14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 283:
|तत्पुरुषसमासान्तप्रत्ययः

=== '''तत्पुरुषसमासान्त-प्रत्ययसम्बद्ध-सूत्राणां सारांशः''' ===
Line 360 ⟶ 361:

अ)   सामान्यतत्पुरुषसमासः; आ) नञ्प्रभृतयः; इ) कर्मधारयसमासः;  ई) द्विगुसमासः चेति

==== '''अ)   सामान्य-तत्पुरुषसमासाः''' ====
Line 372 ⟶ 371:
1)     द्वितीयान्तस्य सुबन्तस्य श्रित-अतीत- पतित-गत-अत्यस्त-प्राप्त-आपन्नश्च, एतै पदैः सह द्वितीया-तत्पुरुषसमासः विकल्पेन भवति  |

======  '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) ======
द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न इत्येतैः सुबन्तैः सह विकल्पेन समस्यते | द्वितीयान्तं सुबन्तं श्रितादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति | श्रितश्च, अतीतश्च, पतितश्च, गतश्च, अत्यस्तश्च, प्राप्तश्च आपन्नश्च तेषामितरेतरद्वन्द्वः, श्रितातीतपतितगतात्यस्त्प्राप्तापन्नास्तैः | '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः भवति; तेन बलेन तदन्तविधिः भूत्वा द्वितीयान्तः इति अर्थः लभ्यते | द्वितीया प्रथमान्तं, श्रित-अतीत-पतित- गत-अत्यस्त -प्राप्त-आपन्नैः तृतीयान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''तत्पुरुषः''' (२.१.२२) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''द्वितीया सुप् श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः सुब्भिः सह विभाषा तत्परुषः समासः'''  |

Line 515 ⟶ 514:
१) सामि कृतं = सामिकृतम्, सामि कृतम्  | अत्र समासः भवति न वा रूपं समानम् एव अस्ति तर्हि समासस्य का आवश्यकता अस्ति इति प्रश्नः उदेति  | यथा पूर्वं समाहितं '''स्वयं क्तेन''' ( २.१.२५) इति सूत्रे तथैव अत्रापि समाधास्यते |  सामिकृतम् इत्यस्य रूपभेदः नास्ति तथापि तद्धितप्रत्ययस्य विषये रूपभेदः भविष्यति | सामिकृत इति प्रातिपदिकात् अपत्यार्थे इञ् इति तद्धितप्रत्ययः विधीयते चेत् सामिकृतिः इति पदं निष्पन्नं भवति  | समासः न भवति चेत् सामि, कृतम् च भिन्ने पदे स्तः अतः तद्धितप्रत्ययः न विधीयते | केवलं कृत इति शब्दात् तद्धितोत्पत्तिः भवति चेत् कार्तिः इति पदं सिद्ध्यति, तस्य समासः सामि इति पदेन सह क्रियते चेत् सामिकार्तिः इति अनिष्टरूपं सिद्धयति । सामिकृतिः इत्यादीनां साधनार्थं प्रकृतसूत्रस्य आवश्यकता अस्ति |

२) सामि पीतं = सामिपीतम्, सामि पीतम् |

२) सामि पीतं = सामिपीतम्, सामि पीतम् |

Line 697 ⟶ 699:

८) चौर्येण अर्थः = चौर्यार्थः

2)     तृतीयान्तस्य सुबन्तस्य पूर्व-सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्ण इत्येतैः सह तृतीयातत्पुरुषसमासः भवति |

======  '''पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः''' (२.१.३१) ======
तृतीयान्तं सुबन्तं पूर्व-सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्ण इत्येतैः सह विकल्पेन समस्यते, तत्पुरुषश्च समसो भवति | ऊनमर्थो यस्य सः ऊनार्थः, बहुव्रीहि | पूर्वश्च सदृशश्च समश्च ऊनार्थश्च कलहश्च निपुणश्च मिश्रश्च श्लक्ष्णशच तेषामितरेतर्योगद्वन्द्वः; पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णास्तैः | पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः तृतीयान्तमेकपदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने उच्यते | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''तृतीया सुप् पूर्व- सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्णैः सुब्भिः सह  विभाषा  तत्पुरुषः समासः''' |

Line 754 ⟶ 755:
गुडेन सम्मिश्रः = गुडसम्मिश्रः, गुडेन सम्मिश्रः | गुड + टा + सम्मिश्र + सु इति अलौकिकविग्रहः |

प्रकृतसूत्रे ऊनम् इति शब्दः उक्तः, तेन सह प्रयुक्तानां समानार्थकानां शब्दानाम् अपि ग्रहणं क्रियते | परन्तु पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति यतोहि यदि तथा विवक्षितः आसीत् तर्हि सम इति शब्दस्य पृथक्तया उल्लेखः न क्रियते सूत्रे | अतः पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति, केवलम् ऊनम् इति शब्दस्य समानार्थकानां ग्रहणं क्रियते |

'''पूर्वादिष्ववरस्योपसङ्ख्यानम्''' इति वार्तिकम् अस्ति | वार्तिकार्थः  – तृतीयान्तं समर्थं सुबन्तम् अवर (कनिष्ठः, अश्रेष्ठः,  junior) इति सुबन्तेन सह समस्यते | वार्तिके तृतीया इति पदस्य अनुवृत्तिः भवति प्रकृतसूत्रात् | अतः अनेन वार्तिकेन मासेन अवरः = मासावरः (less by a month), मासेन अवरः इति तृतीयातत्पुरुषसमासः भवति | संवत्सरेण अवरः = संवत्सरावरः ( less by a year), संवत्सरेण अवरः |

Line 866 ⟶ 868:

अत्र काशिकारस्य मतेन कृत्य-प्रत्ययेन द्वारा अत्र केवलं यत्, ण्यत् प्रत्ययोः एव ग्रहणम् न तु तव्यदादिनाम्।कृत्यग्रहणे यण्नयतोर्गहणं कर्तव्यम् |अतः काकिः पातव्या इत्यादिषु समासः न भवति |

Line 938:

अलौकिकविग्रहः = यूप+ङे +दारु+सु | '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रेण समासः क्रियते | एकं द्रव्यं अपरस्य द्रव्यस्य प्रयोजकं भवति  |दारुः नाम काष्ठं, यूपः नाम यज्ञ-स्तम्भः |यज्ञार्थं यः स्तम्भः निर्मीयते तस्य निर्माणार्थं दारोः प्रयोगः क्रियते  |काचित् प्रकृतिः भवति , मूलपदार्थः, तस्य विकारेण विकृतिः जायते |यथा दारुः एव प्रकृतिः अस्ति, यूपः एव विकृतिः यतोहि दारोः प्रयोगेन यूपस्य निर्माणं भवति  |दारुयूपयोः मध्ये प्रकृतिविकृतिभावः अस्ति, अतः यूपदारुः इति समासः भवति ।

Line 971:

गोभ्यः हितम् = गोहितम्  | गो+भ्यस् +हित+सु  |समासप्रक्रियानन्तरं गोहित इति प्रातिपदिकं निष्पन्नं भवति |अधुना गोहित+सु इति सुप् प्रत्ययः विधीयते |हितम् इति नपुंसकलिङ्गे विवक्षितम् इत्यनेन गोहित इति समस्तपदं नपुंसकलिङ्गे भवति |अधुना '''अतोऽम''' (७.१.२४) इति सूत्रेण अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ, अम् अनयोः प्रत्यययोः अम्-आदेशः भवति  |गोहोत +सु → '''अतोऽम''' (७.१.२४) इति सूत्रेण अमादेशः → गोहित +अम् → अक्-वर्णात् परस्य अम्-प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति '''अमि पूर्वः''' (६.१.१०७) इति सूत्रेण → गोहितम् इति समस्तपदं निष्पन्नं भवति  |

Line 999:

===== '''d) पञ्चमीतत्पुरुषसमासः''' =====
Line 1,106 ⟶ 1,107:

===== '''e)     सप्तमीत्पुरुषसमासः''' =====
Line 1,159 ⟶ 1,161:

यदि अधि इति शब्दः शौण्डादिगणे न पाठितः तर्हि अधि इति अव्ययेन सह अव्ययीभावसमासः कर्तव्यः येन अमादेशं कृत्वा अधीश्वरम् इति समस्तपदं निष्पन्नं भवति |परन्तु अधि शब्दः तु शौण्डादिगणे पाठितः अतः सप्तमीतत्पुरुषसमासः करणीयः येन ईश्वराधीनः इति समस्तपदं निष्पन्नं भवति।

2)     सप्तम्यन्तं पदं सिद्ध, शुष्क, पक्व, बन्ध, इत्येतैः सह समस्यते, सप्तमीतत्पुरुषः च भवति |

2)     सप्तम्यन्तं पदं सिद्ध, शुष्क, पक्व, बन्ध, इत्येतैः सह समस्यते, सप्तमीतत्पुरुषः च भवति |

Line 1,209 ⟶ 1,212:

अस्मिन् सूत्रे ऋणम् इति शब्दस्य ग्रहणं नियोगस्य उपलक्षणार्थम् अस्ति, अर्थात् कालस्य निश्चिततां बोधयति | नियोगः नाम निश्चितकालस्य बोधः  |यत्र कालस्य निश्चिततायाः बोधः अस्ति तत्र इदं सूत्रं कार्यं करोति।

अ)   मासे अवश्यं देयम् ऋणम्= मासेदेयम् (ऋणम्)- यत् ऋणं मासे एव अवश्यं प्रतिदापनीयम् |

Line 1,220 ⟶ 1,224:
अधुना मास +इ +देय → आद्गुणः इत्यनेन गुणसन्धः भवति → मासेदेय इति भवति।

अग्रे सुबुत्पत्तिः भवति अतः मासेदेय+सु → मासदेयम् इति समस्तपदं नपुंसकलिङ्गे भवति यतोहि देयम् इति पदं ॠणम् इति पदस्य विशेषणम् अस्ति  |समासः न भवति चेत् वाक्यं भवति मासे देयम् इति  |

देयम् इति पदं कथं निष्पन्नं भवति?

Line 1,256 ⟶ 1,261:

'''आदेच उपदेशेऽशिति''' (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः; '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच्‌ इत्यनेन 'ए, ऐ, ओ, औ' | श्‌ इत्‌ यस्य स शित्‌, न शित्‌ अशित्‌, तस्मिन्‌ (विषये) अशिति, नञ्तत्पुरुषः | आत्‌ प्रथमान्तम्‌, एचः षष्ठ्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अशिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''लिटि धातोरनभ्यासस्य''' (६.१.८) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''एचः धातोः आत्‌ उपदेशे अशिति''' |

5)     संज्ञायां विषये सप्तम्यन्तं पदं सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |यत्र यत्र संज्ञायाः विषयः अस्ति तत्र समासः नित्यं भवति।

======  '''संज्ञायाम्''' (२.१.४४) ======
संज्ञायां विषये सप्तयन्तं पदं सुपा सह समस्यते, तत्पुरुषश्च समासो भवति |संज्ञा समुदस्य उपाधिः अस्ति |सज्ञायाम् इति सप्तम्यन्तमेकपदं सूत्रम् |यद्यपि '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति तथापि अयं नित्यसमासः अस्ति यतो हि विग्रहवाक्येन संज्ञायाः बोधः न जायते |यत्र संज्ञा अस्ति तत्र समासः नित्यः |विग्रहवाक्येन संज्ञायाः बोधः न भवति किन्तु समासानन्तरं संज्ञायाः प्रतीतिः उत्पद्यते |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं—  '''संज्ञायां सप्तमी सुप् सुपा सह तत्परुषः समासः |'''
Line 1,305 ⟶ 1,307:
अपररात्रे कृतं = अपररात्रकृतम् |अपररात्र+ङि + कृत+सु |अपररात्रिः इति पदं रात्रिः इति पदस्य अवयववाचिपदम्।

एवमेव पूर्वरात्रकृतं, मध्याह्नकृतं, मध्यरात्रकृतम् |

7)     तत्र इति सप्तम्यन्तं पदं क्तान्तेन सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |

Line 1,317 ⟶ 1,320:
तत्र भुक्तं = तत्रभुक्तम् |तत्र +भुक्त+सु  |भुज् इति धातुतः क्तप्रत्ययस्य योजनने भुक्त इति प्रातिपदिकं निष्पद्यते।

तत्र भुक्तस्य इदम् इति अर्थे तद्धित- अण्प्रत्ययस्य योजनेन तात्रभुक्तम् इति पदं निष्पन्नं भवति।

8)     निन्दार्थे सप्तम्यन्तं पदं क्तान्तेन सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |
Line 1,334 ⟶ 1,337:
प्रवाहे मूत्रितम् = प्रवाहेमूत्रितम् (नद्यां मूत्रत्यागः |निन्दार्थे अस्ति।

भस्मनि हुतम् = भस्मनिहुतम् |भस्मे हवनं करोति  |निन्दार्थे अस्ति।

9)     निन्दार्थे सप्तम्यन्तं पदं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |अत्र समासः नित्यं भवति।
Line 1,546 ⟶ 1,549:

'''यस्येति च''' (६.४.१४८) = भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च च लोपः भवति ईकारे परे, तद्धितप्रत्यये परे  |इश्च अश्च यम्, समाहारद्वन्द्वः तस्य यस्य |यस्य षष्ठ्यन्तम्, ईति सम्प्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् |'''भस्य''' (६.४.१२९) इत्यस्य अधिकारः  |'''ढे लोपोऽकद्र्वाः'''   ( ६.४.१४७) इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः  |'''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः  |'''नस्तद्धिते  '''(६.४.१४४) इत्यस्मात् सूत्रात् तद्धिते इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहितसूत्रम्‌—  '''भस्य अङ्गस्य यस्य च लोपः ईति तद्धिते'''  |

2)     अर्धम् इत्येतद् नपुंसकं एकदेशिनैकाधिकरणेन समस्यते, तत्पुरुषश्च समासो भवति।

====== '''अर्धं नपुंसकम्''' (२.२.२) ======
Line 1,580 ⟶ 1,582:

3)     द्वितीय-तृतीय-चतुर्थ-तुर्य इत्येते समर्थाः सुबान्ताः एकत्वसङ्ख्याविशिष्टेन अवयविना, तद्वाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति।

====== '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) ======
Line 1,853:

यथा— अग्रे सर्वत्र षष्ठीसमास्य निषेधः भवति ।
'''१)     पूरणप्रत्ययान्तशब्दस्य उदाहरणम्'''

'''१)     पूरणप्रत्ययान्तशब्दस्य उदाहरणम्'''
Line 1,884 ⟶ 1,885:

अग्नेः मान्द्यम् = अग्निमान्द्यम् ।

Line 1,970:
५)     षष्ठ्यन्तं समर्थं सुबन्तम् अधिकरणार्थे विहितस्य क्त्प्रत्ययस्य, तदन्तेन सुबन्तेन सह न समस्यते ।

======  '''अधिकरणवाचिना च''' (२.२.१३) ======
अधिकरणार्थे विहितः क्त्प्रत्ययः, तदन्तेन-सुबन्तेन  सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते  |अधिकरणार्थे '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण क्तप्रत्ययः विधीयते  |तादृशस्य क्तप्रत्ययान्तस्य एव अधिकरणवाचिना इति शब्दस्य द्वारा ग्रहणं भवति  |अधिकरणं वक्ति इति अधिकरणवाची, तेन |अधिकरणवाचिना तृतीयान्तं, चाव्ययम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः |'''क्तेन च पूजायाम्''' (२.२.१२) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप्  अधिकरणवाचिना क्तेन सुपा सह  न तत्पुरुषः समासः च।'''

Line 1,986:
'''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) = ध्रौव्यं , गतिः, प्रत्यवसानं च अर्थो येषामिति विग्रहः  |ध्रौव्यागतिप्रत्यवसानार्थेभ्यः यः क्तो विहितः सः अधिकरणे भवति |ध्रौव्यार्थाः अकर्मकाः, प्रत्यवसानार्थाः अभ्यवहारार्थाः ( food) इति स्वनिकायप्रसिद्धिः|  निकाय इत्युक्ते विषयः इत्यर्थः ।
६)     ''' '''कृद्योगे कर्मणि या षष्ठी प्राप्ता, तादृशस्य षष्ठ्यन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह समासः न भवति |

६)     ''' '''कृद्योगे कर्मणि या षष्ठी प्राप्ता, तादृशस्य षष्ठ्यन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह समासः न भवति |

======  '''कर्मणि च''' (२.२.१४) ======
'''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रस्य द्वारा कर्मार्थे विहितं षष्ठ्यन्तं, तदन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह समासः न भवति |अर्थात् कर्मणि च या षष्ठी सा न समस्यते |कर्मणि सप्तम्यन्तं, चाव्ययम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌—'''कर्मणि षष्ठी सुप्  सुपा सह न तत्पुरुषः समासः च।'''

Line 2,003 ⟶ 2,005:

वाक्यार्थः अस्ति गोपं विहाय अन्यपुरुषः धेनूनां दोहनं करोति इति आश्चर्यस्य विषयः अस्ति  |गोः दोहति इति वाक्ये गोः इति कर्मपदम् अस्ति  |दोहति इति तिङन्तपदस्य स्थाने यदि कृत्प्रत्ययान्तस्य प्रयोगः क्रियते तर्हि कर्मणि षष्ठी भवति '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रेण  |दुहिर् अर्दने इति धातुतः घञ् प्रत्ययः क्रियते चेत् दोहः इति कृत्प्रत्ययान्तः शब्दः निष्पन्नः भवति  |दोहः इति पदस्य कर्म अस्ति गोः इति पदम्  |सामान्यतया कर्मणि द्वितीयाविभक्तिः भवति इति जानीमः परन्तु कृत्प्रत्ययस्य योगे कर्मणि द्वितीया न भवति अपि तु षष्ठी भवति '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रेण  |गोः इति कर्मणः कृत्योगे '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रेण षष्ठीविभक्तिः प्राप्यते येन गवाम् इति रूपं सिद्धं भवति  |गवां इति षष्ठ्यन्तस्य पदस्य  दोहः इति कृदन्त-शब्देन सह यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण,  तस्य निषेधः क्रियते '''कर्मणि च''' (२.२.१४) इति सूत्रेण, अतः षष्ठीतत्पुरुषसमासः न भवति |व्यस्तप्रयोगः एव करणीयः – आश्चर्यः गवां दोहः अगोपेन  इति।

Line 2,008 ⟶ 2,013:

====== '''तृजाकाभ्यां कर्तरि''' (२.२.१५) ======

कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह न समस्यते | कर्मणि या षष्ठी सा कर्तरि तृचा अकेन च सह न समस्यते |कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः  |कृद्योगे कर्तरि या षष्ठी प्राप्ता '''कर्तृकर्मणोः कृति''' (२.४.६५) इत्यनेन, तदन्तस्य सुबन्तस्य कर्त्रर्थे तृच्प्रत्ययान्तेन, अकशब्दान्तेन च सह न समस्यते |अक-शब्देन ण्वुल्-प्रत्ययस्य ग्रहणं भवति  |'''ण्वुल्तृचौ''' (३.१.१३३) इति सूत्रेण ण्वुल्-प्रत्ययः विधीयते, अनुबन्धलोपानन्तरं वु इति अवशिष्यते |'''युवोरनाकौ''' ( ७.१.१) इति सूत्रेण वु इत्यस्य स्थाने अक इति आदेशः भवति | अतः '''तृजाकाभ्यां कर्तरि''' (२.२.१५)  इति सूत्रे अक इति शब्दस्य द्वारा ण्वुल् -प्रत्ययान्तस्य एव  ग्रहणं भवति  |कर्तरि इति पदं तृजाकाभ्याम् इति पदस्य विशेषणम् अस्ति  |अर्थात् तृच् प्रत्ययः अथवा अक प्रत्ययः यः कर्त्रर्थे विहितः इत्यर्थः |तृच् -प्रत्ययः, ण्वुल् -प्रत्ययः च कृत्प्रत्ययौ स्तः  |'''कर्तृकर्मणोः कृति''' (२.४.६५) इति सूत्रेण कृत्प्रयोगे कर्तरि कर्मणि च षष्ठीविभक्तिः भवति |तृच् च अकश्च तयोरितरेतरयोगद्वन्द्वः तृजकौ, ताभ्यां तृजकाभ्याम् |तृजकाभ्यां तृतीयान्तं, कर्तरि सप्तम्यन्तम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌— '''कर्मणि''' '''षष्ठी सुप्  कर्तरि तृजाकाभ्यां सुब्भ्यां सह न तत्पुरुषः समासः ।'''

Line 2,042 ⟶ 2,049:

====== '''कर्तरि च''' (२.२.१६) ======

कर्त्रर्थे षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः न भवति |कर्तरि षष्ठ्या अकेन न समासः  |अक इति स्वयं प्रत्ययः नास्ति परन्तु ण्वुल्-प्रत्ययस्य स्थाने अक इति आदेशः भवति |कर्तरि सप्तम्यन्तं, चाव्ययम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः |'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् अक इत्यस्य अनुवृत्तिः भूत्वा तस्य विभक्तेः परिवर्तनं कृत्वा अकेन इति तृतीयान्तं पदं भवति  |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌— '''कर्तरि''' '''षष्ठी सुप् अकेन सुपा सह विभाषा न तत्पुरुषः समासः च।'''

Line 2,058 ⟶ 2,067:

====== '''नित्यं क्रीडा जीविकयोः''' (२.२.१७) ======

क्रिडायां, जीविकायां च षष्ठ्यन्तस्य सुबन्तस्य, अकप्रत्ययान्तेन सुबन्तेन सह नित्यं समासः, तत्पुरुषश्च समासो भवति |नित्यम् इति पदस्य ग्रहणेन आगम्यमाना विभाषा इति अधिकारस्य निवृत्तिः भवति |समासस्य नित्यता इति कारणेन पक्षे विग्रहवाक्यं न भवति | क्रीडा च जीविका च तयोरितरेतरयोगद्वन्द्वः क्रीडाजीविके, तयोः क्रीडाजीविकयोः |नित्यमिति क्रिया विशेषणं द्वितीयान्तं, क्रीडाजीविकयोः सप्तम्यन्तम्  |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् अक इत्यस्य अनुवृत्तिः भूत्वा तस्य विभक्तेः परिवर्तनं कृत्वा अकेन इति तृतीयान्तं पदं भवति  |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् अकेन सुपा सह नित्यं तत्पुरुषः समासः ।'''