14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 135:
 
<big>मयूरी च कुक्कुटश्च = मयूरीकुक्कुटौ  | उत्तरपदं पुंलिङ्गे इत्यतः समस्तपदम् अपि पुंलिङ्गे भवति |</big>
 
 
 
<big>एवमेव  इतरेतरयोगद्वन्द्वसमासे अपि समासस्य लिङ्गम् उत्तरपदम् आश्रित्य भवति  -</big>
 
 
<big>कुक्क्टश्च मयूरी च = कुक्कुटमयूर्यौ | उत्तरपदं स्त्रीलिङ्गे  इत्यतः समस्तपदम् अपि स्त्रीलिङ्गे भवति |</big>
 
<big>मयूरी च कुक्कुटश्च = मयूरीकुक्कुटौ  | उत्तरपदं पुंलिङ्गे इत्यतः समस्तपदम् अपि पुंलिङ्गे भवति |</big>
 
 
 
<big>४)    '''समासान्तप्रत्ययाः''' = समासप्रक्रियायां कुत्रचित् समासान्तप्रत्ययः विधीयते इति जानीमः | समासान्ताः समासस्य अवयवाः सन्ति इत्यतः एव समासान्तानां योजनानन्तरं सम्पूर्णस्य समस्तपदस्य प्रातिपदिकसंज्ञा भवति | यद्यपि एतानि कार्याणि समस्तपदस्य निर्माणे भवन्ति तथापि प्रक्रिया तु तद्धितप्रक्रियाम् आश्रित्य एव भवति  | नाम तद्धितप्रकरणे यानि सूत्राणि प्रसक्तानि भवन्ति तद्धितप्रक्रियायां, तानि समासप्रक्रियायाम् अपि प्रसक्तानि भवन्ति यतोहि समासान्ताः तद्धिताधिकारे सन्ति  | अत एव पाणिनिना एते समासान्तप्रत्ययाः तद्धिताधिकारे स्थापिताः ।</big>
 
<big>'''तद्धिताः''' (४.१.७६) = अधिकारसूत्रम् इदम् | अस्य सूत्रस्य अधिकारः अस्ति ४.१.७६ इति सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तं नाम ५.४.१७० इति पर्यन्तम्  | अस्मिन् अधिकारे ये प्रत्ययाः विधीयन्ते ते सर्वे तद्धितसंज्ञकाः भवन्ति  | सूत्रं स्वयं सम्पूर्णम् ।</big>
 
<big>'''समासान्ताः''' (५.४.६८) = एतत् अधिकारसूत्रम् अस्ति  | अस्मात् सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तं ये तद्धितप्रत्ययाः पाठिताः ते समासप्रक्रियायां विधीयन्ते  | अर्थात् समासान्तस्य अधिकारः ५.४.६८ इत्यस्मात् सूत्रात् आरभ्य ५.४.१६० इति सूत्रपर्यन्तम्  | एते समासान्तप्रत्ययाः प्रातिपदिकात् विधीयन्ते यतोहि '''ङ्याप्प्रातिपदिकात्''' ( ४.१.१) इति सूत्रस्य अधिकारः अस्ति चतुर्थाध्ययात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तम्  |</big>
 
<big>तत्पुरुषसमासस्य प्रसङ्गे एते समासान्ताः विधीयन्ते | अत्र सारांशरूपेण विवरणं दीयते | अग्रे एतेषाम् अध्ययनं भविष्यति   |</big>