14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions
14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH (view source)
Revision as of 18:52, 17 June 2021
, 3 years agono edit summary
Vamsisudha (talk | contribs) No edit summary |
Vamsisudha (talk | contribs) No edit summary |
||
Line 129:
<big>'''प्रथमानिर्दिष्टं समास उपसर्जनम्'''(१.२.४३) इति संज्ञासूत्रेण तत्पुरुषसमासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण |</big>
<big>तत्पुरुषसमासे, द्वन्द्वसमासे च उत्तरपदस्य यत् लिङ्गं तदेव लिङ्गं भवति समस्तपदस्य | तदर्थं सूत्रम् अस्ति '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.६) इति |</big>
Line 157:
<big>समासप्रक्रियायां कुत्रचित् समासान्तप्रत्ययः विधीयते इति जानीमः | समासान्ताः समासस्य अवयवाः सन्ति इत्यतः एव समासान्तानां योजनानन्तरं सम्पूर्णस्य समस्तपदस्य प्रातिपदिकसंज्ञा भवति | यद्यपि एतानि कार्याणि समस्तपदस्य निर्माणे भवन्ति तथापि प्रक्रिया तु तद्धितप्रक्रियाम् आश्रित्य एव भवति | नाम तद्धितप्रकरणे यानि सूत्राणि प्रसक्तानि भवन्ति तद्धितप्रक्रियायां, तानि समासप्रक्रियायाम् अपि प्रसक्तानि भवन्ति यतोहि समासान्ताः तद्धिताधिकारे सन्ति | अत एव पाणिनिना एते समासान्तप्रत्ययाः तद्धिताधिकारे स्थापिताः ।</big>
|