14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 90:
<big>तत्पुरुषसमासस्य तृतीयः प्रभेदः द्विगुसमासः इति | द्विगुसमासः कर्मधारयसमासस्य एव एकः प्रभेदः अस्ति | विशेषणवाचकं पदं सङ्ख्यावाचकं पदम् अस्ति चेत् तदा समासः द्विगुः इति उच्यते | द्विगुसमासस्य त्रयः प्रभेदाः सन्ति – १) तद्धितार्थद्विगुः, यथा – षण्णां मातॄणाम् अपत्यम् = षाण्मातुरः ; २) उत्तरपदद्विगुः, यथा – पञ्च गावः धनं यस्य सः = पञ्चगवधनः;  ३) समाहारद्विगुश्चेति, यथा – पञ्चाणां पात्राणां समाहारः = पञ्चपात्रम् | '''द्विगुश्च''' (२.१.२३) इति सूत्रेण द्विगुसमासः अपि तत्पुरुषसंज्ञकः स्यात् | द्विगोः तत्पुरुषत्वे समासान्ताः प्रयोजनम्। अस्य विवरणम् अग्रिमे करपत्रे दीयते |</big>
 
==== '''<big>ई)     नञ्प्रभृतयः</big>''' ====
<big>तत्पुरुषसमासस्य चतुर्थः प्रभेदः नञ्प्रभृतयः इति | नञ्प्रभृतीनां पञ्च प्रभेदाः सन्ति — १) नञ्समासः, २) कुसमासः, ३) गतिसमासः ४) प्रादिसमासः, ५) उपपदसमासः चेति |</big>
 
Line 118:
 
<big>तत्पुरुषसमासस्य विषये पञ्च उपाङ्गानि पश्यामः –</big>
 
 
 
<big>'''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.६)</big>
 
<big>द्वन्द्वस्य तत्पुरुषस्य च परस्य यत् लिङ्गं तत् भवति  | उत्तरपदलिङ्गं द्वन्द्वतत्पुरुषयोः विधीयते | '''स नपुंसकम्''' ( २ -४ -१७) इत्यनेन सूत्रेण समाहारद्वन्द्वे नपुंसकलिङ्गस्य विहितत्वात् इतरेतरयोगद्वन्द्वस्य क्रियते  ग्रहणम् अस्मिन् सूत्रे | द्वन्द्वश्च तत्पुरुषश्च द्वन्द्वत्त्पुरुषौ, तयोर्द्वन्द्वतत्पुरुषयोः | परवत् अव्ययं, लिङ्गं प्रथमान्तं, द्वन्द्वतत्पुरुषयोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अनुवृत्ति-सहित-सूत्रं— '''द्वन्द्वतत्पुरुषयोः परवत् लिङ्गम्''' ।</big>
 
<big>यथा —</big>
 
 
<big>सीतायाः पतिः = सीतापतिः इति षष्ठीतत्पुरुषसमासः  | अस्मिन् समासे उत्तरपदम् अस्ति पतिः इति, तस्य लिङ्गम् अस्ति पुंलिङ्गम्, अतः समस्तपदस्य लिङ्गम् अपि पुंलिङ्गम् एव भवति '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.६) इति सूत्रेण | अनेन कारणेन सीतापतिः इति तत्पुरुषसमासः पुंलिङ्गे सिद्ध्यति।</big>
 
<big>एवमेव  इतरेतरयोगद्वन्द्वसमासे अपि समासस्य लिङ्गम् उत्तरपदम् आश्रित्य भवति  -</big>
 
<big>कुक्क्टश्च मयूरी च = कुक्कुटमयूर्यौ | उत्तरपदं स्त्रीलिङ्गे  इत्यतः समस्तपदम् अपि स्त्रीलिङ्गे भवति |</big>
 
<big>मयूरी च कुक्कुटश्च = मयूरीकुक्कुटौ  | उत्तरपदं पुंलिङ्गे इत्यतः समस्तपदम् अपि पुंलिङ्गे भवति |</big>