14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 975:
 
 
<big>यत्र द्वन्द्वतत्पुरुषसमासे उत्तरपदे रात्र,अहन्, अह च भवति तत्र युग्पत् '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६), '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति एतयोः सूत्रयोः प्रसक्तिः भवति, तर्हि किं सूत्रं कार्यं कुर्यात् इति प्रश्नः उदेति | अत्र एका परिभाषा प्रवर्तते - '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति''' | अर्थात् पूर्वमेव यः अपवादः अस्ति सः अनन्तरस्य विधिं बाधते न तु उत्तरस्य | अपवादसूत्रं समीपवर्तिनं बाधते | '''सः नपुंसकम्''' ( २.४.१७) इति अपवादसूत्रं पूर्वमस्ति, अतः तत् समीपवर्तिनं सूत्रं बाधते | अत्र समीपवर्तिसूत्रम् अस्ति '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति | अतः अस्याः परिभाषायाः बलेन '''सः नपुंसकम्''' ( २.४.१७) इति सूत्रं '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति परसूत्रेण या परवल्लिङ्गता विधीयते, ताम् अपवादत्वात् बाधते | '''सः नपुंसकम्''' ( २.४.१७) इति सूत्रं '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रस्य अपवादः नास्ति यतोहि तत् समीपवर्ति नास्ति | '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रम् अपवादसूत्रेण रात्राह्नाहान्तः द्वन्द्वतत्पुरुषः पुंल्लिङ्गे भवति | रात्राह्नाहान्तद्वन्द्वतत्पुरुषाः पुंसीत्यर्थः | अनन्तरत्वात्परवल्लिङ्गतापवादोऽप्ययं परत्वात्समाहारनपुंसकतां बाधते | '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रं '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति पूर्वसूत्रेण या परवल्लिङ्गता विधीयते, तं बाधित्वा '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति अपवादसूत्रेण पुंस्त्वं विधीयते | अनन्तरस्य विधिः समीपवर्तिनं बाधते अतः '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रमेव बाधते | अतः अहश्च रात्रिश्च इति इतरेतरद्वन्द्वे '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रेण समासस्य स्त्रीलिङ्गत्वं प्राप्तम् अस्ति, तं बाधित्वा '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति अपवादसूत्रेण पुंस्त्वं विधीयते | अहश्च रात्रिश्च अनयोः समाहारद्वन्द्वे '''स नपुंसकम्''' ( २.४.१७) इति सूत्रम् '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रस्य अपवादः अस्ति, अतः समासः नपुंसकलिङ्गे स्यात् | किन्तु अत्र '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रमपि प्राप्तम् अस्ति | '''स नपुंसकम्''' ( २.४.१७), '''रात्राह्नाहाः पुंसि''' ( २.४.२९) च इति अनयोः मध्ये परत्वात् '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रेण पुंस्त्वं भवति समासस्य अतः अहोरात्रः इति समासः पुंलिङ्गे भवति | समाहारद्वन्द्वे '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रं '''स नपुंसकम्''' ( २.४.१७) इति सूत्रं न बाधते '''[[अनन्तरस्य विधिर्वा प्रतिषेधो वा|''अनन्तरस्य विधिर्वा प्रतिषेधो वा'']] इति''' परिभाषायाः बलेन यतोहि '''स नपुंसकम्''' ( २.४.१७) इति सूत्रं समीपवर्तिनं नास्ति |</big>
 
<big>यत्र द्वन्द्वतत्पुरुषसमासे उत्तरपदे रात्र,अहन्, अह च भवति तत्र युग्पत् '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६), '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति एतयोः सूत्रयोः प्रसक्तिः भवति, तर्हि किं सूत्रं कार्यं कुर्यात् इति प्रश्नः उदेति | अत्र एका अन्यापि परिभाषा प्रवर्तते - '''[[अनन्तरस्य विधिर्वा प्रतिषेधो वा|''अनन्तरस्य विधिर्वा प्रतिषेधो वा'']] इति''' | अस्यां परिभाषायां वा इति शब्दः च इत्यस्मिन् अर्थे प्रयुक्तः अस्ति | अर्थात् यः विधिः, निषेधः च अनन्तरम् अस्ति सः विधिः, निषेधः च समीपवर्तिनं बाधते | विधिः वा प्रतिषेधः वा अनन्तरस्यैव अव्यवहितस्यैव भवति न तु व्यवहितस्य इति परिभाषार्थः | '''रात्राह्नाहाः''' पुंसि ( २.४.२९) इति सूत्रम् अनन्तरविधिः इति कारणेन समीपवर्तिनं सूत्रं बाधते | अत्र समीपवर्तिसूत्रम् अस्ति '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति | अतः अस्याः परिभाषायाः बलेन '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रं '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति पूर्वसूत्रेण या परवल्लिङ्गता विधीयते, ताम् अपवादत्वात् बाधते | '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रम् अपवादसूत्रेण रात्राह्नाहान्तः द्वन्द्वतत्पुरुषः पुंल्लिङ्गे भवति | '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रम् '''स नपुंसकम्''' ( २.४.१७) इति सूत्रं न बाधते यतोहि '''स नपुंसकम्''' ( २.४.१७) इति सूत्रम् अव्यवहितपूर्वं नास्ति | परन्तु परतत्वात् बाधयितुं शक्यते |</big>
 
Line 2,254:
 
 
<big>यत्र द्वन्द्वतत्पुरुषसमासे उत्तरपदे रात्र,अहन्, अह च भवति तत्र युग्पत् '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६), '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति एतयोः सूत्रयोः प्रसक्तिः भवति, तर्हि किं सूत्रं कार्यं कुर्यात् इति प्रश्नः उदेति | अत्र एका परिभाषा प्रवर्तते - '''[[अनन्तरस्य विधिर्वा प्रतिषेधो वा|''अनन्तरस्य विधिर्वा प्रतिषेधो वा'']] इति''' | अस्यां परिभाषायां वा इति शब्दः च इत्यस्मिन् अर्थे प्रयुक्तः अस्ति | अर्थात् यः विधिः, निषेधः च अनन्तरम् अस्ति सः विधिः, निषेधः च समीपवर्तिनं बाधते | विधिः वा प्रतिषेधः वा अनन्तरस्यैव अव्यवहितस्यैव भवति न तु व्यवहितस्य इति परिभाषार्थः | '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रम् अनन्तरविधिः इति कारणेन समीपवर्तिनं सूत्रं बाधते | अत्र समीपवर्तिसूत्रम् अस्ति '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति | अतः अस्याः परिभाषायाः बलेन '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रं '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति पूर्वसूत्रेण या परवल्लिङ्गता विधीयते, ताम् अपवादत्वात् बाधते | अपि च समाहारद्वन्द्वे एकवद्भावः यत्र भवति तत्र '''स''' '''नपुंसकम्''' ( २.४.१७) इति सूत्रेण यत् नपुंसकलिङ्गविधानं प्राप्तम् अस्ति , तस्य बाधा भवति '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रेण परत्वात् | '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रम् अपवादसूत्रेण रात्राह्नाहान्तः द्वन्द्वतत्पुरुषः पुंल्लिङ्गे भवति |</big>
 
 
Line 3,859:
 
 
१) <big>'''[[अनन्तरस्य विधिर्वा प्रतिषेधो वा|''अनन्तरस्य विधिर्वा प्रतिषेधो वा'']]''' इति परिभाषा | अनन्तरस्यैव विधिः वा प्रतिषेधः वा अव्यवहितस्य पूर्वस्यैव भवति न तु व्यवहितस्य पूर्वस्य इति परिभाषार्थः | अस्यां परिभाषायां वा इति शब्दः '''च''' इत्यस्मिन् अर्थे प्रयुक्तः अस्ति इत्यतः एव विधिः निषेधः च द्वयमपि अनन्तरस्य अर्थात् समीपवर्तिनः एव भवति | एवं प्रकारेण अस्यां परिभाषायां समीपवर्तिनः विधानं वा निषेधः क्रियते यतोहि समीपवर्तिनः एव प्रथमोपस्थितिः भवति | यः व्यवहितः भवति तस्य उपस्थितिः विलम्बेन भवति इति स्वभाविकः एव | अतः अनया परिभाषया शीघ्रोपस्थितस्य समीपवर्तिनः एव विधानम् अथवा निषेधः क्रियते |</big>
 
 
 
<big>'''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रे उक्तं यत् उभयप्राप्तिः यस्मिन् कृति तत्र कर्मणि एव षष्ठी स्यात् | अस्मिन् सूत्रे कर्तुः षष्ठी न स्यात् इति यः प्रतिषेधः वर्तते, सः प्रतिषेधः समीपवर्तिनः अव्यवहितस्यैव पूर्वस्य भवति न तु व्यवहितस्य इति | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रम् '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रस्य अनन्तरं वर्तते, अतः '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इत्यस्मिन् यः प्रतिषेधः वर्तते सः प्रतिषेधः समीपवर्तिनः अव्यवहितस्य सूत्रस्य एव बाधां करोति | अतः '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रम् '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रमेव बाधते | फलितार्थः एवं यत् '''[[अनन्तरस्य विधिर्वा प्रतिषेधो वा|''अनन्तरस्य विधिर्वा प्रतिषेधो वा'']]''' इति परिभाषायाः आधारेण '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रेण '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रस्य प्रतिषेधः न स्यात् | एवञ्चेत् '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रम् '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रं न बाधते इत्यतः कर्तुः कर्मणः च षष्ठीविभक्तिः भवितुम् अर्हति '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रेण |</big>
 
 
page_and_link_managers, Administrators
5,250

edits