14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 3,775:
 
 
<big>इदम् एषाम् आसितम् इत्यत्र आस् इति अकर्मकधातुः ध्रौव्यार्थे अस्ति इति कृत्वा '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण अधिकरणार्थे क्तप्रत्ययः विधीयते, अतः आसितम् इति रूपं लभ्यते | अत्र क्तप्रत्ययः अधिकरणार्थे विहितः इत्यतः अधिकरणम् उक्तं भवति येन अधिकरणस्य प्रथमाविभक्तिः एव जायते | इदम् इति अधिकरणवाचिशब्दः , आसितम् इति क्तान्तेन उक्तः इति कृत्वा इदम् इति प्रथमाविभक्तौ अस्ति | सामान्यतया अधिकरणस्य सप्तमीविभक्तिः जायते यदि अधिकरणं प्रत्ययेन अनुक्तं भवति | परन्तु अत्र क्तप्रत्ययेन अधिकरणम् उक्तम् इत्यतः अधिकरणस्य प्रथमा जायते | आसितम् इत्यनेन इदम् इति अधिकरणम् उक्तम् परन्तु इमे इति कर्तारः तु अनुक्ताः सन्ति | तर्हि आसितम् इति क्तप्रत्ययान्तस्य योगे इमे इति कर्तॄणां षष्ठी प्राप्ता अस्ति '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण | तस्याः षष्ठेः निषेधः क्रियते '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण | पुनः '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे कर्तुः षष्ठी विभक्तिर्भवति | आसितम् इति क्तान्तस्य योगे अनुक्तकर्तरि षष्ठी विभक्तिः जायते | अतः एषाम् इति षष्ठ्यन्तं जायते | वाक्यं भवति एषांएषाम् इदम् आसितम् इति |</big>
 
 
page_and_link_managers, Administrators
5,097

edits