14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 3,859:
 
 
१) <big>'''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषा | अनन्तरस्यैव विधिः वा प्रतिषेधः वा अव्यवहितस्य पूर्वस्यैव भवति न तु व्यवहितस्य पूर्वस्य इति परिभाषार्थः | अस्यां परिभाषायां वा इति शब्दः '''<u>च</u>''' इत्यस्मिन् अर्थे प्रयुक्तः अस्ति |</big>
 
 
 
<big>'''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रे उक्तं यत् उभयप्राप्तिः यस्मिन् कृति तत्र कर्मणि एव षष्ठी स्यात् | अस्मिन् सूत्रे कर्तुः षष्ठी न स्यात् इति यः प्रतिषेधः वर्तते, सः प्रतिषेधः समीपवर्तिनः अव्यवहितस्यैव पूर्वस्य भवति न तु व्यवहितस्य इति | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रम् '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रस्य अनन्तरं वर्तते, अतः '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इत्यस्मिन् यः प्रतिषेधः वर्तते सः प्रतिषेधः समीपवर्तिनः अव्यवहितस्य सूत्रस्य एव बाधां करोति | अतः '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रम् '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रमेव बाधते | फलितार्थः एवं यत् '''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषायाः आधारेण '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रेण '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रस्य प्रतिषेधः न स्यात् | एवञ्चेत् '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रम् '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रं न बाधते इत्यतः कर्तुः कर्मणः च षष्ठीविभक्तिः भवितुम् अर्हति '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रेण |</big>
 
 
<big>अन्यानि उदाहरणानि '''- [[अनन्तरस्य विधिर्वा प्रतिषेधो वा]]''' |</big>
Line 3,874 ⟶ 3,876:
 
 
 
<big>अन्यानि उदाहरणानि '''- [[मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्]]'''</big>
 
<big>आहत्य यत्र कर्ता, कर्म च द्वयमपि अनुक्तं एकस्मिन्नेव वाक्ये अपि च क्तप्रत्ययः अधिकरणार्थे विहितः तत्र द्वयोः षष्ठीविभक्तिः भवति '''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः बलेन अथवा '''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषायाः बलेन | कथञ्चित् अपि वयं समर्थयितुं शक्नुमः |</big>
page_and_link_managers, Administrators
5,250

edits