14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 32:

समासप्रकरणस्य अध्ययने मातुः पाठ्यक्रमः न केवलं विलक्षणः, सरलः अपि अस्ति येन सुलभतया अर्थबोधः जायते  | बहूनां विद्यार्थीनां भ्रमः जायते वैयाकरणसिद्धान्तकौमुदीं पठित्वा परन्तु  मातुः पाठ्यक्रमे समासपाठः पठ्यते चेत् निश्चयेन बोधः भवत्येव  | मातुः पाठे समासप्रक्रियायां पञ्च उपाङ्गानि सन्ति  | एतस्य विवरणम् अग्रे दीयते  |

=== '''पञ्च उपाङ्गानि''' ===
Line 39 ⟶ 40:
==== १) '''प्रातिपदिकसंज्ञा''' ====
समासस्य प्रातिपदिकसंज्ञा विधीयते '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण | सामान्यतया प्रातिपदिकसंज्ञानन्तरं पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण | सर्वत्र विभक्तेः लुक् भवति इति नास्ति, तस्य अपवादाः सन्ति | अष्टाध्यायां (६.३.१) इत्यस्मात् सूत्रात् आरभ्य (६.३.२४) इति सूत्रपर्यन्तं पूर्वपदस्य विभक्तेः अलुक् भवति  | उत्तरपदे इति अधिकारे सुब्-अलुक् इति एकं कार्यम् अस्ति |

Line 48 ⟶ 50:

समासस्य लिङ्गस्य, वचनस्य च निर्णयः भवति तृतीयस्तरे | समास-वचननिर्णय-सम्बद्धसूत्राणि २.४.१ इत्यस्मात् आरभ्य २.४.१६ इति अन्तपर्यन्तं सन्ति  | समास-लिङ्गनिर्णय-सम्बद्धसूत्राणि २.४.१७ इत्यस्मात् आरभ्य  २.४.३४ इत्यन्तपर्यन्तं सन्ति  |

४) '''समासान्तप्रत्ययाः'''

समासप्रक्रियायां कुत्रचित् समासान्तप्रत्ययः विधीयते इति स्मर्तव्यम् | अष्टाध्यायां समासान्ताधिकारः (५.४.६८) इत्यस्मात् सूत्रात् आरभ्य (५.४.१६०) इति सूत्रपर्यन्तम् अस्ति  | अस्मिन् अधिकारे समासे कुत्रचित् समासान्तप्रत्ययाः विधीयन्ते  |

५)  '''उत्तरपदाधिकारः'''
Line 63 ⟶ 69:

ज्ञातविषयः अस्ति यत् समासे पञ्च प्रभेदाः सन्ति – केवलसमासः, अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वः चेति  | एतावता अस्माभिः समासपरिचयः प्राप्तः, केवलसमासः, अव्ययीभावसमासः च अधीतः | समासे प्राधान्यनिर्ण्यः कथं भवति इत्यपि ज्ञातवन्तः एव  | येन पदार्थेन सह क्रियान्वयः, गुणान्वयः वा भवति सः अर्थः प्राधान्यम् आवहति | एकार्थीभावसामर्थ्यम् अस्ति चेत् एव समासः भवति इत्यपि जानीमः  | यदा पदार्थानां मेलनेन एकार्थस्य बोधः जायते तदा समासे एकार्थीभावरूपसामर्थ्यम् अस्ति इति वदामः |  एकार्थीभावसामर्थ्यस्य अभावे समासः न भवति | अत्र परिभाषासूत्रम् अस्ति '''समर्थः पदविधिः''' (२.१.१) इति | समर्थानां पदानामेव समासः भवति |

==== '''समर्थः पदविधिः''' (२.१.१) ====
पदसम्बन्धी यः विधिः सः समर्थाश्रितो भवेत् | समर्थानां पदानां सम्बद्धार्थानां विधिः इति ज्ञातव्यम् | विधिः नाम कार्यम् इत्यर्थः | एतत् सूत्रं परिभाषासूत्रम् अस्ति |

Line 71 ⟶ 81:

तत्पुरुषसमासे प्रायेण उत्तरपदार्थस्य प्राधान्यं भवति | यथा राजपुरुषः इति षष्ठीतत्पुरुषसमासः, तस्य लौकिकविग्रहः अस्ति राज्ञः पुरुषः इति | अस्मिन् समासे पुरुषः इति उत्तरपदस्य प्राधान्यम् इत्यतः एव अयं समासः तत्पुरुषसमासः इत्युच्यते | अष्टाध्यायां तत्पुरुषसमास-सम्बद्धसूत्राणि २.१.२२ इति सूत्रात् आरभ्य २.२.२२ इति सूत्रपर्यन्तं सन्ति | एतानि सर्वाणि सूत्राणि '''तत्पुरुषः''' (२.१.२२) इति सूत्रयस्य अधिकारे सन्ति |

=== '''तत्पुरुषसमासः''' ===
Line 96 ⟶ 107:

६) षष्ठी-तत्पुरुषसमासः, यथा - राज्ञः पुरुषः = राजपुरुषः |

Line 102 ⟶ 114:
==== '''आ) कर्मधारयसमासः''' ====
तत्पुरुषसमासस्य द्वितीयः प्रभेदः कर्मधारयसमासः इति | कर्मधारयसमासे विशेष्य-विशेषणयोः समासः भवति | विशेषणपदस्य पूर्वप्रयोगः भवति सामान्यतया | कर्मधारयसमासस्य नवप्रभेदाः सन्ति – १) विशेषण-पूर्वपद-कर्मधारयः, २) विशेषणोत्तरपद -कर्मधारयः, ३) विशेषणोभयपद-कर्मधारयः ४) उपमान-पूर्वपद-कर्मधारयः, ५) उपमानोत्तरपद-कर्मधारयः, ६) अवधारण-पूर्वपद-कर्मधारयः, ७) सम्भावना-पूर्वपद-कर्मधारयः, ८) मध्यमपद-लोप-कर्मधारयः, ९) मयूरव्यंसकादयः चेति | यः कोपि समासः एतेषु प्रभेदेषु अन्यतमः चेत् तस्य नाम कर्मधारयसमासः इति |  कर्मधारयः इति संज्ञा दीयते '''तत्पुरुषः सामानाधिकरणः कर्मधारयः''' ( १.२.४२) इति सूत्रेण |  अस्य विवरणम् अग्रिमे करपत्रे दास्यते |

==== '''इ)     द्विगुसमासः''' ====
तत्पुरुषसमासस्य तृतीयः प्रभेदः द्विगुसमासः इति | द्विगुसमासः कर्मधारयसमासस्य एव एकः प्रभेदः अस्ति | विशेषणवाचकं पदं सङ्ख्यावाचकं पदम् अस्ति चेत् तदा समासः द्विगुः इति उच्यते | द्विगुसमासस्य त्रयः प्रभेदाः सन्ति – १) तद्धितार्थद्विगुः, यथा – षण्णां मातॄणाम् अपत्यम् = षाण्मातुरः ; २) उत्तरपदद्विगुः, यथा – पञ्च गावः धनं यस्य सः = पञ्चगवधनः;  ३) समाहारद्विगुश्चेति, यथा – पञ्चाणां पात्राणां समाहारः = पञ्चपात्रम् |  '''द्विगुश्च''' (२.१.२३) इति सूत्रेण द्विगुसमासः अपि तत्पुरुषसंज्ञकः स्यात् | द्विगोः तत्पुरुषत्वे समासान्ताः प्रयोजनम्। अस्य विवरणम् अग्रिमे करपत्रे दास्यते |

==== '''ई)     नञ्प्रभृतयः''' ====
तत्पुरुषसमासस्य चतुर्थः प्रभेदः नञ्प्रभृतयः इति | नञ्प्रभृतीनां पञ्च प्रभेदाः सन्ति — १) नञ्समासः, २) कुसमासः, ३) गतिसमासः ४) प्रादिसमासः, ५) उपपदसमासः चेति |

१) '''नञ्समासः''' = नञ् इति किञ्चन अव्ययम् अस्ति |  तत् सुबन्तेन समासं प्राप्नोति '''नञ्''' (२.२.६) इति सूत्रेण | नञ् इत्यत्र ञकारस्य इत्संज्ञा भवति, न इति अवशिष्यते |  यथा – न धर्मः = अधर्मः |

२) '''कुसमासः,''' ३) '''गतिसमासः,''' ४) '''प्रादिसमासः च''' = एतान् त्रीन् प्रभेदान् मिलित्वा पठामः यतोहि अत्र विधायकं सूत्रम् एकमेव वर्तते | '''कुगतिप्रादयः''' (२.२.१८) इत्यनेन कुगतिप्रादयः समर्थेन सुबन्तेन सह नित्यं समस्यन्ते, तत्पुरुषश्च समासो भवति |
Line 118 ⟶ 137:

प्रादिसमासः = प्रादयः नित्यं सुबन्तेन समस्यते | यथा – शोभनः पुरुषः = सुपुरुषः |

५) '''उपपदसमासः''' = उपपदं सुबन्तं सुबन्तेन समस्यते | यथा – कुम्भं करोति इति = कुम्भकारः |
Line 130 ⟶ 151:
==== १)     '''प्रातिपदिकसंज्ञा''' ====
समासस्य विधानं भवति केनचित् तत्पुरुषसमास-सम्बद्धसूत्रेण | तत्पश्चात् समासस्य प्रातिपदिकसंज्ञा विधीयते '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण | प्रातिपदिकसंज्ञानन्तरं पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण | यथा अव्ययीभावसमासे अस्माभिः प्रक्रिया अधीता तथैव तत्पुरुषसमासस्य विषये अपि चिन्तनीयम् |

==== २)   '''पूर्वनिपातः''' ====
'''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति संज्ञासूत्रेण तत्पुरुषसमासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति  | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण  |

==== ३)     '''तत्पुरुषसमासस्य लिङ्गम्''' ====
Line 154 ⟶ 177:

==== ४)    '''समासान्तप्रत्ययाः''' ====
समासप्रक्रियायां कुत्रचित् समासान्तप्रत्ययः विधीयते इति जानीमः | समासान्ताः समासस्य अवयवाः सन्ति इत्यतः एव समासान्तानां योजनानन्तरं सम्पूर्णस्य समस्तपदस्य प्रातिपदिकसंज्ञा भवति | यद्यपि एतानि कार्याणि समस्तपदस्य निर्माणे भवन्ति तथापि प्रक्रिया तु तद्धितप्रक्रियाम् आश्रित्य एव भवति  | नाम तद्धितप्रकरणे यानि सूत्राणि प्रसक्तानि भवन्ति तद्धितप्रक्रियायां, तानि समासप्रक्रियायाम् अपि प्रसक्तानि भवन्ति यतोहि समासान्ताः तद्धिताधिकारे सन्ति  | अत एव पाणिनिना एते समासान्तप्रत्ययाः तद्धिताधिकारे स्थापिताः |

'''तद्धिताः''' (४.१.७६) = अधिकारसूत्रम् इदम् | अस्य सूत्रस्य अधिकारः अस्ति ४.१.७६ इति सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तं नाम ५.४.१७० इति पर्यन्तम्  | अस्मिन् अधिकारे ये प्रत्ययाः विधीयन्ते ते सर्वे तद्धितसंज्ञकाः भवन्ति  | सूत्रं स्वयं सम्पूर्णम् |

Line 161 ⟶ 185:

'''समासान्ताः''' (५.४.६८) = एतत् अधिकारसूत्रम् अस्ति  | अस्मात् सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तं ये तद्धितप्रत्ययाः पाठिताः ते समासप्रक्रियायां विधीयन्ते  | अर्थात् समासान्तस्य अधिकारः ५.४.६८ इत्यस्मात् सूत्रात् आरभ्य ५.४.१६० इति सूत्रपर्यन्तम्  | एते समासान्तप्रत्ययाः प्रातिपदिकात् विधीयन्ते यतोहि '''ङ्याप्प्रातिपदिकात्''' ( ४.१.१) इति सूत्रस्य अधिकारः अस्ति चतुर्थाध्ययात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तम्  |

Line 360 ⟶ 386:

अ)   सामान्यतत्पुरुषसमासः; आ) नञ्प्रभृतयः; इ) कर्मधारयसमासः;  ई) द्विगुसमासः चेति |

==== '''अ)   सामान्य-तत्पुरुषसमासाः''' ====
द्वितीयतत्पुरुषात् आरभ्य सप्तमीतत्पुरुषः पर्यन्तं तत्सम्बद्धसूत्राणि अग्रे विवृतानि | अष्टाध्यायां प्रथमातत्पुरुषसमासस्य कृते सूत्रं न उक्तम्  | प्रथमतत्पुरुषः इत्यस्य एकदेशिसमासः इति व्यवहारः अस्ति व्याकरणे | अयं एकदेशिसमासः षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति |

===== '''a)     द्वितीयातत्पुरुषसमासः''' =====

द्वितीया-तत्पुरुषसमासस्य विषये षट् सूत्राणि सन्ति – २.१.२४ -२.१.२९ पर्यन्तम् | क्रमेण एतेषां सूत्राणां विषये पठिष्यामः |

1)     द्वितीयान्तस्य सुबन्तस्य श्रित-अतीत- पतित-गत-अत्यस्त-प्राप्त-आपन्नश्च, एतै पदैः सह द्वितीया-तत्पुरुषसमासः विकल्पेन भवति  |
Line 373 ⟶ 402:
====== '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) ======
द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न इत्येतैः सुबन्तैः सह विकल्पेन समस्यते | द्वितीयान्तं सुबन्तं श्रितादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति | श्रितश्च, अतीतश्च, पतितश्च, गतश्च, अत्यस्तश्च, प्राप्तश्च आपन्नश्च तेषामितरेतरद्वन्द्वः, श्रितातीतपतितगतात्यस्त्प्राप्तापन्नास्तैः | '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः भवति; तेन बलेन तदन्तविधिः भूत्वा द्वितीयान्तः इति अर्थः लभ्यते | द्वितीया प्रथमान्तं, श्रित-अतीत-पतित- गत-अत्यस्त -प्राप्त-आपन्नैः तृतीयान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''तत्पुरुषः''' (२.१.२२) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''द्वितीया सुप् श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः सुब्भिः सह विभाषा तत्परुषः समासः'''  |

Line 398 ⟶ 429:
कृष्णश्रितर् → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गो भवति अवसानावस्थायाम्‌, अतः '''कृष्णश्रितः''' इति समस्तपदं सिद्धं प्रथमाविभक्तौ एकवचने  |

एवमेव सर्वासु विभक्तिषु रूपाणि साधयितुं शक्यते | रूपाणि रामवत् भवन्ति  |

अन्यानि उदाहरणानि -

Line 436 ⟶ 468:

कष्टं श्रितः = कष्टश्रितः, कष्टं श्रितः |

प्रकृतसूत्रे श्रित इति शब्दस्य आदिप्रकृतिः स्वीक्रियते; अर्थात् श्रित इति शब्दस्य तदन्तविधिः न स्वीक्रियते  | यथा कष्टं परमश्रितः इत्यत्र कष्टपरमश्रितः इति समासः न भवति यतोहि परमश्रितः इति पदे श्रितः इति पदं तदन्तविधिः न तु तदादिविधिः | अत्र कष्टं परमश्रितः इति व्यस्तप्रयोगः एव शक्यः |

'''गम्यादीनाम् उपसङ्ख्यानम्''' इति वार्तिकेन द्वितीयान्तं सुबन्तं गमी, गामी, बुभुक्षु इत्येतैः शब्दैः समस्यते | गमी, गामी इत्यनयोः पदयोः प्रातिपदिकं नकारान्तम् अस्ति -  गमिन्, गामिन् इति |
Line 451 ⟶ 487:
गुरुं शुश्रुषुः = गुरुशुश्रुषुः, गुरुं शुश्रुषुः |

'''कृत्तद्धितसमासाश्च (१.२.४६) =''' कृदन्ताः, तद्धितान्ताः, समासाः च अपि प्रातिपदिकसंज्ञकाः | कृच्च, तद्धितश्च, समासश्च, कृत्तद्धितसमासाः इतरेतरद्वन्द्वः | कृत्तद्धितसमासाः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५) इत्यस्मात्‌ अर्थवत्‌, प्रातिपदिकम्‌ इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्— '''अर्थवन्तः कृत्तद्धितसमासाः च प्रातिपदिकानि |'''

'''कृत्तद्धितसमासाश्च (१.२.४६) =''' कृदन्ताः, तद्धितान्ताः, समासाः च अपि प्रातिपदिकसंज्ञकाः | कृच्च, तद्धितश्च, समासश्च, कृत्तद्धितसमासाः इतरेतरद्वन्द्वः | कृत्तद्धितसमासाः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५) इत्यस्मात्‌ अर्थवत्‌, प्रातिपदिकम्‌ इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्— '''अर्थवन्तः कृत्तद्धितसमासाः च प्रातिपदिकानि |'''

'''सुपो धातुप्रातिपदिकयोः (२.४.७१) =''' धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्-प्रत्ययस्य लुक् भवति | यदि कश्चन सुप्-प्रत्ययः कस्यचित् धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानः अस्ति, तर्हि तस्य सुप्-प्रत्ययस्य लुक् भवति | धातुश्च प्रातिपदिकं च तयोरितरेतरयोगद्वन्द्वः, धातुप्रातिपदिके, तयोर्धातुप्रातिपदिकयोः | सुपः षष्ठ्यन्तं, धातुप्रातिपदिकयोः षष्ठीद्विवचनान्तम् | ण्यक्षत्रियार्षञितो यूनि '''लुगणिञोः ( २.४.५८)''' इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रम्‌'''— धातुप्रातिपदिकयोः सुपः लुक् |'''

समस्तपदस्य प्रातिपदिकसंज्ञायाः प्रयोजनं किम् इति प्रश्नः उदेति?
Line 459 ⟶ 501:

समस्तपदस्य प्रातिपदिकसंज्ञायाः प्रयोजनद्वयं वर्तते | प्रातिपदिकसंज्ञा अस्ति चेत् एव '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण समस्तपदस्य अवयवभूतानां सुप्-प्रत्ययानां  लुक् भवति | एतत् प्रातिपदिकसंज्ञायाः प्रथमं प्रयोजनम् |  समस्तपदस्य प्रातिपदिकसंज्ञा अस्ति चेत् एव सुप्-प्रत्ययाः विधीयन्ते '''ङ्याप्प्रातिपदिकात्‌'''  ( ४.१.१) इति सूत्रेण, एतत् एव प्रातिपदिकस्य द्वितीयं प्रयोजनम्  | अपि च यदा हि सुप्-प्रत्ययाः विधीयन्ते तदा एव पदत्वं सिद्ध्यति '''सुप्तिङन्तं पदम्''' (१.४.४१) इति सूत्रेण  | अपदं न प्रयुञ्जीत इति नियमात् लोके पदम् एव प्रयोक्तव्यम् |

'''सुप्तिङन्तं पदम्‌ (१.४.१४) =''' सुबन्तानां तिङन्तानां च पदसंज्ञा भवति | तर्हि यस्य पदस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तत्‌ सुबन्तं; यस्य पदस्य अन्ते तिङ्‌-प्रत्ययः अस्ति, तत्‌ तिङन्तम्‌ | एकविंशतिः सुप्‌-प्रत्ययाः सन्ति; अष्टादश तिङ्‌-प्रत्ययाः सन्ति |

'''ससजुषो रुः (८.२.६६)''' = पदान्ते सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन न केवलं यत्‌ पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''ससजुषोः पदस्य रुः |'''

'''विरामोऽवसानम्‌ (१.४.११०) =''' वर्णानाम्‌ अभावः अवसानसंज्ञकः | विरामः प्रथमान्तम्‌, अवसानं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— '''विरामः अवसानम्‌ |'''

'''खरवसानयोर्विसर्जनीयः (८.३.१५) =''' पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अथवा अवसानावस्थायाम्‌ | खर्‍ च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात् रोः इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं — '''खरवासनयोः पदस्य रः विसर्जनीयः संहितायाम्‌ |'''
Line 480 ⟶ 529:

१) स्वयं कृतः = स्वयङ्कृतः, स्वयं कृतः | स्वयं +कृत+सु इति इति अलौकिकविग्रहः |

अस्मिन् प्रसङ्गे एकः प्रश्नः उदेति - यदि अत्र समासः न जायते तदापि सन्धिकार्यं कृत्वा स्वयङ्कृतः इति पदं तु सिद्ध्यति एव तर्हि समासस्य का आवश्यकता?  समासे कृतेऽपि सन्धिः भवति, समासे अकृतेऽपि सन्धिः भवति, उभयत्र रूपं तु समानमेव |
Line 488 ⟶ 539:

३) स्वयं धौतौ पादौ ( feet washed by himself)  = स्वयंधौतौ पादौ, स्वयं धौतौ पादौ  |

3)     खट्वा इति शब्दस्य क्तान्तेन सह द्वितीया-तत्पुरुषसमासः भवति निन्दार्थक-विषये | अत्र समासः '''नित्यं''' भवति यतोहि व्यस्तप्रयोगे निन्दा न अवगम्यते | क्षेपे इत्युक्ते निन्दा इत्यर्थः अस्ति |

====== '''खट्वा क्षेपे''' (२.१.२६) ======
'''खट्वा क्षेपे''' (२.१.२६)

खट्वा (cot )  इति द्वितीयान्त-शब्दः क्तान्तेन सह क्षेपे गम्यमाने समस्यते, तत्पुरुषश्च समासो भवति | क्षेपो निन्दा, स च समासार्थ एव, तेन विभाषा अधिकारेऽपि '''नित्यसमासः''' एव अयम्  | अयं समासः नित्यसमासः यतोहि वाक्येन निन्दा न अवगम्यते | खट्वा प्रथमान्तं, क्षेपे सप्तम्यन्तं खट्वाशब्दो द्वितीयान्तः | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः यद्यपि अस्ति तथापि अस्मिन् सूत्रे विधीयमानः समासः नित्यः यतोहि वाक्ये निन्दा न अवगम्यते  | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | '''स्वयं क्तेन''' (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''द्वितीया खट्वा सुप् क्तेन सुपा सह क्षेपे तत्परुषः समासः''' |

अस्मिन् सूत्रे खट्वा इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं खट्वा इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति |

अस्मिन् सूत्रे खट्वा इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं खट्वा इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति |

१) खट्वारूढो जाल्मः |  जाल्मः = inconsiderate, cruel  | खट्वा + अम् + आरूढ + सु इति अलौकिकविग्रहः अस्ति | अयं समासः नित्यसमासः अतः व्यस्तप्रयोगः न शक्यते | खट्वारूढो जाल्मः इति वाक्यस्य अर्थः एवम् अस्ति -  यः ब्रह्मचारी नियमस्य उल्लङ्घनं कृत्वा गृहस्थाश्रमं प्रविष्टवान्  इति | अर्थात् ब्रह्मचर्यव्रतस्य पालनं कृत्वा वेदादिकम् अधीत्य तत्पश्चात् स्नातकव्रतसंस्कारादिकं प्राप्य गुरु-आज्ञानुरोधेन गृहस्थाश्रमः प्रवेष्टव्यः, तदानीं तादृशस्य खट्वाम् आरूढः इति नियमः  | परन्तु  कोपि नियमस्य उल्लङ्घनं करोति तर्हि सः खट्वारूढः जाल्मः इति उच्यते | अर्थात् दुष्टः उपविष्टः खट्वायाम् इत्यर्थः | अस्मिन् वाक्ये निन्दार्थः प्रतीयते | अतः '''खट्वा क्षेपे''' (२.१.२६) इति सूत्रेण समासः विहितः अस्ति  | अयं समासः नित्यः यतोहि खट्वाम् आरूढः इति वाक्येन निन्दार्थः न अवगम्यते  | समासानन्तरं खट्वारूढः इति पदेन निन्दायाः बोधः भवति  |  खट्वाम् आरूढो बालः, गृहस्थो वा इति वाक्ये निन्दा न प्रतीयते  | अतः एव समासः नित्यः इति मन्तव्यम्  |

२) खट्वाप्लुतः (यः कुमार्गं गच्छति)  |
Line 529 ⟶ 590:

अस्मिन् सूत्रे कालाः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं कालाः इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति |

अयं समासः क्तप्रत्ययान्तेन सह एव भवति | '''अनत्यन्तसंयोगार्थं वचनम्''' |  अनत्यन्तसंयोगे समासं कर्तुं प्रकृतसूत्रं कृतम् | अग्रिमसूत्रम् अस्ति '''अत्यन्तसंयोगे च''' ( २.१.२९) इति | प्रकृतसूत्रम् अग्रिमेण सूत्रेण सह मिलित्वा करणीयम् आसीत्, तथापि द्वे सूत्रे कृते पाणिनिना | किमर्थम् इति चेत् अत्यन्तसंयोगः नास्ति चेदेव     कालवाची शब्दः क्तप्रत्ययान्तेन सह समस्यते इति ज्ञापनार्थं , निर्देशार्थम् |
Line 535 ⟶ 598:

१) मासं प्रमितः ( measured) = मासप्रमितः प्रतिपच्चन्द्रः, मासं परिच्छेत्तुम् आरब्धवान् इत्यर्थः | मास + अम् + प्रमित + सु इति अलौकिकविग्रहः | प्रतिपच्चन्द्रः = moon on the first day, new moon | मासं प्रमातुम् आरब्धः इति | मासस्य एकदेशस्य प्रतिपदश्चन्द्रमसा सह संयोगः अस्ति, परन्तु न अत्यन्तसंयोगः | काल्स्य हि कृत्स्नस्य स्वेन सम्बन्धिना व्याप्तिः एव अत्यन्तसंयोगः | न च प्रतिपच्चन्द्रमा मासस्य इह व्याप्तिः | इह प्रतिपच्चन्द्रेण मासस्य न अत्यन्तसंयोगः अस्ति | संयोगः अस्ति परन्तु अत्यन्तसंयोगः नास्ति |

२) अहः अतिसृताः मुहूर्ताः = अहरतिसृताः मुहूर्ताः ( The six muhurtas which have gone over to the day and become part of the day during Uttarayana)  |  दिने ये मुहूर्ताः आगच्छन्ति  |  अहन् +अम् +अतिसृत + जस् इति अलौकिकविग्रहवाक्यम्  | अहन्+ अतिसृत इति समासस्य प्रातिपदिकम् | अधुना '''रोऽसुपि''' ( ८.२.६९) इति सूत्रेण पदान्ते अहन् इत्यस्य नकारस्य सुप् -भिन्ने शब्दे परे पदान्ते रेफादेशः भवति  | अहर् +अतिसृत = अहरतिसृतः इति समासः सिद्धः भवति  |
Line 586 ⟶ 651:

३) रात्रिम् अतिसृताः मुहूर्ताः  = रात्र्यतिसृताः मुहूर्ताः ( the muhurtas which have gone over to the night during Dakshinayana) |  रात्रौ ये मुहूर्ताः आगच्छन्ति |

Line 599 ⟶ 666:
======  '''अत्यन्तसंयोगे च''' (२.१.२९) ======
कालवाचिनः द्वितीयान्ताः शब्दाः अत्यन्तसंयोगे गम्यमाने सुपा सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति | कालाः इत्येव | अक्तान्तार्थं वचनम् | अत्यन्तश्चासौ संयोगोऽत्यन्तसंयोगः, तस्मिन् अत्यन्तसंयोगे कर्मधारयः | अत्यन्तसंयोगे सप्तम्यन्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रं— '''अत्यन्तसंयोगे द्वितीयाः कालाः सुपः सुपा सह विभाषा तत्परुषः समासः |'''

अस्मिन् सूत्रे कालाः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं कालाः इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति |
Line 608 ⟶ 677:

'''कालाध्वनोरत्यन्तसंयोगे''' (२.३.५) इति सूत्रं वदति यत् कालशब्देभ्यो अध्वशब्देभ्यश्च द्वितीयाविभक्तिः भवति अत्यन्तसंयोगे गम्यमाने | यथा मासं कल्याणी, मासम् अधीते, मासं गुडधानाः इत्यदय कालशब्दानाम् उदाहरणानि | क्रोशं कुटिला नदी, क्रोशम् अधीते, क्रोशं गिरिः | अत्यन्तसंयोगः नास्ति चेत् द्वितीया न स्यात् | यथा मासस्य द्विरधीते, क्रोशस्य एकदेशे पर्वतः |

२) सर्वरात्रं कल्याणी = सर्वरात्रकल्याणी (blissful for the whole night) |
Line 616 ⟶ 687:

सर्वरात्रि → अधुना '''अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः''' ( ५.४.८७) इति सूत्रेण रात्रिः इति शब्दः उत्तरपदे अस्ति इति कृत्वा समासान्तः अच्-प्रत्ययः विधीयते | सर्वरात्रि + अच् → सर्वरात्रि +अ → अधुना '''यचि भम्‌''' (१.४.१८) इत्यनेन सर्वरात्रि इत्यस्य भसंज्ञा भवति अच् इति अजादि प्रत्यये परे | '''यस्येति च''' (६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | सर्वरात्रि इत्यस्य इकारस्य लोपः भवति → सर्वरात्र् + अ → सर्वरात्र इति भवति | '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रेण तत्पुरुषसमासे, द्वन्द्वसमासे च उत्तरपदस्य अनुसारं लिङ्गविधानं भवति | परन्तु अत्र '''रात्राह्नाहाः पुंसि''' इति सूत्रं '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रं प्रबाध्य समासस्य पुनः पुंलिङ्गविधानं क्रियते | सर्वरात्र इति प्रातिपदिकात् सु प्रत्ययस्य विधानानन्तरं सर्वरात्रः इति समासः सिद्धयति |

'''अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः''' ( ५.४.८७) = तत्पुरुषसमासस्य पूर्वपदम् 'अहन्', 'सर्व', 'सङ्ख्यात' ( counted) तथा 'पुण्य' इत्येतेषु कश्चन शब्दः, एकदेशवाचकः शब्दः ( यत्र अवयव-अवयविभावः अस्ति) , संख्यावाचकः शब्दः ( एकं, द्वे, त्रीणि इत्यादीनि) , अथवा अव्ययवाचकः शब्दः ( यथा अति, अपि, इत्यादीनि) अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति | अहश्च सर्वश्च एकदेशश्च सङ्खयातश्च पुण्यञ्च तेषां समाहारः, अहः सर्वैकदेशसङ्ख्यातपुण्यम्, तस्मात् | अहः सर्वैकदेशसङ्ख्यातपुण्यात् पञ्चम्यन्तं, च अव्ययपदं, रात्रेः षष्ठ्यन्तं, त्रिपदं सूत्रम् | '''तत्पुरुषस्याङ्गुलेः सङ्ख्याऽव्ययादेः''' ( ५.४.८६) इत्यस्मात् सूत्रात् तत्पुरुषस्य, सङ्ख्याऽव्ययादेः इति '''पदयोः  '''अनुवृत्तिः | '''अच् प्रत्यन्ववपूर्वात् सामलोम्नः''' (५.४.७५) इत्यस्मात् सूत्रात् अच् इत्यस्य अनुवृत्तिः | '''ङ्याप्प्रातिपदिकात्‌''' (४.१.१) इत्यस्य अधिकारः | '''प्रत्ययः''' (३.१.१), '''परश्च''' ( ३.१.२) अनयोः सूत्रयोः अपि अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''सङ्ख्याऽव्ययादेः अहः सर्वैकदेशसंख्यातपुण्यात् च ,  रात्रेः तत्पुरुषस्य प्रादिपदिकात् अच् प्रत्ययः परश्च समासान्तः तद्धितः''' |
Line 621 ⟶ 694:
यथा - अहोरात्रः, सर्वरात्रः, सङ्ख्यातरात्रः, पुण्यरात्रः, पूर्वरात्रः, द्विरात्रः, अतिरात्रः |

'''रात्राह्नाहाः पुंसि''' ( २.४.२९) = समासस्य उत्तरपदं रात्रिः, अहन्, अह च सन्ति चेत् समासः पुंलिङ्गे भवति | एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव | द्वन्द्वतत्पुरुषयोः इत्यनुवृत्तं, प्रथमाबहुवचनेन विपरिणतं , रात्रादिभिः विशेष्यते, तदन्तविधिः | रात्राह्नाहान्तद्वन्द्वतत्पुरुषाः पुंसीत्यर्थः | फलितमाह — एतदन्ताविति | परवल्लिङ्गतापवादः | '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इत्यस्मात् सूत्रात् द्वन्द्वतत्पुरुषयोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''रात्राह्नाहाः द्वन्द्वतत्पुरुषाः पुंसि''' |

'''रात्राह्नाहाः पुंसि''' ( २.४.२९) = समासस्य उत्तरपदं रात्रिः, अहन्, अह च अस्ति चेत् समासः पुंलिङ्गे भवति | एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव | द्वन्द्वतत्पुरुषयोः इत्यनुवृत्तं, प्रथमाबहुवचनेन विपरिणतं , रात्रादिभिः विशेष्यते, तदन्तविधिः | रात्राह्नाहान्तद्वन्द्वतत्पुरुषाः पुंसीत्यर्थः | फलितमाह — एतदन्ताविति | परवल्लिङ्गतापवादः | '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इत्यस्मात् सूत्रात् द्वन्द्वतत्पुरुषयोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''रात्राह्नाहाः द्वन्द्वतत्पुरुषाः पुंसि''' |

यथा - द्विरात्रः, त्रिरात्रः, चतूरात्रः, पूर्वाह्णः, अपराह्णः, मध्याह्नः, द्व्यहः, त्र्यहः |
Line 650 ⟶ 725:

१)      तृतीयान्तं पदं तत्कृतेन गुणवचनेन समस्यते – पूर्वपदं तृतीयान्तं पदं भवति, उत्तरपदं गुणवाचिशब्दः भवति | सूत्रार्थस्य अवगमनार्थं गुणवचनं, तत्कृतेन इति अनयोः पदयोः अर्थः अवगन्तव्यः |

'''गुणवचनः''' =  गुणः, क्रिया च सर्वदा द्रव्यम् आश्रित्य एव तिष्ठति | सुन्दरः पुरुषः इति वदामः चेत् सौदर्यम् इति गुणः पुरुषम् आश्रित्य एव तिष्ठति | एवं चालकः पुरुषः इति वदामः चेत् चलनक्रिया तु पुरुषम् आश्रित्य एव भवति | अतः गुणः क्रिया च सर्वदैव द्रव्यम् आधाररूपेण स्वीकरोति | गुणः यस्मिन् द्रव्ये अस्ति तद्बोधकः शब्दः गुणवचनः अथवा गुणवाचकः इति उच्यते | गुणम् उक्तवान् गुणवचनः |

यथा मृदुत्वम् इति गुणः अस्ति | मृदुपुष्पम् इति वदामः चेत् मृदुत्वम् इति गुणः पुष्पे वर्तते | मृदुत्वम् इति गुणः यस्मिन् वस्तुनि वर्तते, तस्य बोधकं पदं मृदु इति पदं गुणवचनम् इति उच्यते | अर्थात् मृदु इति शब्दः गुणवाचकः अस्ति | पुष्पं मृदु इति वदामः चेत् मृदु इत्यनेन पुष्पस्य उल्लेखः अस्ति, यस्मिन् मृदुत्वं वर्तते |

'''न केवलं गुणः क्रिया अपि गुणवचनेन उच्यते |''' प्रकृतसूत्रे गुणवचनः इत्यनेन न केवलं गुणः स्वीकृतः अपि तु क्रिया अपि तस्मिन् अन्तर्भूतः भवति | पचनम् इति ल्युडन्तः शब्दः पचनक्रियां बोधयति | तर्हि पाचकः इति गुणवाचकः शब्दः अस्ति | यस्मिन् सा पचनक्रिया विद्यते सः पाचकः | एतादृशाः शब्दाः गुणवचनशब्दाः इति उच्यन्ते | सारांशः कः इति चेत् - यस्मिन् द्रव्ये गुणः अथवा क्रिया विद्यते तद्बोधकः शब्दः गुणवचनशब्दः इति उच्यते |

Line 664 ⟶ 746:
१) शङ्कुलया (knife) खण्डः ( cut) = शङ्कुलाखण्डः देवदत्तः, शङ्कुलया खण्डः  |  शङ्कुला इत्युक्ते छुरिका इत्यर्थः  | शङ्कुलया खण्डः इत्युक्ते यत् वस्तु छुरिकया छिन्नं जातम् इति  | अधुना शङ्कुलया इति तृतीयान्तपदस्य खण्डः इति गुणवाचकशब्देन सह समासः भवति | शङ्कुला+टा +खण्ड+सु इति अलौकिकविग्रहः |

खण्डः नाम खण्डनक्रियां प्राप्तः कश्चित् | अर्थात् खण्डनक्रिया यस्य अथवा यस्मिन् अस्ति सः खण्डः | शङ्कुला खण्डः देवदत्तः इति महाभाष्ये उदाहरणम् | खण्डनक्रिया इति यः गुणवचनः, तस्य हेतुः अस्ति शङ्कुला | शङ्कुलया कृता खण्डनक्रिया यस्मिन्, सः शङ्कुलाखण्डः | अत्र शङ्कुलया इति तृतीयान्तम् अस्ति, तादृशतृतीयान्तमेव कारणम् अस्ति खण्डः इति गुणवचनस्य उत्पादने | छुरिकायाः कारणेन खण्डः इति गुणवाचकः निष्पन्नः | छुरिकायाः प्रयोगः लोके अस्माभिः क्रियते खण्डनार्थम् | खण्डनं भवति छुरिकायाः कारणेन इत्यतः तृतीयातत्पुरुषसमासः भवति '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इति सूत्रेण |

छुरिकायाः कारणेन खण्डः इति गुणवाचकः निष्पन्नः | छुरिकायाः प्रयोगः लोके अस्माभिः क्रियते खण्डनार्थम् | खण्डनं भवति छुरिकायाः कारणेन इत्यतः तृतीयातत्पुरुषसमासः भवति '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इति सूत्रेण |

२) किरिणा काणः = किरिकाणः (blinded by a boar), किरिणा काणः | काणत्वम् इत्युक्ते अन्धत्वम् | अन्धत्वम् इति एकः गुणः | काणः = अन्धः, गुणवचनः | काणः नाम काणत्वविशिष्टः पुरुषः इत्यर्थः | काणत्वे कारणं किरिः (वराहः) |
Line 677 ⟶ 758:

६) निःश्वासेन अन्धः आदर्शः = निःश्वासान्धः, निःश्वासेन अन्धः आदर्शः ( दर्पणम्) |

धेयं यत् अक्ष्णा काणः(blindness) इत्यत्र  तृतीयातत्पुरुषसमासः न सम्भवति यतोहि काणत्वम् अक्ष्णा न उत्पन्नम् | यद्यपि काणः इति गुणवाचकः अस्ति तथापि तादृशगुणवाचकस्य उत्पादने हेतुः अक्षि नास्ति इत्यतः समासः न भवति |

गुणवचनेन सह एव समासः भवति | गोभिः वपावान् इत्यत्र समासः न भवति यतोहि वपावान् इति शब्दः गुणवाची नास्ति अपि तु द्रव्यवाची अस्ति | वपवान् नाम यः वपति सः |

२)     तृतीयान्तं पदं तत्कृतेन अर्थेन समस्यते  |  अर्थशब्दस्य बहवः अर्थाः सन्ति  | प्रकृतसूत्रे अर्थशब्दस्य धनम् इति अर्थः स्वीकृतः | अतः धनवाचिनः अर्थशब्दस्य ग्रहणं भवति | पूर्वपदं तृतीयान्तं पदं भवति, उत्तरपदं धनवाचिशब्दः भवेत् |
Line 699 ⟶ 784:

८) चौर्येण अर्थः = चौर्यार्थः

2)     तृतीयान्तस्य सुबन्तस्य पूर्व-सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्ण इत्येतैः सह तृतीयातत्पुरुषसमासः भवति |
Line 713 ⟶ 800:
यथा —

'''पूर्व →'''  मासेन पूर्वः =मासपूर्वः, मासेन पूर्वः, मासात् पूर्वः | देवदत्तः यज्ञदत्तात् मासपूर्वः | मास + टा + पूर्व + सु इति अलौकिकविग्रहः |

मासशब्दः अवधिं द्योतयति | पूर्वम् इति दिग्वाची अस्ति इत्यतः पूर्वशब्दस्य योगे '''अन्यारादितरर्तेदिक्छब्दाञ्चूत्तरपदाजाहियुक्ते''' (२.३.२९)  इति सूत्रेण पञ्चमीविभक्तिः स्यात् | अन्य, आरात्, इतर, ऋते, दिक्शब्द, अञ्चूत्तरपद, आचाहि इत्येतैर्योगे पञ्चमी विभक्तिर्भवति | यथा चैत्रात् पूर्वः फल्गुनः | परन्तु '''पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः''' (२.१.३१) इत्यनेन तृतीयान्तं पदं पूर्वशब्देन समस्यते इत्युक्तत्वात् तृतीयाविभक्तिः भवति | मासेन पूर्वः इति भवति न तु मासात् पूर्वः समासस्य प्रसङ्गे | व्यस्तप्रयोगे तु मासात् पूर्वः, मासेन पूर्वः इति प्रयोगद्वयम् अपि सम्यगेव |

संवत्सरेण पूर्वः = संवत्सरपूर्वः, संवत्सरेण पूर्वः, संवत्सरात् पूर्वः |

मासशब्दः अवधिं द्योतयति | पूर्वम् इति दिग्वाची च अस्ति इत्यतः पूर्वशब्दस्य योगे '''अन्यारादितरर्तेदिक्छब्दाञ्चूत्तरपदाजाहियुक्ते''' (२.३.२९)  इति सूत्रेण पञ्चमीविभक्तिः स्यात् | अन्य, आरात्, इतर, ऋते, दिक्शब्द, अञ्चूत्तरपद, आचाहि इत्येतैर्योगे पञ्चमी विभक्तिर्भवति | यथा चैत्रात् पूर्वः फल्गुनः | परन्तु '''पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः''' (२.१.३१) इत्यनेन तृतीयान्तं पदं पूर्वशब्देन समस्यते इत्युक्तत्वात् तृतीयाविभक्तिः भवति | मासेन पूर्वः इति भवति न तु मासात् पूर्वः इति समासस्य प्रसङ्गे | व्यस्तप्रयोगे तु मासात् पूर्वः, मासेन पूर्वः इति प्रयोगद्वयम् अपि सम्यगेव |

संवत्सरेण पूर्वः = संवत्सरपूर्वः, संवत्सरेण पूर्वः |

'''सदृश''' '''→''' मात्रा सदृशः = मातृसदृशः, मात्रा सदृशः पुत्रः | मातृ + टा + सदृश + सु इति अलौकिकविग्रहः |
Line 723 ⟶ 814:
पित्रा सदृशी = पितृसदृशी, पित्रा सदृशी पुत्री |

'''तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्''' ( २.३.७२) इति सूत्रेण तुल्यार्थैः  शब्दैः योगे तृतीयाविभक्तिः वा स्यात् पक्षे षष्ठी च तुलाउपमाशब्दौ वर्जयित्वा |  तुल्यः सदृशः समो वा कृष्णस्य कृष्णेन वा  |  तुला उपमा वा कृष्णस्य नास्ति | अनेन सूत्रेण षष्ठीविभक्तिः विकल्पेन विधीयते सदृशः इति शब्दात्, तस्मात् अत्र षष्ठीतत्पुरुषसमासः अपि सम्भवति | मातुः सदृशः इति विग्रहे सति मातृसदृशः इति षष्ठीतत्पुरुषसमासः अपि भवति | अर्थात् सदृशः इति शब्दस्य योगे तृतीयातत्पुरुषसमासः अपि भवति, विकल्पेन षष्ठीतत्पुरुषसमासः अपि भवति |

'''तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्''' ( २.३.७२) इति सूत्रेण तुल्यार्थैः  शब्दैः योगे तृतीयाविभक्तिः वा स्यात् पक्षे षष्ठी च तुला-उपमाशब्दौ वर्जयित्वा |  तुल्यः सदृशः समो वा कृष्णस्य कृष्णेन वा  |  तुला उपमा वा कृष्णस्य नास्ति | अनेन सूत्रेण षष्ठीविभक्तिः विकल्पेन विधीयते, तस्मात्  षष्ठीतत्पुरुषसमासः अपि सम्भवति | मातुः सदृशः इति विग्रहे सति मातृसदृशः इति षष्ठीतत्पुरुषसमासः अपि भवति | मात्रा सदृशः इति विग्रहे सति मातृसदृशः इति तृतीयातत्पुरुषसमासः अपि भवति |  अर्थात् सदृशः, समः इति शब्दयोः योगे तृतीयातत्पुरुषसमासः अपि भवति, विकल्पेन षष्ठीतत्पुरुषसमासः अपि भवति |

'''सम''' '''→''' मात्रा समः = मातृसमः, मात्रा समः पुत्रः |

द्रोणेन समः अर्जुनः = द्रोणसमः, द्रोणेन समः |

'''ऊनार्थ''' '''→''' ऊनम् इति शब्दस्य न्यूनम् इति अर्थः | न्यूनम् इत्यस्मिन् अर्थे यानि पदानि सन्ति, तेषां सर्वेषां ग्रहणम्  |
Line 736 ⟶ 833:

माषेण विकलम् = माषविकलं तोलकं, माषेण विकलं तोलकम्   | विकलम् इति शब्दः ऊनार्थे अस्ति |

'''कलह''' '''→''' वाचा कलहः = वाक्कलहः, वाचा कलहः | '''चोः कुः''' (८.२.३०) इत्यनेन चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च |

'''निपुण''' '''→''' वाचा निपुणः= वाङ्निपुणः, वाचा निपुणः |

आचारेण निपुणः = आचारनिपुणः, आचारेण निपुणः |

'''मिश्र→''' गुडेन मिश्रः = गुडमिश्रः |
Line 755 ⟶ 858:
गुडेन सम्मिश्रः = गुडसम्मिश्रः, गुडेन सम्मिश्रः | गुड + टा + सम्मिश्र + सु इति अलौकिकविग्रहः |

प्रकृतसूत्रे ऊनम् इति शब्दः उक्तः, तेन सह प्रयुक्तानां समानार्थकानां शब्दानाम् अपि ग्रहणं क्रियते | परन्तु पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति यतोहि यदि तथा विवक्षितः आसीत् तर्हि सम इति शब्दस्य पृथक्तया उल्लेखः न क्रियते सूत्रे | अतः पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति, केवलम् ऊनम् इति शब्दस्य समानार्थकानां ग्रहणं क्रियते |

'''पूर्वादिष्ववरस्योपसङ्ख्यानम्''' इति वार्तिकम् अस्ति | वार्तिकार्थः  – तृतीयान्तं समर्थं सुबन्तम् अवर (कनिष्ठः, अश्रेष्ठः,  junior) इति सुबन्तेन सह समस्यते | वार्तिके तृतीया इति पदस्य अनुवृत्तिः भवति प्रकृतसूत्रात् | अतः अनेन वार्तिकेन मासेन अवरः = मासावरः (less by a month), मासेन अवरः इति तृतीयातत्पुरुषसमासः भवति | संवत्सरेण अवरः = संवत्सरावरः ( less by a year), संवत्सरेण अवरः |
प्रकृतसूत्रे ऊनम् इति शब्दः उक्तः, तेन सह प्रयुक्तानां समानार्थकानां शब्दानाम् अपि ग्रहणं क्रियते | परन्तु पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति यतोहि यदि तथा विवक्षितः आसीत् तर्हि सम इति शब्दस्य पृथक्तया उल्लेखः न क्रियते सूत्रे | अतः पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति, केवलम् ऊनम् इति शब्दस्य समानार्थकानां ग्रहणं क्रियते |

Line 763 ⟶ 868:

3)   कर्तरि करणे च तृतीयान्तस्य सुबन्तस्य कृदन्तेन सह तृतीयातत्पुरुषसमासः भवति |

====== '''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) ======
कर्तरि करणे च या तृतीया, तदन्तं कृदन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति | कर्तरि या तृतीयाविभक्तिः, करणे वा या तृतीयाविभक्ति सा कृदन्तेन बहुलं समस्यते | कर्ता च करणञ्च तयोः समाहारद्वन्द्वः, कर्तृकरणं, तस्मिन् कर्तृकरणे | कर्तृकरणे सप्तम्यन्तं, कृता तृतीयान्तं, बहुलं प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः यद्यपि अस्ति तथापि तस्य सम्बन्धः न भवति सूत्रार्थेन सह यतोहि अत्र बहुलम् इति शब्दस्य ग्रहणं अस्ति येन विशिष्टार्थस्य उपलब्धिः भवति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''कर्तृकरणे तृतीया सुप् कृता सुपा सह बहुलं  तत्परुषः समासः |'''

अस्मिन् सूत्रे '''तृतीया''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''तृतीया''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |
Line 778 ⟶ 886:
'''''क्वचित्प्रवृत्तिः, क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव |'''''

'''''विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति''''' '''॥'''

सूत्रप्रवृत्तियोग्यस्थले तु भवति, कुत्रचित् प्रवृत्त्ययोग्यस्थलेऽपि भवति | क्वचित् सूत्रप्रवृत्तियोग्यस्थलेऽपि न भवति | कुत्रचित् विकल्पेन भवति | कुत्रचित् भिन्नमेव भवति | अर्थात् निर्दिष्टार्थातिरिकार्थेऽपि भवति |

अत्रसूत्रप्रवृत्तियोग्यस्थले तु भवति, कुत्रचित् प्रवृत्त्ययोग्यस्थलेऽपि भवति | क्वचित् सूत्रप्रवृत्तियोग्यस्थलेऽपि न भवति | कुत्रचित् विकल्पेन भवति | कुत्रचित् भिन्नमेव भवति | अर्थात् निर्दिष्टार्थातिरिकार्थेऽपि भवति | बहुलम् इति शब्दस्य योगार्थः अस्ति - बहून अर्थान् लाति (स्वीकरोति) इति | अनेकान् अर्थान् प्राप्नोति इति | बहुलम् इति शब्दस्य व्याकरणे बहवः अर्थाः सन्ति | कुत्रचित् नित्यम् इत्यस्मिन् अर्थे भवति कुत्रचित् विकल्पेन इत्यस्मिन् अर्थे भवति कुत्रचित् प्रसक्तिः एव न भवति, कुत्रचित् अन्यः एव अर्थः भवति  (निर्धारितार्थं विहाय अन्यः अर्थः) | अस्मिन् सूत्रे बहुलम् इत्यस्य सामान्यतया विकल्पेन इत्यर्थः स्वीक्रियते |

बहुलं ग्रहणेन कुत्र अप्रवृत्तिः इति चेत् दात्रेण लूनवान् इत्यत्र | दात्रेण लूनवान् = अत्र करणार्थे दात्रेण इति तृतीयान्तस्य शब्दस्य कृत्प्रत्ययान्तेन लूनवान् इति शब्देन सह समासः न भवति |
Line 788 ⟶ 895:
यथा —

'''कर्त्रर्थे तृतीया'''

रामेण बाणेन हतो वाली | अस्मिन् वाक्ये '''कर्तृकरणयोस्तृतीया''' (२.३.१८) इति सूत्रेण कर्तृपदस्य करणस्य च तृतीया भवति | कर्ता अस्ति रामः, करणम् अस्ति बाणः |
Line 815 ⟶ 922:

१२) चौरैः हृतः (taken)  = चौरहृतः, चौरैः हृतः |

करणार्थे तृतीया

'''करणार्थे तृतीया'''

१) बाणेन हतः = बाणहतः, बाणने हतः | करणे तृतीयायाः कृदन्तेन सह समासः |
page_and_link_managers, Administrators
5,243

edits