14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 3,299:
 
 
<big>'''यतश्च निर्धारणं''' ( २.३.४१) इति सूत्रेण निर्धारणार्थे षष्ठी विहिता स्यात् इति अस्माकं संशयः उदेति यतोहि पञ्चमः इति पदं छात्रस्य संज्ञा खलु, अतः संज्ञाम् आश्रित्य एकदेशस्य पृथक्करणं कृतं येन निर्धारणार्थे षष्ठी स्यात् , इति चेत्</big> <big>उत्तरत्वेन न्यासकारः वदति यत् अत्र समुदायसमुदायिसम्बन्धे शेषलक्षणा षष्ठी विहिता इति | यदि '''यतश्च निर्धारणं''' ( २.३.४१) इति सूत्रेण निर्धारणार्थे षष्ठी विहिता इति स्वीकुर्मः तर्हि '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रे पूरणम् इति दलं निष्प्रयोजनं स्यात् यतोहि निर्धारणार्थे षष्ठी चेत् षष्ठी समासः निषिद्धः न निर्धारणे इत्यनेन सूत्रेण एव | तन्मा भूत् इति कृत्वा अत्र निर्धारणार्थे षष्ठी इति स्वीकर्तुं न शक्यते |</big>
 
 
page_and_link_managers, Administrators
5,162

edits