत्ययः भवति |अतः ईश्वराधि+ख '''→आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्''' ( ७.१.२) इति सूत्रेण प्रत्ययस्य आदिस्थितस्य फ्-ढ्-ख्-छ्-घ्- इत्येतेषाम् क्रमेण आयन्-एय्-ईन्-ईय्-इय्- आदेशाः भवन्ति |अतः ईश्वराधि+ईन '''→''' अग्रे '''यस्येति च''' (६.४.१४८) इति सूत्रेण भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति, अतः ईश्वराध्+ईन '''→''' ईश्वराधीन इति भवति |अधुना सुबुत्पत्तिः भूत्वा ईश्वराधीनः इति समस्तपदं निष्पन्नं भवति।
यदि अधि इति शब्दः शौण्डादिगणे न पाठितः तर्हि अधि इति अव्ययेन सह अव्ययीभावसमासः कर्तव्यः येन अमादेशं कृत्वा अधीश्वरम् इति समस्तपदं निष्पन्नं भवति |परन्तु अधि शब्दः तु शौण्डादिगणे पाठितः अतः सप्तमीतत्पुरुषसमासः करणीयः येन ईश्वराधीनः इति समस्तपदं निष्पन्नं भवति।

2) सप्तम्यन्तं पदं सिद्ध, शुष्क, पक्व, बन्ध, इत्येतैः सह समस्यते, सप्तमीतत्पुरुषः च भवति |

Line 1,168 ⟶ 1,164:
स्थाल्यां पक्वः = स्थालीपक्वः |स्थाली +ङि+ पक्व+सु ।
चक्रे बन्धः = चक्रबन्धः |चक्र+ङि+ बन्ध+सु |
3) निन्दार्थे सप्तम्यन्तं पदं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |
Line 1,193 ⟶ 1,189:
4) ऋणे, उद्धारे, सप्तम्यन्तं पदं यत्प्रत्ययान्तेन(कृत्यप्रत्ययान्तेन) सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |

सप्तम्यन्तं पदं कृत्यप्रत्ययान्तैः सह समस्यते, तत्पुरुषश्च समासो भवति ऋणे गम्यमाने |अवश्यम्भावितार्थे वर्तमाने कृत्यप्रत्ययान्तेन सुबन्तेन सह सप्तम्यन्तं सुबन्तं विकल्पेन समस्यते |ऋणस्य अवधिः निश्चितः चेत् तत्र ऋणशब्दः आवश्यकः, अर्थात् ऋणशब्दः अवश्यम्भावितार्थस्य ( that which is necessary) वाचकः |'''तव्य, तव्यत्, यत्, अनीयर्, क्यप्, ण्यत्, इन्''' - एते प्रत्ययाः कृत्यप्रत्ययाः सन्ति |परन्तु अस्मिन् सूत्रे कृत्यप्रत्ययः इत्यनेन केवलं यत् प्रत्ययस्य एव ग्रहणं इष्यते न अन्यस्य इति उक्तं भाष्ये |कृत्यैः तृतीयान्तम्, ऋणे सप्तम्यन्तम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनिवृत्तिः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् कृत्यैः सुब्भिः सह ऋणे विभाषा तत्परुषः समासः ।'''
Line 1,233 ⟶ 1,229:

'''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) = तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति |तत्पुरुषे सप्तम्यन्तं, कृति सप्तम्यन्तं, बहुलं प्रथमान्तम् |'''हलदन्तात् सप्तम्याः संज्ञायाम्''' (६.३.९) इत्यस्मात् सूत्रात् सप्तम्याः इत्यस्य अनुवृत्तिः | '''अलुगुत्तरपदे''' ( ६.३.१) इत्यस्य अधिकारः अस्ति |अनुवृत्ति-सहितसूत्रम्— '''तत्पुरुषे सप्तम्याः अलुक् कृति''' '''बहुलम्''' '''|'''
अस्मिन् सूत्रे बहुलम् इति पदेन कुत्रचित् विकल्पेन भवति कुत्रचित् न भवति |
यथा –
स्तम्बे रमते = स्तम्बेरमः/ स्तम्बरमः |अर्थाः तृणस्य गुच्छं दृष्ट्वा यः रमते यथा गजः, अथवा धेनुः |स्तम्ब+ङि + रम+सु |रमः इति अच्प्रत्ययान्तः शब्दः |अच् प्रत्ययः कृत्प्रत्ययः |
कर्णे जपति = कर्णेजपः, कर्णजपः |

'''आदेच उपदेशेऽशिति''' (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः; '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच् इत्यनेन 'ए, ऐ, ओ, औ' | श् इत् यस्य स शित्, न शित् अशित्, तस्मिन् (विषये) अशिति, नञ्तत्पुरुषः | आत् प्रथमान्तम्, एचः षष्ठ्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | '''लिटि धातोरनभ्यासस्य''' (६.१.८) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''एचः धातोः आत् उपदेशे अशिति''' |
5) संज्ञायां विषये सप्तम्यन्तं पदं सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |यत्र यत्र संज्ञायाः विषयः अस्ति तत्र समासः नित्यं भवति।
======  '''संज्ञायाम्''' (२.१.४४) ======
संज्ञायां विषये सप्तयन्तं पदं सुपा सह समस्यते, तत्पुरुषश्च समासो भवति |संज्ञा समुदस्य उपाधिः अस्ति |सज्ञायाम् इति सप्तम्यन्तमेकपदं सूत्रम् |यद्यपि '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति तथापि अयं नित्यसमासः अस्ति यतो हि विग्रहवाक्येन संज्ञायाः बोधः न जायते |यत्र संज्ञा अस्ति तत्र समासः नित्यः |विग्रहवाक्येन संज्ञायाः बोधः न भवति किन्तु समासानन्तरं संज्ञायाः प्रतीतिः उत्पद्यते |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति | '''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''संज्ञायां सप्तमी सुप् सुपा सह तत्परुषः समासः |'''
अनेन सूत्रेण यः समासः विधीयते सः नित्यः यतोहि संज्ञायाः प्रतीतिः विग्रहवाक्येन न बुद्ध्यते अतः समासाभावपक्षः न भवति |
अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण |सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति।

यथा—
अरण्ये तिलकाः = अरण्येतिलकाः (वनस्य नाम) |एतत् पदं संज्ञापदम् अस्ति |संज्ञार्थस्य विवक्षायां '''संज्ञायाम्''' (२.१.४४) इति सूत्रेण नित्यसमासः भवति |अलौकिकविग्रहवाक्यं – अरण्य+ङि + तिलक+जस् '''→ संज्ञायाम्''' (२.१.४४) सूत्रेण समासविधानं भवति |तत्पश्चात् प्रातिपदिकसंज्ञा विधीयते, सुप् लुक् भवति ।'''हलदन्तात् सप्तम्याः संज्ञायाम्''' (६.३.९) इति सूत्रेण अदन्तात् अरण्यात् उत्तरस्य सप्तम्याः अलुक् भूत्वा '''→''' अरण्य+इ इत्यत्र गुणसन्धिं कृत्वा अरण्ये इति भवति |'''हलदन्तात् सप्तम्याः संज्ञायाम्''' (६.३.९) इति सूत्रं वदति हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति |

वने कशेरुकाः = वनेकशेरुकाः (कशेरुकः = backbone) |वन+ङि + कसेरुक +जस् |

यधि स्थिरः = युधिष्ठिरः |यध्+ङि = स्थिर+सु |'''हलदन्तात् सप्तम्याः संज्ञायाम्''' (६.३.९) इति सूत्रं वदति हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति |अनेन सूत्रेण यध् इति हलन्तात् प्रातिपदिकात् उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग्भवति।अतः युधि इति सप्तम्यन्तं रूपं तिष्ठति |तत्पश्चात् '''गवियुधिभ्यां स्थिरः''' (८.३.९५) इति सूत्रेण गवियुधिभ्याम् उत्तरस्य स्थिः इत्यस्य सकारस्य मूर्धन्यादेशो भवति।अतः युधि इत्यस्य उत्तरस्य स्थिरः इत्यस्य सकारस्य षत्वं भवति |यथा -गविष्ठिरः, युधिष्ठिरः इत्यादयः।

एवमेव वनेकिंशुकाः, वनेहरिद्रकाः, अरण्येमोषकाः, कूपेपिशाचकाः इत्यादीनि उदाहरणानि | एतानि सर्वाणि पदानि संज्ञा-पदानि सन्ति।

'''हलदन्तात् सप्तम्याः संज्ञायाम्''' (६.३.९) = हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति |हल् च अत् च तयोरितरेतरयोगद्वन्द्वः, हलदौ तौ अन्ते यस्य सः हलन्तः तस्मात् हलदन्तात् |हलदन्तात् पञ्चम्यन्तं, सप्तम्याः षष्ठ्यन्तं, संज्ञायां सप्तम्यन्तम् '''अलुगुत्तरपदे''' (६.३.१) इत्यस्य अधिकारः अस्ति |अनुवृत्ति-सहितसूत्रम्— '''हलदन्तात् सप्तम्याः अलुक् संज्ञायाम् ।'''

यथा- युधिष्ठिरः, त्वचिसारः।

त्वचिसारः = त्वचिसारः |यस्य त्वचि बलम् अस्ति |अत्र सप्तमीतत्पुरुषसमासः भवति '''संज्ञायाम्''' (२.१.४४) इति सूत्रेण |त्वच्+ङि + सार+सु |त्वच् इति हलन्तः शब्दः अतः '''हलदन्तात् सप्तम्याः संज्ञायाम्''' (६.३.९) इति सूत्रेण तस्मात् यः सप्तम्यन्तः सुप्प्रत्ययः अस्ति तस्य लुक् न भवति।
6) दिनस्य, रात्रेः च अवयववाचीनि सप्तम्यन्तपदानि क्तान्तेन सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |
======  '''क्तेनाहोरात्रावयवाः''' (२.१.४५) ======
अहरवयवाः रात्र्यवयवाश्च सप्तम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति |दिनस्य, रात्रेः च अवयववाचि सप्तम्यन्तं सुबन्तं क्तप्रत्ययान्तेन सह समस्यते ।अहोरात्रावयवाः इत्युक्ते दिनस्य अवयववाची शब्दः अपि च रात्रेः अवयववाची शब्दः इति ।अहन् च रात्रिश्च अहोरात्रं, तस्य अवयवाः अहोरात्रावयवाः, द्वन्द्वगर्भषष्ठीतत्पुरुषः |क्तेन तृतीयान्तं, अहोरात्रावयवाः प्रथमान्तम् || '''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''अहोरात्रावयवाः सप्तम्यः सुपः क्तेन सुपा सह विभाषा तत्परुषः समासः |'''
यथा—
पूर्वाह्णे कृतं = पूर्वाह्णकृतम् |दिनस्य पूर्वभागे सम्पादितम् |पूर्वाह्ण+ङि + कृत+सु |पूर्वाह्णः इति पदं दिनम् इति पदस्य अवयववाचिपदम्।
अपररात्रे कृतं = अपररात्रकृतम् |अपररात्र+ङि + कृत+सु |अपररात्रिः इति पदं रात्रिः इति पदस्य अवयववाचिपदम्।
एवमेव पूर्वरात्रकृतं, मध्याह्नकृतं, मध्यरात्रकृतम् |

7) तत्र इति सप्तम्यन्तं पदं क्तान्तेन सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |
======  '''तत्र''' (२.१.४६) ======
तत्र इत्येतत् सप्तम्यन्तं पदं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति |तत्र इति सप्तम्यन्तं सुबन्तं अव्ययं क्तेन सुबन्तेन सह समस्यते |तत्र इति अव्ययमेकपदं सूत्रम् |'''सप्तम्यास्त्रल्''' (५.३.१०) इति सूत्रेण तद् इति प्रातिपदिकस्य सप्तम्यन्तात् स्वार्थे "त्रल्" प्रत्ययः भवति , तत्र इति रुपं निष्पन्नं भवति |'''तद्धितश्चासर्वविभक्तिः''' ( १.१.३८) इति सूत्रेण तत्र इति शब्दस्य अव्ययसंज्ञा भवति ।'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |अधिकारः |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |'''क्तेनाहोरात्रावयवाः''' (२.१.४५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्ति |अनुवृत्ति-सहित-सूत्रं— '''तत्र सप्तमी सुप् क्तेन सुपा सह विभाषा तत्परुषः समासः |'''
यथा—
तत्र भुक्तं = तत्रभुक्तम् |तत्र +भुक्त+सु |भुज् इति धातुतः क्तप्रत्ययस्य योजनने भुक्त इति प्रातिपदिकं निष्पद्यते।
तत्र भुक्तस्य इदम् इति अर्थे तद्धित- अण्प्रत्ययस्य योजनेन तात्रभुक्तम् इति पदं निष्पन्नं भवति।
8) निन्दार्थे सप्तम्यन्तं पदं क्तान्तेन सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |
'''क्षेपे''' (२.१.४७)
क्षेपे ( निन्दार्थे) गम्यमाने सप्तम्यन्तं पदं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति |क्षेपे इति सप्तम्यन्तमेकपदमिदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |अधिकारः |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |'''क्तेनाहोरात्रावयवाः''' (२.१.४५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्ति |अनुवृत्ति-सहित-सूत्रं— ''' सप्तमी सुप् क्तेन सुपा सह विभाषा तत्परुषः समासः |'''
यथा—
अवतप्ते नकुलस्थितः = अवतप्तेनकुलस्थितः | यथा आतपे नकुलः इतस्ततः भ्रमति तथैव एतस्य पुरुषस्य गतिः अपि अस्ति |अवतप्ते+ङि + नकुलस्थित+सु |'''क्षेपे''' (२.१.४७) इति सूत्रेण समासः विधीयते |यथा अस्माभिः पूर्वं दृष्टं, अत्रापि सामन्यसमासप्रक्रिया भवति |परन्तु अत्र '''तत्पुरुषे कृति बहुलम्''' (६.३.१४) इति सूत्रेण अवतप्त+ङि इत्यस्मिन् सुप् लुक् न भवति |अत्र गुणसन्धिं कृत्वा अवतप्ते इति भवति |'''तत्पुरुषे कृति बहुलम्''' (६.३.१४) इति सूत्रं वदति तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति |समस्तपदं भवति अवतप्तेनकुलस्थितः ।

एवमेव
प्रवाहे मूत्रितम् = प्रवाहेमूत्रितम् (नद्यां मूत्रत्यागः |निन्दार्थे अस्ति।
भस्मनि हुतम् = भस्मनिहुतम् |भस्मे हवनं करोति |निन्दार्थे अस्ति।
9) निन्दार्थे सप्तम्यन्तं पदं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |अत्र समासः नित्यं भवति।
====== '''पात्रेसमितादयश्च''' ( २.१. ४८) ======
निन्दार्थे (क्षेपे) गम्यमाने पात्रेसमितादयः शब्दाः क्तातेन सुबन्तेन सह समस्यते, तत्पुरुषसंज्ञा च भवति | समुदायः एव निपात्यते |यद्यपि '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति तथापि अयं नित्यसमासः अस्ति यतो हि विग्रहवाक्येन संज्ञायाः बोधः न जायते |पात्रेसमितः आदिर्येषां ते पात्रेसमितादयः बहुव्रीहिः |पात्रेसमितादयः प्रथमान्तं, चाव्ययम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति |'''क्षेपे''' (२.१.४७) इत्यस्मात् सूत्रात् क्षेपे इत्यस्य अनुवृत्तिः भवति |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |'''क्तेनाहोरात्रावयवाः''' (२.१.४५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्ति |अनुवृत्ति-सहित-सूत्रं— '''पात्रेसमितादयश्च सप्तम्यः सुपः क्तेन सुपा सह तत्परुषः समासः |'''
पात्रेसमितादिगणे बहवः शब्दाः सन्ति |अयं गणः आकृतिगणः अस्ति अतः अन्ये शब्दाः अपि अस्मिन् गणे भवितुम् अर्हन्ति |तेषु केषाञ्चन धातूनां सप्तमीविभक्तेः अलुक् अपि भवति |यथा- पात्रेसमिताः, पात्रेबहुलाः, मातारिपुरुषः, पितरिशूरः, गेहेशूरः इत्यादयः |
यथा –
पात्रे समिताः = पात्रेसमिताः |भोजनसमसे एव सङ्गताः, न तु कार्ये |यः भोजनपात्रे एव एकत्रितः अस्ति परन्तु कार्यसमये कुत्रापि न प्रकटितः भवति |'''पात्रेसमितादयश्च''' ( २.१. ४८) इति सूत्रेण नित्यसमासः भवति |अलौकिकविग्रहवाक्यं – पात्रे+ङि + समिता+जस् '''→ पात्रेसमितादयश्च''' ( २.१. ४८) सूत्रेण समासविधिः, प्रातिपदिकसंज्ञा विधीयते, सुप् लुक् भवति इति सामन्यसमासक्रमः अस्ति |परन्तु अत्र सुप् लुक् न भवति यतो हि '''पात्रेसमितादयश्च''' ( २.१. ४८) सूत्रेण निपातनात् विभक्तेः अलुक् भूत्वा पात्रेसमिताः इति समस्तपदं निष्पन्नं भवति |
सम्+इण् गतौ इति धातुतः क्तप्रत्ययः क्रियते चेत् समितः इति रूपं निष्पन्नं भवति।
गेहे शूरः = गेहेशूरः |यः गृहे एव वीरः अस्ति, बहिः भीतः अस्ति |गेह+ङि + शूर+सु |प्रक्रिया यथापूर्वम् |
गेहे नर्दी = गेहेनर्दी |गृहे एव यः गर्जति।
पात्रेसमितादिगणे बहवः शब्दाः सन्ति तेषु केचन अत्र दीयन्ते '''– पात्रेसमिताः, पात्रेबहुलाः, कूपकच्छपः, कूपमण्डूकः, नगरकाकः, गेहेशूरः, गेहेनर्दी, गोष्ठेशूरः, गोष्ठेपटुः, गोष्ठेपण्डितः इत्यादयः।'''
पात्रेसमितादिगणः आकृतिगणः अस्ति |अतः अन्ये शब्दाः अपि तस्मिन् अन्तर्भवन्ति |शिष्टप्रयोगं दृष्ट्वा ज्ञातुं शक्यते अन्ये शब्दाः के इति |
'''समासविधायकसूत्रेषु योगविभागस्य कल्पना'''

केषुचित् ग्रन्थेषु समासविधायकसूत्रेषु नाम द्वितीया आरभ्य सप्तमी पर्यन्तं ये मुख्यतत्पुरुषसमासाः सन्ति तेषां योगविभागः क्रियते |अस्य कारणम् इदम् यत् शिष्टैः बहवः तत्पुरुषसमासाः प्रयुक्ताः येषां समर्थनं '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४), '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०), '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.२६), '''पञ्चमी भयने''' (२.१.३७), '''सप्तमी शौण्डैः''' (२.१.४०) एतैः सूत्रैः न सम्भवति यतो हि एतेषु सूत्रेषु श्रित, बलि, भय इत्यादाभिः शब्दैः सह एव समासस्य विधानं क्रियते |अतः एतेषां सूत्राणां विभजनं कृत्वा विविधानां तत्पुरुषसमासप्रयोगानां समर्थनं भवति | एतादृशविभजनस्य नाम योगविभागः इति कथ्यते | यथा '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इति सूत्रे द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न, एतैः शब्दैः सह समस्यते, अन्यैः पदैः सह न समस्यते |अतः एव अस्य सूत्रस्य योगविभागं कृत्वा सूत्रद्वयं कुर्मः | प्रथमसूत्रेण द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न, एतैः शब्दैः सह समस्यते।
द्वितीयसूत्रेण द्वितीयान्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते |अत्र न कस्यापि शब्दविशेषस्य अपेक्षा नास्ति अतः अनेकेषु स्थलेषु समासः सम्भवति |एतादृशः योगविभागः '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०), '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.२६), '''पञ्चमी भयने''' (२.१.३७), '''सप्तमी शौण्डैः''' (२.१.४०) , एतेषां सूत्राणां विषये अपि क्रियते ।

एतादृशयोगविभागेन एतेषां समासानां समर्थनं भवति –
१) वेदं विद्वान् = वेदविद्वान् |वेद +अम् + विद्वस्+सु |द्वितीयातत्पुरुषसमासः।
२) मदेन अन्धः = मदान्धः |मद+टा+अन्ध+सु |तृतीयातत्पुरुषसमासः।
३) धर्माय नियमः = धर्मनियमः |धर्म +ङे+ नियम +सु |चतुर्थीतीयातत्पुरुषसमासः।
४) द्विजाद् इतरः = द्विजेतरः |द्विज+ङसि + इतर +सु |पञ्चमीतत्पुरुषसमासः।
५) भुवने विदितः = भवनविदितः |संसारे यः प्रसिद्धः ।भवन +ङि + विदित +सु |द्वितीयातत्पुरुषसमासः।

===== '''f) षष्ठीतत्पुरुषसमासः''' =====
अष्टाध्यायां द्वितीयाध्यायस्य प्रथमपादे पञ्चमीतत्पुरुषसमासस्य अनन्तरं षष्ठीतत्पुरुषसमासं त्यक्त्वा सप्तमीतत्पुरुषस्य विषये उक्तम् अस्ति |तत्पश्चात् कर्मधारयस्य विषये उक्तम् |अग्रे द्वितीयाध्यायस्य द्वितियपादे आदौ षष्ठीतत्पुरुषस्य अपवादाः उक्ताः २.२.१ इत्यस्मात् सूत्रात् आरभ्य-२.२.७ इति सूत्रपर्यन्तं, तदनन्तरं षष्ठीतत्पुरुषस्य विषये उक्तम् अस्ति |
षष्ठीतत्पुरुषस्य विषये विधायकं सूत्रम् अस्ति '''षष्ठी''' (२.२.८) इति |अनेन सूत्रेण यत् किमपि षष्ठ्यन्तं सुबन्तं, सुबन्तेन सह समस्यते, षष्ठीतत्पुरुषसमासः च भवति |इदं सूत्रं स्वतन्त्रम् अस्ति यतोहि एतत् सूत्रं अन्यं सूत्रम् अवलम्ब्य नास्ति |एतस्य अधिकनियमाः न सन्ति |अन्यानि समाससूत्राणि तु बद्धानि सन्ति।

यदि विशेषणं पूर्वं वक्तुम् इच्छामः तर्हि '''विशेषणं विशेष्येण बहुलम्''' (२.१.५७) इति सूत्रस्य आवश्यकता अस्ति |'''विशेषणं विशेष्येण बहुलम्''' (२.१.५७) इति सूत्रे विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति |यथा नीलं च तत् उत्पलं च, नीलोत्पलम् इति समासः।

यदि विशेष्यं पूर्वं वक्तुम् इच्छामः तर्हि '''उपमितं व्याघ्रादिभिः सामान्याप्रयोगे''' (२.१.५६) इत्यनेन विशेष्यं पूर्वं तिष्ठति |'''उपमितं व्याघ्रादिभिः सामान्याप्रयोगे''' (२.१.५६) इति सूत्रे साधारणधर्मस्य अप्रयोगे सति उपमेयं व्याघ्रादिभिः उपमानवचनैः सह समस्यते, तत्पुरुषश्च समासो भवति |'''उपमितं व्याघ्रादिभिः सामान्याप्रयोगे''' (२.१.५६) इत्यनेन विशेष्यं पूर्वं तिष्ठति, अन्यत्र सर्वत्र '''षष्ठी'''(२.२.८) इति सूत्रेण विशेष्यं पूर्वं तिष्ठति |अनयो सूत्रयोः विवरणम् अग्रे कर्मधारयसमासे दक्ष्यामः |अत्र स्मर्तव्यः अंशः अयं यत् '''षष्ठी''' (२.२.८) इति सूत्रं पूर्वसूत्राणाम् अपवादः अस्ति यतोहि इदं सूत्रं पूर्वसूत्राणां पूर्वनिपातनक्रमस्य परिवर्तनं करोति |तदर्थम् एव अन्यानि तत्पुरुष-समास-सम्बद्धसूत्राणि उक्त्वा तदनन्तरम् इदं '''षष्ठी''' (२.२.८) इति सूत्रं उक्तम् |

====== '''षष्ठी''' (२.२.८) ======
षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति |षष्ठी प्रथमान्तम् एकपदमिदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |अनुवृत्ति-सहित-सूत्रं— '''षष्ठी सुप् सुपा सह विभाषा तत्परुषः समासः ।'''

अस्मिन् सूत्रे षष्ठी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं षष्ठी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण।

आस्मिन् सूत्रे षष्ठ्यन्तं सुबन्तं अन्येन सुबन्तेन सह समस्यते, अत्र कोऽपि विशिष्टनियमः नास्ति।

यथा - राज्ञः पुरुषः = राजपुरुषः |राजन् +ङस् +पुरुष+सु |

'पुरुष + सु+राजन् + ङस् ' इति अलौकिकविग्रहवाक्यम् ।

'पुरुष + सु+राजन् + ङस् ' → समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण |तदनन्तरं '''तत्पुरुषः''' (२.१.२२) इति सूत्रेण विशिष्ट -तत्पुरुषसंज्ञा अपि विधीयते |'''षष्ठी''' (२.२.८) इति विधायकसूत्रेण राज्ञः इति षष्ठ्यन्तं सुबन्तं, पुरुषः इति समर्थेन सुबन्तेन सह समस्यते ।

'पुरुष + सु+राजन् + ङस् ‘→ समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण ।

'पुरुष + सु+राजन् + ङस् ‘→ इदानीं सुप्-प्रत्ययौ लुकौ (लोपौ) भवतः '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन |अतः ङस्, सु इत्यनयोः लुक् भवति।

पुरुष +राजन् → अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमाविभक्त्यां यत् पदं निर्दिष्टम् अस्ति समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति |अत्र समासविधायकसूत्रम् अस्ति '''षष्ठी''' (२.२.८) इति |अस्मिन् सूत्रे षष्ठी इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जनसंज्ञा भवति |अधुना '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण उपसर्जनसंज्ञकपदस्य पूर्वनिपातः भवति |अस्माकम् उदाहरणे राजन् इति पदं षष्ठयन्तं पदम्, अतः तस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति ।

राजन् + पुरुष →'''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति |अत्र च 'राजन्' इत्यस्य अन्ते सुप् नास्ति; तर्हि प्रश्नः उदेति यत् तस्य पदसंज्ञा अस्ति न वा? उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यनेन प्रत्ययस्य लोपानान्तरम् अपि प्रत्ययस्य लक्षणं तिष्ठति अतः पदसंज्ञा अस्त्येव | राजन् इत्यस्य पदसंज्ञा अस्ति इति कृत्वा एव अग्रिमसोपने राजन् इत्यस्य नकारस्य लोपः भवति।

राजन् + पुरुष → '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इति सूत्रेण प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति | राजन् इत्यस्य पदसंज्ञा अपि अस्ति प्रातिपदिकसंज्ञा अपि अस्ति अतः राजन् इति प्रातिपदिकस्य, पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इति सूत्रेण→ राज + पुरुष।

राज + पुरुष → इदानीं लिङ्गस्य, वचनस्य च निर्णयः भवति |'''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इत्यनेन समासे उत्तरपदस्य यत् लिङ्गम् अस्ति तदेव लिङ्गं भवति द्वन्द्वतत्पुरुषयोः |उत्तरपदम् अस्ति पुरुष-इति, तस्य लिङ्गं अस्ति पुल्लिङ्गम्, अतः राजपुरुष इति समस्तपदस्य लिङ्गं भवति पुल्लिङ्गम् | सामान्यतया समासः प्रथमा विभक्तौ एकवचने एव उच्यते |अतः राजपुरुषः इत्यस्य वचनं भवति एकवचनम् |तदनन्तरम् अस्माकं विवक्षानुगुणं वाक्ये समस्तपदस्य विभक्तेः परिवर्तनं कृत्वा प्रयोगः करणीयः।

राज + पुरुष → '''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्''' (४.१.२) इति सूत्रेण सुबुत्पत्तिः भवति पुंलिङ्गे।

राज + पुरुष +सु → राजपुरुषसु इति भवति |अधुना उकारस्य इत् संज्ञा भवति '''उपदेशेऽजनुनासिक इत्''' ( १.३.२) इत्यनेन |'''तस्य लोपः''' (१.३.९) इत्यनेन उकारस्य लोपः भवति |अधुना '''ससजुषो रुः''' (८.२.६६) इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति |राजपुरुषरु इति भवति | उकारस्य इत्संज्ञा भवति '''उपदेशेऽजनुनासिक इत्''' ( १.३.२) इत्यनेन, तत्पश्चात् उकारस्य लोपः भवति '''तस्य लोपः''' (१.३.९) इत्यनेन |राजपुरुषर् इति भवति |अधुना '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इति सूत्रेण पदान्तस्य रेफस्य स्थाने विसर्गादेशः भवति अवसानावस्थायाम् |अतः राजपुरुषः इति समस्तपदं सिद्धम् |सामान्यतया समासः प्रथमपुरुषैकवचने एव क्रियते |तदनन्तरं विवक्षानुगुणं विभक्तेः परिवर्तनं कृत्वा वाक्ये प्रयुज्यते।

ब्राह्मणः कम्बलः = ब्राह्मणकम्बलः |

आत्मनः ज्ञानम् = आत्मज्ञानम् |आत्मन्+ङस् + ज्ञान+सु |प्रक्रियायाम् '''अतोऽम''' (७.१.२४) इति सूत्रेण अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ, अम् अनयोः प्रत्यययोः स्थाने अम्-आदेशः भवति |आत्मज्ञान +सु → '''अतोऽम''' (७.१.२४) इति सूत्रेण अमादेशः → आत्मज्ञान+अम् → अक्-वर्णात् परस्य अम्-प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति '''अमि पूर्वः''' (६.१.१०७) इति सूत्रेण → आत्मज्ञानम् इति समस्तपदं निष्पन्नं भवति |

मनसः विकारः = मनोविकारः |मनस् +ङस् + विकार+सु | प्रक्रिया यथापूर्वम् |मनस् +विकार इति स्थितौ , '''ससजुषो रुः''' (८.२.६६) इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति |अतः मनरु +विकार इति भवति | उकारस्य इत्संज्ञा भवति '''उपदेशेऽजनुनासिक इत्''' ( १.३.२) इत्यनेन, तत्पश्चात् उकारस्य लोपः भवति '''तस्य लोपः''' (१.३.९) इत्यनेन |मनर्+विकार इति भवति |अधुना '''हशि च''' (६.१.११४) इत्यनेन अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशः हशि परे → मन + उ + विकार → '''आद्गुणः''' ( ६.१.८७) इति सूत्रेण गुणसन्धिः → मनो+विकार → अधुना सुबुत्पत्तिः → मनोविकारः इति समासः ।
सतां सङ्गतिः = सत्सङ्गतिः |सत्+आम् +सङ्गति+सु |

'''अतोऽम्''' ( ७.१.२४) = अकारान्तात् नपुंसकात् अङ्गात् सु-अम्- प्रत्ययोः अम् इति आदेशः भवति |अतः पञ्चम्यन्तं, अम् प्रथमान्तं, द्विपदमिदं सूत्रम् |'''अङ्गस्य''' ( ६.४.१) इत्यस्य अधिकारः |'''स्वमोर्नपुंसकात्''' (७.१.२३) इति सूत्रस्य पूर्णानुवृत्तिः अस्ति |अनुवृत्ति-सहितसूत्रम्— '''नपुंसकात् अतः अङ्गात् स्वमोः अम् |'''

'''अमि पूर्वः''' (६.१.१०७) = अक् वर्णात् अमि परे पूर्वपरयोः स्थाने पूर्वरुपम् एकादेशो भवति |अमि सप्तम्यन्तं, पूर्वः प्रथमान्तं, द्विपदमिदं सूत्रम् |'''अकः सवर्णे दीर्घः''' ( ६.१.९९) इत्यस्मात् सूत्रात् अकः इत्यस्य अनुवृत्तिः |'''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः |अनुवृत्ति सहितसूत्रम् — '''अकः अमि पूर्वपरयोः एकः पूर्वः संहितायाम्।'''
'''हशि च (६.१.११४) =''' प्लुतभिन्न-ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशो भवति हशि च |हशि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''अतो रोरप्लुतादप्लुते (६.१.११३)''' इत्यस्मात् अप्लुतात्, अतः, रोः इत्येषाम् अनुवृत्तिः |'''ऋत उत्''' (६.१.१११) इत्यस्मात् उत् इत्यस्य अनुवृत्तिः |'''संहितायाम् (६.१.७१)''' इत्यस्य अधिकारः |अनुवृत्ति-सहितसूत्रं— ''' अप्लुतात् अतः रोः उत् हशि च संहितायाम् |'''
===== '''षष्ठीतत्पुरुषसमासस्य अपवादाः''' =====

'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इत्यस्मात् सूत्रात् आरभ्य '''ईषदकृता''' (२.२.७) इति सूत्रं पर्यन्तम् षष्ठीतत्पुरुषसमासस्य अपवादाः उक्ताः |आहत्य अत्र सप्तसूत्राणि सन्ति |एतानि सूत्राणि षष्ठीतत्पुरुषसमासस्य अपवादाः यतोहि एतानि सूत्राणि '''षष्ठी''' (२.२.८) इति सूत्रस्य पूर्वनिपातनस्य क्रमं परिवर्तयन्ति |एतैः अपवादसूत्रैः षष्ठ्यन्तस्य पदस्य परनिपातः भवति |तात्पर्यं यत् षष्ठ्यन्तं पदं उत्तरपदे भवति समासे |

लोके '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रमेव सामान्यतया प्रथमा-तत्पुरुषसमासः इति व्यवहारः दृश्यते |परन्तु व्याकरणे इदं सूत्रं एकदेशिसमासः इति उच्यते |एतत् सूत्रं '''षष्ठी''' (२.२.८) इति सूत्रस्य अपवादः अस्ति।

1) पूर्व-अपर-अधर-उत्तर इत्येते समर्थाः सुबन्ताः एकत्वसङ्ख्याविशिष्टेन अवयविना, तद्वाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति।
====== '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) ======
पूर्व-अपर-अधर-उत्तर इत्येते समर्थाः सुबन्ताः एकत्वसङ्ख्याविशिष्टेन अवयविवाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति |एकत्वसंख्याविशिष्टेन अवयविना सह पूर्वादयः समस्यन्ते |एतत् सूत्रं षष्ठीतत्पुरुषसमासस्य अपवादः |एकदेशः इति शब्दः अवयवार्थे अस्ति, एकदेशी (अवयवी) शब्दः समुदायार्थे अस्ति | पूर्वञ्च परञ्च अधरञ्च उत्तरञ्च तेषां समाहारद्वन्द्वः पूर्वोपराधरोत्तरम् |एकदेशः अस्य अस्ति इति एकदेशी, तेन एकदेशिना |एकं च तद् अधिकरणम् एकाधिकरणम्, तस्मिन् कर्मधारयः |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्— '''पूर्वापराधरोत्तरम् सुप् एकदेशिना सुपा सह एकाधिकरणे विभाषा तत्परुषः समासः ।'''

अस्मिन् सूत्रे '''पूर्वापराधरोत्तरम्''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''पूर्वापराधरोत्तरम्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण।

सामान्यतया अवयविवाचकात् शब्दात् षष्ठीविभक्तिः भवति |अवयववाचकस्य प्रथमा भवति |यदि मम हस्तः इति वदामः चेत् मम शरीरम् अवयवी अस्ति, हस्तः अवयवः अस्ति |मम इति अवयविवाचकस्य पदस्य षष्ठीविभक्तिः; हस्तः इति अवयवस्य प्रथमाविभक्तिः भवति |
यथा –
मम पुस्तकं = मत्पुस्तकम् |षष्ठीतत्पुरुषसमासः अस्ति ।
राज्ञः हस्तः = राजहस्तः |षष्ठीतत्पुरुषसमासः अस्ति ।
राज्ञः पादः = राजपादः |षष्ठीतत्पुरुषसमासः अस्ति ।
गुरोः चरणः = गुरुचरणः |षष्ठीतत्पुरुषसमासः अस्ति ।

सर्वत्र अवयविवाचकस्य षष्ठी भवति |यत्र पूर्वपदस्य षष्ठीविभक्तिः अस्ति तत्र षष्ठीतत्पुरुषसमासः भवति '''षष्ठी''' (२.२.८) इति सूत्रेण |षष्ठ्यन्तस्य पदस्य पूर्वनिपातः भवति |तस्य अपवादत्वेन '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रम् उक्तम् |अनेन सूत्रेण षष्ठ्यन्तस्य पूर्वनिपातनक्रमस्य परिवर्तनम् इष्यते |षष्ठ्यन्तस्य पदस्य श्रवणम् उत्तरपदे भवति, तन्नाम तस्य परनिपातः भवति |

कायस्य पूर्वम् इति विग्रहे षष्ठी इत्यनेन सूत्रेण समासः विधीयते येन कायपूर्वम् इति षष्ठीतत्पुरुषसमासः स्यात् '''षष्ठी''' (२.२.८) इति सूत्रेण |परन्तु अत्र पूर्वकायः इति समासः इष्यते |तदर्थं '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रं कृतम् |अयमेव एकदेशिसमासः इति उच्यते – पूर्वम् इति शब्दस्य श्रवणं प्रथमम् इष्यते इत्यतः प्रथमातत्पुरुषः इति व्यवहारः दृश्यते लोके, परन्तु शास्त्रे अयं समासः एकदेशिसमासः इति उच्यते।

यथा –

पूर्वं कायस्य = पूर्वकायः |काय+ङस् + पूर्व+सु |'''प्रथमानिर्दिष्टं समास उपसर्जनम्''' इति सूत्रेण पूर्वापराधरोत्तरम् इत्यनेन निर्दिष्टस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वं''' (२.२.३०) इति सूत्रेण |अतः पूर्व इति पदस्य पूर्वनिपातः भवति |

अपरं कायस्य = अपरकाय: |काय+ङस् +अपर+सु |
अधरं कायस्य = अधरकायः।
'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रे एकदेशिना इति पदस्य किं प्रयोजनम्?

एकदेशिना इति पदस्य प्रयोजनं यत् अवयविवाचकेन सुबन्तेन सह एव समासः भवति |यदि षष्ठ्यन्तं पदं अवयविवाचकं नास्ति तर्हि समासः न भवति |यथा पूर्वं नाभेः कायस्य इति वाक्यम् |अर्थात् नाभेः पूर्वं पर्यन्तं शरीरस्य अर्धः भागः |अस्मिन् वाक्ये नाभिः अवयवी नास्ति इत्यतः पूर्वनाभः इति समासः न भवति।
'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रे एकाधिकरणे इत्यस्य प्रयोजनं किम्?
एकत्वसङ्ख्याविशिष्टः चेत् एव अवयवी इति स्वीक्रियते |अवयवी एकवचनान्तः भवेत् |एकत्वसङ्ख्याविशिष्टेन अवयविना सह समासः भवति किन्तु बहुत्वसंख्याविशिष्टः अवयवी चेत् समासः न भवति |यथा पूर्वश्छात्राणाम् इति उदाहरणे अवयवी “छात्राणां” बहुवचने अस्ति , अतः समासः न भवति |पूर्वश्छात्राणाम् इति भिन्ने पदे स्तः, अत्र केवलं सन्धिः एव कृतः।

'''सर्वोऽप्येकदेशोऽह्ना समस्यते''', '''संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ''' (६.३.११०) इति सूत्रं ज्ञापकम् अस्ति |अर्थात् यद्यपि पूर्वोक्तान् ( पूर्व, अपर, अधर, उत्तर च) शब्दान् विहाय अन्यैः एकदेशिवाचिभिः शब्दैः सह अह्न इति शब्दस्य '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रेण समासः न भवति, तथापि सूत्रे पठितेभ्यः शब्देभ्यः भिन्नानां एकदेशभूतानां शब्दानां समासस्य स्वीकारः दृश्यते |तस्य प्रमाणम् अस्ति '''संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ''' (६.३.११०) इति सूत्रम् |अस्मिन् सूत्रे साय+ अहन् इति समासं कृत्वा सायाह्नः इति शब्दः निष्पन्नः अस्ति |तदनन्तरं साय पूर्वकः अहन् इति शब्दस्य स्थाने अहन् आदेशः भवति विकल्पेन ङि इति प्रत्यये परे | यावत् पर्यन्तं समासः न भवति तावत् पर्यन्तं सायाह्न इति पदं न भवति |अतः पाणिनिसूत्रम् एव ज्ञापकम् अस्ति यत् अवयववाचिना शब्देन सह अहन् इति शब्दस्य समासः भवति इति |

अस्य ज्ञापकस्य प्रसक्तिः कालवाचकशब्दस्य कृते अपि अस्ति इति कारणेन एकदेशिना सुबन्तेन सह कालवाचकस्य शब्दस्य अपि समासः भवति |अतः एव मध्यरात्रः, पश्चिमरात्रः इत्यादीनि समस्तपदानि भवन्ति।

मध्यम् अह्नः = मध्याह्नः |
अलौकिकविग्रहः →अहन् +ङस् +मध्य +सु |पूर्वोक्तस्य ज्ञापकस्य बलेन समासं कृत्वा मध्य इति एकदेशिशब्दस्य पूर्वनिपातः भूत्वा → मध्य+अहन् इति भवति |'''राजाहस्सखिभ्यष्टच्''' ( ५.४.९१) इति सूत्रेण यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति |अतः मध्य + अहन् + टच् → मध्य + अहन् + अ इति भवति टच् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरम् |

अधुना '''अह्नोऽह्न एतेभ्यः''' ( ५.४.८८) इति सूत्रेण यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति |अस्माकम् उदाहरणे ‘मध्य’ इति एकदेशिवाचकः शब्दः पूर्वपदे अस्ति , अहन् शब्दः उत्तरपदे अस्ति, अतः '''अह्नोऽह्न एतेभ्यः''' ( ५.४.८८) इति सूत्रेण उत्तरपदात् टच् इति तद्धितप्रत्ययः विधीयते अपि च अहन् शब्दस्य स्थाने अह्न इति आदेशः भवति |मध्य+ अह्न + अ → अग्रे '''यस्येति च''' (६.४.१४८) इति सूत्रेण भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति |अत मध्य + अह्न् + अ इति भवति → मध्य+अह्न इति भवति |अग्रे '''अकः सवर्णे दीर्घः''' इत्यनेन मध्याह्न इति शब्दः निष्पद्यते |अधुना तस्मात् शब्दात् सु प्रत्ययः क्रियते चेत् मध्याह्नः इति समस्तपदं निष्पद्यते |

अपरं अह्नः = अपराह्नः।
एवमेव मध्यं रात्रेः = मध्यरात्रः इति समस्तं पदं भवति |रात्रि+ङस् +मध्य+सु |मध्य शब्दस्य पूर्वनिपातः भूत्वा मध्यरात्रि इति शब्दः निष्पद्यते |अधुना '''अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः''' ( ५.४.८७) इति सूत्रेण यस्य तत्पुरुषसमासस्य पूर्वपदम् 'अहन्', 'सर्व', 'सङ्ख्यात' तथा 'पुण्य' एतेषु कश्चन शब्दः अथवा एकदेशवाचकः शब्दः, वा संख्यावाचकः शब्दः, वा अव्ययवाचकः शब्दः अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति |

मध्यरात्रि+ अच् → मध्यरात्रि + अ → अत्र '''यस्येति च''' (६.४.१४८) इति सूत्रेण रात्रिः इति शब्दस्य इकारलोपः भूत्वा मध्यरात्र इति शब्दः निष्पन्नः भवति |अधुना सु प्रत्ययः क्रियते → मध्यरात्र + सु→ मध्यरात्रः इति समस्तपदं निष्पन्नं भवति ।

पश्चिमं रात्रेः = पश्चिमरात्रः |यथा मध्यरात्रः इत्यस्य प्रक्रिया आसीत् तथैव अत्रापि भवति |अत्र '''यस्येति च''' (६.४.१४८) इति सूत्रेण रात्रिः इति शब्दस्य इकारलोपः भूत्वा पश्चिमरात्रः इति समस्तं पदं निष्पन्नम् |

'''यस्येति च''' (६.४.१४८) = भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च च लोपः भवति ईकारे परे, तद्धितप्रत्यये परे |इश्च अश्च यम्, समाहारद्वन्द्वः तस्य यस्य |यस्य षष्ठ्यन्तम्, ईति सम्प्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् |'''भस्य''' (६.४.१२९) इत्यस्य अधिकारः |'''ढे लोपोऽकद्र्वाः''' ( ६.४.१४७) इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः |'''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः |'''नस्तद्धिते '''(६.४.१४४) इत्यस्मात् सूत्रात् तद्धिते इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहितसूत्रम्— '''भस्य अङ्गस्य यस्य च लोपः ईति तद्धिते''' |
2) अर्धम् इत्येतद् नपुंसकं एकदेशिनैकाधिकरणेन समस्यते, तत्पुरुषश्च समासो भवति।
====== '''अर्धं नपुंसकम्''' (२.२.२) ======
अर्धम् इत्येतद् नपुंसकं एकदेशिनैकाधिकरणेन सह समस्यते, तत्पुरुषश्च समासो भवति |एतद् सूत्रं षष्ठीसमासापवादः अस्ति |अर्ध इति शब्दः समांशस्य वाचकः अस्ति, नित्यं नपुंसकलिङ्गे भवति |तादृशः अर्धशब्दः एकत्वसङ्ख्यायुक्तेन अवयविवाचकेन सुबन्तेन सह विकल्पेन समस्यते |अर्धं प्रथमान्तं, नपुंसकं प्रथमान्तं, द्विपदमिदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इत्यस्मात् सूत्रात् एकाधिकरणे, एकदेशिना च अनयोः पदयोः अनुवृत्तिः भवति |अनुवृत्ति-सहित-सूत्रम्— '''अर्धं सुप् एकदेशिना सुपा सह एकाधिकरणे विभाषा तत्परुषः समासः ।'''

अस्मिन् सूत्रे नित्यं नपुंसकलिङ्गे यः अर्ध-शब्दः अस्ति, तस्य एकत्वसंख्याविशिष्टेन अवयविना सुबन्तेन सह विकल्पेन तत्पुरुषसमासः भवति।

‘अर्ध” इति शब्दः समांशवाची अपि अंशसामन्यवाची इति द्विधा भवति |समे अंशः अर्ध शब्दः नपुंसकलिङ्गे एव भवति |अंशसामन्यवाची तु पुंलिङ्गे नपुंसकलिङ्गे च भवति |अत्र अमरकोशः एव प्रमाणम् |यदा किमपि वस्तु छिद्यते, कर्त्यते तदा भागद्वयं भवति |उभौ अपि भागौ समानाकारकौ यदा भवतः तदा अर्धम् इति नपुंसकलिङ्गविशिष्टस्य प्रयोगः भवति |यदा भागयोः समता नास्ति तदा अर्धः इति पुंलिङ्गप्रयोगः |नपुंसकलिङगवाची अर्ध-शब्दः (अर्धम् इत्येतत् ) प्रथमा तत्पुरुषसमासं प्राप्नोति '''अर्धं नपुंसकम्''' (२.२.२) इत्यनेन |यथा अर्धफलम् इति प्रयोगे, अर्धशब्दः समांशवाची एव स्यात् इति स्मर्तव्यम् |यदि अर्धशब्दः समांशवाची न तहि फलस्य अर्धः फलार्धः इति षष्ठीतत्पुरुषसमासः भवति |षष्ठीतत्पुरुषस्थले अर्धशब्दः असमांशवाची न तु समांशवाची।

अस्मिन् सूत्रे '''अर्धम्''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तेस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''अर्धम्''' इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण।

यथा—
अर्धं पिप्पल्याः = अर्धपिप्पली |पिप्पल्याः अर्धः भागः |यदि एतत् सूत्रं नास्ति तर्हि '''षष्ठी''' (२.२.८) इति सूत्रेण पिप्पल्यर्धः इति समासः निष्पद्यते |तन्न इष्टम् अतः अत्र '''अर्धं नपुंसकम्''' (२.२.२) इति सूत्रस्य आवश्यकता |

अलौकिकविग्रहः → पिप्पली+ङस् +अर्ध+सु→ समासप्रक्रियां कृत्वा अर्धपिप्पली इति समस्तपदं निष्पद्यते |अत्र '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण परस्य यत् लिङ्गं तत् भवति द्वन्द्वस्य तत्पुरुषस्य च |अतः समासस्य लिङ्गं भवति स्त्रीलिङ्गम् |अर्धपिप्पली इति समासः।

अर्धं शरीरस्य = अर्धशरीरम् |अयं समासः नपुंसकलिङ्गे भवति ।
अर्धम् आसनस्य = अर्धासनम् |अयं समासः नपुंसकलिङ्गे भवति ।

3) द्वितीय-तृतीय-चतुर्थ-तुर्य इत्येते समर्थाः सुबान्ताः एकत्वसङ्ख्याविशिष्टेन अवयविना, तद्वाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति।

====== '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) ======
द्वितीय-तृतीय-चतुर्थ-तुर्य इत्येते समर्थाः सुबान्ताः एकत्वसङ्ख्याविशिष्टेन अवयविना, तद्वाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति |द्वितीयञ्च तृतीयञ्च चतुर्थ च तुर्यं च तेषाम् इतरेतरयोगद्वन्द्वः द्वितीयातृतीयचतुर्थतुर्याणि प्रथमान्तम्, अन्यतरस्याम् विभक्तिप्रतिरूपकमव्ययम् |अयं समासः षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इत्यस्मात् सूत्रात् एकदेशिना, एकाधिकरणे, च अनयोः पदयोः अनुवृत्तिः भवति |।अनुवृत्ति-सहित-सूत्रम्— '''द्वितीय-तृतीय-चतुर्थ-तुर्याणि सुपः एकदेशिना एकाधिकरणे सुपा सह विभाषा तत्परुषः समासः अन्यतरस्याम्।'''

अस्मिन् सूत्रे '''द्वितीय-तृतीय-चतुर्थ-तुर्याणि''' इति पदानि प्रथमाविभक्तौ सन्ति, अतः तेषां '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''द्वितीया-तृतीया-चतुर्थ-तुर्याणि''' इति पदानां पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण।

अस्मिन् सूत्रे '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति, अतः समासः विकल्पेन भवति तर्हि सूत्रे किमर्थं पुनः अन्यतरस्याम् इत्युक्तम्?
उत्तरमस्ति यत् पुनः अन्यतरस्याम् इति कथनेन '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रेण प्राप्तस्य षष्ठीतत्पुरुषसमास-निषेधं बाधयित्वा षष्ठीसमासः अपि विकल्पेन भवति इत्यर्थः सिध्यति |षष्ठीसमासः क्रियते चेत् षष्ठ्यन्तस्य पदस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः अपि भवति |षष्ठीसमासः इत्युक्ते यः समासः '''षष्ठी''' (२.२.८) इति सूत्रेण क्रियते ।

यथा –
द्वितीयं भिक्षायाः = द्वितीयभिक्षा इति समासः विकल्पेन भवति '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इति सूत्रेण ।अयं समासः षष्ठीतत्पुरुषसमासः अपवादः अस्ति |द्वितीय+अम् + भिक्षा+ ङस् इति अलौकिकविग्रहः |पक्षे भिक्षाद्वितीयम् इति षष्ठीतत्पुरुषसमासः अपि भवति |

तृतीयं भिक्षायाः = तृतीयभिक्षा इति समासः विकल्पेन भवति '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इति सूत्रेण ।अयं समासः षष्ठीतत्पुरुषसमासः अपवादः अस्ति |तृतीय+अम् + भिक्षा+ ङस् इति अलौकिकविग्रहः |पक्षे भिक्षातृतीयम् इति षष्ठीतत्पुरुषसमासः अपि भवति।

चतुर्थं भिक्षायाः = चतुर्थभिक्षा इति समासः विकल्पेन भवति '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इति सूत्रेण ।अयं समासः षष्ठीतत्पुरुषसमासः अपवादः अस्ति |चतुर्थ+अम् + भिक्षा+ ङस् इति अलौकिकविग्रहः |पक्षे भिक्षाचतुर्थम् इति षष्ठीतत्पुरुषसमासः अपि भवति।

तुर्यं भिक्षायाः = तुर्यभिक्षा इति समासः विकल्पेन भवति '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इति सूत्रेण |अयं समासः षष्ठीतत्पुरुषसमासः अपवादः अस्ति |तुर्य+अम् + भिक्षा+ ङस् इति अलौकिकविग्रहः |पक्षे भिक्षातुर्यम् इति षष्ठीतत्पुरुषसमासः अपि भवति।

4) प्राप्त-आपन्न इत्येतौ द्वितीयान्तेन सुबन्तेन सह विकल्पेन समस्येते, तत्पुरुषश्च समासो भवति |
======  '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) ======
प्राप्त-आपन्न इत्येते पदे द्वितीयान्तेन सुबन्तेन सह विकल्पेन समस्येते, तत्पुरुषश्च समासो भवति |प्राप्तं च आपन्नं च तयोरितरेतरद्वन्द्वः प्राप्तापन्ने |प्राप्तापन्ने प्रथमान्तं, द्वितीयया तृतीयान्तम्, अ लुप्तप्रथमाकं पदं, त्रिपदं सूत्रम् |एतत् सूत्रं '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इति सूत्रस्य अपवादः अस्ति |यदि '''द्द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' ( २.१.२४) इति सूत्रेण प्राप्त आपन्न, अनयोः शब्दयोः समासः भवति तर्हि प्राप्त, आपन्न इति शब्दौ उत्तरपदे स्तः पूर्वपदे तु द्वितीयन्तं पदं भवति |किन्तु अनयोः शब्दयोः पूर्वप्रयोगः इष्यते तर्हि '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रस्य आवश्यकता अस्ति | '''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |।'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इत्यस्मात् सूत्रात् एकाधिकरणे, एकदेशिना च अनयोः पदयोः अनुवृत्तिः भवति |'''द्वितीया-तृतीया-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इत्यस्मात् सूत्रात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |अनुवृत्ति-सहित-सूत्रम्— '''प्राप्तापन्ने सुपौ एकदेशिना अधिकरणे सुपा सह विभाषा तत्परुषः समासः, अन्यतरस्याम्।'''

'''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रं '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः'''(२.१.२४) इति सूत्रस्य अपवादः अस्ति |यदि '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण समासः भवति तर्हि प्राप्तः, आपन्नः च अनयोः पदयोः पूर्वनिपातः न सम्भवति | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण जीविकाप्राप्तः इति समासः भवति यतो हि द्वितीयान्तं पदं पूर्वपदे अस्ति, प्राप्तः इति पदम् उत्तरपदे अस्ति ।

यदि प्राप्तः, आपन्नः च अनयोः पदयोः पूर्वनिपातः इष्यते चेत् तर्हि '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रस्य आवश्यकता अस्ति |'''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रे प्राप्तापन्ने इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण।

'''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रं तु '''विभाषा''' (२.१.११) इत्यस्य अधिकारे अस्ति तर्हि पुनः किमर्थं अन्यतरस्याम् इति पदस्य अनुवृत्तिः क्रियते '''द्वितीया-तृतीया-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इत्यस्मात् सूत्रात्?

उत्तरम् अस्ति यत् प्रकृतसूत्रस्य प्रवृत्तेः अभावपक्षे व्यस्तप्रयोगः सम्भवति यतोहि '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति |अपि च अन्यतरस्याम् इत्यनेन द्वितीयतत्पुरुषसमासः अपि सम्भवति '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण |अत एव आहत्य '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४), '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति द्वाभ्यां सूत्राभ्यां त्रयः प्रयोगाः सम्भवन्ति |प्राप्तजीविकः, जीविकाप्राप्तः, अथवा व्यस्तप्रयोगः जीविकां प्राप्तः इति ।
यथा –
प्राप्तः जीविकां = प्राप्तजीविकः |अलौकिकविग्रहः भवति प्राप्त+सु + जीविका + अम् |'''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रेण समासः भवति |प्रातिपदिकसंज्ञानन्तरं, सुप् लुक् भवति |प्राप्तशब्दस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः च भवति |प्राप्तजीविका इति नूतनप्रातिपदिकं निष्पद्यते |जीविका इति पदं नियतविभक्तौ अस्ति इति कारणेन '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) इति सूत्रेण जीविका इति पदस्य उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति | उपसर्जनसंज्ञकस्त्रीप्रत्ययान्तस्य जीविका इति शब्दस्य ह्रस्वत्वं भवति '''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) इत्यनेन सूत्रेण |अतः प्राप्तजीविक इति भवति |'''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति इति कृत्वा समासः स्त्रीलिङ्गे स्यात् यतोहि जीविका स्त्रीलिङ्गे अस्ति |परन्तु '''द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधः वाच्यः''' इति वार्तिकेन निषेधः क्रियते इति कारणेन विशेष्यपदस्य अनुसारं समासः पुंलिङ्गे भवति | ततः सुप्प्रत्ययस्य विधानानन्तरं प्राप्तजीविकः इति भवति |

'''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति इति कृत्वा समासाभावे व्यस्तप्रयोगः सम्भवति, अतः जीविकां प्राप्तः इति वाक्यं भवति | अपि च अन्यतरस्याम् इत्यनेन द्वितीयतत्पुरुषसमासः अपि सम्भवति '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण |द्वितीयातत्पुरुषसमासे, जीविका शब्दस्य पूर्वनिपातः भवति अतः जीविकाप्राप्तः इति समासः सिद्धः |आहत्य '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४), '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति द्वाभ्यां सूत्राभ्यां त्रयः प्रयोगाः सम्भवन्ति – प्राप्तजीविकः, जीविकाप्राप्तः, जीविकां प्राप्तः इति व्यस्तप्रयोगः ।

आपन्नो जीविकाम् = आपन्नजीविकः |अलौकिकविग्रहः आपन्न +सु + जीविका +अम् |यथापूर्वं त्रयः प्रयोगाः सम्भवन्ति – आपन्नजीविकः, जीविकापन्नः, जीविकाम् आपन्नः इति व्यस्तप्रयोगः ।
'''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) = विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पुर्वनिपातः न भवति | एका विभ्क्तिर्यस्य तद् एकविभक्तिः, बहुव्रीहिः |पर्वश्चासौ निपातश्चेति पूर्वनिपातः, कर्मधारयः |न पूर्वनिपातोऽपूर्वनिपातस्तस्मिन्नपुर्वनिपाते, नञ्तत्पुरुषः |एकविभक्तिः प्रथमान्तं, चाव्ययम्, अपूर्वनिपाते सप्तम्यन्तम् |प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यस्यमात् सूत्रात् समासः तथा उपसर्जनम् इत्यनयोः अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रम्— '''एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम् ।'''
'''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) = उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति |गोश्च स्त्री च तयोरितरेतयोगद्वन्द्वओ गोस्त्रियौ, तयोर्गिस्त्रियोः |गोस्त्रियोः षष्ठ्यन्तम्, उपसर्जनस्य षष्ठ्यन्तम् द्विपदमिदं सूत्रम् |'''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७) इति सूत्रात् प्रातिपदिकस्य, ह्रस्वः च अनयोः पदयोः अनुवृत्तिः भवति |अनुवृत्ति-सहित-सूत्रम्— '''गोस्त्रियोः उपसर्जनस्य प्रातिपदिकस्य ह्रस्वः ।'''
5) परिच्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते, तत्पुरुषश्च समासो भवति |
====== '''कालाः परिमाणिना''' (२.२.५) ======
कालवाचकाः परिच्छेद्यवाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | |सूत्रस्थ परिमाणिन् शब्दः परिच्छेद्यवाची अस्ति, अर्थात् इयत्तायाः बोधकः |अस्मिन् सूत्रे समस्यमानौ द्वौ शब्दौ अपि कालवाचिनौ एव स्तः |एकः शब्दः कालस्य अवधिं सूचयति, अन्यः शब्दः कालस्य अवधिं पूरयितुं समयविशिष्टस्य शब्दं सूचयति |अयमेव परिच्छेदक -परिच्छेद्यभावः अर्थात् विशेषण- विशेष्यभावः एकार्थीभावसम्बन्धेन सिद्धः भवति | कालाः प्रथमान्तं, परिमाणिना तृतीयान्तम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |अनुवृत्ति-सहित-सूत्रम्— '''कालाः सुपः परिमाणिना सुपा सह विभाषा तत्परुषः समासः।'''
अस्मिन् सूत्रे '''कालाः''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''कालाः''' इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण।
यथा—
मासो जातस्य = मासजातः | अलौकिकविग्रहः - मास +सु + जात +ङस् |अत्र मास इति कालविशेष-बोधकशब्दः अवदिसूचकः जात इति शब्देन सह समस्यते '''कालाः परिमाणिना''' (२.२.५) इति सूत्रेण |मासजातः इति समस्तपदं निष्पन्नं भवति |

द्वयोः अह्नोः समाहारः द्व्यहः, द्व्यहो जातस्य यस्य स इति विग्रहः = द्व्यहजतः |जन्मात् द्वे दिने जाते |

प्रथमं द्वयोः अह्नोः समाहारः इति द्विगुसमासः भवति '''तद्धितार्थोत्तरपदसमाहारे च''' (२.१.५१) इत्यनेन |अलौकिकविग्रहः भवति द्वि +ओस् + अहन् + ओस् |द्विगुसमासानन्तरं द्व्यहन् इति भवति |'''राजाहस्सखिभ्यष्टच्''' ( ५.४.९१) इति सूत्रेण यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति |अतः द्व्यहन् + टच् → द्व्यहन् + अ इति भवति टच् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरम् |'''न सङ्ख्यादेः समाहारे''' ( ५.४.८९) इति सूत्रेण समाहारतत्पुरुषसमासस्य विषये अहन्-शब्दस्य 'अह्न' इति आदेशः न भवति |अतः '''अह्नष्टखोरेव''' ( ६.४.१४५) इति सूत्रेण अहनि इत्येतस्य टखोः एव परतः टिलोपो भवति |अतः द्व्यहन् + अ → अन् इति टिभागः अस्ति, तस्य लोपः भवति '''अह्नष्टखोरेव''' ( ६.४.१४५) इति सूत्रेण |द्व्यह इति रूपं निष्पन्नं भवति |
'''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रेण रात्र-अह्न-अहाः इत्येते द्वन्द्वतत्पुरुषौ पुंस्येव भवन्ति |

अधुना प्रकृतसमासः क्रियते –
द्व्यहो जातस्य यस्य स इति लौकिकविग्रहः |यद्यपि अत्र विग्रहवाक्यं बहुव्रीहिसमासः इति चिन्तयेयम् परन्तु अत्र बहुव्रीहिसमासः नास्ति | द्व्यह +सु + जात +ङस् इति अलौकिकविग्रहः |कालाः '''परिमाणिना''' (२.२.५) इति सूत्रेण समासः विधीयते |द्व्यह इति पदस्य पूर्वनिपातः भवति यतोहि अयं शब्दः कालवाचकः अस्ति |समासप्रक्रियानन्तरं द्व्यहजातः समासः निष्पद्यते ।
'''पूर्वत्र तु न सङ्ख्यादेः समाहारे इति निषेधः |'''अर्थात् पूर्वत्र नाम प्रकृतसूत्रस्य उदाहरणे द्व्यहजातः इत्यस्मिन् अह्न इति आदेशः न भवति यतोहि सङ्ख्यादेः समाहरे इत्यनेन निषेधः भवति ।

'''उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम्''' इति वार्तिकेन त्रयाणां पदानां योगे अपि तत्पुरुषसमासः भवति |उत्तरपदेन परिमाणवाचिना शब्देन सह द्विगुसमासं कर्तुं अनेकानां पदानां तत्पुरुषसमासः भवति |यत्र पदद्वयात् अधिकानि पदानि भवन्ति तत्र अनेन वार्तिकेन एव व्यवस्था क्रियते अपि च तेषु यदि परिमाणिवाचकः शब्दः उत्तरपदे अस्ति तर्हि तत् पदं कालवाचकैः सह समस्यते यतोहि पूर्ववर्तिनः कालवाचिनः = परिमाणवाचिनः द्विगुसमासः निष्पन्नः भवति |
द्वे अहनी जातस्य सः = द्व्यहजातः |अह्नोऽह्नः – इति वक्ष्यमाणोऽह्नादेशः |द्वे अहनी जातस्य यस्य सः लौकिकः विग्रहः |द्वि+ औ + अहन्+ औ +जात+ङस् इति अलौकिकविग्रहः |अर्थात् त्रयाणां पदानां समासः क्रियमाणः अतः '''उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम्''' इति वार्तिकेन समासः विधीयते |समासप्रक्रियानन्तरं द्वि +अहन् +जात इति प्रातिपदिकं निष्पन्नं भवति | उत्तरपदे जात इति शब्दः अस्ति |अतः द्व्यहन् इति समाहारार्थकद्विगुः न भवति |किन्तु उत्तरपदनिमित्तकद्विगुः भवति |द्वि +अहन् → यण् सन्धिः भूत्वा द्व्यहन् भवति |ततः '''राजाहस्सखिभ्यष्टच्''' ( ५.४.९१) इति सूत्रेण यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति |अतः द्व्यहन् + टच् → द्व्यहन् + अ इति भवति टच् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरम् |अधुना '''अह्नोऽह्नः एतेभ्यः''' ( ५.४.८८) इति सूत्रेण यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति |अतः द्व्यहन इति शब्दे यः अहन् इति शब्दः अस्ति, तस्य स्थाने अह्न इति आदेशः भवति |द्व्यह्नजात इति प्रातिपदिकं निष्पन्नं , तस्मात् सुबुत्पत्तिः भवति द्व्यह्नजातः इति समासः सिद्धः भवति |