14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 119:
 
 
==== '''<big>तत्पुरुषसमासस्य पञ्च उपाङ्गानि</big>''' ====
<big>तत्पुरुषसमासस्य विषये पञ्च उपाङ्गानि पश्यामः –</big>
 
 
 
===== <big>१)     '''प्रातिपदिकसंज्ञा'''</big> =====
<big>समासस्य विधानं भवति केनचित् तत्पुरुषसमास-सम्बद्धसूत्रेण | तत्पश्चात् समासस्य प्रातिपदिकसंज्ञा विधीयते '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण | प्रातिपदिकसंज्ञानन्तरं पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण | यथा अव्ययीभावसमासे अस्माभिः प्रक्रिया अधीता तथैव तत्पुरुषसमासस्य विषये अपि चिन्तनीयम्।</big>
 
 
 
===== <big>२)   '''पूर्वनिपातः'''</big> =====
<big>'''प्रथमानिर्दिष्टं समास उपसर्जनम्'''(१.२.४३) इति संज्ञासूत्रेण तत्पुरुषसमासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति  | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण  |</big>
 
 
 
===== <big>३)     '''तत्पुरुषसमासस्य लिङ्गम्'''</big> =====
<big>तत्पुरुषसमासे, द्वन्द्वसमासे च उत्तरपदस्य यत् लिङ्गं तदेव लिङ्गं भवति समस्तपदस्य | तदर्थं सूत्रम् अस्ति '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.६) इति |</big>
 
Line 157:
 
 
===== <big>४)    '''समासान्तप्रत्ययाः'''</big> =====
<big>समासप्रक्रियायां कुत्रचित् समासान्तप्रत्ययः विधीयते इति जानीमः | समासान्ताः समासस्य अवयवाः सन्ति इत्यतः एव समासान्तानां योजनानन्तरं सम्पूर्णस्य समस्तपदस्य प्रातिपदिकसंज्ञा भवति | यद्यपि एतानि कार्याणि समस्तपदस्य निर्माणे भवन्ति तथापि प्रक्रिया तु तद्धितप्रक्रियाम् आश्रित्य एव भवति  | नाम तद्धितप्रकरणे यानि सूत्राणि प्रसक्तानि भवन्ति तद्धितप्रक्रियायां, तानि समासप्रक्रियायाम् अपि प्रसक्तानि भवन्ति यतोहि समासान्ताः तद्धिताधिकारे सन्ति  | अत एव पाणिनिना एते समासान्तप्रत्ययाः तद्धिताधिकारे स्थापिताः ।</big>